|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

४५
सेनापतीन्पञ्च स तु प्रमापितान्
हनूमता सानुचरान्सवाहनान् |
समीक्ष्य राजा समरोद्धतोन्मुखं
कुमारमक्षं प्रसमैक्षताक्षतम् || १||

स तस्य दृष्ट्यर्पणसम्प्रचोदितः
प्रतापवान्काञ्चनचित्रकार्मुकः |
समुत्पपाताथ सदस्युदीरितो
द्विजातिमुख्यैर्हविषेव पावकः || २||

ततो महद्बालदिवाकरप्रभं
प्रतप्तजाम्बूनदजालसन्ततम् |
रथां समास्थाय ययौ स वीर्यवान्
महाहरिं तं प्रति नैरृतर्षभः || ३||

ततस्तपःसङ्ग्रहसञ्चयार्जितं
प्रतप्तजाम्बूनदजालशोभितम् |
पताकिनं रत्नविभूषितध्वजं
मनोजवाष्टाश्ववरैः सुयोजितम् || ४||

सुरासुराधृष्यमसङ्गचारिणं
रविप्रभं व्योमचरं समाहितम् |
सतूणमष्टासिनिबद्धबन्धुरं
यथाक्रमावेशितशक्तितोमरम् || ५||

विराजमानं प्रतिपूर्णवस्तुना
सहेमदाम्ना शशिसूर्यवर्वसा |
दिवाकराभं रथमास्थितस्ततः
स निर्जगामामरतुल्यविक्रमः || ६||

स पूरयन्खं च महीं च साचलां
तुरङ्गमतङ्गमहारथस्वनैः |
बलैः समेतैः स हि तोरणस्थितं
समर्थमासीनमुपागमत्कपिम् || ७||

स तं समासाद्य हरिं हरीक्षणो
युगान्तकालाग्निमिव प्रजाक्षये |
अवस्थितं विस्मितजातसम्भ्रमः
समैक्षताक्षो बहुमानचक्षुषा || ८||

स तस्य वेगं च कपेर्महात्मनः
पराक्रमं चारिषु पार्ह्तिवात्मजः |
विचारयन्खं च बलं महाबलो
हिमक्षये सूर्य इवाभिवर्धते || ९||

स जातमन्युः प्रसमीक्ष्य विक्रमं
स्थिरः स्थितः संयति दुर्निवारणम् |
समाहितात्मा हनुमन्तमाहवे
प्रचोदयामास शरैस्त्रिभिः शितैः || १०||

ततः कपिं तं प्रसमीक्ष्य गर्वितं
जितश्रमं शत्रुपराजयोर्जितम् |
अवैक्षताक्षः समुदीर्णमानसः
सबाणपाणिः प्रगृहीतकार्मुकः || ११||

स हेमनिष्काङ्गदचारुकुण्डलः
समाससादाशु पराक्रमः कपिम् |
तयोर्बभूवाप्रतिमः समागमः
सुरासुराणामपि सम्भ्रमप्रदः || १२||

ररास भूमिर्न तताप भानुमान्
ववौ न वायुः प्रचचाल चाचलः |
कपेः कुमारस्य च वीक्ष्य संयुगं
ननाद च द्यौरुदधिश्च चुक्षुभे || १३||

ततः स वीरः सुमुखान्पतत्रिणः
सुवर्णपुङ्खान्सविषानिवोरगान् |
समाधिसंयोगविमोक्षतत्त्वविच्
छरानथ त्रीन्कपिमूर्ध्न्यपातयत् || १४||

स तैः शरैर्मूर्ध्नि समं निपातितैः
क्षरन्नसृग्दिग्धविवृत्तलोचनः |
नवोदितादित्यनिभः शरांशुमान्
व्यराजतादित्य इवांशुमालिकः || १५||

ततः स पिङ्गाधिपमन्त्रिसत्तमः
समीक्ष्य तं राजवरात्मजं रणे |
उदग्रचित्रायुधचित्रकार्मुकं
जहर्ष चापूर्यत चाहवोन्मुखः || १६||

स मन्दराग्रस्थ इवांशुमाली
विवृद्धकोपो बलवीर्यसंयुतः |
कुमारमक्षं सबलं सवाहनं
ददाह नेत्राग्निमरीचिभिस्तदा || १७||

ततः स बाणासनशक्रकार्मुकः
शरप्रवर्षो युधि राक्षसाम्बुदः |
शरान्मुमोचाशु हरीश्वराचले
बलाहको वृष्टिमिवाचलोत्तमे || १८||

ततः कपिस्तं रणचण्डविक्रमं
विवृद्धतेजोबलवीर्यसायकम् |
कुमारमक्षं प्रसमीक्ष्य संयुगे
ननाद हर्षाद्घनतुल्यविक्रमः || १९||

