|| वाल्मीकि रामायण - सुन्दरकाण्ड ||
|| सर्ग ||
५८
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत |
जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन् || १||
अस्मिन्नेवङ्गते कार्ये भवतां च निवेदिते |
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ || २||
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् |
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् || ३||
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः |
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः || ४||
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् |
सपुत्रं विधमिष्यामि सहोदरयुतं युधि || ५||
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा |
यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे |
तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् || ६||
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् || ७||
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा |
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् || ८||
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि |
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी || ९||
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः |
अलमेको विनाशाय वीरो वायुसुतः कपिः || १०||
पनसस्योरुवेगेन नीलस्य च महात्मनः |
मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः || ११||
सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु |
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा || १२||
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ |
पितामहवरोत्सेकात्परमं दर्पमास्थितौ || १३||
अश्विनोर्माननार्थं हि सर्वलोकपितामहः |
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा || १४||
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् |
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ || १५||
एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम् |
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः || १६||
अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवङ्गमाः |
समीपं गन्तुमस्माभी राघवस्य महात्मनः || १७||
दृष्टा देवी न चानीता इति तत्र निवेदनम् |
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः || १८||
न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे |
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः || १९||
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता |
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् || २०||
तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः |
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् || २१||
न तावदेषा मतिरक्षमा नो
यथा भवान्पश्यति राजपुत्र |
यथा तु रामस्य मतिर्निविष्टा
तथा भवान्पश्यतु कार्यसिद्धिम् || २२||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).