|| वाल्मीकि रामायण - उत्तरकाण्ड ||

|| सर्ग ||

३९
तथा स्म तेषां वसतामृक्षवानररक्षसाम् |
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् || १||

गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः |
पालयस्व सहामात्यै राज्यं निहतकण्टकम् || २||

अङ्गदं च महाबाहो प्रीत्या परमयान्वितः |
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् || ३||

सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् |
कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् || ४||

वीरं शतबलिं चैव मैन्दं द्विविदमेव च |
गजं गवाक्षं गवयं शरभं च महाबलम् || ५||

ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् |
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च || ६||

ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः |
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः || ७||

एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः |
विभीषणमथोवाच रामो मधुरया गिरा || ८||

तङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव |
पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च || ९||

मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथं चन |
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् || १०||

अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया |
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः || ११||

रामस्य भाषितं श्रुत्वा ऋष्कवानरराक्षसाः |
साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः || १२||

तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च |
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा || १३||

तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् |
हनूमत्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् || १४||

स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः |
भक्तिश्च नियता वीर भावो नान्यत्र गच्छति || १५||

यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले |
तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः || १६||

एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात् |
उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह || १७||

एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः |
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा || १८||

चरिष्यति कथा यावल्लोकानेषा हि मामिका |
तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः || १९||

ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः |
वैदूर्यतरलं स्नेहादाबबन्धे हनूमति || २०||

तेनोरसि निबद्धेन हारेण स महाकपिः |
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः || २१||

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः |
प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः || २२||

सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः |
विभीषणश्च धर्मात्मा निरन्तरमुरोगतः || २३||

सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः |
संमूढा इव दुःखेन त्यजन्ते राघवं तदा || २४||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).