bhārata sāvitri
bhArata-samhita khila parva





bhArata sAvitri is a khila or supplement to the Mahabharata and Harivamsha. This is an annexure of harivaMsham, which itself is an annexure of mahAbhArata. All these put together will be called bhArata saMhita.

This was published by Chitrashala, Mumbai, in 1936 along with the corpus of harivaMsham under the editorship of Pt. Ramachandra Shastry Kinjawadekar. But now, bhArata sAvitri is an extinct document in print media, sicne the Chitrashala edn of harivamsham itself is extinct.

Devotees are supposed to recite it daily in morning prayers, since this is called - sakala bhAarata upasaMhAarabhUta - the concluding and evocative chapter of mahAbhArata. While V.S. Sukthankar says that only two verses as bhArata sAvitri while quoting "the essence of the book (Bharata-savitrl), embodying the moral of the story, is given as (B. 18. 5. 62 f.) "urdhva bAhur viraumi eSha... and na jAtu kAmAn... Pt. Kinjavadekar publishes a hundred verse chapter under the name of bhArata sAvitri as an annexure of harivaMsham. This bhArata sAvitri is cited by many pundits like vidyAnidhi siddheshvara shAstry in his book called bhArata varShIya prAcIna charitra kosha, and in many books related to mahAbhArata, like the one written by Chintamani Vinaayak Vaidya, et al.

While Valmiki Ramayana itself is a proponent of gAyatri mantra, this "bhArata sAvitri itself is said to be the gayatri mantra with reference to mahAbhArata. So, this stotra or hymn to gAyatri, aka sAvitri, has emerged as - bhArata sAra saMgraha - the sum total of mahAbhArata.

Tanjavore Sarasvati Mahal Library is having bhArata sAvitri stotra-s with these catalog numbers: 23245 BHARATA VIVARANA STOTRAM; 20138 BHARATA SAVITRI STOTRAM; 20132 BHARATA SAVITRI STOTRAM; 20133 BHARATA SAVITRI STOTRAM. But, they are not able to supply printed versions of this text.

The present text is itransed from the Telugu version presented by shrI jannAbhaTla vIreshvara shAstry.

The Telugu version along with prose translation of bhArata sAvitri in old Telugu is made available in a zip file [230kb]. bhArata sAvitri in old Telugu

 

A. Harindranath of mahabharata-resources webpage has checked and corrected verses from 1 to 86 according to the text of HarivaMsham, Chitrashala Press, (1936). He also referred the matter to Prof. AndrÚ Couture of Canada, who is kind enough to check up with his copy of Harivamsham and confirmed that bhArata sAvitri comprises only 86 verses. But, the Telugu version we have on hand has some more verses than the 86 number. All these problems are owing to the torn off pages of Harivamsham, Chitrashala Edn., available with Digital Library of India. 

Even though the text is corrected and somewhat stabalised, there may be mistakes occuring in formatting and reformatting the webpage. Readers who have access to any of the publications of Bharata Savitri cited above, are requested to kindly communicate any mistakes, typos, missing verses etc. occurring in this webpage, in order to further stabilise the text posted here.

pramAdo api dhImatAm...

Translation to these verses of bhArata sAvitri will also be posted soon, hopefully...

-- Desiraju Hanumanta Rao

Text of bhArata sAvitri

           

verses in devanAgari


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् |
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् || १ ||

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे |
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः || २ ||

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः |
अफाललोचनः शंभुर्भगवान् बादरायणः || ३ ||

मुनिं स्निग्धांबुजाभासं वेदव्यासमकल्मषम् |
वेदव्यासं सरस्वत्यावासं व्यासं नमाम्यहम् || ४ ||

सञ्जय उवाच

द्वारवत्यां स्थितं कृष्णं चिन्तयामास वै पुरा |
सन्ध्यर्थं प्रेषयामास कुरूणां पण्डवैः सह || ५ ||

पाण्डवानां हितार्थाय शीघ्रं कृष्णेन गम्यताम् |
श्रीकृष्णो रथ वेगेन गत्वा वै हस्तिनापुरीम् || ६ ||

विदुरस्य गृहम् गत्वा दृष्टस्तेन जनार्दनः |
विदुरश्चागतं दृष्ट्वा इदं वचनमब्रवित् || ७ ||

भवद्दर्शनमात्रेण कृतकृत्योऽस्म्यहं प्रभो |
अद्य मे सफलम् जन्म अद्य मे सफलम् तपः |
अद्य मे पितरस्तुष्टा गोविन्दे गृहमागते || ८ ||

अद्याष्टमी च नवमी च चतुर्दशी च |
अद्यायनम् च विषुवं च दिनत्रयम् च |
अद्यैव पिण्डपितृयज्ञमखस्य कालो |
दामोदरेण सहसा गृहमागतेन || ९ ||||

श्रीभगवानुवाच

साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद |
तुष्टोऽस्मि च वरम् ब्रूहि दास्यामि कुरुनन्दन || १०||

विदुर उवाच

भोजनं विप्रसंकीर्णं बन्धुसंकीर्णमन्दिरम् |
शयनं सुतसंकीर्णं देहि मे मधुसूदन || ११ ||

सञ्जय उवाच

कृष्णस्यागमनं श्रुत्वा राजराजः सुयोधनः |
विदुरस्य गृहं गत्वा इदं वचनमब्रवीत् || १२ ||

दुर्योधन उवाच

भीष्मद्रोणौ परित्यज्य मां चैव मधुसूदनः |
किमर्थं पुन्डरीकाक्ष कृतं वृषलिभोजनम् || १३ ||

श्रीभगवानुवाच

न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः |
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने || १४ ||

शुद्धं भागवतस्यान्नं शुद्धं भागीरथीजलम् |
शुद्धं विष्णुपदं दिव्यं शुद्धमेकादशीव्रतम् || १५ ||

चाण्डालं मम भक्तम् वा नावमन्येत बुद्धिमान् |
योऽवमन्येत मूढात्मा रौरवं नरकं व्रजेत् || १६ ||

कस्य दोष कुले नास्ति व्याधिना को न पीडितः |
व्यसनं कैर्न संप्राप्तम् कस्य सौख्यं निरन्तरम् || १७ ||

भोजनं पृच्छसे राजन्नादरं किं न पृच्छसि |
भोजनं गतजीर्णं स्यादादरस्स्वजरामरः || १८ ||

आदरेणोपनीतानि शाकान्नानि सुयोधन |
प्रीणन्ति मम गात्राणि नामृतम् मानवर्जितम् || १९ ||

संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः |
न च संप्रीयसे राजन् न वै चापद्गता वयम् || २० ||

द्विषदन्नं न भोक्तव्यं द्विषन्तम् नैव भोजयेत् |
पाण्डवान्द्वेष्टि भो राजन् मम प्राणा हि पाण्डवाः || २१ ||

मम वाक्यं कुरुश्रेष्ठः शान्तिमिच्छ सुयोधन |
राज्यं तेषां समं दत्त्वा यूयं पञ्चोत्तरं शतम् || २२ ||

गोत्रक्षयो न कर्तव्यो राज्ञाम् बन्धुजनैः सह |
कुर्वन्तो ते हितं वाक्यं मम बोधं विबोधय || २३ ||

वने द्वादश वर्षाणि अज्ञातं च त्रयोदशम् |
पञ्च ग्रामार्थिनो राजन् पाण्डवा धर्मचारिणः || २४ ||

दुर्योधन उवाच

यन्त्रस्य गुणदोषोऽस्ति यन्त्रिणः पुरुषोत्तम |
अहं यन्त्रो भवान् यन्त्री मम दोषो न विद्यते || २५ ||

श्रीभगवानुवाच

इन्द्रप्रस्थम् यमप्रस्थमवन्तीम् वारुणापुरी |
देहि मे चतुरो ग्रामान्पञ्चमं हस्तिनापुरीम् || २६ ||