स बालभावाद्युधि वीर्यदर्पितः
प्रवृद्धमन्युः क्षतजोपमेक्षणः |
समाससादाप्रतिमं रणे कपिं
गजो महाकूपमिवावृतं तृणैः || २०||

स तेन बाणैः प्रसभं निपातितैश्
चकार नादं घननादनिःस्वनः |
समुत्पपाताशु नभः स मारुतिर्
भुजोरुविक्षेपण घोरदर्शनः || २१||

समुत्पतन्तं समभिद्रवद्बली
स राक्षसानां प्रवरः प्रतापवान् |
रथी रथश्रेष्ठतमः किरञ्शरैः
पयोधरः शैलमिवाश्मवृष्टिभिः || २२||

स ताञ्शरांस्तस्य विमोक्षयन्कपिश्
चचार वीरः पथि वायुसेविते |
शरान्तरे मारुतवद्विनिष्पतन्
मनोजवः संयति चण्डविक्रमः || २३||

तमात्तबाणासनमाहवोन्मुखं
खमास्तृणन्तं विविधैः शरोत्तमैः |
अवैक्षताक्षं बहुमानचक्षुषा
जगाम चिन्तां च स मारुतात्मजः || २४||

ततः शरैर्भिन्नभुजान्तरः कपिः
कुमारवर्येण महात्मना नदन् |
महाभुजः कर्मविशेषतत्त्वविद्
विचिन्तयामास रणे पराक्रमम् || २५||

अबालवद्बालदिवाकरप्रभः
करोत्ययं कर्म महन्महाबलः |
न चास्य सर्वाहवकर्मशोभिनः
प्रमापणे मे मतिरत्र जायते || २६||

अयं महात्मा च महांश्च वीर्यतः
समाहितश्चातिसहश्च संयुगे |
असंशयं कर्मगुणोदयादयं
सनागयक्षैर्मुनिभिश्च पूजितः || २७||

पराक्रमोत्साहविवृद्धमानसः
समीक्षते मां प्रमुखागतः स्थितः |
पराक्रमो ह्यस्य मनांसि कम्पयेत्
सुरासुराणामपि शीघ्रकारिणः || २८||

न खल्वयं नाभिभवेदुपेक्षितः
पराक्रमो ह्यस्य रणे विवर्धते |
प्रमापणं त्वेव ममास्य रोचते
न वर्धमानोऽग्निरुपेक्षितुं क्षमः || २९||

इति प्रवेगं तु परस्य तर्कयन्
स्वकर्मयोगं च विधाय वीर्यवान् |
चकार वेगं तु महाबलस्तदा
मतिं च चक्रेऽस्य वधे महाकपिः || ३०||

स तस्य तानष्टहयान्महाजवान्
समाहितान्भारसहान्विवर्तने |
जघान वीरः पथि वायुसेविते
तलप्रहालैः पवनात्मजः कपिः || ३१||

ततस्तलेनाभिहतो महारथः
स तस्य पिङ्गाधिपमन्त्रिनिर्जितः |
स भग्ननीडः परिमुक्तकूबरः
पपात भूमौ हतवाजिरम्बरात् || ३२||

स तं परित्यज्य महारथो रथं
सकार्मुकः खड्गधरः खमुत्पतत् |
तपोऽभियोगादृषिरुग्रवीर्यवान्
विहाय देहं मरुतामिवालयम् || ३३||

ततः कपिस्तं विचरन्तमम्बरे
पतत्रिराजानिलसिद्धसेविते |
समेत्य तं मारुतवेगविक्रमः
क्रमेण जग्राह च पादयोर्दृढम् || ३४||

स तं समाविध्य सहस्रशः कपिर्
महोरगं गृह्य इवाण्डजेश्वरः |
मुमोच वेगात्पितृतुल्यविक्रमो
महीतले संयति वानरोत्तमः || ३५||

स भग्नबाहूरुकटीशिरो धरः
क्षरन्नसृन्निर्मथितास्थिलोचनः |
स भिन्नसन्धिः प्रविकीर्णबन्धनो
हतः क्षितौ वायुसुतेन राक्षसः || ३६||

महाकपिर्भूमितले निपीड्य तं
चकार रक्षोऽधिपतेर्महद्भयम् || ३७||

महर्षिभिश्चक्रचरैर्महाव्रतैः
समेत्य भूतैश्च सयक्षपन्नगैः |
सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्
हते कुमारे स कपिर्निरीक्षितः || ३८||

निहत्य तं वज्रसुतोपमप्रभं
कुमारमक्षं क्षतजोपमेक्षणम् |
तदेव वीरोऽभिजगाम तोरणं
कृतक्षणः काल इव प्रजाक्षये || ३९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).