|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

२३
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् |
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् || १||

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम |
उपलोपचिते वीर सुदुःखे वसुधातले || २||

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव |
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे || ३||

सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय |
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते || ४||

एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः |
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे || ५||

इदं तच्छूरशयनं यत्र शेषे हतो युधि |
शायिता निहता यत्र त्वयैव रिपवः पुरा || ६||

विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय |
मामनाथां विहायैकां गतस्त्वमसि मानद || ७||

शूराय न प्रदातव्या कन्या खलु विपश्चिता |
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् || ८||

अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः |
अगाधे च निमग्नास्मि विपुले शोकसागरे || ९||

अश्मसारमयं नूनमिदं मे हृदयं दृढम् |
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् || १०||

सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः |
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः || ११||

पतिहीना तु या नारी कामं भवतु पुत्रिणी |
धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः || १२||

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले |
कृमिरागपरिस्तोमे त्वमेवं शयने यथा || १३||

रेणुशोणितसंवीतं गात्रं तव समन्ततः |
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ || १४||

कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे |
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् || १५||

शरेण हृदि लग्नेन गात्रसंस्पर्शने तव |
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते || १६||

उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा |
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा || १७||

तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः |
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव || १८||

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः |
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् || १९||

अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना |
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् || २०||

रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् |
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना || २१||

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् |
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा || २२||

बालसूर्योदयतनुं प्रयान्तं यमसादनम् |
अभिवादय राजानं पितरं पुत्र मानदम् || २३||

एवमुक्तः समुत्थाय जग्राह चरणौ पितुः |
भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन् || २४||

अभिवादयमानं त्वामङ्गदं त्वं यथापुरा |
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे || २५||

अहं पुत्रसहाया त्वामुपासे गतचेतनम् |
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् || २६||

इष्ट्वा सङ्ग्रामयज्ञेन नानाप्रहरणाम्भसा |
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना || २७||

या दत्ता देवराजेन तव तुष्टेन संयुगे |
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् || २८||

राजश्रीर्न जहाति त्वां गतासुमपि मानद |
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा || २९||

न मे वचः पथ्यमिदं त्वया कृतं
न चास्मि शक्ता हि निवारणे तव |
हता सपुत्रास्मि हतेन संयुगे
सह त्वया श्रीर्विजहाति माम् इह || ३०||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).