दुर्योधन उवाच

इन्द्रप्रस्थं गुरोर्दत्तं यमप्रस्थं कृपस्य च |
वारुणावतकं भीष्मे अवन्ती सूर्यनन्दने || २७ ||

हस्तिनापुरमस्माकं पञ्च ग्रामाननुक्रमात् |
एवं व्यवस्थितान्ग्रामान् शृणु देवकिनन्दन || २८ ||

सूच्यग्रेण सुतीक्ष्णेन यवद्भिद्यति मेदिनी |
तावन्न हि प्रदास्यामि विना युद्धेन केशव || २९ ||

श्रीभगवानुवाच

द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ |
गोग्रहम् वनभङ्गम् च दृष्ट्वा युद्धं पुनः पुनः || ३० ||

यदा यदा पश्यति वानरध्वजम् धनुर्धरं पाण्डवमध्यमं रणे |
गदाप्रहारं बलिनं वृकोदरम् तदा तदा दास्यसि सर्वमेदिनीम् || ३१ ||

यदा यदा द्रोणविकर्णकर्णैः संक्षिप्तमात्रे खलु भीष्मशल्यौ |
कृपश्च योधाः पतिता रणाङ्गणे तदा तदा दास्यसि सर्वमेदिनीम् || ३२ ||

दुर्योधन उवाच

हिरण्यवर्णं परिपूर्णगात्रं मेघोन्नतं मत्तगजेन्द्रतुल्यम् |
आदित्यपुत्रं बहुशत्रुनाशं पश्यामि कर्णं रथमारुहन्तम् || ३३ ||

श्रीभगवानुवाच

नरे चतुष्कं तुरगे च षोडशं गजे शतं पन्चशतं रथेषु |
दृष्ट्वाऽर्जुनो मुञ्चति बाणवर्षं स्वातीगतः शुक्र इवातिवृष्टिम् || ३४ ||

एकधा दशधा चैव शतधा च सहस्रधा |
रणे पार्थशरा वृष्टिर्दानं ब्रह्मविदो यथा || ३५ ||

किं कर्णेन सहस्रेण दुर्योधनशतैरपि |
शरगर्जितमेघेन वृधा कर्णेन गर्जितम् || ३६ ||

एकाकी पादचारेण यदि नायासि कौरव |
धर्मशास्त्रप्रवर्तकारो मन्वाद्या मद्यपायिनः || ३७ ||

धृतराष्ट्र उवाच

ब्रूहि सञ्जय यद्वृत्तं युद्धे तेषां महात्मनाम् |
पाण्डवानां कुरूणां च संप्रवृत्ते महाक्षये || ३८ ||

के तत्र प्रमुखा योधाः के च तत्र महारथाः |
महाबलाश्च के तत्र कथं ते विनिपातिताः || ३९ ||

भीष्मद्रोणौ कथं भग्नौ कर्णशल्यौ कथं हतौ |
कथं दुर्योधनो राज भीमसेनेन पातितः || ४०||

सञ्जय उवाच

मेदिनीभारनिर्हारम् पार्थसारथिमच्युतम् |
प्रणमामि हृषीकेशं दुर्लभं चक्रपाणिनम् || ४१ ||

दुर्लभा विप्रगोष्टी च दुर्लभा भारती कथा |
दुर्लभा हरिभक्तिः च गङ्गास्नानं च दुर्लभम् || ४२ ||

सद्भिश्च सहवासेन जाह्नव्या दर्शनेन च |
विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते || ४३ ||

अर्जुनः सात्यकिश्चैव धृष्टद्युम्नो घटोत्कचः |
शिखण्डिश्चाभिमन्युश्च वायुपुत्रो महाबलः || ४४ ||

नकुलः सहदेवश्च धर्मराजो युधिष्ठिरः |
विराटश्चोत्तरश्चैव द्रुपदश्च महारथाः || ४५ ||

पाण्डवानां बले योधाः सर्वे विष्णुपराक्रमाः |
कौरवानां बले योधाः सर्वे संकर्षणप्रभाः || ४६ ||

शकुनिः सौबलो भीष्मः कृतवर्मा जयद्रधः |
भूरिश्रवाश्च बाह्लिको भगदत्तस्तथैव च || ४७ ||

उलूकः सोमदत्तश्च शशिबिन्दुश्च पार्थिवः |
द्रोणो द्रोणिः कृपः शल्यो वृषसेनो हलायुधः || ४८ ||

वैकर्तनो विकर्णश्च कलिङ्गस्तु तथैव च |
दुःशासनश्च कर्णश्च राजा दुर्योधनस्तथा || ४९ ||

एते द्वाविंशतिः प्रोक्ता भरतेषु महारथाः |
कौरवाः पाण्डवाश्चैव एते युद्धविशारदाः || ५०||

भीष्म उवाच

अर्जुनः सह पुत्रेण द्रोणः सह सुतेन च |
अहं भूरिश्रवाश्चैव षडेतेऽतिरथाः स्मृताः || ५१ ||

कृपश्च कृतवर्मा च मद्रराजो युधिष्ठिरः |
विराटो भीमसेनश्च षडेते च महारथाः || ५२ ||

सात्यकिश्च शिखण्डिश्च धृष्टद्युम्नो विराटजः |
शकुनी राजपुत्रश्च एते समरथाः स्मृताः || ५३ ||

दुःशासनश्च कर्णश्च वृषसेनोऽपि सैन्धवः |
नकुलः सहदेवश्च षडेतेऽर्थरथाः स्मृताः || ५४ ||

अहमेकं त्रिभिर्द्रोणः पञ्चभिः सूर्यनन्दनः |
निमेषं द्रोणपुत्रस्तु निमुषार्धं धनञ्जयः || ५५ ||

चतुर्विंशतिरेते वै (वीरा) भारतसत्तमाः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः || ५६ ||

आदिपर्व सभापर्व पर्व आरण्यकं तथा |
विराटपर्व विज्ञेयं चतुर्थं तदनन्तरम् || ५७ ||

उद्योगं पञ्चमं पर्व भीष्मपर्व अतः परम् |
सप्तमं द्रोणपर्व तु कर्णपर्व अथाष्टमम् || ५८ ||

नवमं शल्यपर्व च गदापर्व अतः परम् |
सौषुप्तिकम् तदा पर्व गर्भपातनमेव च || ५९ ||

त्रयोदशं तु स्त्रीपर्व प्रदानमुदकस्य च |
शान्ति पर्व अतः प्रोक्तमाश्वमेदिकमेव च || ६०||

स्वर्गारोहण पर्व तु हरिवंशस्तथैव च |
इत्यष्टादशपर्वाणि संख्या द्वैपायनेन तु || ६१ ||

भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु |
तरणं सर्वपापानां यस्माद्भारतमुच्यते || ६२ ||

भारतस्य समुद्रस्य मेरोर्नारायणस्य च |
अप्रमेयाणि चत्वारि पुण्यं तोयं गुहागुणाः || ६३ ||

हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशी |
प्रवृत्तं भारतं युद्धं नक्षत्रम् यमदैवतम् || ६४ ||

फाल्गुन्यां निहतो भीष्मः कृष्ण पक्षे च सप्तमी |
अष्टम्यां चैव सौभद्रो नवम्यां च जयद्रथः || ६५ ||

दशम्यां भगदत्तस्तु महायुद्धे निपातिताः |
एकादश्यामर्धरात्रौ हतो वीरो घटोत्कचः || ६६ ||

ततः प्रभातसमये विराटद्रुपदौ हतौ |
द्वादश्यां चैव मध्याह्ने द्रोणाचार्यो रणे हतः || ६७ ||

त्रयोदश्यां तु मध्याह्ने वृषसेनो निपातितः |
चतुर्दश्याम् तु पूर्वाह्णे रणे दुःशासनो हतः || ६८ ||

तस्मिन्नेव महायुद्धे वर्तमाने चतुर्दशी |
धनञ्जयेन मध्याह्ने कर्णो वैकर्तनो हतः || ६९ ||

