|| वाल्मीकि रामायण - उत्तरकाण्ड ||

|| सर्ग ||


तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः |
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् || १||

ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् |
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः || २||

सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः |
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन || ३||

शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः |
स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् || ४||

अहं विष्णुरहं रुद्रो ब्रह्माहं देवराड् अहम् |
अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम् || ५||

इति ते राक्षसा देव वरदानेन दर्पिताः |
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः || ६||

तन्नो देवभयार्तानामभयं दातुमर्हसि |
अशिवं वपुरास्थाय जहि दैवतकण्टकान् || ७||

इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः |
सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः || ८||

नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः |
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति || ९||

एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः |
गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः || १०||

ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम् |
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः || ११||

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च |
ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयार्दिताः || १२||

सुकेशतनयैर्देवत्रिभिस्त्रेताग्निसंनिभैः |
आक्रम्य वरदानेन स्थानान्यपहृतानि नः || १३||

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता |
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः || १४||

स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन |
चक्रकृत्तास्यकमलान्निवेदय यमाय वै || १५||

भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः |
नुद त्वं नो भयं देव नीहारमिव भास्करः || १६||

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः |
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह || १७||

सुकेशं राक्षसं जाने ईशान वरदर्पितम् |
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् || १८||

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् |
सूदयिष्यामि सङ्ग्रामे सुरा भवत विज्वराः || १९||

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना |
यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम् || २०||

विबुधानां समुद्योगं माल्यवान्स निशाचरः |
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् || २१||

अमरा ऋषयश्चैव संहत्य किल शङ्करम् |
अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् || २२||

सुकेशतनया देव वरदानबलोद्धताः |
बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे || २३||

राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते |
स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् || २४||

तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन |
राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर || २५||

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः |
शिरः करं च धुन्वान इदं वचनमब्रवीत् || २६||

अवध्या मम ते देवाः सुकेशतनया रणे |
मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति || २७||

यः स चक्रगदापाणिः पीतवासा जनार्दनः |
हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ || २८||

हरान्नावाप्य ते कामं कामारिमभिवाद्य च |
नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् || २९||

ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः |
सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः || ३०||

देवानां भयभीतानां हरिणा राक्षसर्षभौ |
प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् || ३१||

हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् |
दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति || ३२||

ततः सुमाली माली च श्रुत्वा माल्यवतो वचः |
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् || ३३||

स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् |
आयुर्निरायमं प्राप्तं स्वधर्मः स्थापितश्च नः || ३४||

देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च |
जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् || ३५||

नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा |
अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति || ३६||

विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर |
देवानामेव दोषेण विष्णोः प्रचलितं मनः || ३७||

तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः |
देवानेव जिघांसामो येभ्यो दोषः समुत्थितः || ३८||

इति माली सुमाली च माल्यवानग्रजः प्रभुः |
उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते |
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव || ३९||

स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः |
खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजं गमैः || ४०||

मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः |
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश् चमरैरपि || ४१||

त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः |
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः || ४२||

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ |
भूतानि भयदर्शीनि विमनस्कानि सर्वशः || ४३||

भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः |
उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम् || ४४||

अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च |
वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः || ४५||

अट्टहासान्विमुञ्चन्तो घननादसमस्वनान् |
भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः || ४६||

गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः |
राक्षसानामुपरि वै भ्रमते कालचक्रवत् || ४७||

तानचिन्त्यमहोत्पातान्राक्षसा बलगर्विताः |
यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः || ४८||

माल्यवांश्च सुमाली च माली च रजनीचराः |
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः || ४९||

माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम् |
निशाचरा आश्रयन्ते धातारमिव देहिनः || ५०||

तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् |
जयेप्सया देवलोकं ययौ माली वशे स्थितम् || ५१||

राक्षसानां समुद्योगं तं तु नारायणः प्रभुः |
देवदूतादुपशुत्य दध्रे युद्धे ततो मनः || ५२||

स देवसिद्धर्षिमहोरगैश् च
गन्धर्वमुख्याप्सरसोपगीतः |
समाससादामरशत्रुसैन्यं
चक्रासिसीरप्रवरादिधारी || ५३||

सुपर्णपक्षानिलनुन्नपक्षं
भ्रमत्पताकं प्रविकीर्णशस्त्रम् |
चचाल तद्राक्षसराजसैन्यं
चलोपलो नील इवाचलेन्द्रः || ५४||

तथ शितैः शोणितमांसरूषितैर्
युगान्तवैश्वानरतुल्यविग्रहैः |
निशाचराः सम्परिवार्य माधवं
वरायुधैर्निर्बिभिदुः सहस्रशः || ५५||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).