|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||


ततः स मध्यं गतमंशुमन्तं
ज्योत्स्नावितानं महदुद्वमन्तम् |
ददर्श धीमान्दिवि भानुमन्तं
गोष्ठे वृषं मत्तमिव भ्रमन्तम् || १||

लोकस्य पापानि विनाशयन्तं
महोदधिं चापि समेधयन्तम् |
भूतानि सर्वाणि विराजयन्तं
ददर्श शीतांशुमथाभियान्तम् || २||

या भाति लक्ष्मीर्भुवि मन्दरस्था
तथा प्रदोषेषु च सागरस्था |
तथैव तोयेषु च पुष्करस्था
रराज सा चारुनिशाकरस्था || ३||

हंसो यथा राजतपञ्जुरस्थः
सिंहो यथा मन्दरकन्दरस्थः |
वीरो यथा गर्वितकुञ्जरस्थश्
चन्द्रोऽपि बभ्राज तथाम्बरस्थः || ४||

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो
महाचलः श्वेत इवोच्चशृङ्गः |
हस्तीव जाम्बूनदबद्धशृङ्गो
विभाति चन्द्रः परिपूर्णशृङ्गः || ५||

प्रकाशचन्द्रोदयनष्टदोषः
प्रवृद्धरक्षः पिशिताशदोषः |
रामाभिरामेरितचित्तदोषः
स्वर्गप्रकाशो भगवान्प्रदोषः || ६||

तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः
स्वपन्ति नार्यः पतिभिः सुवृत्ताः |
नक्तञ्चराश्चापि तथा प्रवृत्ता
विहर्तुमत्यद्भुतरौद्रवृत्ताः || ७||

मत्तप्रमत्तानि समाकुलानि
रथाश्वभद्रासनसङ्कुलानि |
वीरश्रिया चापि समाकुलानि
ददर्श धीमान्स कपिः कुलानि || ८||

परस्परं चाधिकमाक्षिपन्ति
भुजांश्च पीनानधिविक्षिपन्ति |
मत्तप्रलापानधिविक्षिपन्ति
मत्तानि चान्योन्यमधिक्षिपन्ति || ९||

रक्षांसि वक्षांसि च विक्षिपन्ति
गात्राणि कान्तासु च विक्षिपन्ति |
ददर्श कान्ताश्च समालपन्ति
तथापरास्तत्र पुनः स्वपन्ति || १०||

महागजैश्चापि तथा नदद्भिः
सूपूजितैश्चापि तथा सुसद्भिः |
रराज वीरैश्च विनिःश्वसद्भिर्
ह्रदो भुजङ्गैरिव निःश्वसद्भिः || ११||

बुद्धिप्रधानान्रुचिराभिधानान्
संश्रद्दधानाञ्जगतः प्रधानान् |
नानाविधानान्रुचिराभिधानान्
ददर्श तस्यां पुरि यातुधानान् || १२||

ननन्द दृष्ट्वा स च तान्सुरूपान्
नानागुणानात्मगुणानुरूपान् |
विद्योतमानान्स च तान्सुरूपान्
ददर्श कांश्चिच्च पुनर्विरूपान् || १३||

ततो वरार्हाः सुविशुद्धभावास्
तेषां स्त्रियस्तत्र महानुभावाः |
प्रियेषु पानेषु च सक्तभावा
ददर्श तारा इव सुप्रभावाः || १४||

श्रिया ज्वलन्तीस्त्रपयोपगूढा
निशीथकाले रमणोपगूढाः |
ददर्श काश्चित्प्रमदोपगूढा
यथा विहङ्गाः कुसुमोपगूडाः || १५||

अन्याः पुनर्हर्म्यतलोपविष्टास्
तत्र प्रियाङ्केषु सुखोपविष्टाः |
भर्तुः प्रिया धर्मपरा निविष्टा
ददर्श धीमान्मनदाभिविष्टाः || १६||

अप्रावृताः काञ्चनराजिवर्णाः
काश्चित्परार्ध्यास्तपनीयवर्णाः |
पुनश्च काश्चिच्छशलक्ष्मवर्णाः
कान्तप्रहीणा रुचिराङ्गवर्णाः || १७||

ततः प्रियान्प्राप्य मनोऽभिरामान्
सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः |
गृहेषु हृष्टाः परमाभिरामा
हरिप्रवीरः स ददर्श रामाः || १८||

चन्द्रप्रकाशाश्च हि वक्त्रमाला
वक्राक्षिपक्ष्माश्च सुनेत्रमालाः |
विभूषणानां च ददर्श मालाः
शतह्रदानामिव चारुमालाः || १९||

न त्वेव सीतां परमाभिजातां
पथि स्थिते राजकुले प्रजाताम् |
लतां प्रफुल्लामिव साधुजातां
ददर्श तन्वीं मनसाभिजाताम् || २०||

सनातने वर्त्मनि संनिविष्टां
रामेक्षणीं तां मदनाभिविष्टाम् |
भर्तुर्मनः श्रीमदनुप्रविष्टां
स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् || २१||

उष्णार्दितां सानुसृतास्रकण्ठीं
पुरा वरार्होत्तमनिष्ककण्ठीम् |
सुजातपक्ष्मामभिरक्तकण्ठीं
वने प्रवृत्तामिव नीलकण्ठीम् || २२||

अव्यक्तलेखामिव चन्द्रलेखां
पांसुप्रदिग्धामिव हेमलेखाम् |
क्षतप्ररूढामिव बाणलेखां
वायुप्रभिन्नामिव मेघलेखाम् || २३||

सीतामपश्यन्मनुजेश्वरस्य
रामस्य पत्नीं वदतां वरस्य |
बभूव दुःखाभिहतश् चिरस्य
प्लवङ्गमो मन्द इवाचिरस्य || २४||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).