श्रीरामकृष्णपरमहंसोपदेशावलिः १
वियत्तले सूर्यविभाप्रभावाद्
यथा दिवा खे न विभान्ति भानि ।
विभुन्तथा मोहबलाद्दृष्ट्वा
निरीश्वरं केऽपि वदन्ति विश्वम् ॥ १॥
अप्यब्धिनीरं लवणेन पूर्णं
नास्वादनात् प्रागवगम्यते कैः ।
इदं जगत् पूर्णमपीशशक्त्या
कस्तां विजानाति विना सुचेष्टाम् ॥ २॥
उड्डीयमानो वियतीह गृध्रो
दृष्टिं यथायं कुणपेषु धत्ते ।
दृष्टिस्तथा यात्यपि पण्डितानां
निरर्थकेष्वर्थयशःसु नित्यम् ॥ ३॥
यतोऽभ्यासात् स्वभावोऽयं स्त्रीपुंसां जायते ध्रुवम् ।
यतः सर्वः सदैवेह स्वभावमनुवर्तते ।
कदभ्यासं ततः सर्वो विहाय सत्स्वभावतः ।
सद्भावान् समनुष्ठाय विमलानन्दभाग् भवेत् ॥ ४॥
कृपणेषु यथार्थेषु स्पृहास्ति बलवत्तमा ।
तथैव तव लोभोऽस्तु श्रीहरेः पादसेवने ॥ १॥
फलोदये क्षयं यान्ति यथा पुष्पदलानि वै ।
ज्ञानोदये तथा ह्यत्र मानमोहमदान्धताः ॥ २॥
हृदाकाशमिदं यावद् वासनातमसावृतम् ।
ब्रह्मसूर्योदयस्यास्मिन् तावद् वै सम्भवः कुतः ? ॥ ३॥
तावद् गुञ्जति भृङ्गोऽयं यावत् पुष्पं न गच्छति ।
पुष्पालिङ्गनमासाद्य निःशब्दो मधुपः सदा ॥ ४॥
तथायं पण्डितस्तावद् वादतर्कपरायणः ।
पाण्डित्यघोषणायोच्चैः शास्त्रार्थकथनोत्सुकः ॥ ५॥
शास्त्राणां प्रतिपाद्यस्य सर्वेषामीश्वरस्य तु ।
यावन्न लभते भक्तिं पादपङ्कजयुग्मयोः ॥ ६॥
यदा तु तत्कृपालेशात् तद्भक्तिं लभते पराम् ।
तदालोकननिर्वृत्या निश्चेष्टो जायते तदा ॥ ७॥
चित्ते मायापरिच्छिन्ने विभुर्नैव विकाशते ।
रूपं मलसमाच्छन्ने दर्पणे किं प्रकाशते ? ॥ ८॥
यथा घनघटाकाशे सूर्यमावृत्य तिष्ठति ।
महामाया तथैवेह विभुमावृत्य वर्तते ॥ ९॥
मायायां विगतायान्तु विभुः सर्वत्र भाष्यते ।
जलदेऽपगते सूर्यो यथा सर्वत्र दीप्यते ॥ १०॥
तरङ्गसङ्कुलेऽम्भोधौ चन्द्रबिम्बानि खण्डशः ।
खेलन्तीव यथा चन्द्रं संविभज्य सहस्रशः ॥ ११॥
तथा सुचञ्चले चित्ते संसाराबद्धचेतसाम् ।
पवित्रेऽपि ब्रह्मभावाः क्षणमायान्ति यान्ति च ॥ १२॥
सहस्रवत्सरव्यापि-तमःपूर्णगृहोदरम् ।
सर्वत्र द्युतिमद्भाति दीपयोगाद्यथाञ्जसा ॥ १३॥
मनोमलं किल्बिषाख्यं सहस्रजन्मसञ्चितम् ।
श्रीहरेः करुणालेशात् तथा तूर्णं पलायते ॥ १४॥
त्यजन्ति सात्त्विकाः सर्वं कथं गोविन्दमानसाः ।
धनं धान्यं यशोमानं पुत्रदारगृहादिकम् ? ॥ १५॥
