|| वाल्मीकि रामायण - सुन्दरकाण्ड ||
|| सर्ग ||
५४
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् |
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् || १||
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः |
भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत || २||
काममस्य त्वमेवैकः कार्यस्य परिसाधने |
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः || ३||
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः |
मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत् || ४||
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः |
भवत्याहवशूरस्य तत्त्वमेवोपपादय || ५||
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् |
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् || ६||
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः |
यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति || ७||
एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः |
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् || ८||
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः |
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः || ९||
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः |
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् || १०||
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् |
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् || ११||
बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् |
महर्षियक्षगन्धर्वकिंनरोरगसेवितम् || १२||
लतापादपसम्बाधं सिंहाकुलितकन्दरम् |
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम् || १३||
तमारुरोहातिबलः पर्वतं प्लवगोत्तमः |
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः || १४||
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु |
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः || १५||
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः |
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः || १६||
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः |
ददर्श सागरं भीमं मीनोरगनिषेवितम् || १७||
स मारुत इवाकाशं मारुतस्यात्मसम्भवः |
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् || १८||
स तदा पीडितस्तेन कपिना पर्वतोत्तमः |
ररास सह तैर्भूतैः प्राविशद्वसुधातलम् |
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः || १९||
तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः |
निपेतुर्भूतले रुग्णाः शक्रायुधहता इव || २०||
कन्दरोदरसंस्थानां पीडितानां महौजसाम् |
सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे || २१||
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा |
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् || २२||
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः |
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः || २३||
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा |
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः || २४||
स च भूमिधरः श्रीमान्बलिना तेन पीडितः |
सवृक्षशिखरोदग्राः प्रविवेश रसातलम् || २५||
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः |
धरण्यां समतां यातः स बभूव धराधरः || २६||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).