जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना

जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना

॥ श्रीपरब्रह्मस्वरूपी श्रीकाञ्ची कामकोटिपीठ जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना ॥ ॥ श्रीः ॥ ॥ प्रार्थना ॥ श्रीमहागणपतये नमः । श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यस्वामिने नमः । श्रीमहासरस्वत्यै नमः । सर्वेभ्यो गुरुभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ नमो भगवते कामकोटि चन्द्रशेखराय । नित्यं नमामि श्रीजयेन्द्र विजयेन्द्र पादान् । श्रीकामकोटि त्रिवेण्यै नमः । श्रीगणपति सच्चिदानन्द सद्गुरुभ्यो नमः । श्रीपादवल्लभ नरसिंह सरस्वती श्रीगुरु दत्तात्रेयाय नमः । प्रारम्भकार्यं निर्विघ्नमस्तु । शुभं शोभनमस्तु । इष्टदेवता कुलदेवता सुप्रसन्ना वरदा भवतु ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ आगमार्थं तु देवानां गमनार्थन्तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताऽऽह्वानलाञ्छनम् ॥ इति घण्टानादं कृत्वा ॥ ॥ आचमनः ॥ ॐ अच्युताय नमः । ॐ अनन्ताय नमः । ॐ गोविन्दाय नमः । केशव । नारायण । माधव । गोविन्द । विष्णो । मधुसूदन । त्रिविक्रम । वामन । श्रीधर । हृषीकेश । पद्मनाभ । दामोदर । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॥ प्राणायामः ॥ Complete a prANAyAma by taking a deep breath ॥ सङ्कल्पः ॥ मम उपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्त्थं श्रीमहागणपतिपूजां करिष्ये । ॥ श्रीमहागणपतिपूजा ॥ अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ You can make a small image of shrImahAgaNapati with turmeric powder or worship a regular idol. अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं ध्यायामि । आवाहयामि । ॐ महागणपतये नमः । आसनं समर्पयामि । ॐ महागणपतये नमः । पाद्यं समर्पयामि । ॐ महागणपतये नमः । अर्घ्यं समर्पयामि । ॐ महागणपतये नमः । आचमनीयं समर्पयामि । ॐ महागणपतये नमः । स्नानं समर्पयामि । ॐ महागणपतये नमः । वस्त्रं समर्पयामि । ॐ महागणपतये नमः । यज्ञोपवीतं समर्पयामि । ॐ महागणपतये नमः । गन्धं समर्पयामि । ॐ महागणपतये नमः । परिमलद्रव्यं समर्पयामि । ॐ महागणपतये नमः । पुष्पाणि समर्पयामि । पुष्पैः पूजयामि । ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ गणाधिपाय नमः । ॐ धूम्रकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ भालचन्द्राय नमः । ॐ गजाननाय नमः । ॐ वक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः । ॐ सिद्धि महागणपतये नमः । पुष्पाणि समर्पयामि । ॐ महागणपतये नमः । धूपमाघ्रापयामि । ॐ महागणपतये नमः । दीपं दर्शयामि । ॐ महागणपतये नमः । नैवेद्यं निवेदयामि । ॐ महागणपतये नमः । ताम्बूलं समर्पयामि । ॐ महागणपतये नमः । फलं समर्पयामि । ॐ महागणपतये नमः । नीराजनं दर्शयामि । ॐ महागणपतये नमः । मन्त्रपुष्पं समर्पयामि । ॐ महागणपतये नमः । प्रदक्षिणनमस्कारान् समर्पयामि । ॐ महागणपतये नमः । छत्रमाच्छादयामि । ॐ महागणपतये नमः । चामरे वीजयामि । ॐ महागणपतये नमः । गीतं श्रावयामि । ॐ महागणपतये नमः । नृत्यं दर्शयामि । ॐ महागणपतये नमः । वाद्यं घोषयामि । ॐ महागणपतये नमः । समस्त राजोपचारान् समर्पयामि ॥ ॥ अथ प्रार्थना ॥ ॐ वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ॐ भूर्भुवस्वः महागणपतये नमः । प्रार्थनां समर्पयामि । अनया पूजया विघ्नहर्ता महागणपतिः प्रीयताम् ॥ ॥ प्रधानपूजा सङ्कल्पः ॥ मम उपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते - अद्यब्रह्मणः द्वितीयपरार्धे श्रीश्वेतवराहकल्पे वैवस्वतमन्वन्तरे - अष्टाविंशतितमे कलियुगे - प्रथमे पादे - जम्बूद्वीपे ------ भारतवर्षे ------ भरतखण्डे ------ मेरोः दक्षिणे पार्श्वे (you can change this based on your global location) ------ नाम संवत्सरे ------अयने ------ ऋतौ ------ मासे ------ पक्षे ------ शुभतिथौ ------नक्षत्रयुक्तायां ------ वासरयुक्तायां (you can use the almanac to get the correct date) शुभयोग शुभकरण एवं गुणविशेषेणविशिष्टायामस्यां शुभतिथौ मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्यर्थं मम सकुटुम्बस्य क्षेमस्थैर्यवीर्यविजय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्ष चतुर्विध फल पुरुषार्थसिध्यर्थं श्रीचन्द्रशेखरेन्द्रसरस्वती सद्गुरुप्रीत्यर्थं ज्ञानविवेकश्रुतधारणमेधावाक्त्वमादि सिद्ध्यर्थं परिपूर्णगुरुकृपाकटाक्षसिद्ध्यर्थं श्रीजगद्गुरु चन्द्रशेखरेन्द्रसरस्वती सद्गुरुपूजां यथाशक्ति ध्यान आवाहनादि षोडशोपचारविधानेन करिष्ये । श्रीविघ्नेश्वरं यथास्थानं प्रतिष्ठापयामि । शोभनार्थे क्षेमाय पुनरागमनाय च ॥ ॥ कलशपूजा ॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितौ । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने कृष्णे गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि तीर्थेऽस्मिन् सन्निधिं कुरु ॥ ॥ शङ्खपूजा ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥ श्रीपाञ्चजन्याय नमः । श्रीपाञ्चजन्याय नमः । श्रीपाञ्चजन्याय नमः ॥ पूजाद्रव्याणि प्रोक्ष्य देवमात्मानं च प्रोक्ष्य ॥ ॥ घण्टापूजा ॥ आगमार्थं तु देवानां गमनार्थन्तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताऽऽह्वानलाञ्छनम् ॥ इति घण्टानादं कृत्वा ॥ ॥ आत्मपूजा ॥ देहो देवालयः प्रोक्तः जीवो देवः सनातनः । त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥ ॥ पीठपूजा ॥ ॐ सकलगुणात्मशक्तियुक्ताय योगपीठात्मने नमः । ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिवराहाय नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । ॐ आदित्यादि नवग्रहदेवताभ्यो नमः । ॐ दशदिक्पालेभ्यो नमः । ॥ ध्यानम् ॥ विश्वव्यापिनमादिदेवममलं नित्यं परं निष्कलं नित्योद्बुद्धसहस्रपत्रकमले लुप्ताक्षरे मण्डपे । नित्यानन्दमयं सुखैकनिलयं नित्यं शिवं स्वप्रभं ध्याये हंसपरं परात्परतरं स्वच्छन्दसर्वागमम् ॥ १॥ ऊर्ध्वाम्नाय गुरोः पदं त्रिभुवनौङ्काराख्यसिंहासनं सिद्धाचारसमस्तवेदपठितं षट्चक्रसञ्चारिणम् । अद्वैतस्फुरदग्निमेकममलं पूर्णप्रभाशोभितं शान्तं श्रीगुरुपङ्कजं भज मन चैतन्यचन्द्रोदयम् ॥ २॥ अग्रे राराज्यते नो निगमसुखरसाध्यापयत्पादधारं तेजोगोलप्रदीप्तं सकलभुवनसञ्चारशीलप्रभावम् । काञ्चीक्षेत्रर्षिपादग्रहणसुकृतभुग् दिव्यपादत्रयुग्मं धन्या धन्याः कियन्तो वयमिह यदहो पूजयामस्तदाप्तम् ॥ ३॥ तरुणतपनभासं चारुकाषायभूषं करयुगधृतदण्डाभीतिमुद्राविलासम् । पदनतजनरक्षं पूर्णकारुण्यवीक्षं गुरुमखिलजगत्याः कामकोटीशमीडे ॥ ४॥ प्रणौमि दक्षिणामूर्तिव्यासशङ्कररूपिणम् । ज्योतिर्मयं गुरुं श्रीमत् चन्द्रशेखरसरस्वतीम् ॥ ५॥ अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ ६॥ नमामि सद्गुरुं शान्तं प्रत्यक्षशिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकाम्यार्थसिद्धये ॥ ७॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । ध्यायामि ॥ ॥ आवाहनम् ॥ मन्त्रात्मा मन्त्रराजोऽयं परमात्माऽऽत्मभूः स्वयम् । गूढश्चरति तन्त्रेषु मन्त्रबीजार्थगर्जितः ॥ त्वयान्वितं जगत्सर्वं तत्त्वमसि न संशयः । शून्याकारं निराकारं साकारं सर्वतोमुखम् ॥ मन्त्रराज महाराज योगिराज जगत्पते । सुवर्णवर्णः सर्वात्मा त्वमेकोऽसि जगद्गुरुः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । आवाहयामि ॥ श्रीसद्गुरो प्रभो स्थिरो भव वरदो भव सुप्रसन्नो भव ॥ ॥ आसनम् ॥ येषु येषु च भावेषु भक्त्या त्वां परमेश्वर । साधवो भावयन्त्यात्मा त्वं तथा तत्र भाससे ॥ भेदाभेदौ न च स्थित्या मन्त्रराज जगत्पते । त्वमेवैकः परस्त्राता न चैवान्योऽस्ति तत्त्वतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । आसनं समर्पयामि ॥ ॥ पाद्यम् ॥ सर्वतः पाणिपादं तद्रूपं जगन्नगात्मकम् । न तन्नातद्विवेकेन विश्वेशं विदितं परम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पादयोः पाद्यं समर्पयामि ॥ ॥ अर्घ्यम् ॥ त्वमेव सर्वयोगानां भोक्ता साक्षी गुरुर्गतिः । फलं तत्कारणं बीजस्थानं त्वमसि तत्त्वतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । हस्तयोः अर्घ्यं समर्पयामि ॥ ॥ आचमनम् ॥ अमृतादमृतं मर्त्या भजन्ति भवनाशनम् । मन्त्रराजमिदं पुण्यं दुःखाङ्कुरविमर्दनम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । मुखे आचमनीयं समर्पयामि ॥ ॥ स्नानम् ॥ असङ्गो ह्यजरः साक्षी नित्यसिद्धो निरामयः । नित्यानन्दमयो देवः सर्वत्राप्यमलो बुधः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । स्नानं समर्पयामि ॥ ॥ वस्त्रम् ॥ स्वमायया प्रगुप्तात्मा मायानाश्रयमोहिनी । यस्यायं पुरुषः पूर्णः परमात्मा परं पदम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । वस्त्रं समर्पयामि ॥ ॥ यज्ञोपवीतम् ॥ ब्रह्म नामक सूत्रं तु ब्रह्मसूत्रं प्रकीर्तितम् । ब्रह्मैव ब्रह्मसूत्रं तदस्मिन्प्रोतं चराचरम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । यज्ञोपवीतं समर्पयामि ॥ ॥ गन्धम् ॥ उत्तमं पुरुषं पूर्णमगोचरमनामयम् । ध्याये त्वां देवदेवेश मन्त्रराज नमोऽस्तु ते ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । गन्धं समर्पयामि ॥ ॥ अक्षताः ॥ अतर्क्योऽयमनन्तोऽयमद्वयः पुरुषेश्वरः । पूर्णानन्दो घनश्यामः सिद्धराजोऽब्जलोचनः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । अक्षतान् समर्पयामि ॥ ॥ अलङ्कारः ॥ नानाश्चर्यमयं देवं नानाश्चर्यविनिर्गतम् । निगमागमगोप्तारं गोपतिं श्रीपतिं भजे । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । अलङ्कारं समर्पयामि ॥ ॥ पुष्पम् ॥ यस्मिन्भाति जगत्सर्वं भासा यस्य प्रवर्तते । तस्मै सर्वगुणाभासमूर्तये ब्रह्मणे नमः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पुष्पैः पूजयामि ॥ ॥ अथाङ्गपूजा ॥ चिन्तितभक्तेष्टदायकाय नमः । गुरुपादुके पूजयामि । घोराधिकाघौघनिवारकाय नमः । पादतले पूजयामि । अव्याजकरुणामूर्तये नमः । पादाङ्गुलीः पूजयामि । श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिकाय नमः । पादौ पूजयामि । ब्रह्मात्मैक्यस्वरूपिणे नमः । जङ्घे पूजयामि । भावाभावविवर्जिताय नमः । जानुनी पूजयामि । आबालगोपविदिताय नमः । ऊरू पूजयामि । तत्पदलक्ष्यार्थाय नमः । कटिं पूजयामि । आब्रह्मकीटसृष्टिकर्त्रे नमः । नाभिं पूजयामि । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकाय नमः । उदरं पूजयामि । आश्रितवत्सलाय नमः । हृदयं पूजयामि । त्रिजगद्वन्द्याय नमः । स्कन्धौ पूजयामि । प्रधानपुरुषाय नमः । बाहून् पूजयामि । अभयवरदहस्ताय नमः । हस्तौ पूजयामि । नीलग्रीवाय नमः । कण्ठं पूजयामि । सद्योजातवामदेवाघोरतत्पुरुषईशान इति पञ्चवक्त्र पशुपतये नमः । मुखं पूजयामि । प्राणजीवनाय नमः । नासिकां पूजयामि । क्षराक्षरात्मिकाय नमः । कूर्चं पूजयामि । तापत्रयाग्निसन्तप्तसमाह्लादनपूर्णचन्द्रवदनाय नमः । मन्दस्मितं पूजयामि । भुजङ्गविलसत्कर्णाय नमः । कर्णौ पूजयामि । दृश्यदर्शनवर्जिताय नमः । नेत्रे पूजयामि । नित्यतृप्तात्मने नमः । भालं पूजयामि । शरच्चन्द्रकरोल्लसितशेखराय नमः । शिरः पूजयामि । साकिन्यम्बास्वरूपिणे नमः । मूलाधारं पूजयामि । काकिनी रूपधारिणे नमः । स्वाधिष्ठानं पूजयामि । लाकिन्यम्बास्वरूपिणे नमः । मणिपूरकं पूजयामि । राकिन्यम्बास्वरूपिणे नमः । अनाहतचक्रं पूजयामि । डाकिनीश्वरीस्वरूपिणे नमः । विशुद्धिचक्रं पूजयामि । हाकिनीरूपधारिणे नमः । आज्ञाचक्रं पूजयामि । याकिन्यम्बास्वरूपिणे नमः । सहस्रदलं पूजयामि । श्रीचन्द्रशेखरेन्द्र सरस्वती सद्गुरुभ्यो नमः । सर्वाण्यङ्गानि पूजयामि । ॥ श्रीमहास्वामि अष्टोत्तरशतनामावलिः ॥ After every nAmAvali, chant श्रीसदाशिवाय नमः । ॥ धूपः ॥ यद्भाति रोचते यच्च येनेदं ततमेव हि । सत्यं तच्चिन्मयं ब्रह्म स्वयमेवावभासते । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । धूपमाघ्रापयामि ॥ ॥ दीपम् ॥ चिन्मयं चैव चिद्वस्तु चेतनं घननिर्मलम् । ब्रह्मैव मन्त्रराजोऽयं सुरराजो जनप्रियः । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । दीपं दर्शयामि ॥ ॥ पूर्वापोऽशनम् ॥ सर्वदुःखान्तकस्त्राता सर्ववित्स परः स्वभुक् । सर्वात्मा सर्व सर्वज्ञः सर्वसर्वोत्तमोत्तमः । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पूर्वापोऽशनं ददामि ॥ ॥ उत्तरापोऽशनम् ॥ मन्त्रराजमूर्तये स्वाहा । मङ्गलमूर्तये स्वाहा । सज्जनप्रियाय स्वाहा । साधूनां पतये स्वाहा । परब्रह्ममूर्तये श्रीचन्द्रशेखराय स्वाहा । