श्रीगुरुभुजङ्गस्तोत्रम्

श्रीगुरुभुजङ्गस्तोत्रम्

श्रीगुरुभ्यो नमः । सदेकं परं केवलं निर्विकारं निराकारमानन्दमात्रं पवित्रम् । स्वयंज्योतिरव्यक्तमाकाशकल्पं श्रुतिर्ब्रह्म यत्प्राह तस्मै नमस्ते ॥ १॥ य एकोऽपि मायावशात्सर्वहेतुः स्वसृष्टेषु विश्वेषु विष्वक्प्रवेशात् । श्रुतौ जीव इत्युच्यते केवलात्मा तुरीयाय शुद्धाय तस्मै नमस्ते ॥ २॥ न यस्मादिह द्रष्टृ विज्ञातृ चान्यत्क्वचित्स्यात्परं द्रष्टृ विज्ञातृ वा यत् । समस्तासु बुद्धिष्वनुस्यूतमेकं नमो ब्रह्मणे जीवरूपाय तस्मै ॥ ३॥ मुखाद्दर्पणे दृश्यमानो न भिन्नो मुखाभास एवं चिदाभास ईशः । चितो नैव भिन्नोऽस्ति मायास्थितो यः परेशाय तस्मै नमः केवलाय ॥ ४॥ यथा सूर्य एकः स्थितस्तोयपात्रेष्वनेकेषु यो निर्विकारस्तथाऽऽत्मा । स्थितः स्वीयबुद्धिष्वनेकासु नित्यश्चिदेकस्वरूपाय तस्मै नमस्ते ॥ ५॥ स्थितोऽनेकबुद्धिष्वयं जीव एको विभुः कारणेकत्वतो नात्र नाना । इति त्यक्तसर्वैषणापीह यस्य प्रसादाद्विजानन्ति तस्मै नमस्ते ॥ ६॥ मुखैः पञ्चभिर्भोग्यवस्तूनि भुङ्क्ते ह्यभोक्तापि बुद्धिस्थितो बुद्धितुल्यः । करोतीव कर्माण्यकर्मापि यो वै विचित्राय तस्मै नमस्तेऽस्तु नित्यम् ॥ ७॥ चिदाभास एवात्र कर्तेव भाति स्वरूपापरिज्ञानतो यस्य नूनम् । स्वबुद्धेरियं कर्तृभोक्तृत्वरूपा मृषा संसृतिर्वै नमस्तेऽस्तु तस्मै ॥ ८॥ चिदाभासचैतन्यबुद्धीर्विविच्यात्र विज्ञाय संसारबन्धाद्विमुक्तः । य एतद्विवेकावधिं स्वस्य मेने समस्तं च संसारमस्मै नमस्ते ॥ ९॥ न कस्यापि संसारलेशोऽस्ति कश्चित्स कर्तृत्वभोक्तृत्वरूपो हि मिथ्या । समस्तोऽप्ययं यत्स्वरूपाविवेकान्नमस्ते सदा नित्यमुक्ताय तस्मै ॥ १०॥ जडा बुद्धिरात्मा परो निर्विकारश्चिदाभास एकोऽपि मिथ्यैव जीवः । य एतद्विवेकी स्वतो नित्यमुक्तः सदा निर्विकाराय तस्मै नमस्ते ॥ ११॥ चिदाभास एकोऽव्ययः कारणस्थो य ईशः स एवेह कार्यस्थितः सन् । अभूज्जीवसंज्ञः स एको हि जीवः स भिन्नो न यस्मान्नमस्तेऽस्तु तस्मै ॥ १२॥ यदज्ञानतो जीवनानात्वमाहुर्महामायया मोहिता वाददक्षाः । विवेकी वदत्येकमेवात्र जीवं परित्यक्तवादो नमस्तेऽस्तु तस्मै ॥ १३॥ चिदाभास एकोऽथवा नेति सर्वे विमुह्यन्ति बेदान्तिनोऽप्यन्यभक्ताः । तथाप्येक एवेति धीदार्ढ्यदाता य आत्मा स्वभक्तस्य तस्मै नमस्ते ॥ १४॥ मुखादर्शयोरेक एकैकतायां मुखाभास एवं चिदाभास एकः । स्वचिद्ब्रह्मबिम्बैक्यमायैक्यतोऽयं यदंशोऽखिलेशो नमस्तेऽस्तु तस्मै ॥ १५॥ श्रुतिर्ह्येकतां ब्रह्मणो वक्ति नूनं सजातीयभेदादिशून्यं ततोऽत्र । स्वमायैकताप्यस्य युक्त्यापि सिद्धा नमस्ते सदैकस्वरूपाय तस्मै॥ १६॥ न मायाबहुत्वं तदा तत्प्रतिष्ठा अनेकेश्वराः सम्भवेयुर्हि नैतत् । कचिद्युज्यते यस्य मायाप्यनेका नमस्ते जगद्धेतुभूताय तस्मै ॥ १७॥ न मायां विना यस्य कर्तृत्वमस्ति प्रवेशोऽपि तस्मात्समस्तं मृषैव । महामायिने निर्विकाराय तस्मै नमो ब्रह्मरूपाय शुद्धाय तुभ्यम् ॥ १८॥ य आत्मा दृगेवाऽऽस दृश्यं त्वनात्मा विवेकाद्द्वयोरात्मदृष्टिः सदृश्ये । विनष्टो भवेत्सा दृशि स्वस्वरूपे नमस्ते दृगात्मस्वरूपाय तस्मै ॥ १९॥ स दृग्निर्विकारः स्वमाया जडेयं दृगाभास एको मृषैवेति यस्य । जगत्कर्तृता तात्त्विकी नास्ति तस्मै नमः केवलाकर्तृरूपाय तुभ्यम् ॥ २०॥ अमाय्येव मायी विभुः शुद्ध आत्मा सृजत्यत्त्यवत्येतदानन्दपूरः । न मायां विना स्रष्टृता साक्षिता वा विशुद्धात्मनो यस्य तस्मै नमस्ते ॥ २१॥ चिताभास एवाखिलोपाधिनिष्ठः समस्तैकसाक्षी स जीवेशसंज्ञः । चिदंशोऽखिलात्मा न भिन्नोऽस्ति यस्मान्नमस्ते विशुद्धात्मरूपाय तस्मै ॥ २२॥ अहं सच्चिदानन्द आत्मैव शुद्धो विमुक्तोऽस्मि वेदान्तवाक्यार्थबोधात् । इति स्वस्वरूपं विजानाति विद्वान्परं यत्परेभ्योऽपि तस्मै नमस्ते ॥ २३॥ स्वमायापरिभ्रान्तचित्ता अजस्रं पराग्वस्तु पश्यन्ति न प्रत्यगर्थम् । मुमुक्षुस्तु यं पश्यति प्रत्यगर्थे परब्रह्मरूपाय तस्मै नमस्ते ॥ २४॥ उपास्योऽन्य ईशोऽस्त्यहं त्वन्य ईशात्पशुर्वेद नैनं भजत्यत्र योऽस्मात् । विवेकी स एवाहमस्मीत्युपास्ते यमात्मानमीशं नमस्तेऽस्तु तस्मै ॥ २५॥ भयं भेददृष्टेर्भवत्युल्बणं वै महान्तो न भेदं प्रपश्यन्ति तस्मात् । यदज्ञानतो दृश्यते भेद एवं भिदामोहहन्त्रे नमस्तेऽस्तु तस्मै ॥ २६॥ विरिञ्चेन्द्रसूर्याग्निरुद्रेन्दुविष्णून्प्रकल्प्यैक एवाद्वयः सर्वसाक्षी । जगच्चक्रविभ्रान्तिकर्ता य आत्मा न दृश्येत केनापि तस्मै नमस्ते ॥ २७॥ जगज्जाग्रति स्थूलमेतत्समानं मनोवासितं स्वप्न आनन्दनिद्राम् । सुषुप्तौ स्वमेवाभिपश्यन्मुदाऽऽस्ते तुरीयो य आत्मा नमस्तेऽस्तु तस्मै ॥ २८॥ समस्तादपि स्थूलसूक्ष्माच्छरीरात्परः कारणाच्चान्य आत्मा समीपे । य एको विदूरेऽपि तिष्ठन् जनानां महिम्नि स्वकीये च तस्मै नमस्ते ॥ २९॥ यमाश्रित्य नास्तीति चास्तीति वेदे प्रवृत्तो विरुद्धोऽपि वादोऽखिलात्मा । नमस्तेऽङ्घ्रिपाण्यादिहीनाय नित्यं समस्ताङ्घ्रिपाण्यादियुक्ताय तस्मै ॥ ३०॥ योऽणोरणीयांसमात्मानमेकं महन्तं महद्वस्तुनश्चेतनेभ्यः । परं चेतनं नित्यतो वेद नित्यं यमेवेह विद्वान्नमस्तेऽस्तु तस्मै ॥ ३१॥ यदानन्दलेशोपभोगेन सर्वे सदानन्दिनः सम्भवन्त्यत्र तस्मै । सदानन्दसन्दोहपूर्णार्णवाय प्रसन्नाय तुभ्यं नमः केवलाय ॥ ३२॥ यमुत्सृज्य मर्त्या भजत्यन्यदेवान्न तेषां विमुक्तिः फलं किन्तु तुच्छम् । श्वपुच्छं गृहीत्वा तरिष्यन्ति के वा समुद्रं ह्यपारं नमस्तेऽस्तु तस्मै ॥ ३३॥ यथा विध्युपास्तौ फलं दास्यतीशस्तथा विष्णुरुद्रेन्द्रवह्न्याद्युपास्तौ । फलं दास्यति ब्रह्म यद्धीशसंज्ञः स्वकर्मानुसारं नमस्तेऽस्तु तस्मै ॥ ३४॥ न यद्ब्रह्म मोक्षप्रदं स्यात्कदाचिद्विनेहैव मुक्तिप्रदं ज्ञानमेकम् । न मोक्षं कृतः कर्मणातः कृतेन प्रपन्नार्तिहन्त्रे नमस्तेऽस्तु तस्मै ॥ ३५॥ इदं नेतिनेतीत्यमूर्तं च मूर्तं निरस्यैव सर्वं जगद्दृश्यमेतत् । निषेधावधि ब्रह्म यच्छिष्यते वै मनोवागतीताय तस्मै नमस्ते ॥ ३६॥ परित्यज्य यत्तत्त्वसम्यग्विचारं प्रवर्तेत यस्तीर्थयात्राजपादौ । करस्थान्नमुत्सृज्य लेढीति हस्तं न यस्योदयस्तस्य तस्मै नमस्ते ॥ ३७॥ न चेत्प्राणवर्गेष्वयं स्याज्जडत्वात्कथं प्राणनाडी क्रियाकारितैषाम् । अतो यस्य सिद्धा स्थिता युक्तितोऽपि प्रपञ्चप्रकाशाच्च तस्मै नमस्ते ॥ ३८॥ भयं यद्विदां नास्ति मृत्युश्च नूनं बिभेत्येव वाय्वादि सर्वे च यस्मात् । शरीरेऽहमित्यत्र बुद्धेर्भयं स्यान्नमस्तेऽभयायाशरीराय तस्मै ॥ ३९॥ गुरौ भक्तियुक्तैरिहैवेश्वरो यः सुविज्ञेय आत्माऽन्यथा त्वब्दकोट्या । अविज्ञेय एकः स्वबुद्धिस्थितोऽपि प्रियायाखिलेभ्योऽपि तस्मै नमस्ते ॥ ४०॥ समस्तात्प्रियो देह एवाक्षमस्मात्प्रियं प्राण एवाक्षतोऽपि प्रियोऽतः । प्रियः प्रत्यगात्मैव भोक्ता परो यः स्वतोऽतिप्रियायेह तस्मै नमस्ते ॥ ४१॥ प्रियादात्मनोऽन्यन्न विद्येत किञ्चित्क्वचित्कारणान्नैव भिद्येत कार्यम् । य आत्मा समस्तस्य हेतुर्नमस्ते निदानाय सर्वस्य दृश्यस्य तस्मै ॥ ४२॥ समस्तं जगत्कारणान्नैव भिन्नं समस्तात्मनः केवलादद्वितीयात् । परब्रह्मणोऽव्याकृतेशाच्च यस्मान्नमस्ते क्षरायाक्षरायापि तस्मै ॥ ४३॥ यतः कारणान्नेह कार्यं विभिन्नं ततो ब्रह्मणो नैव भिन्नं जगत्स्यात् । समस्तं जगद्ब्रह्म तच्चास्मि विद्वानुपास्ते यमेकं नमस्तेऽस्तु तस्मै ॥ ४४॥ यथा मृद्विकारो मृतो नैव भिन्नस्तथा चिद्विकारश्चितो नैव भिन्नः । अतः सर्वमेतच्चिदेवेति विद्वान्विजानाति यद्ब्रह्म तस्मै नमस्ते ॥ ४५॥ जगद्यस्य सर्वं शरीरं जगन्न प्रमातृप्रमाणप्रमेयात्मको यः । समस्तान्तरायाखिलेशाय तस्मै नमः सच्चिदानन्दरूपाय तुभ्यम् ॥ ४६॥ विदुर्यं न सर्वेऽपि यो वेत्ति सर्वं समस्तेषु भूतेषु तिष्ठन्त्वयं यः । समस्तान्तरः प्रेरयत्येव सर्वान्नमस्ते समस्तान्तरेशाय तस्मै ॥ ४७॥ न देहेन्द्रियप्राणधीभूतवृन्दं न संसार्यहं किन्तु चिन्मात्रमेकम् । परं चापरं ब्रह्मविद्वान्विशुद्धस्तदस्तीति यद्वेद तस्मै नमस्ते ॥ ४८॥ यथा स्वप्नदृष्टा च हस्त्यादि मिथ्या तथा सर्वमेतज्जगद्भाति मिथ्या । अधिष्ठानमात्रं जगद्द्रष्टृ सत्यं विशुद्धं च यद्ब्रह्म तस्मै नमस्ते ॥ ४९॥ परा चापरा यस्य माया द्विधेयं जगत्कर्तृतामक्रियस्यातनोति । स्वतो द्रष्टृदृश्यातिरिक्ताय तस्मै नमः केवलायाव्ययायात्मनेऽस्तु ॥ ५०॥ विशुद्धात्मतत्त्वापरिज्ञानमूलं विशेषावभासं सुखित्वादिरूपम् । विशुद्धात्मतत्त्वे परिज्ञात एतत्क्वचिन्नास्ति यस्मिन्नमस्तेऽन्तु तस्मै ॥ ५१॥ न हि त्वक्परिज्ञानतः सर्पभानं क्वचिद्विद्यते सर्पता कल्पिता स्यात् । तथा कल्पितं सर्वमेतच्च यस्मिन्नमस्ते समस्तावभासाय तस्मै ॥ ५२॥ सुषुप्तौ न संसारलेशोऽस्ति कश्चित्प्रबोधेऽखिलाहङ्कृतौ दृश्यतेऽयम् । अतोऽहङ्कृतेरेव संसार इत्थं न वै संसृतिर्यस्य तस्मै नमस्ते ॥ ५३॥ न शास्ता न शिष्यो न शास्त्रं न विश्वं नं शाक्तं च शैवं मतं वैष्णवं वा । सुषुप्तौ तदानीं यदस्त्यात्ममात्रं स्वतो निष्प्रपञ्चाय तस्मै नमस्ते ॥ ५४॥ जडानां प्रवृत्तिः स्वतो नास्ति यस्माद्विभोश्चेतनात्सा प्रवृत्तिः प्रवृत्ता । मनःप्राणदेहेन्द्रियव्याकृतानां नमस्ते चिदात्मस्वरूपाय तस्मै ॥ ५५॥ मनःप्राणदेहेन्द्रियव्याकृतानि स्वतः काष्ठतुल्यानि यत्सन्निधानात् । स्वयं चेतनानीव भान्त्येव मोहाज्जडेभ्यः परस्मै नमस्तेऽस्तु तस्मै ॥ ५६॥ बहिर्बुध्यते प्राणिबुद्धिः पदार्थान्न यं बुध्यते प्राणनाथं स्वसंस्थम् । समस्तान्तरात्मानमेकं च तस्मै नमस्ते विरिञ्चादिधीबोधयित्रे ॥ ५७॥ परं यत्स्वरूपं विदुर्नापि देवाः कुतोऽन्ये मनुष्यादयो बाह्यचित्ताः । तदेहवामस्मीति भक्तास्त्वजस्रं भजन्त्यद्वितीयं नमस्तेऽस्तु तस्मै ॥ ५८॥ समस्तेषु देहेषु सूर्येऽपि तिष्ठन्य एकोऽखिलात्मा समस्तैकसाक्षी । स एवाहमस्मीति वेदान्तविद्भिः सदोपास्यतत्त्वाय तस्मै नमस्ते ॥ ५९॥ अहं विश्वकस्तैजसः प्राज्ञरूपो विराट्सूत्रमायेशरूपान्न भिन्नः । उपाधौ विभिन्नेऽपि किन्त्वस्मि सोऽहं यमेवं भजन्वेद तस्मै नमस्ते ॥ ६०॥ समस्तानि कर्माणि सन्त्यज्य विद्वांस्तदेवाहमस्मीत्युपास्ते ह्यजस्रम् । यदेवाह सर्वागमान्तैकवेद्यं नमस्तेऽनिशं चिन्तनीयाय तस्मै ॥ ६१॥ न कृत्याकृतेः प्रत्यवायः क्वचित्स्यादभावात्कथं भाव उत्पत्स्यतेऽतः । अहं प्रत्यवायीति कृत्याकृते स्यामयं यस्य मोहान्नमस्तेऽस्तु तस्मै ॥ ६२॥ अधर्मोऽयमेवायमेवात्र धर्मो भवेदित्ययं मोह एवाखिलानाम् । यदज्ञानिनां प्रत्यवायप्रदं स्यात्क्वचिन्न ह्यभावो नमस्तेऽस्तु तस्मै ॥ ६३॥ अधर्मं च हृत्स्थं विहाय प्रशान्ता भजन्त्यत्र नूनं स्वरूपं यदीयम् । स्वरूपं विचार्या मृतेरा सुषुप्तेर्नमस्तेऽस्तु तस्मै विमुक्तिप्रदाय ॥ ६४॥ न वै बद्धता मुक्तता वा कदाचित्क्वचिन्नित्यमुक्तस्य किं चात्मनोऽतः । बहिश्चेतसोऽन्तश्च गत्यागती ते नमश्चित्तविक्षेपहर्त्रेऽस्तु तस्मै ॥ ६५॥ यथा क्षीणचित्तस्तथैवात्मनिष्ठः पुमान्नित्यमुक्तो भवेदद्वितीयः । यथा चेतसोऽक्षीणता यत्प्रसादात्तथा त्वत्प्रसादाय तस्मै नमस्ते ॥ ६६॥ प्रसन्ने त्वयि प्राणिनां किन्न लभ्यं परस्त्वत्प्रसादान्न लाभोऽस्ति कश्चित् । बुधोऽतोऽनिशं यत्प्रसादाभिकाङ्क्षी नमस्ते प्रपन्नप्रसन्नाय तस्मै ॥ ६७॥ पृथिव्यादियुक्ताऽपरब्रह्मनिष्ठा न मुख्या भवन्त्यत्र जन्मास्ति तेषाम् । निरस्ताखिलोपाधिनिष्ठो हि मुख्यो न यस्येह जन्मास्ति तस्मै नमस्ते ॥ ६८॥ न मुख्यं सुषुप्तेरधिष्ठानतोऽन्यत्सुषुप्तेरधिष्ठानमात्रं हि मुख्यम् । यदज्ञानतो दृप्तबालाकिरेतन्नृपाद्वेद चैवं नमस्तेऽस्तु तस्मै ॥ ६९॥ विरिञ्चादिलोकादिहावृत्तिरस्ति क्वचिच्चात्मलोकादनावृत्तिरस्मात् । ध्रुवो ह्यात्मलोकोऽध्रुवानात्मलोकात्परो योऽस्ति चैको नमस्तेऽस्तु तस्मै ॥ ७०॥ परं वेद सन्मात्त्रमुद्दालकेन स्वपित्रोपदिष्टो यदा श्वेतकेतुः । यमात्मानमात्मस्थमव्यक्तमेकं नमस्तेऽनिशं सत्स्वरूपाय तस्मै ॥ ७१॥ भृगुर्वेद पित्रोपदिष्टोऽन्तरेव प्रकृष्टः परब्रह्मरूपात्मलोकम् । अनन्ताऽद्वयानन्दविज्ञानसत्यं यमेकं विशुद्धाय तस्मै नमस्ते ॥ ७२॥ विहायैव कोशात्परं पञ्च वेद स्वरूपं यदानन्दकोशस्य पुच्छम् । मुमुक्षुः सुषुप्तेरधिष्ठानमेकं सदात्मस्वरूपाय तस्मै नमस्ते ॥ ७३॥ अनन्तानि शास्त्राण्यधीत्यापि विद्वान्न दुःखेतरो नारदोऽनात्मवित्त्वात् । ऋषिर्मानसाद्वेद यं शोकहत्यै नमस्ते सुखौघाय तस्मै विभूम्ने ॥ ७४॥ ऋषेर्याज्ञवल्क्याद्विदेहो महात्मा यदेवाभयं ब्रह्म सम्यग्विदित्वा । स्वमेवाभयं तद्ध्यभूद्वेदवेद्यं समस्ताभयाप्याय तस्मै नमस्ते ॥ ७५॥ विदित्वात्र भूमानमेनश्छिदेऽस्ति प्रवाच्यं किमु प्राणवित्पापनाशे । अतः प्राणविद्यामनादृत्य विद्वानुपास्ते यमीशं नमस्तेऽस्तु तस्मै ॥ ७६॥ अजस्रान्नदानं परित्यज्य जानश्रुतिर्ह्यैक्यमभ्यागमद्धंसवाक्यात् । स वै प्राणवित्प्राण उत्कर्षवांस्तत्परोऽस्माद्य आत्मा नमस्तेऽस्तु तस्मै ॥ ७७॥ रवीन्द्वग्नितेजो जगद्भासकश्चेन्न तस्यापि चित्सन्निधानेन तत्स्यात् । न यत्सन्निधानं विना किञ्चिदस्ति क्वचिद्वस्तु तस्मै नमो ज्यातिषे च ॥ ७८॥ परं ज्योतिषां ज्योतिरात्माऽऽख्यमेतद्रवीन्द्वादिबुद्ध्यादिविद्योतकं यत् । विदित्वैव नूनं नरो ब्राह्मणः स्यादमर्त्यश्च तस्मै नमः स्वात्मने ते ॥ ७९॥ यथाश्वत्थवृक्षे स्वदेहे च तुल्यं स्वमेवाब्रवीद्वासुदेवोऽर्जुनाय ॥ तथा यस्य साम्यं विजानाति विद्वान्नमस्ते समस्तात्मरूपाय तस्मै ॥ ८०॥ द्विजे पुल्कसे हस्तिनि स्वे शरीरे समः सात्त्विके राजसे तामसे च । य आत्मा गुणैस्तैरसंस्पृष्ट ईशो नमस्ते सदा निष्कळङ्काय तस्मै ॥ ८१॥ यमाश्चर्यवद्वक्ति कश्चिच्छृणोति प्रशान्तस्तु जानाति न ह्यप्रशान्तः । विदित्वाऽपि साक्षात्करोत्यत्र नान्यश्चिदस्मीति दीक्ष्याय तस्मे नमस्ते ॥ ८२॥ पती देवदैत्यौघयोः पद्मजाद्यं चतुर्वारमाकर्णयन्तौ तथाऽपि । न जानाति कश्चित्तयोर्वेद चान्यो ह्यतो दुर्वितर्क्याय तस्मे नमस्ते ॥ ८३॥ शरीरेन्द्रियप्राणविज्ञानशून्येष्विहैकैकमात्मेति दृप्ता वदन्ति । तथा बुद्धिसम्यग्विचारासमर्था यदज्ञानमोहा हि तस्मै नमस्ते ॥ ८४॥ अनेकत्वकर्तृत्वभोक्तृत्वधर्मः स आत्मा विभुश्चिद्गुणश्चेति केचित् । न कर्तैव भोक्ता क्वचिच्चेति चान्ये यदज्ञा वदन्तीह तस्मै नमस्ते ॥ ८५॥ अनेकात्मना प्रेरकोऽन्यो न हीशोऽस्त्विति प्राहुरेके न चास्तीति चान्ये । विवादास्पदं नैव माया विना यन्नमस्तेऽस्तु तस्मै विवादात्पराय ॥ ८६॥ विवादो निवर्तेत यस्य प्रसादात्स्वरूपप्रकाशे जगद्भावनस्य । निवृत्ते विवादे पुनर्नैव लोके भ्रमन्त्यद्वितीयाय तस्मै नमस्ते ॥ ८७॥ विभुं चित्तनिष्ठं यदङ्गुष्टमात्रं पुराणं पुमांसं वदन्त्यत्र वेदाः । जनानां हृदङ्गुष्ठमात्रं यतोऽस्मादनङ्गुष्ठमात्राय तस्मे नमस्ते ॥ ८८॥ भ्रुवोर्मध्यमेवाविमुक्तं मुनीनां महाक्षेत्रमित्यत्र बुद्धेः श्रुतञ्च । न वा वारणासीपुरं गन्तुमिच्छेत्स्वरूपे स्थितो यस्य तस्मै नमस्ते ॥ ८९॥ शरीरे यथाऽहंमतिः सर्वजन्तोस्तथा मुक्तिबुद्धिश्च काशीमृतेर्वा । स्वरूपप्रकाशं विना यस्य मुक्तिर्न वै सम्भवेत्कापि तस्मै नमस्ते ॥ ९०॥ स्वरूपप्रकाशैकहेतुर्हि यस्य प्रकृष्टागमान्तार्थसम्यग्विचारः ॥ अतो यत्प्रकाशाय वेदान्तनिष्ठोऽनिशं स्याद्विवेकी नमस्तेऽस्तु तस्मै ॥ ९१॥ वदन्तश्च रुद्रादयोऽप्यात्मतत्त्वं न जानन्त्यतः केऽपि वेदान्तनिष्ठाः । ततस्तानिहोत्सृज्य वेदान्तनिष्ठो भवेद्यत्प्रबोधाय तस्मै नमस्ते ॥ ९२॥ सुरेन्द्रो विदित्वैव यस्य स्वरूपं समस्तादघाद्वृत्रहत्यादिरूपात् । विमुक्तो हि वेदान्तनिष्ठो मुदाऽऽस्ते निरस्याभिमानं नमस्तेऽस्तु तस्मै ॥ ९३॥ यदीयं स्वरूपं विचार्यैव तिष्ठन्सदा वन्दनीयोऽमरैरिन्द्रमुख्यैः । विशुद्धो ह्ययं देववन्द्यत्वतो वै नमस्तेऽस्तु तस्मै विशुद्धिप्रदाय ॥ ९४॥ स्वयं शुद्ध एवान्यशुद्धिं ददाति क्वचिन्न ह्यशुद्धोऽन्यशुद्धिप्रदः स्यात् । स्मृतः शुद्धिदः सर्वजन्तोर्य आत्मा विशुद्धः पवित्राय तस्मै नमस्ते ॥ ९५॥ सकृत्संस्मृतश्चेत्समस्तं च पापं दहत्यग्निवद्यस्त्विहात्यन्तदीप्तः । चिदेवाहमित्येव बुद्धौ प्रवेशस्वदीप्तिर्नमस्तेऽस्तु तस्मै महिम्ने ॥ ९६॥ न हि स्नानदानादिना पापनाशे तु तत्संस्कृतिः क्वापि नश्येत्कदापि । विना यत्स्मृतिं स्मृत्युपायं च मुक्त्वा स्मरत्पापहन्त्रे नमस्तेऽस्तु तस्मै ॥ ९७॥ अनात्मन्यहन्ताभिमानं निरस्य स्वरूपप्रकाशस्ततः सर्वपापम् । न संस्कृत्यनात्माश्रयं स्याद्विनष्टं स्मृतेर्यत्प्रकाशे तु तस्मै नमस्ते ॥ ९८॥ अनाकर्ण्य वेदान्तभाष्यं समग्रं न कस्यपि यत्स्मृत्युपायोऽस्ति कश्चित् । अतस्तच्चिकीर्षा स्वतो यस्य जाता नमस्ते दयाळुस्वरूपाय तस्मै ॥ ९९॥ समस्तागमान्तानिह व्याचिकीर्षुः स्वयं शङ्कराचार्यरूपावतीर्णः । कृतव्याससूत्रादिभाष्यो य आत्मस्वरूपैक्यधीदाय तस्मै नमस्ते ॥ १००॥ चतुर्भिः प्रशान्तैः स्वशिष्यैर्युतः सन् भुवं पर्यटन्नात्मनिष्ठाऽखिलात्मा । स्वभाष्यप्रचारं सदा कारमन्यो विभात्यद्वितीयाय तस्मै नमस्ते ॥ १०१॥ विराट्सूत्रमायेशतुर्यस्वरूपैः क्रमात्तोटकाचार्यनामादिसंज्ञैः । चतुर्व्यूहवेषैः स्वशिष्यैर्युतायाद्वयायात्मने ते नमो निर्गुणाय ॥ १०२॥ अजं कर्मठं विश्वरूपं विदित्वा तुरीयाश्रमं चाथ तस्मै प्रदाय । व्यधादृश्यश‍ृङ्गाश्रमे शारदार्चापरं तत्त्वरक्षाय तस्मै नमस्ते ॥ १०३॥ य आचार्यभाष्याण्यधीत्यैव भक्त्या लभन्ते निजानन्दमात्मस्वरूपम् ॥ गुरुस्तैरयं वन्द्य आत्माऽऽत्मविद्भिस्ततः सर्ववन्द्याय तस्मै नमस्ते ॥ १०४॥ नमः शङ्कराचार्य तुभ्यं पुरस्तान्नमः पृष्ठतः पार्श्वतश्चाध ऊर्ध्वम् । नमः सर्वतः सर्वरूपाय तस्मै विशुद्धात्मने ब्रह्मणे ते नमस्ते ॥ १०५॥ अहं देहबुद्ध्या तवैवास्मि दासो ह्यहं जीवबुद्ध्याऽस्मि तेंऽशैकदेशः । त्वमेवास्म्यहं त्वात्मबुद्ध्या तथापि प्रसीदान्वहं देहबुद्ध्या नमस्ते ॥ १०६॥ स भाष्यार्थ आशु स्फुरत्वन्तकाले चिदाभासचैतन्यदृक्त्वत्प्रसादात् । गतिर्नान्यथा मे समस्तापराधं क्षमस्वाखिलात्मन्नमस्तेऽस्तु नित्यम् ॥ १०७॥ नमो भाष्यवृन्दाय भाष्योपदेष्ट्रे नमो भाष्यकृद्भ्यो नमो भाष्यविद्भ्यः । नमो भाष्यवृन्दार्थभूताय भूम्ने विशुद्धात्मने ब्रह्मणेऽस्मै परस्मै ॥ १०८॥ शतोर्ध्वाष्टकश्लोकमेतद्भुजङ्गप्रयातं पठेद्योऽत्र भक्त्या त्वदीयम् । चिदाभासचिद्रूपमेकं पदाब्जं स्मरन्स्वस्वरूपेण नूनं रमेत ॥ १०९॥ भुजङ्गप्रयातार्थमत्यन्तभक्त्या सकृद्वा स्मरेत्प्रत्यहं श्रीगुरोर्यः । निरस्तान्धकारः स आनन्दरूपं व्रजत्यच्युतं त्वां त्वदीयप्रसादात् ॥ ११०॥ अहं ब्रह्म भूत्वापि नेति भ्रमोऽभूत्तदीयस्वरूपावबोधाप्तुरा मे । गुरो त्वत्प्रसादाद्विमुक्तोऽहमस्मि चिताभासचिद्रूप आत्मा विशुद्धः ॥ १११॥ अतो बुद्धिमांस्त्वत्प्रसादाय नित्यं भुजङ्गप्रयातं पठेद्वा तदर्थम् । स्मरेद्वा गुरो ते प्रणम्यैव भूयश्चिदाभासचिद्रूपमेकं परं तत् ॥ ११२॥ मुनीन्द्रैः पुराणैरनुध्येयमीशं विरिञ्चादिभिः सर्वदेवैश्च वन्द्यम् । कथं त्वामहं स्तोतुमिच्छन्भवन्तं क्व वा साधये नेह किं किं महेशे ॥ ११३॥ कृपा ते कृपाळो विमुग्धं विशुद्धं करोतीह मूकं च वाचालमीशम् । अतस्त्वत्कृपावैभवेनैवमेतत्कृतं मे चिकीर्षाखिलात्मन्नमस्ते ॥ ११४॥ इति श्रीगुरुभुजङ्गस्तोत्रं सम्पूर्णम् । Pujya Sri Kumbakonam Swamigal has discovered and circulated this beautiful Stotra on Adi Sankaracharya, Guru Bhujanga Stotram. It is an excellent summary of Advaita Vedanta. The book contains a translation in Tamil by Sri Brahmananda Swamigal of Thanjavur. Encoded by P.R. Kannan prkannanvashi at yahoo.com Proofread by P.R. Kannan, PSA Easwaran
% Text title            : gurubhujaNgastotram
% File name             : gurubhujaNgastotram.itx
% itxtitle              : gurubhujaNgastotram
% engtitle              : A stotra on Adi Shankaracharya in bhujangaprayAta meter
% Category              : deities_misc, gurudev, shankarAchArya, bhujanga
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P.R. Kannan prkannanvashi at yahoo.com
% Proofread by          : P.R. Kannan, PSA Easwaran
% Description-comments  : Scanned book has Tamil translation
% Indexextra            : (Scanned book)
% Latest update         : October 17, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org