विस्मृत्य निखिलान् भोगान् विहाय जीवितस्पृहा ।
पतङ्गोऽयं यथा याति प्रदीप्तज्वलनं प्रति ॥ १६॥
यथापि मक्षिका तूर्णं तुच्छीकृत्य स्वजीवितम् ।
परमानन्दमास्थाय मधुभाण्डे निमज्जति ॥ १७॥
तथेतररसान् सर्वान् विस्मृत्य संविहाय च ।
श्रीविष्णुमुपगच्छन्ति भगवत्परमायणाः ॥ १८॥
जलं यथा भिन्ननामभिः ब्रुवते जनाः ।
``ओवाटरिति'' वा केचिद् ``आकोवा'' इति वा परे ॥ १९॥
``पानीति'' वा वदन्त्येके त्वभिन्नं सलिलं भुवि ।
तथैवं सच्चिदानन्दं नामभिर्बहुभिः पृथक् ।
वदन्ति भिन्नपुरुषा ``अल्ला'' ``गाॅड्'' ``जिहोवे''-ति वा ॥ २०॥
``अधुनैव मया दृष्टः कृकलासो मनोहरः ।
वृक्षशाखाग्र-भागेऽस्मिन् रक्तवर्णः समुज्ज्वलः ॥ २१॥
पत्रान्तरं प्रविष्टोऽसौ इदानीन्तु न दृश्यते ।
किं भ्रातः स त्वया दृष्टः सरटो भृशमद्भतः'' ॥ २२॥
भ्रातर्मयापि दृष्टोऽसौ नूनं पीतो न रक्तभाक् ।
तस्य तद्वचनं श्रुत्वाऽब्रवीत्तं प्रथमोऽध्वगः ॥ २३॥
``किं कामलरुजा भ्रातर्दृष्टिस्ते कलुषीकृता ।
कथं त्वं मन्यसे पीतममुं कोकनदच्छविम्'' ॥ २४॥
परिहासमिमं श्रुत्वा तमुवाच ततोऽपरः ।
``नाहं कामलवानस्मि न मे दृष्टिर्भ्रमात्मिका'' ॥ २५॥
``पीतं द्रक्ष्यामि शोनं चेद् यास्यामि दुष्टदृष्टिताम् ।
पीतान् सरटनिवहान् विधाता सृष्टवान् पुरा ॥ २६॥
रक्तोऽसौ सरटो नूनं नवसृष्टिस्तवाधुना ।''
इत्थं विवदमानौ तौ तृतीयः प्राप्तवान् पथि ।
साग्रहं समकालञ्च तं प्राप्य पृच्छतः स्म तौ ॥ २७॥
भ्रातर्यदि विजानासि सत्यं नु वद साम्प्रतम् ।
``किंवर्णः सरटो भाति पीतः किमुत लोहितः ''॥ २८॥
तयोस्तद्वचनं श्रुत्वा सस्मितं तावुवाच नः ।
``युवयोर्वचने सत्यं बहुरूपः स एव हि ॥ २९॥
पत्रान्तरेऽसौ हरितोऽपि भूत्वा चापेक्षते कालवशात् प्रनेयान् ।
आहार्यकीटानतितीक्ष्णदृष्टिः स्वपत्रवर्णाच्च सुगुप्तदेहः ॥ ३०॥
आहार्यमाहर्तुमनेकरूपं प्रयोजनस्यानुमतं स धत्ते ।
स्वभावमित्यस्य निरीक्ष्य धीरा इमञ्च नित्यं बहुरूपमाहुः ॥ ३१॥
अनन्तभावस्य च विश्वमूर्तेर्दभ्रान् विभिन्नानधिगम्य भावान् ।
परस्परं मूढमनुष्यसङ्घाः इत्थं पृथिव्यां विवदन्त एव ॥ ३२॥
युवां ततो नार्हथ एवमेव चित्ते निधातुं खलु दीनभावम् ।
नान्यस्य धर्मे कुरुतञ्च निन्दां सर्वे विवादा हि तमःप्रसूताः ॥ ३३॥
इति ।
Encoded and proofread by Sunder Hattangadi