श्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम्
काञ्चीकामकोटिपीठाधीशश्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम् ।
अथवा काञ्ची पेरियवा दशकस्तोत्रम् ।
नमस्ते लोकगुरवे काञ्चीपीठाधिपाय च ।
दिव्यज्ञानस्वरूपाय वराभयकराय च ॥ १॥
शिवप्रकाशरूपाय लोकानां पापहारिणे ।
सकृत्कटाक्षपातेन सर्वाशुभहृते नमः ॥२॥
बुद्धिमत्सु वरिष्ठाय ज्योतिस्तेजोमयाय च ।
नमः सङ्कटनाशाय नमो मोक्षप्रदाय च ॥ ३॥
आपद्बान्धवरूपाय अनाथरक्षकाय च ।
नमः प्रत्यक्षदेवाय शोकमोहविनाशिने ॥ ४॥
परमाचार्यदेवाय सर्वदारिद्र्यनाशिने ।
चन्द्रमौलीशकामाक्षीप्रियभक्ताय ते नमः॥ ५॥
आर्तानामार्तिहन्त्रे च भीतानां भीतिनाशिने ।
संसारार्णवपोताय श्रीजगद्गुरवे नमः ॥ ६॥
भक्तानां मुक्तिदात्रे च नमः शङ्करमूर्तये ।
अपारकरुणामूर्ते परमात्मन् नमोऽस्तु ते ॥ ७॥
वेदवेदान्तविज्ञाय विद्वज्जनहिताय च ।
सर्वेश्वर नमस्तुभ्यं सर्ववेदज्ञमूर्तये ॥ ८॥
श्रीचन्द्रशेखरेन्द्राय यतये ते नमो नमः ।
सर्वसौभाग्यदात्रे च श्रीकाञ्चीगुरवे नमः ॥ ९॥
कैवल्यनवनीताय सत्यसंरक्षकाय च ।
श्रीकाञ्चीकामकोट्याख्यपीठाधीशाय ते नमः ॥ १०॥
फलश्रुतिः ।
सद्गुरोर्दशकस्तोत्रं यः पठेद्भक्तिपूर्वकम् ।
सर्वाभीष्टान् प्रपद्येत अष्टसिद्धीस्तथैव च ॥
प्रातःकाले पठेन्नित्यं रोगशोकप्रशान्तये ।
एककालं पठेन्नित्यं पापशत्रुविनाशनम् ॥
द्विवारं यः पठेन्नित्यं आयुरारोग्यवर्धनम् ।
त्रिवारं यः पठेन्नित्यं सर्वकार्येषु सिद्धिदम् ॥
श्रीजगद्गुरोर्नित्यस्मरणेन सर्वेषां सर्वमङ्गलानि भवन्तु ॥
Restored and reconstructed by PSA Easwaran psaeaswaran at gmail.com