|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
९६
वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च |
अभिचक्राम तं देशं रामदर्शनतर्षितः || १||
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति |
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् || २||
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता |
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः || ३||
इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् |
वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः || ४||
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः |
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् || ५||
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले |
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना || ६||
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा |
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः || ७||
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः |
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि || ८||
तस्य देवसमानस्य पार्थिवस्य महात्मनः |
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् || ९||
चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि |
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः || १०||
अतो दुःखतरं लोके न किं चित्प्रतिभाति मा |
यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् || ११||
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे |
कथं दुःखेन हृदयं न स्फोटति सहस्रधा || १२||
एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा |
ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् || १३||
सर्वभोगैः परित्यक्तं राम सम्प्रेक्ष्य मातरः |
आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः || १४||
तासां रामः समुत्थाय जग्राह चरणाञ्शुभान् |
मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः || १५||
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः |
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः || १६||
सौमित्रिरपि ताः सर्वा मातॄह्सम्प्रेक्ष्य दुःखितः |
अभ्यवादयतासक्तं शनै रामादनन्तरम् || १७||
यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः |
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे || १८||
सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता |
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता || १९||
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा |
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् || २०||
विदेहराजस्य सुता स्नुषा दशरथस्य च |
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने || २१||
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् |
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः || २२||
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् |
भृशं मनसि वैदेहि व्यसनारणिसम्भवः || २३||
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः |
पादावासाद्य जग्राह वसिष्ठस्य स राघवः || २४||
पुरोहितस्याग्निसमस्य तस्य वै
बृहस्पतेरिन्द्र इवामराधिपः |
प्रगृह्य पादौ सुसमृद्धतेजसः
सहैव तेनोपविवेश राघवः || २५||
ततो जघन्यं सहितैः स मन्त्रिभिः
पुरप्रधानैश्च सहैव सैनिकैः |
जनेन धर्मज्ञतमेन धर्मवान्
उपोपविष्टो भरतस्तदाग्रजम् || २६||
उपोपविष्टस्तु तदा स वीर्यवांस्
तपस्विवेषेण समीक्ष्य राघवम् |
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्
यथा महेन्द्रः प्रयतः प्रजापतिम् || २७||
किमेष वाक्यं भरतोऽद्य राघवं
प्रणम्य सत्कृत्य च साधु वक्ष्यति |
इतीव तस्यार्यजनस्य तत्त्वतो
बभूव कौतूहलमुत्तमं तदा || २८||
स राघवः सत्यधृतिश्च लक्ष्मणो
महानुभावो भरतश्च धार्मिकः |
वृताः सुहृद्भिश् च विरेजुरध्वरे
यथा सदस्यैः सहितास्त्रयोऽग्नयः || २९||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).