श्रीरमणलहरी

श्रीरमणलहरी

॥ नमो भगवते श्रीमते रमणाय ॥ यतो जन्माद्यस्य प्रभवति च यः कूटनिलयो मुदा यन्माहात्म्यं प्रणिगदति नित्यं श्रुतिगणः । शिवं शुद्धं शान्तं निरवधिसुखं सत्यममलं परं वन्देऽहं तत्किमपि रमणाख्यं चितिमहः ॥ १॥ मतो हृत्पद्मोसावरुणगिरिराजोऽखिलभुवो यदन्तश्चैतन्यं तदिह रमणो दक्षिणगतः । सतां सर्वेषां यो हृदि हि रमते स्वात्मकलया नमस्तस्मै भूम्ने हृदयरमणायानवरतम् ॥ २॥ जडं देहं नश्यद्घटपटनिभं चिद्विरहितं ततो नाहं तद्यन्न हि भवति सुप्तौ प्रतिदिनम् । अतः कोऽहं तत्त्वं त्विति वरधियान्वेषितवतः सतः सोऽहंसस्फूर्तिर्हृदरुणगिरौ भाति रमणः ॥ ३॥ मनःसङ्कल्पोऽयं त्रिभुवनमयो दृश्यनिचयो ममैते सङ्कल्पा इति शितधियाऽऽलोक्य सततम् । अहं को वेत्यन्तर्हृदि निजविमर्शे परिणते चिदानन्दः सोऽहं स्फुरति भगवांस्तत्र रमणः ॥ ४॥ जराद्यूर्मिव्राताऽऽकुलविषमसंसारजलधे- स्त्रिधातप्ताञ्जीवान्नरमृगखगाद्यान्करुणया । समुद्धर्तुं शोणाचलतटनिवासी कलियुगे सदानन्दः सिद्धो जयति रमणाख्यः स भगवान् ॥ ५॥ अहिंसासिद्धान्तप्रणिहितदयाधर्मसयुजां यतीनां बौद्धानां जिनदशवलाखण्डमतिनाम् । यिशूपद्भक्तानां तदनु रमणेशान भगवन् जिनोऽसि त्वं बुद्धः क्रमश इह हीशामसिरसि ॥ ६॥ कुरानध्येत्रीणामिह जगति मोहम्मदगुरोः समागच्छन्तीनां शमितमनसेस्लामविधितः । प्रजानां सम्प्राप्यं यदुत परमं दैवमुदितं खुदाचालाहस्त्वं रमणभगवन्न्योमतनुमन् ॥ ७॥ पदार्थानूचे गौतममुनिवरः षोडशतया कणादस्सप्तैवेत्यवददथ वैशेषिक ऋषिः । पदार्थानामेषां त्रिगुणविकृतानामणुभुवां परं पारं ब्रह्मंस्त्वमसि रमणाशेषरमण ॥ ८॥ अनादी प्रोक्तौ हि प्रकृतिपुरुषौ विश्वजनकौ ययोर्भेदज्ञानाद्भवति मनुजो मुक्तपुरुषः । इदं साङ्ख्यं ज्ञानं समकथयदादौ तु कपिल- स्त्वमेवैतत्तत्त्वं परममसि कैवल्यरमण ॥ ९॥ अहिभ्रान्तीरज्ज्वां रजतधिषणा शुक्तिपुटके तथैवं चिद्रूपे निरवधिसुखे विश्वकलना । इतीदं यत्तत्त्वं परमसुखदं शाङ्करमते तदद्वैतं धाम त्वमसि भगवत्पाद रमण ॥ १०॥ जगद्रङ्गे चित्रे ललितपटमाल्यादिलसिते नटास्त्वेते सर्वे स्थलजलखगाः प्राणिनिवहाः । महामायाऽजा या चपलचपला सैव सुनटी । महासूत्राचार्यो रमण सकलं त्वं भ्रमयसि ॥ ११॥ त्वमग्निस्त्वं सोमस्त्वमसि पवनस्त्वं जलमसि त्वमर्कस्त्वं पृथ्वी वियदपि महत्तारकगणः । तथा विश्वे देवास्त्वमसि वरुणस्त्वं सुरपति- र्यमो रुद्रोऽसि त्वं रमण धनदो गीष्पतिरसि ॥ १२॥ जगत्स्रष्टा ब्रह्मा भवसि भगवन् सृष्टिसमये जगत्त्राता विष्णुस्त्वमसि किल विश्वम्भरवपुः । महादेवोऽसि त्वं निखिलभवसंहारविभव- स्त्रयोऽप्येते देवास्तव रमण लीलाविलसिताः ॥ १३॥ शिवस्त्वं शैवानां हरिरसि मुकुन्दाङ्घिसुहृदां भवानी शाक्तानां गणपभजकानां गणपतिः । रविस्त्वं सौराणामसि हुतवहस्त्वं हि यजतां द्विजानां सावित्री वद रमण किं किं न भवसि ॥ १४॥ मणिद्वीपे नीपोपवनगतचिन्तामणिगृहे समासीना पाशाङ्कुश वरभयापोहनभुजा । त्रिणेत्रा रक्ताभा शशधरकिरीटाऽतुलकृपा स्मितास्या किं न त्वं रमण भुवनाधीश्वरवधूः ॥ १५॥ पिता पाता नेता त्वमसि विषमे साधनपथे प्रभो माताऽसि त्वं ह्यनुपमदयामूर्तिरमला । गुरुस्त्वं चोद्धर्ता सुखरहित संसारजलधे- स्त्रिरूपो भासि त्वं रमणभगवंस्ते पदजुषाम् ॥ १६॥ मुमुक्षूणां मान्या त्वमसि भगवन्मुक्तिलतिका सुखेच्छूनां नॄणां त्वमसि सुखसोपानपदवी । मखासक्तानां त्वं ह्यसि विवृतवैतानकविधि- स्तपोनिष्ठानां त्वं रमण महितः सिद्धिमहिमा ॥ १७॥ निराकारोऽपि त्वं भवसि विविधाकारविभव- स्त्वमद्वैती द्वैती ननु लससि विश्वात्मकतनुः । त्वमेकोऽनेकात्मा स्फुरसि निखिलाकाररुचिरः प्रकाशोऽदृश्यश्च त्वमसि रमणाचार्य भगवन् ॥ १८॥ विराडग्निर्विश्वस्त्वमसि महसा जाग्रति तथा हिरण्यान्तः स्वप्ने भवसि पवनस्तैजस इति । सुषुप्तावीशस्त्वं दिनकरतनुः प्राज्ञ उदित- स्तुरीये धाम्नि त्वं रमण हृदये ह्योमिति पदम् ॥ १९॥ मनो न त्वं बुद्धिर्न भवसि तया नेन्द्रियगण- स्त्वहङ्कारो न त्वं प्रकृतिरसि न त्वं न विकृतिः । अविद्याऽनादिस्त्वं न भवसि न दृग्दृश्यनिचय- श्चिदानन्दः सत्यं त्वमसि परमं ब्रह्मरमण ॥ २०॥ वसिष्ठो नैव त्वं भवसि न तथा गौतममुनि- र्भरद्वाजोऽत्रिस्त्वं न हि बहुमतः कौशिक उत । न वा मारीचस्त्वं सुभग जमदग्निस्त्वमपि नो महः सप्तर्षीणामयि रमण लोकोत्तरमसि ॥ २१॥ कलेर्दोषान्नानाकलुषमतिपाषण्डकलिते विधर्मेऽस्मिन्विश्वे पिबति तव वाक्यामृतकणान् । जनौघः सर्वोऽपि श्रवणबलतस्तृप्तिमयते प्रभावः सम्पूर्णस्तव रमण जागर्ति जगति ॥ २२॥ अहो धन्येयं ते जननवशतो भारतमही ह्यवाची दिग्धन्या तव पदसरोजाङ्कनवशात् । शिवाकारो धन्यस्त्वरुणगिरिरुत्तुङ्ग शिखरो महर्षे यत्र त्वं विहरसि सतामाप्त रमण ॥ २३॥ सुराः सिद्धाः साध्या यमनियमयुक्ताः सुतपसः सुरर्षिब्रह्मर्षिप्रभृतय उतान्ये च यमिनः । मुहूर्ते ब्राह्मे तु श्रुतिमधुरनानास्तुतिपराः नमन्ति त्वां ब्रह्मन् रमण करुणापूर्णजलधे ॥ २४॥ स्फुरच्छान्तिज्योत्स्नातुलितशिवकैलासमहिमा लसत्कैवल्यश्रीहसितहरिवैकुण्ठगरिमा । विरागैश्चर्याभासुविजितसुधासागरयशाः कृपाब्धेः शोणाद्रौ जयति रमणस्याश्रमवरः ॥ २५॥ कपोले वामे स्वं करकमलमाधाय विमले शयानश्चोत्तानं क्षितिजगतनेत्राब्जयुगलः । ऋषिः शान्तः सोऽहंस्फुरणपरमानन्दमुदितः शिवः पूर्णः साक्षी जयति रमणः शोणकटके ॥ २६॥ स्मितं वक्त्रे शुभ्रं करकमलमुद्रा सुखकरी स्वभावस्थौ पादौ निजसहजभावस्थितमनाः । वसानः कौपीनं धवलमवधूताखिलतमाः परात्मा शोणाद्रौ रमणभगवान्भाति भयहृत् ॥ २७॥ कटाक्षक्षेपस्ते हरति हृदयध्वान्तमखिलं दयादृष्टिः पूर्णा प्रकटयति विज्ञानमिहिरम् । ददातीषद्धास्यं प्रणतमनुजायात्मपदवी- ममेयस्ते धन्यो रमणमहिमा वागविषयः ॥ २८॥ रकारोऽग्निर्ब्रह्मन् दहति सहसा सञ्चितमलं मकारश्चन्द्रोऽयं हरति तपनं सिञ्चति सुधाम् । णकारश्चार्को हन्त्यलघु निबिडाज्ञानतिमिरं विभूतिस्त्वन्नाम्नो जयति रमणेशान जगति ॥ २९॥ समुद्धर्तुं लोकान्कलिमलहतांस्तप्तहृदयान् सुराणां सेनानीः सदयमवतीर्णस्त्वमधुना । अवेक्ष्य प्रत्यक्षं रमणभगवंस्त्वामनुजगौ कविः कण्ठेकाव्यो गणपतिमुनिस्सूरितिलकः ॥ ३०॥ प्रसादात्सम्प्रार्थ्यादपि सुरवरेभ्यस्तव कृपां परं मत्त्वा छित्त्वा तृणमिव निजाज्ञाननिगडम् । विनिद्रश्चिद्रूपे निरवधिसुखे मज्जति सुधीः स पुण्यानां मन्ये रमण परिणामः परगुरो ॥ ३१॥ असारे संसारे विषयमृगतृष्णाभ्रमितधी- श्चरन्नानायोनौ प्रबलतरसत्कर्मवशतः । इदानीं सम्प्राप्तश्चरणकमलं ते भयहरं महर्षे ब्रह्मर्षे रमणभगवस्त्वं हि शरणम् ॥ ३२॥ फलासक्तः कुर्वन्विविधमनिशं कर्म बहुधा भ्रमन्नानातीर्थं भुवि बत पठञ्छास्त्रनिकरम् । अशान्तः सर्वत्राविदितनिजरूपोऽहमधुना शरण्यं प्राप्तस्त्वां रमणभगवंस्त्वं हि शरणम् ॥ ३३॥ जपन्नानामन्त्रान्त्स्तवमपि सुराणां विरचयन् लिखन्यन्त्रांस्तान्त्रं मतमपि विशन्वैदिकमुत । स्वरूपाज्ञानेन प्रबलतमसाच्छादितमति- स्त्वयाभासां धाम्ना सदयमवलोक्योऽहमधुना ॥ ३४॥ महामोहेनाहो विषमविषयानेव भजतः स्वतत्त्वावस्थानं त्यजत उदये दुर्लभतमम् । विहायान्तर्दृष्टिं बहिरविरतं धावत इह प्रभो क्षन्तव्यं मे रमण चपलस्यापचरितम् ॥ ३५॥ त्रयी ज्ञानं योगस्त्विति विदितमार्गत्रयपरा यथेच्छं गच्छन्तु स्वरुचिमनुसृत्यात्र मनुजाः । अहं तु त्वत्पादाम्बुजशरणदीक्षाविमलधी- र्जगत्सर्वं लोके रमणभगवन्स्वप्नसदृशम् ॥ ३६॥ पथः सर्वान्हित्वा भ्रमणपरितप्तः श्रमयुतः प्रपन्नोऽहं भक्तः पदसरसिजं ते ह्यभयदम् । शरण्यः शक्तो मां रमणभगवन्नोद्धरसि चे- त्त्वदन्यं कं लोके शरणमधुना यामि कथय ॥ ३७॥ निबद्धं हृद्ग्रन्थिं मम सपदि सम्भेदय विभो समस्तं सञ्छिन्धि त्वमथ भगवन् संशयमपि । क्षयं द्राक्सर्वाणि प्रणय मम कर्माणि दयया परं त्वं स्वात्मानं प्रथय रमणेशान हृदये ॥ ३८॥ त्वमात्मा विश्वेषां हृदयकुहरे भासि विमलः परात्मंस्ते दिव्यं पदसरसिजद्वन्द्वमधुना । प्रपन्नोऽस्मि ब्रह्मन् गुरुरमण मां शाधि कृपया यथाहं गच्छेयं भवजलधिपारं तव पदम् ॥ ३९॥ अहं दैन्यागारस्त्वमसि विभवानां जननभू- र्महामूढोऽहं त्वं ह्यसि निखिलविज्ञाननिलयः । पिपासाश्रान्तोऽहं त्वमसि शिवपीयूषलहरी गुरुस्त्वं शिष्योऽहं रमणभगवन्पाहि दयया ॥ ४०॥ कराले सिंहास्ये यदि पतति हा प्राणिनिकरः प्रणष्टो निर्जीवो भवति विकलश्च प्रकृतितः । तवाचार्यस्यैवं ह्यमलकरुणादृष्टिकलया भवेन्नष्टो जीवो भुवि रमण मन्येऽद्भुतमिदम् ॥ ४१॥ मुमुक्षुर्जिज्ञासुर्य इह मनुजः पूर्वसुकृतैः श्वपाको गोरुण्डो यवनकुलजो वा भवतु किम् । स याति त्वद्वक्त्रप्रसरदुपदेशात्मसुधया परं मृत्योः पारं रमण तव साम्यं च भजति ॥ ४२॥ सभाष्यं सिद्धान्तं तव महितसद्दर्शनगतं हृदा पायं पायं रमणभगवन् पण्डितगणः । प्रहृष्टस्तृप्तात्मा भवति गतसन्देहतिमिरो न कस्मै त्वद्वाणी दिशति शिवकैवल्यपदवीम् ॥ ४३॥ कुतोऽयं संसारः प्रभवति कुतोऽज्ञानतिमिरं कुतो जीवेशानौ भवति कथमद्वैतधिषणा । स्वतत्त्वस्य ज्ञाने किमिह गुरुशिष्यत्वकथनं चिदानन्दाकारे जयति रमणे श्रीभगवति ॥ ४४॥ अनित्ये लोकेऽस्मिन्नसुखभरितेऽवाप्य जननं परं नित्यं सत्यं हृदयरमणं शाश्वतसुखम् । भवन्तं प्राप्ता ये रमणभगवन् पुण्यपुरुषाः कृतार्थत्वं तेषां कथमिव कवीन्द्रः कथयतु ॥ ४५॥ विदित्वा यं देवं तरति भुवि मृत्युं तनुधरो यतो नान्यः पन्था इति भणति मुक्त्यै श्रुतिरपि । त्वमेवायं देवो हृदयरमणः सर्वजगतां महात्मन्त्सम्पूज्ये जगति महिमा ते विजयते ॥ ४६॥ विना स्वात्मज्ञानं क्वचन मनुजः कोऽपि विमलां कदाचिद्यात्युर्व्यां कथमपि न निर्वाणपदवीम् । इति ज्ञानज्योतिः प्रकटितवतो भारतभुवि प्रभा ते ब्रह्माण्डे रमण लसतीशानयशसा ॥ ४७॥ अहं ब्रह्मास्मीति श्रुतिहृदि वचस्तत्त्वमसि चे- त्ययं ह्यात्मा ब्रह्मेत्यपि गदितमित्थं यदमलम् । चिदानन्दः सत्यं तदसि रमण ब्रह्म परमं ह्यहं त्वं त्वं चाहं ननु रमण नानास्ति किमिह ॥ ४८॥ परं ब्रह्मानन्दं विमलमनघं शाश्वतमजं शिवं पूर्णं शान्तं परमशुभरूपं ह्यभिनवम् । प्रपञ्चातीतं शं त्रिगुणरहितं नित्यमुदितं महर्षिं वन्दे श्रीरमणभगवन्तं हृदि मुदा ॥ ४९॥ नमस्ते पूर्णाय त्रिभुवनमयायाखिलविदे नमस्ते नित्याय प्रकृतिरहितायात्ममहसे । नमस्ते शुद्धाय प्रणतजननाथाय विभवे नमस्ते भूम्ने श्रीरमणगुरवे श्रीभगवते ॥ ५०॥ नमो मह्यं कर्त्रे निखिलभुवनाधारवपुषे नमो मह्यं ज्ञात्रे वयुनमयरूपाय कवये । नुमो मह्यं धात्रे नगवरनिवासाय मुनये नमो मह्यं भर्त्रे हृदयरमणायेह सततम् ॥ ५१॥ विशेषार्था लघ्वी ``नरपतिमृगेन्द्रेण'' भणिता पुनाना स्वात्मानं रमणलहरीयं विजयते । अनेन स्तोत्रेण स्मरति रमणं यः शुभमतिः प्रसादस्तस्यास्य प्रवहति परस्याखिलगुरोः ॥ ५२॥ इति श्रीनरेन्द्रकेसरिशर्मप्रणीता श्रीरमणलहरी ॥ श्रीरमणार्पणमस्तु ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : ramaNalaharI
% File name             : ramaNalaharI.itx
% itxtitle              : ramaNalaharI (narendrakesarIvirachitam)
% engtitle              : ramaNalaharI
% Category              : laharI, deities_misc, gurudev, ramana
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Narendrakesarisharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Scan 1 , 2)
% Latest update         : January 6, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org