नवनागनामस्तोत्रम्
श्रीगणेशाय नमः ।
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥
एतानि नवनामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥
॥ इति श्रीनवनागनामस्तोत्रं सम्पूर्णम् ॥
Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com