निःशब्दतूर्यं हत योधवीरम् प्रशान्तदर्पं धृतराष्ट्रसैन्यम् |
न शोभते सूर्यसुतेन हीनम् वृन्दं ग्रहाणामिव चन्द्रहीनम् || ७०||

मुखं कमलपत्राक्षं यथा श्रवणवर्जितम् |
तथा तत् कौरवं सैन्यं कर्णहीनं न शोभते || ७१ ||

व्यूढोरस्कं कमलनयनं तप्तहेमावभासम् |
पुत्रं दृष्ट्वा भुवनतिलकं पार्थबाणावसक्तम् |
पांसुग्रस्तं मलिनवसनं पुत्रमन्वीक्ष्य तं च
मन्दम् मन्दम् मृदितवदनं मेदिनी मन्दराशिः || ७२ ||

श्रीकृष्ण उवाच

स्व (या) मया च कुन्त्या च धरण्या वासवेन च |
जामदग्न्येन रामेण षड्भिः कर्णो निपातितः || ७३ ||

सन्जय उवाच

अमायां धर्मपुत्रेण शल्यो मद्राधिपो हतः |
उलूकः शकुनिश्चैव यमाभ्यां विनिपातितौ || ७४ ||

अमायामर्धरात्रे तु राजा दुर्योधनो हतः |
भीमसेनस्य गदाया ताडितो विनिपातितः || ७५ ||

अभवत्तादृशं युद्धं क्षत्रियाणां मनस्विनाम् |
अन्यथा भाषितं युद्धं कर्मणा कृतमन्यथा || ७६ ||

अमायामेव यामिन्यां द्रोणिना निहतस्तदा |
धृष्टाद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः || ७७ ||

अष्टौ रथसहस्राणि नव दन्ति शतानि च |
राजपुत्रसहस्रम् च अश्वत्थाम निवर्तते || ७८ ||

दिनानि दश भीष्मेण भारद्वाजेन पञ्च च |
दिनद्वये तु कर्णेन शल्येनाअर्धदिनम् तथा || ७९ ||

दिनार्धं तु गदायुद्धमेतद्भारतमुच्यते |
एवमष्टादशं हन्ति अक्षौहिण्यां दिनक्रमात् || ८०||

धर्मक्षेत्रे क्षयक्षेत्रे कुरुक्षेत्रे महात्मना |
पार्थेनारोहयन्स्वर्गम् राजपुत्रा यशश्विनः || ८१ ||

नवनागसहस्रेषु नागे नागे शतं रथाः |
रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः || ८२ ||

रणयज्ञे महीयज्ञे दीक्षितोऽयं युधिष्ठिरः |
वेदिं कृत्वा कुरुक्षेत्रं यूपं कृत्वा जनार्दनम् || ८३ ||

होतारमर्जुनं कृत्वा यजमानो युधिष्ठिरः |
पाञ्चालीमरणिं कृत्वा वह्निं कृत्वा वृकोदरम् || ८४ ||

आज्यं कृत्वार्कतनयं जयद्रथमुखान्नृपान् |
दुर्योधनं पशुं कृत्वा भीष्मद्रोणौ महहविः || ८५ ||

अयाज्ञिकमिदं द्रव्यं भयमोहविवर्जितम् |
गाण्डीवेन स्रुवेणैव हूयमानेषु राजसु || ८६ ||

मातापितृसहस्राणि पुत्रदारशतानि च |
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे || ८७ ||

हर्षस्थानसहस्राणि भयस्थानशतानि च |
दिवसे दिवसे मूढं आविशन्ति न पण्डितम् || ८८ ||

vyAsa's cry in the wilderness

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छ्ऱ्^णोति मे |
धर्मादर्थश्च कामश्च स किं अर्थं न सेव्यते || ८९ ||

न जातु कामान् न भयान्न लोभात् धर्मं त्यजेज्जीवितस्यापि हेतोः |
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यः हेतुरस्य त्वनित्यः || ९०||

भारत सावित्रि - फल श्रुति||


इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् |
सप्तजन्म कृतैः पापैः स मुक्तः सुखम् एधते || ९१ ||

दिवा वा यदि वा रात्रौ वनेषु विषयेषु च |
न भयं विद्यते किंचित् कार्यसिद्धिः भविष्यति || ९२ ||

यत् फलं गो सहस्रस्य स्वर्णेनालङ्कृतस्य च |
दत्तस्य विधिना पात्रे तत् फलम् लभते नरः || ९३ ||

अहोरात्र कृतं पापं श्रवणात् एव नश्यति |
संवत्सरकृतं पापं पठनात् एव नश्यति || ९४ ||

पठतां शृण्वतां चैव विष्णोः महात्म्यमुत्तमम् |
दुःस्वप्ननाशनं चैव सुस्वप्नम् च भविष्यति || ९५ ||

भारतं प~चमं वेदः यः पठेत् शृणुयादपि |
स मुक्त सर्वपापेभ्यो विष्णुसायुज्यमाप्नुयात् || ९६ ||

भारतं पादमात्रेण शृण्वन् पापैः प्रमुच्यते |
शृणु राजन् यथा वृत्तं तथा वक्ष्यामि ते कथाम् || ९७ ||

सा कथा भारती पुण्या द्रौपदी सा पतिव्रता |
पाण्डवानां स्नुषा धन्या प्रसीद पुरुषोत्तम || ९८ ||

गवां शतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय |
पुण्यां च भारतकथां पठति शृणोति
तुल्यं फलं भवति तस्य च तस्य चैव || ९९ ||

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनम्
द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् |
लीलागोग्रहणं रणे विहरणं संधिक्रियाजृंभणम्
पश्चाद्भीष्मसुयोधनआदिनिधनं ह्येतन्महाभारतम् || १००||

इति श्री भारत सावित्री समाप्ता

The following is a verse for the concluding benediction, which is said to be in this bhArata sAvitri, as quoted by brahmashri vAraNAsi subrahmanya shAstri in his fourth book of bhArata tattva kathanam, pANDava nindA nirAkaraNam.

धर्मो विवर्थति युधिष्ठिरकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन |
शत्रुर्विनश्यति धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न भवन्ति रोगाः ||


इति शम्

--o)0(o--

 

verses in RomanTranscript


vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautramakalmaṣam |
parāśarātmajaṁ vande śukatātaṁ taponidhim || 1
 
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namonamaḥ || 2
 
acaturvadano brahmā dvibāhuraparo hariḥ |
aphālalocanaḥ śaṁbhurbhagavān bādarāyaṇaḥ || 3
 
muniṁ snigdhāṁbujābhāsaṁ vedavyāsamakalmaṣam |
vedavyāsaṁ sarasvatyāvāsaṁ vyāsaṁ namāmyaham || 4
 
sa˝jaya uvāca
 
dvāravatyāṁ sthitaṁ kṛṣṇaṁ cintayāmāsa vai purā |
sandhyarthaṁ preṣayāmāsa kurūṇāṁ paṇḍavaiḥ saha || 5
 
pāṇḍavānāṁ hitārthāya śīghraṁ kṛṣṇena gamyatām |
śrīkṛṣṇo ratha vegena gatvā vai hastināpurīm || 6
 
vidurasya gṛham gatvā dṛṣṭastena janārdanaḥ |
viduraścāgataṁ dṛṣṭvā idaṁ vacanamabravit || 7
 
bhavaddarśanamātreṇa kṛtakṛtyo'smyahaṁ prabho |
adya me saphalam janma adya me saphalam tapaḥ |
adya me pitarastuṣṭā govinde gṛhamāgate || 8
 
adyāṣṭamī ca navamī ca caturdaśī ca |
adyāyanam ca viṣuvaṁ ca dinatrayam ca |
adyaiva piṇḍapitṛyaj˝amakhasya kālo |
dāmodareṇa sahasā gṛhamāgatena || 9
 
