स्त्रीगुरु ध्यानस्तुतीकवचं गीता विविध तन्त्रे
॥ अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले ॥
पार्वत्युवाच ॥
गुरुध्यानं श्रुतं नाथ ! सर्वतन्त्रेषु गोपितम् ।
स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ॥ १॥
बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि ।
स्त्रीगुरुर्लभ्यते नाथ ! तस्या ध्यानन्तु कीदृशम् ॥ २॥
कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् ।
कथयस्व महादेव ! यद्यहं तव वल्लभा ॥ ३॥
शिव उवाच ॥
शृणु पार्वति ! वक्ष्यामि तव स्नेहपरिप्लुतः ।
रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः ॥ ४॥
सहस्रारे महापद्मे किञ्जल्कगणशोभिते ।
प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा ॥ ५॥
प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् ।
पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् ॥ ६॥
रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् ।
शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् ॥ ७॥
स्वनाथवामभागस्थां वराभयकराम्बुजाम् ।
इति ते कथितं देवि ! स्त्रीगुरोर्ध्यानमुत्तमम् ।
गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ॥ ८॥
अथ स्तुतिः ॥ मातृकाभेदतन्त्रे सप्तपटले ॥
देव्युवाच ॥
स्तुतिञ्च कवचं नाथ ! श्रोतुमिच्छामि साम्प्रतम् ।
श्रीगुरोः कवचं प्रोक्तं त्वया नाथ ! पुरा प्रभो ! ॥ १॥
इदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न जायते ॥ २॥
श्रीशिव उवाच ॥
शृणु देवि ! प्रवक्ष्यामि स्तोत्रं परमगोपनम् ।
यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ १॥
नमस्ते देवदेवेशि ! नमस्ते हरपूजिते ! ।
ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ २॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ ३॥
भवबन्धनपारस्य तारिणी जननी परा ।
ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः ॥ ४॥
श्रीनाथवामभागस्था सदया सुरपूजिता ।
सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ५॥
सहस्रारे महापद्मे सदानन्दस्वरूपिणी ।
महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ ६॥
ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी ।
त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ ७॥
चन्द्रसूर्य्याग्निरूपा च मदाघूर्णितलोचना ।
स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ ८॥
ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी ।
ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः ॥ ९॥
इदं स्तोत्रं महेशानि ! यः पठेद्भक्तिसंयुतः ।
स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ १०॥
प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् ।
स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ ।
इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् ॥ ११॥
स्तोत्रं समाप्तं देवेशि ! कवचं शृणु सादरम् ।
यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् ।
॥स्त्रीगुरुकवचम् ॥
विनियोगः -
स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः ।
ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा ॥ १॥
क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु ।
ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ॥ २॥
श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् ।
हकारः कण्ठदेशं मे सकारः षोडशं दलम् ॥ ३॥
क्षवर्णस्तदधः पातु लकारो हृदयं मम ।
वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् ॥ ४॥
यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च ।
हकारो मे दक्षभुजं क्षकारो वामहस्तकम् ॥ ५॥
मकारश्चाङ्गुलीं पातु लकारो मे नखं वतु ।
वकारो मे नितम्बञ्च रकारो जठरं वतु ॥ ६॥
षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु ।
हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ॥ ७॥
ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु ।
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ ८॥
श्रीं पातु चाग्निकोणे च वेदाख्या नैरृतेऽवतु ।
देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा ॥ ९॥
पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु ।
इति ते कथितं कान्ते ! कवचं परमाद्भुतम् ॥ १०॥
गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि ।
ससिद्धः सगणः सोऽपि शिव एव न संशयः ॥ ११॥
पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् ।
पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ! ॥ १२॥
त्रिसन्ध्यं यः पठेद्देवि ! स सिद्धो नात्र संशयः ।
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ॥ १३॥
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ।
विवादे जयमाप्नोति रणे च निरृतेः समः ॥ १४॥
सभायां जयमाप्नोति मम तुल्यो न संशयः ।
सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि ॥ १५॥
स एव सिद्धो लोकेशो निर्वाणपदमीयते ।
समस्तमङ्गलं नाम कवचं परमाद्भुतम् ॥ १६॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ॥ १७॥
अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शयेत् ।
इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् ॥ १८॥
स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् ।
समाप्तं कवचं देवि ! किमन्यत् श्रोतुमिच्छसि ।
तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ १९॥
॥ इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् ॥
॥ अथ स्त्रीगुरुगीता । कङ्कालमालिनीतन्त्रे द्वितीयपटले ॥
पार्वत्युवाच ॥
लोकेश ! कथ्यतां देव ! गुरुगीता मयि प्रभो ! ।
श्रीभगवानुवाच ॥
शृणु तारिणि ! वक्ष्यामि गीतां ब्रह्ममयीं पराम् ।
गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः ॥ १॥
त्वमेव गुरुरूपेण लोकानां त्राणकारिणी ।
गया गङ्गा काशिका च त्वमेव सकलं जगत् ॥ २॥
कावेरी यमुना रेवा करतोया सरस्वती ।
गोमती चन्द्रभागा च त्वमेव कुलपालिके ! ॥ ३॥
ब्रह्माण्डं सकलं देवि ! कोटिब्रह्माण्डमेव च ।
न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि ! ॥ ४॥
उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे ! ।
कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् ॥ ५॥
तव चक्रं महेशानि ! अतीतं परमात्मनि ।
इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः ॥ ६॥
सङ्क्षेपेण महेशानि ! प्रभुरेव गुरुः स्वयम् ।
जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् ॥ ७॥
इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा ।
नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः ॥ ८॥
॥ इति स्त्रीगुरुगीता समाप्ता ॥
http://muktalib5.org
Proofread byDPD