|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

३४
भूय एव महातेजा हनूमान्मारुतात्मजः |
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् || १||

वानरोऽहं महाभागे दूतो रामस्य धीमतः |
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् |
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि || २||

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् |
भर्तारमिव सम्प्राप्ता जानकी मुदिताभवत् || ३||

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् |
बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् || ४||

ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता |
परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् || ५||

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम |
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् || ६||

शतयोजनविस्तीर्णः सागरो मकरालयः |
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः || ७||

न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ |
यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः || ८||

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् |
यद्यसि प्रेषितस्तेन रामेण विदितात्मना || ९||

प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् |
पराक्रममविज्ञाय मत्सकाशं विशेषतः || १०||

दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः |
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः || ११||

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् |
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः || १२||

अथ वा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे |
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः || १३||

कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते |
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः || १४||

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति |
कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः || १५||

द्विविधं त्रिविधोपायमुपायमपि सेवते |
विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः || १६||

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते |
कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः || १७||

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः |
कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते || १८||

कच्चिन्न विगतस्नेहो विवासान्मयि राघवः |
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः || १९||

सुखानामुचितो नित्यमसुखानामनूचितः |
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति || २०||

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च |
अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च || २१||

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः |
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति || २२||

कच्चिदक्षाउहिंई.म् भीमा.म् भरतो भ्रात्र्वत्सल् |
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते || २३||

वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति |
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः || २४||

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः |
अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति || २५||

रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे |
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् || २६||

कच्चिन्न तद्धेमसमानवर्णं
तस्याननं पद्मसमानगन्धि |
मया विना शुष्यति शोकदीनं
जलक्षये पद्ममिवातपेन || २७||

धर्मापदेशात्त्यजतश्च राज्यां
मां चाप्यरण्यं नयतः पदातिम् |
नासीद्व्यथा यस्य न भीर्न शोकः
कच्चित्स धैर्यं हृदये करोति || २८||

न चास्य माता न पिता न चान्यः
स्नेहाद्विशिष्टोऽस्ति मया समो वा |
तावद्ध्यहं दूतजिजीविषेयं
यावत्प्रवृत्तिं शृणुयां प्रियस्य || २९||

इतीव देवी वचनं महार्थं
तं वानरेन्द्रं मधुरार्थमुक्त्वा |
श्रोतुं पुनस्तस्य वचोऽभिरामं
रामार्थयुक्तं विरराम रामा || ३०||

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः |
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् || ३१||

न त्वामिहस्थां जानीते रामः कमललोचनः |
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः || ३२||

चमूं प्रकर्षन्महतीं हर्यृष्कगणसङ्कुलाम् |
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् |
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् || ३३||

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः |
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति || ३४||

तवादर्शनजेनार्ये शोकेन स परिप्लुतः |
न शर्म लभते रामः सिंहार्दित इव द्विपः || ३५||

दर्दरेण च ते देवि शपे मूलफलेन च |
मलयेन च विन्ध्येन मेरुणा मन्दरेण च || ३६||

यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् |
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् || ३७||

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ |
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि || ३८||

न मांसं राघवो भुङ्क्ते न चापि मधुसेवते |
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् || ३९||

नैव दंशान्न मशकान्न कीटान्न सरीसृपान् |
राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना || ४०||

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः |
नान्यच्चिन्तयते किं चित्स तु कामवशं गतः || ४१||

अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः |
सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते || ४२||

दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् |
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते || ४३||

स देवि नित्यं परितप्यमानस्
त्वामेव सीतेत्यभिभाषमाणः |
धृतव्रतो राजसुतो महात्मा
तवैव लाभाय कृतप्रयत्नः || ४४||

सा रामसङ्कीर्तनवीतशोका
रामस्य शोकेन समानशोका |
शरन्मुखेनाम्बुदशेषचन्द्रा
निशेव वैदेहसुता बभूव || ४५||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).