śrībhagavānuvāca
 
sādhu sādhu mahāprāj˝a sarvaśāstraviśārada |
tuṣṭo'smi ca varam brūhi dāsyāmi kurunandana || 10
 
vidura uvāca
 
bhojanaṁ viprasaṁkīrṇaṁ bandhusaṁkīrṇamandiram |
śayanaṁ sutasaṁkīrṇaṁ dehi me madhusūdana || 11
 

sa˝jaya uvāca
 
kṛṣṇasyāgamanaṁ śrutvā rājarājaḥ suyodhanaḥ |
vidurasya gṛhaṁ gatvā idaṁ vacanamabravīt || 12
 
duryodhana uvāca
 
bhīṣmadroṇau parityajya māṁ caiva madhusūdanaḥ |
kimarthaṁ punḍarīkākṣa kṛtaṁ vṛṣalibhojanam || 13
 
śrībhagavānuvāca
 
na śūdrā bhagavadbhaktā viprā bhāgavatāḥ smṛtāḥ |
sarvavarṇeṣu te śūdrā ye hyabhaktā janārdane || 14
 
śuddhaṁ bhāgavatasyānnaṁ śuddhaṁ bhāgīrathījalam |
śuddhaṁ viṣṇupadaṁ divyaṁ śuddhamekādaśīvratam || 15
 
cāṇḍālaṁ mama bhaktam vā nāvamanyeta buddhimān |
yo'vamanyeta mūḍhātmā rauravaṁ narakaṁ vrajet || 16
 
kasya doṣa kule nāsti vyādhinā ko na pīḍitaḥ |
vyasanaṁ kairna saṁprāptam kasya saukhyaṁ nirantaram || 17
 
bhojanaṁ pṛcchase rājannādaraṁ kiṁ na pṛcchasi |
bhojanaṁ gatajīrṇaṁ syādādarassvajarāmaraḥ || 18
 
ādareṇopanītāni śākānnāni suyodhana |
prīṇanti mama gātrāṇi nāmṛtam mānavarjitam || 19
 
saṁprītibhojyānyannāni āpadbhojyāni vā punaḥ |
na ca saṁprīyase rājan na vai cāpadgatā vayam || 20
 
dviṣadannaṁ na bhoktavyaṁ dviṣantam naiva bhojayet |
pāṇḍavāndveṣṭi bho rājan mama prāṇā hi pāṇḍavāḥ || 21
 
mama vākyaṁ kuruśreṣṭhaḥ śāntimiccha suyodhana |
rājyaṁ teṣāṁ samaṁ dattvā yūyaṁ pa˝cottaraṁ śatam || 22
 
gotrakṣayo na kartavyo rāj˝ām bandhujanaiḥ saha |
kurvanto te hitaṁ vākyaṁ mama bodhaṁ vibodhaya || 23
 
vane dvādaśa varṣāṇi aj˝ātaṁ ca trayodaśam |
pa˝ca grāmārthino rājan pāṇḍavā dharmacāriṇaḥ || 24
 
duryodhana uvāca
 
yantrasya guṇadoṣo'sti yantriṇaḥ puruṣottama |
ahaṁ yantro bhavān yantrī mama doṣo na vidyate || 25
 
śrībhagavānuvāca
 
indraprastham yamaprasthamavantīm vāruṇāpurī |
dehi me caturo grāmānpa˝camaṁ hastināpurīm || 26
 
duryodhana uvāca

 
indraprasthaṁ gurordattaṁ yamaprasthaṁ kṛpasya ca |
vāruṇāvatakaṁ bhīṣme avantī sūryanandane || 27
 
hastināpuramasmākaṁ pa˝ca grāmānanukramāt |
evaṁ vyavasthitāngrāmān śṛṇu devakinandana || 28
 
sūcyagreṇa sutīkṣṇena yavadbhidyati medinī |
tāvanna hi pradāsyāmi vinā yuddhena keśava || 29
 
śrībhagavānuvāca
 
dvāvimau puruṣau mūrkhau
duryodhanadaśānanau |
gograham vanabhaṅgam ca dṛṣṭvā
yuddhaṁ punaḥ punaḥ || 30
 
yadā yadā paśyati vānaradhvajam
dhanurdharaṁ pāṇḍavamadhyamaṁ raṇe |
gadāprahāraṁ balinaṁ vṛkodaram
tadā tadā dāsyasi sarvamedinīm || 31
 
yadā yadā droṇavikarṇakarṇaiḥ
saṁkṣiptamātre khalu bhīṣmaśalyau |
kṛpaśca yodhāḥ patitā raṇāṅgaṇe
tadā tadā dāsyasi sarvamedinīm || 32
 
duryodhana uvāca

 
hiraṇyavarṇaṁ paripūrṇagātraṁ
meghonnataṁ mattagajendratulyam |
ādityaputraṁ bahuśatrunāśaṁ
paśyāmi karṇaṁ rathamāruhantam || 33
 
śrībhagavānuvāca
 
nare catuṣkaṁ turage ca ṣoḍaśaṁ
gaje śataṁ pancaśataṁ ratheṣu |
dṛṣṭvā'rjuno mu˝cati bāṇavarṣaṁ
svātīgataḥ śukra ivātivṛṣṭim || 34
 
ekadhā daśadhā caiva śatadhā ca sahasradhā |
raṇe pārthaśarā vṛṣṭirdānaṁ brahmavido yathā || 35
 
kiṁ karṇena sahasreṇa duryodhanaśatairapi |
śaragarjitameghena vṛdhā karṇena garjitam || 36
 
ekākī pādacāreṇa yadi nāyāsi kaurava |
dharmaśāstrapravartakāro manvādyā madyapāyinaḥ || 37
 
dhṛtarāṣṭra uvāca

 
brūhi sa˝jaya yadvṛttaṁ yuddhe teṣāṁ mahātmanām |
pāṇḍavānāṁ kurūṇāṁ ca saṁpravṛtte mahākṣaye || 38
 
ke tatra pramukhā yodhāḥ ke ca tatra mahārathāḥ |
mahābalāśca ke tatra kathaṁ te vinipātitāḥ || 39
 
bhīṣmadroṇau kathaṁ bhagnau karṇaśalyau kathaṁ hatau |
kathaṁ duryodhano rāja bhīmasenena pātitaḥ || 40
 
sanjaya uvāca
 
medinībhāranirhāram pārthasārathimacyutam |
praṇamāmi hṛṣīkeśaṁ durlabhaṁ cakrapāṇinam || 41
 
durlabhā vipragoṣṭī ca durlabhā bhāratī kathā |
durlabhā haribhaktiḥ ca gaṅgāsnānaṁ ca durlabham || 42
 
sadbhiśca sahavāsena jāhnavyā darśanena ca |
viṣṇoḥ smaraṇamātreṇa sarvapāpaiḥ pramucyate || 43
 
arjunaḥ sātyakiścaiva dhṛṣṭadyumno ghaṭotkacaḥ |
śikhaṇḍiścābhimanyuśca vāyuputro mahābalaḥ || 44
 
nakulaḥ sahadevaśca dharmarājo yudhiṣṭhiraḥ |
virāṭaścottaraścaiva drupadaśca mahārathāḥ || 45
 
pāṇḍavānāṁ bale yodhāḥ sarve viṣṇuparākramāḥ |
kauravānāṁ bale yodhāḥ sarve saṁkarṣaṇaprabhāḥ || 46
 