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । उत्तरापोऽशनं ददामि ॥ ॥ नैवेद्यम् ॥ प्रणवेनादावन्ते चापोऽशनमिति । श्रीचन्द्रशेखरेन्द्र सरस्वती सद्गुरुभ्यो नमः । महानैवेद्यं निवेदयामि ॥ मध्ये मध्ये स्वादूदकं समर्पयामि ॥ ॥ फलम् ॥ कर्ता कर्म च कार्यं च चतुर्थं कर्मणः फलम् । ब्रह्मैव भासते सर्वं मन्त्रेश्वरप्रसादतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । फलं निवेदयामि ॥ ॥ करोद्वर्तनम् ॥ वेदवेदार्थसंसारविसारं सर्वमङ्गलम् । सर्वभूतमयं ब्रह्म वन्दे मन्त्रमयं शिवम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ॥ करोद्वर्तनं करिष्यामि । ॥ पुनर्धूपम् ॥ योगारिष्टहरं देवं भोगमोक्षफलप्रदम् । मङ्गलं परमं धाम शङ्करं प्रणमाम्यहम् ॥ स्वामिन् तव चरणं शरणम् । स्वामिन् कपिध्वज दर्शनं नित्यम् । स्वामिन् तव नाम स्मरणं सततम् । स्वामिन् तव स्मरणमतिशुभदम् । स्वामिन् तव दर्शनमतिमधुरम् । स्वामिन् तव कृपा अतिगहना ॥ १॥ स्वामिन् तव लीला अत्यद्भुता । स्वामिन् तव प्रकाशः अतिशीतलः । स्वामिन् तव हस्तः अतिमृदुलः । स्वामिन् तव पदमतिपवित्रम् । स्वामिन् तव भक्तिरतिसहजा । स्वामिन् तव स्पर्शः अतिसुखदः ॥ २॥ स्वामिन् तव सेवा अतिसुलभा । स्वामिन् तव रूपमतिमोहकम् । स्वामिन् तव चित्तमतिस्नेहजम् । स्वामिन् तव चरित्रं मनोहरम् । स्वामिन् तव भजनं ममामृतम् । स्वामिन् तव लक्ष्यमेकमलक्ष्यम् ॥ ३॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पुनर्धूपं दर्शयामि ॥ ॥ ताम्बूलम् ॥ भावस्याभावको भावो नाभावो भावभावभाक् । भासते भावरूपात्मा भावना भावभावना ॥ भावाभावौ च सन्त्यज्य भावस्य खलु भावभाक् । तस्मै शुद्धाय शान्ताय मङ्गलाय च ते नमः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । ताम्बूलं समर्पयामि ॥ ॥ दक्षिणा ॥ अदृश्यं दृश्यते दृश्यं तद्दृश्यं दृश्यते न हि । दृश्यादृश्यविदृश्यत्वाद्रूपं ते मङ्गलं परम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । दक्षिणां समर्पयामि ॥ ॥ महावस्त्रम् ॥ ज्ञात्वा ज्ञेयं वेदनं च ज्ञायते यत्पदं न हि । सत्यं तच्चिन्मयं ब्रह्म स्वयमेवावभासते ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । महावस्त्रं समर्पयामि ॥ ॥ महानीराजनम् ॥ स्वप्रकाशः प्रकाशात्मा परमात्मा परात्परः । परब्रह्मात्मभूतात्मा स्वयञ्ज्योतिः सदाशिवः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । महानीराजनं दर्शयामि ॥ ॥ प्रदक्षिणनमस्काराः ॥ स्वर्भू पाताल लोकेषु यः पर्यटति नित्यशः । प्रदक्षिणं करोमीह सद्गुरुं पादचारतः । यत्पादपद्मममरा निजमूर्धकॢप्त सद्रत्नवन्मकुटकोटिभिरानमन्ति । तं स्वाङ्घ्रिलग्नजनतार्तिहरं दयालुं श्रीसद्गुरुं भयहरं शिरसा नमामि । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रदक्षिणनमस्कारान् समर्पयामि । ॥ मन्त्रपुष्पाञ्जलिः ॥ मन्त्रेश्वर महाराज मन्त्रबीज जनाश्रय । प्रभो त्वं देवदेवेश सर्वोऽसि त्वं जगत्पते ॥ सत्यज्ञानानन्दमयं रूपं ते मङ्गलं परम् । चन्द्रशेखर मन्त्रराज ज्ञानबीज नमोऽस्तु ते ॥ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः ऋषिगणवन्दित ऋग्वेदमवधारय । १ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः यज्ञसंरक्षक यजुर्वेदमवधारय । २ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः सर्वजनसंरक्षक सामवेदमवधारय । ३ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः आत्मसंरक्षकाथर्ववेदमवधारय । ४ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः द्राविडवेदमवधारय । ५ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ भद्रं त्वमेव सर्वत्र सच्चिदानन्दमव्ययम् । प्रसीद देवदेवेश चन्द्रशेखर नमोऽस्तु ते । भगवते श्रीकामकोटि चन्द्रशेखराय नमः ॥ इति देवस्योपरि जलं भ्रामयेत् ॥ ॥ प्रार्थनाक्षमापणम् ॥ नमस्ते दिव्यरूपाय नमस्ते बोधमूर्तये । मन्त्रमयाय देवाय श्रीचन्द्रशेखराय ते नमः ॥ श्रीदत्तात्रेयस्वरूपाय ते नमः । श्रीदक्षिणामूर्ति स्वरूपाय ते नमः । श्रीपरब्रह्म स्वरूपाय ते नमः ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । पाहि मां कृपया देव शरणागतवत्सल ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रार्थनां समर्पयामि । पूजान्ते छत्रमाच्छादयामि । चामरे वीजयामि । गीतं श्रावयामि । वाद्यं घोषयामि । नृत्यं दर्शयामि । आन्दोलिकामारोहयामि । समस्तराजोपचार देवोपचार भक्त्युपचार शक्त्युपचार षोडशोपचारपूजां समर्पयामि ॥ यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ अनया मया कृता ध्यान आवाहनादि षोडशोपचारपूजया सर्वान्तर्यामी अनेककोटिब्रह्माण्डप्रमुखः श्रीकामकोटिपीठरत्नायमानः मुनिमानसहंसः परब्रह्मस्वरूपी भगवान् श्रीचन्द्रशेखरः सुप्रीणातु । ॥ प्रायश्चित्तमन्त्राणि ॥ मध्ये स्वरवर्णध्याननियमलोपप्रायश्चित्तार्थं नामत्रयजपं करिष्ये । अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । अच्युतानन्तगोविन्देभ्यो नमः । यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि वा । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥ मननध्यानकर्माङ्गे हृत्पङ्कजनिवेशने । अन्तश्चक्षुसमालोके चेतोवृत्तिनिरोधने ॥ मन्त्रार्थज्ञानहीनेन कृता दोषाः सुनिश्चयम् । अपारकरुणामूर्ते समीक्षे करुणारसम् ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि । एतत्फलं सर्वं श्रीपरमेश्वरार्पणमस्तु । ॥ उत्तर पूजा ॥ ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीजगद्गुरु चन्द्रशेखरेन्द्र सरस्वती सद्गुरुपूजाफल परिपूर्णता सिद्ध्यर्थं पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये । शिवाय दिव्यरूपाय तेजोरूपनिवासिने । भक्तसन्तापनाशाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रथमार्घ्यं ददामि । प्रथमार्घ्यं ददामि । प्रथमार्घ्यं ददामि । अव्यक्ताद्वैतरूपाय निर्गुणाय गुणात्मने । परब्रह्मस्वरूपाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । द्वितीयार्घ्यं ददामि । द्वितीयार्घ्यं ददामि । द्वितीयार्घ्यं ददामि । मोक्षबीजाय मुक्ताय मुक्तनाथाय ते गुरो । सच्चिदानन्दरूपाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । तृतीयार्घ्यं ददामि । तृतीयार्घ्यं ददामि । तृतीयार्घ्यं ददामि । अनेनार्घ्यप्रदानेन भगवान् श्रीचन्द्रशेखरः प्रीयताम् । सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । श्रीजयेन्द्रविजयेन्द्रपर्यन्तां वन्दे गुरुपरम्पराम् ॥
॥ श्रीरस्तु ॥ ॥ॐ तत्सद्ब्रह्मार्पणमस्तु ॥ ॥ शुभं भवतु ॥ ॥ श्रीमहास्वामि अष्टोत्तरशतनामावलिः ॥ श्रीचन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः । श्रीचन्द्रमौलिपादाब्जमधुपाय नमो नमः । आचार्यपादाधिष्ठानाभिषिक्ताय नमो नमः । सर्वज्ञाचार्यभगवत्स्वरूपाय नमो नमः । अष्टाङ्गयोगिसन्निष्ठागरिष्ठाय नमो नमः । ५ सनकादि महायोगिसदृशाय नमो नमः । महादेवेन्द्रहस्ताब्जसञ्जाताय नमो नमः । महायोगिविनिर्भेध्यमहत्वाय नमो नमः । कामकोटि महापीठाधीश्वराय नमो नमः । कलिदोषनिवृत्त्येककारणाय नमो नमः । १० श्रीशङ्करपदाम्भोजचिन्तनाय नमो नमः । भारतीकृतजिह्वाग्रनर्तनाय नमो नमः । करुणारसकल्लोलकटाक्षाय नमो नमः । कान्तिनिर्जितसूर्येन्दुकम्राभाय नमो नमः । अमन्दानन्दकृन्मन्दगमनाय नमो नमः । १५ अद्वैतानन्दभरितचिद्रूपाय नमो नमः । कटितटलसच्चारुकाषायाय नमो नमः । कटाक्षमात्रमोक्षेच्छाजनकाय नमो नमः । बाहुदण्डलसद्वेणुदण्डकाय नमो नमः । भालभागलसद्भूतिपुण्ड्रकाय नमो नमः । २० दरहासस्फुरद्दिव्यमुखाब्जाय नमो नमः । सुधामधुरिमामञ्जुभाषणाय नमो नमः । तपनीयतिरस्कारिशरीराय नमो नमः । तपः प्रभाविराजत्सन्नेत्रकाय नमो नमः । सङ्गीतानन्दसन्दोहसर्वस्वाय नमो नमः । २५ संसाराम्बुधिनिर्मग्नतारकाय नमो नमः । मस्तकोल्लासिरुद्राक्षमकुटाय नमो नमः । साक्षात्परशिवामोघदर्शनाय नमो नमः । चक्षुर्गतमहातेजोऽत्युज्ज्वलाय नमो नमः । साक्षात्कृतजगन्मातृस्वरूपाय नमो नमः । ३० क्वचिद्बालजनात्यन्तसुलभाय नमो नमः । क्वचिन्महाजनातीवदुष्प्रापाय नमो नमः । गोब्राह्मणहितासक्तमानसाय नमो नमः । गुरुमण्डलसम्भाव्यविदेहाय नमो नमः । भावनामात्रसन्तुष्टहृदयाय नमो नमः । ३५ भव्यातिभव्यदिव्यश्रीपदाब्जाय नमो नमः । व्यक्ताव्यक्ततरानेकचित्कलाय नमो नमः । रक्तशुक्लप्रभामिश्रपादुकाय नमो नमः । भक्तमानसराजीवभवनाय नमो नमः । भक्तलोचनराजीवभास्कराय नमो नमः । ४० भक्तकामलताकल्पपादपाय नमो नमः । भुक्तिमुक्तिप्रदानेकशक्तिदाय