श्रीगुरुस्तोत्रम्
बृहत्पाकं हंस्यां संहितायां
ज्ञानात्मानं परमात्मानं दानं ध्यानं योगं ज्ञानम् ।
जानन्नपि सुन्दरिमातर्न न गुरोरधिकं न गुरोरधिकम् ॥ १॥
प्राणं देहं गेहं राज्यं भोगं मोदा भक्तिं पुत्रम् ।
मन्ये मित्रं वितकलत्रं न गुरोरधिकं न गुरोरधिकम् ॥ २॥
वानप्रस्थं यतिविधधर्मं पारमहंस्यं भिक्षुक चरितम् ।
साधो सेवा बहुसुरभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ३॥
विष्णो भक्तिः पूजन चरितं वैष्णवसेवा मातरि भक्तिम् ।
विष्णोरिव पितृसेवनयोगो न गुरोरधिकं न गुरोरधिकम् ॥ ४॥
प्रत्याहारं चेन्द्रियजपताप्राणायामंन्यानिर्विधानम् ।
इष्टै पूजाजपतपभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ५॥
काली दुर्गा कमला भुवना त्रिपुरामीमां बगलापूर्णा ।
श्रीमातङ्गी धूमा तारा एता विधात्रिभुवनस्तरा
न गुरोरधिकं न गुरोरधिकम् ॥ ६॥
मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् ।
अवतारादिकमन्यत् सर्वं न गुरोरधिकं न गुरोरधिकम् ॥ ७॥
श्रीरघुनाथं श्रीयदुनाथं श्रीभृगुदेवं बौद्धं कल्किम् ।
अवतारानिति दशकं मन्ये न गुरोरधिकं न गुरोरधिकम् ॥ ८॥
गङ्गा काशी काञ्ची द्वारा मायाऽयोध्याऽवना मथुरा ।
यमुना रेवा परतरतीर्थं न गुरोरधिकं न गुरोरधिकम् ॥ ९॥
गोकुल गमनं गोपुररमणं श्रीवृन्दावनमधुपुर भटनम् ।
एतत् सर्वं सुन्दरिमातर्न गुरोरधिकं न गुरोरधिकम् ॥ १०॥
तुलसीसेवा हरिहरभक्तिर्गङ्गासागरसङ्गममुक्तिम् ।
किमपरमधिकं कृष्णोभक्तिरेतत्सर्वं
सुन्दरिमातर्न गुरोरधिकं न गुरोरधिकम् ॥ ११॥
एतत् स्तोत्रं पठति च नित्यं मोक्षज्ञानी सोऽयति धन्यः ।
ब्रह्माण्डान्तर्यद्यद् ज्ञेयं सर्वं न गुरोरधिकं न गुरोरधिकम् ॥ १२॥
॥ इति बृहत्पाकं हंस्यां संहितायां श्रीशिवपार्वती
संवादे श्रीगुरुस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by DPD