śakuniḥ saubalo bhīṣmaḥ kṛtavarmā jayadradhaḥ |
bhūriśravāśca bāhliko bhagadattastathaiva ca || 47
 
ulūkaḥ somadattaśca śaśibinduśca pārthivaḥ |
droṇo droṇiḥ kṛpaḥ śalyo vṛṣaseno halāyudhaḥ || 48
 
vaikartano vikarṇaśca kaliṅgastu tathaiva ca |
duḥśāsanaśca karṇaśca rājā duryodhanastathā || 49
 
ete dvāviṁśatiḥ proktā bharateṣu mahārathāḥ |
kauravāḥ pāṇḍavāścaiva ete yuddhaviśāradāḥ || 50
 
bhīṣma uvāca
 
arjunaḥ saha putreṇa droṇaḥ saha sutena ca |
ahaṁ bhūriśravāścaiva ṣaḍete'tirathāḥ smṛtāḥ || 51
 
kṛpaśca kṛtavarmā ca madrarājo yudhiṣṭhiraḥ |
virāṭo bhīmasenaśca ṣaḍete ca mahārathāḥ || 52
 
sātyakiśca śikhaṇḍiśca dhṛṣṭadyumno virāṭajaḥ |
śakunī rājaputraśca ete samarathāḥ smṛtāḥ || 53
 
duḥśāsanaśca karṇaśca vṛṣaseno'pi saindhavaḥ |
nakulaḥ sahadevaśca ṣaḍete'rtharathāḥ smṛtāḥ || 54
 
ahamekaṁ tribhirdroṇaḥ pa˝cabhiḥ sūryanandanaḥ |
nimeṣaṁ droṇaputrastu nimuṣārdhaṁ dhana˝jayaḥ || 55
 
caturviṁśatirete vai (vīrā) bhāratasattamāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 56
 
ādiparva sabhāparva parva āraṇyakaṁ tathā |
virāṭaparva vij˝eyaṁ caturthaṁ tadanantaram || 57
 
udyogaṁ pa˝camaṁ parva bhīṣmaparva ataḥ param |
saptamaṁ droṇaparva tu karṇaparva athāṣṭamam || 58
 
navamaṁ śalyaparva ca gadāparva ataḥ param |
sauṣuptikam tadā parva garbhapātanameva ca || 59
 
trayodaśaṁ tu strīparva pradānamudakasya ca |
śānti parva ataḥ proktamāśvamedikameva ca || 60
 
svargārohaṇa parva tu harivaṁśastathaiva ca |
ityaṣṭādaśaparvāṇi saṁkhyā dvaipāyanena tu || 61
 
bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu |
taraṇaṁ sarvapāpānāṁ yasmādbhāratamucyate || 62
 
bhāratasya samudrasya merornārāyaṇasya ca |
aprameyāṇi catvāri puṇyaṁ toyaṁ guhāguṇāḥ || 63
 
hemante prathame māse śuklapakṣe trayodaśī |
pravṛttaṁ bhārataṁ yuddhaṁ nakṣatram yamadaivatam || 64
 
phālgunyāṁ nihato bhīṣmaḥ kṛṣṇa pakṣe ca saptamī |
aṣṭamyāṁ caiva saubhadro navamyāṁ ca jayadrathaḥ || 65
 
daśamyāṁ bhagadattastu mahāyuddhe nipātitāḥ |
ekādaśyāmardharātrau hato vīro ghaṭotkacaḥ || 66
 
tataḥ prabhātasamaye virāṭadrupadau hatau |
dvādaśyāṁ caiva madhyāhne droṇācāryo raṇe hataḥ || 67
 
trayodaśyāṁ tu madhyāhne vṛṣaseno nipātitaḥ |
caturdaśyām tu pūrvāhṇe raṇe duḥśāsano hataḥ || 68
 
tasminneva mahāyuddhe vartamāne caturdaśī |
dhana˝jayena madhyāhne karṇo vaikartano hataḥ || 69
 
niḥśabdatūryaṁ hata yodhavīram
praśāntadarpaṁ dhṛtarāṣṭrasainyam |
na śobhate sūryasutena hīnam
vṛndaṁ grahāṇāmiva candrahīnam || 70
 
mukhaṁ kamalapatrākṣaṁ yathā śravaṇavarjitam |
tathā tat kauravaṁ sainyaṁ karṇahīnaṁ na śobhate || 71
 
vyūḍhoraskaṁ kamalanayanaṁ taptahemāvabhāsam |
putraṁ dṛṣṭvā bhuvanatilakaṁ pārthabāṇāvasaktam |
pāṁsugrastaṁ malinavasanaṁ putramanvīkṣya taṁ ca
mandam mandam mṛditavadanaṁ medinī mandarāśiḥ || 72
 
kṛṣṇa is saying
 
sva (yā) mayā ca kuntyā ca dharaṇyā vāsavena ca |
jāmadagnyena rāmeṇa ṣaḍbhiḥ karṇo nipātitaḥ || 73
 
sanjaya continuing
 
amāyāṁ dharmaputreṇa śalyo madrādhipo hataḥ |
ulūkaḥ śakuniścaiva yamābhyāṁ vinipātitau || 74
 
amāyāmardharātre tu rājā duryodhano hataḥ |
bhīmasenasya gadāyā tāḍito vinipātitaḥ || 75
 
abhavattādṛśaṁ yuddhaṁ kṣatriyāṇāṁ manasvinām |
anyathā bhāṣitaṁ yuddhaṁ karmaṇā kṛtamanyathā || 76
 
amāyāmeva yāminyāṁ droṇinā nihatastadā |
dhṛṣṭādyumnaḥ śikhaṇḍī ca draupadyāḥ pa˝ca cātmajāḥ || 77
 
aṣṭau rathasahasrāṇi nava danti śatāni ca |
rājaputrasahasram ca aśvatthāma nivartate || 78
 
dināni daśa bhīṣmeṇa bhāradvājena pa˝ca ca |
dinadvaye tu karṇena śalyenāardhadinam tathā || 79
 
dinārdhaṁ tu gadāyuddhametadbhāratamucyate |
evamaṣṭādaśaṁ hanti akṣauhiṇyāṁ dinakramāt || 80
 
dharmakṣetre kṣayakṣetre kurukṣetre mahātmanā |
pārthenārohayansvargam rājaputrā yaśaśvinaḥ || 81
 
navanāgasahasreṣu nāge nāge śataṁ rathāḥ |
rathe rathe śataṁ cāśvā aśve aśve śataṁ narāḥ || 82
 
raṇayaj˝e mahīyaj˝e dīkṣito'yaṁ yudhiṣṭhiraḥ |
vediṁ kṛtvā kurukṣetraṁ yūpaṁ kṛtvā janārdanam || 83
 
hotāramarjunaṁ kṛtvā yajamāno yudhiṣṭhiraḥ |
pā˝cālīmaraṇiṁ kṛtvā vahniṁ kṛtvā vṛkodaram || 84
 
ājyaṁ kṛtvārkatanayaṁ jayadrathamukhānnṛpān |
duryodhanaṁ paśuṁ kṛtvā bhīṣmadroṇau mahahaviḥ || 85
 
ayāj˝ikamidaṁ dravyaṁ bhayamohavivarjitam |
gāṇḍīvena sruveṇaiva hūyamāneṣu rājasu || 86
 
mātāpitṛsahasrāṇi putradāraśatāni ca |
saṁsāreṣvanubhūtāni yānti yāsyanti cāpare || 87
 
harṣasthānasahasrāṇi bhayasthānaśatāni ca |
divase divase mūḍhaṁ āviśanti na paṇḍitam || 88
 
vyAsa's cry in the wilderness
 
ūrdhvabāhurviraumyeṣa na ca kaścicchṇoti me |
dharmādarthaśca kāmaśca sa kiṁ arthaṁ na sevyate || 89
 
na jātu kāmān na bhayānna lobhāt
dharmaṁ tyajejjīvitasyāpi hetoḥ |
nityo dharmaḥ sukhaduḥkhe tvanitye
jīvo nityaḥ heturasya tvanityaḥ || 90
 
bhārata sāvitri - phala śruti
 
imāṁ bhāratasāvitrīṁ prātarutthāya yaḥ paṭhet |
saptajanma kṛtaiḥ pāpaiḥ sa muktaḥ sukham edhate || 91
 
divā vā yadi vā rātrau vaneṣu viṣayeṣu ca |
na bhayaṁ vidyate kiṁcit kāryasiddhiḥ bhaviṣyati || 92
 