नमो नमः । शरणागतदीनार्तरक्षकाय नमो नमः । शमादिषट्कसम्पत्प्रदायकाय नमो नमः । सर्वदा सर्वथा लोकसौख्यदाय नमो नमः । ४५ सदा नवनवाकाङ्क्ष्यदर्शनाय नमो नमः । सर्वहृत्पद्मसञ्चारनिपुणाय नमो नमः । सर्वेङ्गितपरिज्ञानसमर्थाय नमो नमः । स्वप्नदर्शनभक्तेष्टसिद्धिदाय नमो नमः । सर्ववस्तुविभाव्यात्मसद्रूपाय नमो नमः । ५० दीनभक्तावनैकान्तदीक्षिताय नमो नमः । ज्ञानयोगबलैश्वर्यमानिताय नमो नमः । भावमाधुर्यकलिताभयदाय नमो नमः । सर्वभूतगणामेयसौहार्दाय नमो नमः । मूकीभूतानेकलोकवाक्प्रदाय नमो नमः । ५५ शीतलीकृतहृत्तापसेवकाय नमो नमः । भोगमोक्षप्रदानेकयोगज्ञाय नमो नमः । शीघ्रसिद्धिकरानेकशिक्षणाय नमो नमः । अमानित्वादिमुख्यार्थसिद्धिदाय नमो नमः । अखण्डैकरसानन्दप्रबोधाय नमो नमः । ६० नित्यानित्यविवेकप्रदायकाय नमो नमः । प्रत्येकगरसाखण्डचित्सुखाय नमो नमः । इहामुत्रार्थवैराग्यसिद्धिदाय नमो नमः । महामोहनिवृत्त्यर्थमन्त्रदाय नमो नमः । क्षेत्रक्षेत्रज्ञप्रत्येकदृष्टिदाय नमो नमः । ६५ क्षयवृद्धिविहीनात्मसौख्यदाय नमो नमः । तूलाज्ञानविहीनात्मतृप्तिदाय नमो नमः । मूलाज्ञानबाधितात्ममुक्तिदाय नमो नमः । भ्रान्तिमेघोच्चाटनप्रभञ्जनाय नमो नमः । शान्तिवृष्टिप्रदामोघजलदाय नमो नमः । ७० एककालकृतानेकदर्शनाय नमो नमः । एकान्तभक्तसंवेद्यस्वगताय नमो नमः । श्रीचक्ररथनिर्माणसुप्रथाय नमो नमः । श्रीकल्याणकरामेयसुश्लोकाय नमो नमः । आश्रिताश्रयणीयत्वप्रापकाय नमो नमः । ७५ अखिलाण्डेश्वरीकर्णभूषकाय नमो नमः । सशिष्यगणयात्राविधायकाय नमो नमः । साधुसङ्घनुतामेयचरणाय नमो नमः । अभिन्नात्मैक्यविज्ञानप्रबोधाय नमो नमः । भिन्नाभिन्नमतैश्चापि पूजिताय नमो नमः । ८० तत्तद्विपाकसद्बोधदायकाय नमो नमः । तत्तद्भाषाप्रकटितस्वगीताय नमो नमः । तत्र तत्र कृतानेकसत्कार्याय नमो नमः । चित्र चित्रप्रभावप्रसिद्धिकाय नमो नमः । लोकानुग्रहकृत्कर्मनिष्ठिताय नमो नमः । ८५ लोकोद्धृतिमहद्भूरिनियमाय नमो नमः । सर्ववेदान्तसिद्धान्तसम्मताय नमो नमः । कर्मब्रह्मात्मकरणमर्मज्ञाय नमो नमः । वर्णाश्रमसदाचाररक्षकाय नमो नमः । धर्मार्थकाममोक्षप्रदायकाय नमो नमः । ९० पदवाक्यप्रमाणादिपारीणाय नमो नमः । पादमूलनतानेकपण्डिताय नमो नमः । वेदशास्त्रार्थसद्गोष्ठीविलासाय नमो नमः । वेदशास्त्रपुराणादिविचाराय नमो नमः । वेदवेदाङ्गतत्त्वप्रबोधकाय नमो नमः । ९५ वेदमार्गप्रमाणप्रख्यापकाय नमो नमः । निर्णिद्रतेजोविजितनिद्राढ्याय नमो नमः । निरन्तरमहानन्दसम्पूर्णाय नमो नमः । स्वभावमधुरोदारगाम्भीर्याय नमो नमः । सहजानन्दसम्पूर्णसागराय नमो नमः । १०० नादबिन्दुकलातीतवैभवाय नमो नमः । वादभेदविहीनात्मबोधकाय नमो नमः । द्वादशान्तमहापीठनिषण्णाय नमो नमः । देशकालापरिच्छिन्नदृग्रूपाय नमो नमः । निर्मानशान्तिमहितनिश्चलाय नमो नमः । १०५ निर्लक्ष्यलक्ष्यसंलक्ष्यनिर्लेपाय नमो नमः । श्रीषोडशान्तकमलसुस्थिताय नमो नमः । श्रीचन्द्रशेखरेन्द्रश्रीसरस्वत्यै नमो नमः । १०८
॥ श्रीगुरुनामावलिः ॥ श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती श्रीपादानामष्टोत्तरशतनामावलिः । जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः । तमोऽपहग्रामरत्न सम्भूताय नमो नमः । महादेव महीदेवतनूजाय नमो नमः । सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः । सुब्रह्मण्याभिधानीतकौमाराय नमो नमः । ५ मध्यार्जुनगजारण्याधीतवेदाय ते नमः । स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः । तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः । गुर्वाज्ञापालनरतपितृदत्ताय ते नमः । जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । १० जयाख्यया स्वगुरुणा दीक्षिताय नमः । ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः । सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः । काषायवासस्संवीतशरीराय नमो नमः । वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः । १५ नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः । लीलया वामहस्ताग्रधृतदण्डाय ते नमः । भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः । जम्बीरतुलसीमालाभूषिताय नमो नमः । कामकोटिमहापीठाधीश्वराय नमो नमः । २० सुवृत्तनृहृदाकाशनिवासाय नमो नमः । पादानतजनक्षेमसाधकाय नमो नमः । ज्ञानदानोक्तमधुरभाषणाय नमो नमः । गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः । जगद्गुरुवरिष्ठाय महते महसे नमः । २५ भारतीयसदाचारपरित्रात्रे नमो नमः । मर्यादोल्लङ्घिजनतासुदूराय नमो नमः । सर्वत्र समभावाप्तसौहृदाय नमो नमः । वीक्षाविवशिताशेषभावुकाय नमो नमः । श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः । ३० कारुण्यपूरपूर्णान्तःकरणाय नमो नमः । श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः । पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः । त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः । कामाक्षीध्यानसंलीनमानसाय नमो नमः । ३५ सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः । परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः । रत्नभूषितनृत्येशहस्तपादाय ते नमः । वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः । काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । ४० कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः । कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः । कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः । राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः । गोशालानिर्मितिकृतगोरक्षाय नमो नमः । ४५ तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः । सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः । वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः । देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः । भारतीयकलाचारपोषकाय नमो नमः । ५० स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः । युक्त्या हरिहराभेददर्शयित्रे नमो नमः । स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः । परधाम पराकाशलीनचित्ताय ते नमः । अनारततपस्याप्तदिव्यशोभाय ते नमः । ५५ शमादिषड्गुणयत स्वचित्ताय नमो नमः । समस्तभक्तजनतारक्षकाय नमो नमः । स्वशरीरप्रभाधूतहेमभासे नमो नमः । अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः । विभूतिविलसच्छुभ्रललाटाय नमो नमः । ६० परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः । आर्तार्तिश्रवणापोहरतचित्ताय ते नमः । ग्रामीणजनतावृत्तिकल्पकाय नमो नमः । जनकल्याणरचनाचतुराय नमो नमः । जनजागरणासक्तिदायकाय नमो नमः । ६५ शङ्करोपज्ञसुपथसञ्चाराय नमो नमः । अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः । प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः । गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः । भगवत्पूज्यपादानामपराकृतये नमः । ७० स्वपादयात्रया पूतभारताय नमो नमः । नेपालभूपमहितपदाब्जाय नमो नमः । चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः । यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः । मधुराभाषणप्रीतस्वाश्रिताय नमो नमः । ७५ सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः । चित्रीयमाणजनतासन्दृष्टाय नमो नमः । शरणागतदीनार्तपरित्रात्रे नमो नमः । सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः । दुरवस्थितहृत्तापशामकाय नमो नमः । ८० दुर्योज्यविमतव्रातसमन्वयकृते नमः । निरस्तालस्यमोहाशाविक्षेपाय नमो नमः । अनुगन्तृदुरासाद्यपदवेगाय ते नमः । अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः । सदा हसन्मुखाब्जानीताशेषशुचे नमः । ८५ नवषष्टितमाचार्यशङ्कराय नमो नमः । विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः । जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः । वसिष्ठधौम्यसदृशदेशिकाय नमो नमः । असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । ९० श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः । गुरुवर्यकृपालब्धसमभावाय ते नमः । योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः । वयोवृद्धानाथजनाश्रयदाय नमो नमः । ९५ अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः । स्वगुरूपज्ञया विश्वविद्यालयकृते नमः । विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः । विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः । देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । १०० कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः । कैलासमानससरोयात्रापूतहृदे नमः । असमे बालसप्ताद्रिनाथालयकृते नमः । शिष्टवेदाध्यापकानां मानयित्रे नमो नमः । महारुद्रातिरुद्रादि तोषितेशाय ते नमः । १०५ असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः । द्रविडागमगातॄणां ख्यापयित्रे नमो नमः । शिष्टशङ्करविजयस्वर्च्यमानपदे नमः । १०८ परित्यज्य मौनं वटाधःस्थितिं च व्रजन् भारतस्य प्रदेशात्प्रदेशम् । मधुस्यन्दिवाचा जनान्धर्ममार्गे नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥ ॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥
श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति श्रीशङ्कराचार्य श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता । अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १॥ लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् । स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २॥ गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् । अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३॥ मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् । वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४॥ कर्मकाण्डप्रचाराय वेदधर्मसभा कृता । वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५॥ शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः । गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६॥ गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते । बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७॥ देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः । बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८॥ अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् । इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९॥ यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् । तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ १०॥ भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् । राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११॥ कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् । मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ १२॥ ललितानामसाहस्रस्वर्णमालाविभूषणम् । श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३॥ चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् । करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४॥ मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् । रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५॥ जगद्धितैषिभिर्दीनजनावनपरायणैः । गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६॥ ॥ इति श्रीपरब्रह्मस्वरूपी श्रीकाञ्ची कामकोटिपीठ जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना सम्पूर्णा ॥ श्रीगुरवे नमः । Encoded by Ravi Venkatraman sri.sadguru.puja at gmail.com. May 13, 2016. Proofread by Ravi Venkatraman, Sunder Hattangadi, and PSA Easwaran
% Text title            : Pujavidhanam of Shri Chandrashekharendrasaraswati
% File name             : chandrashekharendrapUjAvidhAnam.itx
% itxtitle              : pUjAvidhAnam chandrashekharendrasarasvatI saguNopAsanA
% engtitle              : Pujavidhanam of Shri Chandrashekharendrasaraswati
% Category              : pUjA, deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravi Venkatraman sri.sadguru.puja at gmail.com
% Proofread by          : Ravi Venkatraman, Sunder Hattangadi, PSA Easwaran
% Indexextra            : (Info)
% Latest update         : January 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org