श्रीदत्तात्रेयस्तोत्रम् ४
अनसूयात्रिसम्भूत दत्तात्रेय महामते ।
सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १॥
शरणागतदीनार्ततारकाऽखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २॥
सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज ।
सर्वसङ्कटहारिन् त्वं मम चित्तं स्थिरीकुरु ॥ ३॥
स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४॥
सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५॥
य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः ।
स्थिरचित्तः स भगवत्कृपापात्रं भविष्यति ॥ ६॥
इति श्रीपरमहंस परिव्राजकाचार्य
श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥
(यह एक प्रभावी स्तोत्र है । साधक व विद्यार्थी इसका प्रयोग मन
की चञ्चलता कम करने हेतु वा एकाग्रता बढाने हेतु अवश्य
करें और अनुभव लें ।)
Encoded and proofread by Prasad M myshopping.prasad at gmail.com