yat phalaṁ go sahasrasya svarṇenālaṅkṛtasya ca |
dattasya vidhinā pātre tat phalam labhate naraḥ || 93
 
ahorātra kṛtaṁ pāpaṁ śravaṇāt eva naśyati |
saṁvatsarakṛtaṁ pāpaṁ paṭhanāt eva naśyati || 94
 
paṭhatāṁ śṛṇvatāṁ caiva viṣṇoḥ mahātmyamuttamam |
duḥsvapnanāśanaṁ caiva susvapnam ca bhaviṣyati || 95
 
bhārataṁ pacamaṁ vedaḥ yaḥ paṭhet śṛṇuyādapi |
sa mukta sarvapāpebhyo viṣṇusāyujyamāpnuyāt || 96
 
bhārataṁ pādamātreṇa śṛṇvan pāpaiḥ pramucyate |
śṛṇu rājan yathā vṛttaṁ tathā vakṣyāmi te kathām || 97
 
sā kathā bhāratī puṇyā draupadī sā pativratā |
pāṇḍavānāṁ snuṣā dhanyā prasīda puruṣottama || 98
 
gavāṁ śataṁ kanakaśṛṅgamayaṁ dadāti
viprāya vedaviduṣe ca bahuśrutāya |
puṇyāṁ ca bhāratakathāṁ paṭhati śṛṇoti
tulyaṁ phalaṁ bhavati tasya ca tasya caiva || 99
 
ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgṛhe dāhanam
dyūtaṁ śrīharaṇaṁ vane viharaṇaṁ matsyālaye vartanam |
līlāgograhaṇaṁ raṇe viharaṇaṁ saṁdhikriyājṛṁbhaṇam
paścādbhīṣmasuyodhanaādinidhanaṁ hyetanmahābhāratam || 100
 
iti śrī bhārata sāvitrī samāptā
 
The following is a verse for the concluding benediction, which is said to be in this bhArata sAvitri, as quoted by brahmashri vAraNAsi subrahmanya shAstri in his fourth Telugu book of bhArata tattva kathanam, pANDava nindA nirAkaraNam
 
dharmo vivarthati yudhiṣṭhirakīrtanena
pāpaṁ praṇaśyati vṛkodarakīrtanena |
śatrurvinaśyati dhana˝jayakīrtanena
mādrīsutau kathayatāṁ na bhavanti rogāḥ ||
 
iti śam
--o)0(o--
 

 

verses in Itrans codess="span2">verses in Itrans code

 

vyAsaM vasiShThanaptAraM shakteH pautramakalmaSham |
parAsharAtmajaM vande shukatAtaM taponidhim || 1

vyAsAya viShNurUpAya vyAsarUpAya viShNave |
namo vai brahmanidhaye vAsiShThAya namonamaH || 2

achaturvadano brahmA dvibAhuraparo hariH |
aphAlalochanaH shaMbhurbhagavAn bAdarAyaNaH || 3

muniM snigdhAMbujAbhAsaM vedavyAsamakalmaSham |
vedavyAsaM sarasvatyAvAsaM vyAsaM namAmyaham || 4

sa~njaya uvAcha

dvAravatyAM sthitaM kR^iShNaM cintayAmAsa vai purA |
sandhyarthaM preShayAmAsa kurUNAM paNDavaiH saha || 5

pANDavAnAM hitArthAya shIghraM kR^iShNena gamyatAm |
shrIkR^iShNo ratha vegena gatvA vai hastinApurIm || 6

vidurasya gR^iham gatvA dR^iShTastena janArdanaH |
vidurashchAgataM dR^iShTvA idaM vachanamabravit || 7

bhavaddarshanamAtreNa kR^itakR^ityo.asmyahaM prabho |
adya me saphalam janma adya me saphalam tapaH |
adya me pitarastuShTA govinde gR^ihamAgate || 8

adyAShTamI cha navamI cha chaturdashI cha |
adyAyanam cha viShuvaM cha dinatrayam cha |
adyaiva piNDapitR^iyaj~namakhasya kAlo |
dAmodareNa sahasA gR^ihamAgatena || 9

shrIbhagavAnuvAcha

sAdhu sAdhu mahAprAj~na sarvashAstravishArada |
tuShTo.asmi cha varam brUhi dAsyAmi kurunandana || 10

vidura uvAcha

bhojanaM viprasaMkIrNaM bandhusaMkIrNamandiram |
shayanaM sutasaMkIrNaM dehi me madhusUdana || 11

sa~njaya uvAcha

kR^iSNasyAgamanaM shrutvA rAjarAjaH suyodhanaH |
vidurasya gR^ihaM gatvA idaM vachanamabravIt || 12

duryodhana uvAcha

bhIShmadroNau parityajya mAM chaiva madhusUdanaH |
kimarthaM punDarIkAkSha kR^itaM vR^iShalibhojanam || 13

shrIbhagavAnuvAcha

na shUdrA bhagavadbhaktA viprA bhAgavatAH smR^itAH |
sarvavarNeShu te shUdrA ye hyabhaktA janArdane || 14

shuddhaM bhAgavatasyAnnaM shuddhaM bhAgIrathIjalam |
shuddhaM viShNupadaM divyaM shuddhamekAdashIvratam || 15

chANDAlaM mama bhaktam vA nAvamanyeta buddhimAn |
yo.avamanyeta mUDhAtmA rauravaM narakaM vrajet || 16

kasya doSha kule nAsti vyAdhinA ko na pIDitaH |
vyasanaM kairna saMprAptam kasya saukhyaM nirantaram || 17

bhojanaM pR^ichChase rAjannAdaraM kiM na pR^ichChasi |
bhojanaM gatajIrNaM syAdAdarassvajarAmaraH || 18

AdareNopanItAni shAkAnnAni suyodhana |
prINanti mama gAtrANi nAmR^itam mAnavarjitam || 19

saMprItibhojyAnyannAni ApadbhojyAni vA punaH |
na cha saMprIyase rAjan na vai chApadgatA vayam || 20

dviShadannaM na bhoktavyaM dviShantam naiva bhojayet |
pANDavAndveShTi bho rAjan mama prANA hi pANDavAH || 21

mama vAkyaM kurushreShThaH shAntimichCha suyodhana |
rAjyaM teShAM samaM dattvA yUyaM pa~nchottaraM shatam || 22

gotrakShayo na kartavyo rAj~nAm bandhujanaiH saha |
kurvanto te hitaM vAkyaM mama bodhaM vibodhaya || 23

vane dvAdasha varShANi aj~nAtaM cha trayodasham |
pa~ncha grAmArthino rAjan pANDavA dharmachAriNaH || 24

duryodhana uvAcha

yantrasya guNadoSho.asti yantriNaH puruShottama |
ahaM yantro bhavAn yantrI mama doSho na vidyate || 25

shrIbhagavAnuvAcha

indraprastham yamaprasthamavantIm vAruNApurI |
dehi me chaturo grAmAnpa~nchamaM hastinApurIm || 26

duryodhana uvAcha

indraprasthaM gurordattaM yamaprasthaM kR^ipasya cha |
vAruNAvatakaM bhIShme avantI sUryanandane || 27

hastinApuramasmAkaM pa~ncha grAmAnanukramAt |
evaM vyavasthitAngrAmAn shR^iNu devakinandana || 28

sUchyagreNa sutIkShNena yavadbhidyati medinI |
tAvanna hi pradAsyAmi vinA yuddhena keshava || 29

shrIbhagavAnuvAcha

dvAvimau puruShau mUrkhau duryodhanadashAnanau |
gograham vanabha~Ngam cha dR^iShTvA yuddhaM punaH punaH || 30

yadA yadA pashyati vAnaradhvajam
dhanurdharaM pANDavamadhyamaM raNe |
gadAprahAraM balinaM vR^ikodaram
tadA tadA dAsyasi sarvamedinIm || 31

