|| वाल्मीकि रामायण - सुन्दरकाण्ड ||
|| सर्ग ||
२६
सा राक्षसेन्द्रस्य वचो निशम्य
तद्रावणस्याप्रियमप्रियार्ता |
सीता वितत्रास यथा वनान्ते
सिंहाभिपन्ना गजराजकन्या || १||
सा राक्षसी मध्यगता च भीरुर्
वाग्भिर्भृशं रावणतर्जिता च |
कान्तारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता || २||
सत्यं बतेदं प्रवदन्ति लोके
नाकालमृत्युर्भवतीति सन्तः |
यत्राहमेवं परिभर्त्स्यमाना
जीवामि किं चित्क्षणमप्यपुण्या || ३||
सुखाद्विहीनं बहुदुःखपूर्णम्
इदं तु नूनं हृदयं स्थिरं मे |
विदीर्यते यन्न सहस्रधाद्य
वज्राहतं शृङ्गमिवाचलस्य || ४||
नैवास्ति नूनं मम दोषमत्र
वध्याहमस्याप्रियदर्शनस्य |
भावं न चास्याहमनुप्रदातुम्
अलं द्विजो मन्त्रमिवाद्विजाय || ५||
नूनं ममाङ्गान्यचिरादनार्यः
शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः |
तस्मिन्ननागच्छति लोकनाथे
गर्भस्थजन्तोरिव शल्यकृन्तः || ६||
दुःखं बतेदं मम दुःखिताया
मासौ चिरायाभिगमिष्यतो द्वौ |
बद्धस्य वध्यस्य यथा निशान्ते
राजापराधादिव तस्करस्य || ७||
हा राम हा लक्ष्मण हा सुमित्रे
हा राम मातः सह मे जनन्या |
एषा विपद्याम्यहमल्पभाग्या
महार्णवे नौरिव मूढ वाता || ८||
तरस्विनौ धारयता मृगस्य
सत्त्वेन रूपं मनुजेन्द्रपुत्रौ |
नूनं विशस्तौ मम कारणात्तौ
सिंहर्षभौ द्वाविव वैद्युतेन || ९||
नूनं स कालो मृगरूपधारी
मामल्पभाग्यां लुलुभे तदानीम् |
यत्रार्यपुत्रं विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वकं च || १०||
हा राम सत्यव्रत दीर्घवाहो
हा पूर्णचन्द्रप्रतिमानवक्त्र |
हा जीवलोकस्य हितः प्रियश् च
वध्यां न मां वेत्सि हि राक्षसानाम् || ११||
अनन्यदेवत्वमियं क्षमा च
भूमौ च शय्या नियमश् च धर्मे |
पतिव्रतात्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम् || १२||
मोघो हि धर्मश्चरितो ममायं
तथैकपत्नीत्वमिदं निरर्थम् |
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया सङ्गमने निराशा || १३||
पितुर्निर्देशं नियमेन कृत्वा
वनान्निवृत्तश्चरितव्रतश् च |
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः
संरंस्यसे वीतभयः कृतार्थः || १४||
अहं तु राम त्वयि जातकामा
चिरं विनाशाय निबद्धभावा |
मोघं चरित्वाथ तपोव्रतं च
त्यक्ष्यामि धिग्जीवितमल्पभाग्या || १५||
सा जीवितं क्षिप्रमहं त्यजेयं
विषेण शस्त्रेण शितेन वापि |
विषस्य दाता न तु मेऽस्ति कश् चिच्
छस्त्रस्य वा वेश्मनि राक्षसस्य || १६||
शोकाभितप्ता बहुधा विचिन्त्य
सीताथ वेण्युद्ग्रथनं गृहीत्वा |
उद्बध्य वेण्युद्ग्रथनेन शीघ्रम्
अहं गमिष्यामि यमस्य मूलम् || १७||
इतीव सीता बहुधा विलप्य
सर्वात्मना राममनुस्मरन्ती |
प्रवेपमाना परिशुष्कवक्त्रा
नगोत्तमं पुष्पितमाससाद || १८||
उपस्थिता सा मृदुर्सर्वगात्री
शाखां गृहीत्वाथ नगस्य तस्य |
तस्यास्तु रामं प्रविचिन्तयन्त्या
रामानुजं स्वं च कुलं शुभाङ्ग्याः || १९||
शोकानिमित्तानि तदा बहूनि
धैर्यार्जितानि प्रवराणि लोके |
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धान्युपलक्षितानि || २०||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).