yadA yadA droNavikarNakarNaiH
saMkShiptamAtre khalu bhIShmashalyau |
kR^ipashcha yodhAH patitA raNA~NgaNe
tadA tadA dAsyasi sarvamedinIm || 32

duryodhana uvAcha

hiraNyavarNaM paripUrNagAtraM
meghonnataM mattagajendratulyam |
AdityaputraM bahushatrunAshaM
pashyAmi karNaM rathamAruhantam || 33

shrIbhagavAnuvAcha

nare chatuShkaM turage cha ShoDashaM
gaje shataM panchashataM ratheShu |
dR^iShTvA.arjuno mu~nchati bANavarShaM
svAtIgataH shukra ivAtivR^iShTim || 34

ekadhA dashadhA chaiva shatadhA cha sahasradhA |
raNe pArthasharA vR^iShTirdAnaM brahmavido yathA || 35

kiM karNena sahasreNa duryodhanashatairapi |
sharagarjitameghena vR^idhA karNena garjitam || 36

ekAkI pAdachAreNa yadi nAyAsi kaurava |
dharmashAstrapravartakAro manvAdyA madyapAyinaH || 37

dhR^itarAShTra uvAcha

brUhi sa~njaya yadvR^ittaM yuddhe teShAM mahAtmanAm |
pANDavAnAM kurUNAM cha saMpravR^itte mahAkShaye || 38

ke tatra pramukhA yodhAH ke cha tatra mahArathAH |
mahAbalAshcha ke tatra kathaM te vinipAtitAH || 39

bhIShmadroNau kathaM bhagnau karNashalyau kathaM hatau |
kathaM duryodhano rAja bhImasenena pAtitaH || 40

sa~njaya uvAcha

medinIbhAranirhAram pArthasArathimachyutam |
praNamAmi hR^iShIkeshaM durlabhaM chakrapANinam || 41

durlabhA vipragoShTI cha durlabhA bhAratI kathA |
durlabhA haribhaktiH cha ga~NgAsnAnaM cha durlabham || 42

sadbhishcha sahavAsena jAhnavyA darshanena cha |
viSNoH smaraNamAtreNa sarvapApaiH pramuchyate || 43

arjunaH sAtyakishchaiva dhR^iShTadyumno ghaTotkachaH |
shikhaNDishchAbhimanyushcha vAyuputro mahAbalaH || 44

nakulaH sahadevashcha dharmarAjo yudhiShThiraH |
virATashchottarashchaiva drupadashcha mahArathAH || 45

pANDavAnAM bale yodhAH sarve viSNuparAkramAH |
kauravAnAM bale yodhAH sarve saMkarShaNaprabhAH || 46

shakuniH saubalo bhIShmaH kR^itavarmA jayadradhaH |
bhUrishravAshcha bAhliko bhagadattastathaiva cha || 47

ulUkaH somadattashcha shashibindushcha pArthivaH |
droNo droNiH kR^ipaH shalyo vR^iShaseno halAyudhaH || 48

vaikartano vikarNashcha kali~Ngastu tathaiva cha |
duHshAsanashcha karNashcha rAjA duryodhanastathA || 49

ete dvAviMshatiH proktA bharateShu mahArathAH |
kauravAH pANDavAshchaiva ete yuddhavishAradAH || 50

bhIShma uvAcha

arjunaH saha putreNa droNaH saha sutena cha |
ahaM bhUrishravAshchaiva ShaDete.atirathAH smR^itAH || 51

kR^ipashcha kR^itavarmA cha madrarAjo yudhiShThiraH |
virATo bhImasenashcha ShaDete cha mahArathAH || 52

sAtyakishcha shikhaNDishcha dhR^iShTadyumno virATajaH |
shakunI rAjaputrashcha ete samarathAH smR^itAH || 53

duHshAsanashcha karNashcha vR^iShaseno.api saindhavaH |
nakulaH sahadevashcha ShaDete.artharathAH smR^itAH || 54

ahamekaM tribhirdroNaH pa~nchabhiH sUryanandanaH |
nimeShaM droNaputrastu nimuShArdhaM dhana~njayaH || 55

chaturviMshatirete vai (vIrA) bhAratasattamAH |
nAnAshastrapraharaNAH sarve yuddhavishAradAH || 56

Adiparva sabhAparva parva AraNyakaM tathA |
virATaparva vij~neyaM chaturthaM tadanantaram || 57

udyogaM pa~nchamaM parva bhIShmaparva ataH param |
saptamaM droNaparva tu karNaparva athAShTamam || 58

navamaM shalyaparva cha gadAparva ataH param |
sauShuptikam tadA parva garbhapAtanameva cha || 59

trayodashaM tu strIparva pradAnamudakasya cha |
shAnti parva ataH proktamAshvamedikameva cha || 60

svargArohaNa parva tu harivaMshastathaiva cha |
ityaShTAdashaparvANi saMkhyA dvaipAyanena tu || 61

bhAti sarveShu vedeShu ratiH sarveShu jantuShu |
taraNaM sarvapApAnAM yasmAdbhAratamuchyate || 62

bhAratasya samudrasya merornArAyaNasya cha |
aprameyANi chatvAri puNyaM toyaM guhAguNAH || 63

hemante prathame mAse shuklapakShe trayodashI |
pravR^ittaM bhArataM yuddhaM nakShatram yamadaivatam || 64

phAlgunyAM nihato bhIShmaH kR^iShNa pakShe cha saptamI |
aShTamyAM chaiva saubhadro navamyAM cha jayadrathaH || 65

dashamyAM bhagadattastu mahAyuddhe nipAtitAH |
ekAdashyAmardharAtrau hato vIro ghaTotkachaH || 66

tataH prabhAtasamaye virATadrupadau hatau |
dvAdashyAM chaiva madhyAhne droNAchAryo raNe hataH || 67

trayodashyAM tu madhyAhne vR^iShaseno nipAtitaH |
chaturdashyAm tu pUrvAhNe raNe duHshAsano hataH || 68

tasminneva mahAyuddhe vartamAne chaturdashI |
dhana~njayena madhyAhne karNo vaikartano hataH || 69

niHshabdatUryaM hata yodhavIram
prashAntadarpaM dhR^itarAShTrasainyam |
na shobhate sUryasutena hInam
vR^indaM grahANAmiva chandrahInam || 70

mukhaM kamalapatrAkShaM yathA shravaNavarjitam |
tathA tat kauravaM sainyaM karNahInaM na shobhate || 71

vyUDhoraskaM kamalanayanaM taptahemAvabhAsam |
putraM dR^iShTvA bhuvanatilakaM pArthabANAvasaktam |
pAMsugrastaM malinavasanaM putramanvIkShya taM cha
mandam mandam mR^iditavadanaM medinI mandarAshiH || 72

##kR^iShNa is saying ##
sva (yA) mayA cha kuntyA cha dharaNyA vAsavena cha |
jAmadagnyena rAmeNa ShaDbhiH karNo nipAtitaH || 73

##sanjaya continuing##
amAyAM dharmaputreNa shalyo madrAdhipo hataH |
ulUkaH shakunishchaiva yamAbhyAM vinipAtitau || 74

amAyAmardharAtre tu rAjA duryodhano hataH |
bhImasenasya gadAyA tADito vinipAtitaH || 75

abhavattAdR^ishaM yuddhaM kShatriyANAM manasvinAm |
anyathA bhAShitaM yuddhaM karmaNA kR^itamanyathA || 76

amAyAmeva yAminyAM droNinA nihatastadA |
dhR^iSTAdyumnaH shikhaNDI cha draupadyAH pa~ncha chAtmajAH || 77

aShTau rathasahasrANi nava danti shatAni cha |
rAjaputrasahasram cha ashvatthAma nivartate || 78

dinAni dasha bhIShmeNa bhAradvAjena pa~ncha cha |
dinadvaye tu karNena shalyenAardhadinam tathA || 79

dinArdhaM tu gadAyuddhametadbhAratamuchyate |
evamaShTAdashaM hanti akShauhiNyAM dinakramAt || 80

dharmakShetre kShayakShetre kurukShetre mahAtmanA |
pArthenArohayansvargam rAjaputrA yashashvinaH || 81

navanAgasahasreShu nAge nAge shataM rathAH |
rathe rathe shataM chAshvA ashve ashve shataM narAH || 82

raNayaj~ne mahIyaj~ne dIkShito.ayaM yudhiShThiraH |
vediM kR^itvA kurukShetraM yUpaM kR^itvA janArdanam || 83

hotAramarjunaM kR^itvA yajamAno yudhiShThiraH |
pA~nchAlImaraNiM kR^itvA vahniM kR^itvA vR^ikodaram || 84

AjyaM kR^itvArkatanayaM jayadrathamukhAnnR^ipAn |
duryodhanaM pashuM kR^itvA bhIShmadroNau mahahaviH || 85

ayAj~nikamidaM dravyaM bhayamohavivarjitam |
gANDIvena sruveNaiva hUyamAneShu rAjasu || 86

mAtApitR^isahasrANi putradArashatAni cha |
saMsAreShvanubhUtAni yAnti yAsyanti chApare || 87

harShasthAnasahasrANi bhayasthAnashatAni cha |
divase divase mUDhaM Avishanti na paNDitam || 88

##vyAsa's cry in the wilderness##

UrdhvabAhurviraumyeSha na cha kashchichChR^Noti me |
dharmAdarthashcha kAmashcha sa kiM arthaM na sevyate || 89

na jAtu kAmAn na bhayAnna lobhAt
dharmaM tyajejjIvitasyApi hetoH |
nityo dharmaH sukhaduHkhe tvanitye
jIvo nityaH heturasya tvanityaH || 90

bhArata sAvitri - phala shruti

imAM bhAratasAvitrIM prAtarutthAya yaH paThet |
saptajanma kR^itaiH pApaiH sa muktaH sukham edhate || 91

divA vA yadi vA rAtrau vaneShu viShayeShu cha |
na bhayaM vidyate kiMcit kAryasiddhiH bhaviShyati || 92

yat phalaM go sahasrasya svarNenAla~NkR^itasya cha |
dattasya vidhinA pAtre tat phalam labhate naraH || 93

ahorAtra kR^itaM pApaM shravaNAt eva nashyati |
saMvatsarakR^itaM pApaM paThanAt eva nashyati || 94

paThatAM shR^iNvatAM chaiva viShNoH mahAtmyamuttamam |
duHsvapnanAshanaM chaiva susvapnam cha bhaviShyati || 95

bhArataM pa~chamaM vedaH yaH paThet shR^iNuyAdapi |
sa mukta sarvapApebhyo viShNusAyujyamApnuyAt || 96

bhArataM pAdamAtreNa shR^iNvan pApaiH pramucyate |
shR^iNu rAjan yathA vR^ittaM tathA vakShyAmi te kathAm || 97

sA kathA bhAratI puNyA draupadI sA pativratA |
pANDavAnAM snuShA dhanyA prasIda puruShottama || 98

gavAM shataM kanakashR^i~NgamayaM dadAti
viprAya vedaviduShe cha bahushrutAya |
puNyAM cha bhAratakathAM paThati shR^iNoti
tulyaM phalaM bhavati tasya cha tasya chaiva || 99

Adau pANDavadhArtarAShTrajananaM lAkShAgR^ihe dAhanam
dyUtaM shrIharaNaM vane viharaNaM matsyAlaye vartanam |
lIlAgograhaNaM raNe viharaNaM saMdhikriyAjR^iMbhaNam
pashchAdbhIShmasuyodhanaAdinidhanaM hyetanmahAbhAratam || 100

iti shrI bhArata sAvitrI samAptA

concluding benediction:

The following is a verse for the concluding benediction, which is said to be in this bhArata sAvitri, as quoted by brahmashri vAraNAsi subrahmanya shAstri in his fourth Telugu book of bhArata tattva kathanam, pANDava nindA nirAkaraNam

dharmo vivarthati yudhiShThirakIrtanena
pApaM praNashyati vR^ikodarakIrtanena |
shatrurvinashyati dhana~njayakIrtanena
mAdrIsutau kathayatAM na bhavanti rogAH ||


iti sham

 
           

Notes and Remarks:

(Much referncing and crosslinking is yet to be done.
verse code numbers given are acording to Prof. Tokunaga's convention)
shloka 20 :-- cf udyoga for the same verse at 005089025;
                      and 25th verse in ch 190 of udyoga of traditional version.
 
shloka 21 :-- gita press edn has this verse as an extra text, adhika pATha,
                     after verse 31, ch 190 of udyoga parva.

shloka 26 :-- iti dharmaja sandesha; cf udyoga 005031019 CE

shloka 29 :-- cf 0051250253 udyoga.

shloka 30 :-- 602701112/ dvidhA bhajyeyamapyevaM na nameyam tu kasyachit |
                     602701134/ eSha me sahajo doShaH svabhAvo duratikramaH || --                      ---- Rmn yuddha.

shloka 48 :-- it may be - vR^iShaseno hyalAyudha = vR^iShaseno hi alAyudhaH.

shloka 62 :-- This verse occurs in a manuscript of Mahabharata consulted by BORI,
                       with a little variation:

                    bhAti sarveShu vedeShu ratiH sarvatra jantuShu |
                    taraNaM sarvapApAnAM tena bhAratamuchyate ||


shloka 64 :-- cf 005140018 - udyoga.

shloka 69 :-- pAThAntaram / variation -
                            pArtho.aparAhNe shiraH uchchakarta
                            vaikartanasyaAtha mahendra sUnuH |
                            hato vaikartanaH karNaH AdityasyAvalaMbane
||

shloka 72 :-- This verse will be in ch 91 of karNa parva of traditional version.
                     Though this is marked as adhika pATha there, this verse is said to be faultless.

                    One Telugu mms has this with some variation:
                    vyUDhoraskaM kamalanayanaM taptahemAvabhAsam |
                    karNaM dR^iShTvA bhuvi nipatitaM pArthabANAbhitaptam |
                    pAMshugrastaM malinamasakR^it putramanvIkShamANo |
                    mandaM mandaM vrajati savitA mandira marashmiH
||

shloka 80 :--  cf 001002026 to 001002028 - Adi.

shloka-s :-- These verses 87-90, mAtA pitR^i etc are available in the end-chapter of
                    svargArohaNa parva - 018005047 to 018005051.

shloka 90 :-- cf udyoga - 005040011  for this verse;
                    the phrase na jAtu kAman - repeats for about 16 times in mbh;
                    so says sUkthAnkar in his book Epic Studies VI, page 335.
 
shloka 91 :-- following is the variant reading:

                18005051a imAM bhAratasAvitrIM prAtarutthAya yaH paThet |
                18005051c sa bhArataphalaM prApya paraM brahmAdhigaccChati ||

shloka 99 :-- cf. book I of harivamsham, harivamsha-pava, chapter 1, shloka 4.

                    yo goshataM kanakashR^i~NgamayaM dadAti
                    viprAya vedaviduShe bahuvishrutAya |
                    puNyAM cha bhAratakathAM shR^iNuyAchcha tadvat
                    tulyaM phalaM bhavati tasya cha tasya chaiva
||4||

shloka 100 :--  This verse is the ekashlokI-bhAratam, one-verse-bharatam,
                       
 quoted in the chitrashala edition just before
                         the viShayAnukramaNikA, the index chapter of mbh.

Last concluding benedictory verse:--  This concluding benedictory verse is
                       as quoted by brahmashri vAraNAsi subrahmanya shAstri in
                        his fourth Telugu book of mahAbhArata tattva kathanam,
                        pANDava nindA nirAkaraNam, which we do not find generally.

                        Further, this benedictory verse appears in one manuscrpt
                        of Mahabharata consulted for evolving Critical Edition
                        of mbh by BORI.

desirajuhrao at yahoo.com