सद्गुरुश्रीत्यागब्रह्मपुष्पाञ्जलिः

ॐ सद्गुरुश्रीत्यागब्रह्मपुष्पाञ्जलिः अष्टोत्तरशतत्रिशतिपञ्चशतिसहस्रनामावलिकदम्बकं शरणागतिगद्यं मङ्गलाष्टकं च । श्रीमती पुष्पा श्रीवत्सन् । SADGURU SRITYAGABRAHMA PUSHPANJALI (Astottarasata, Trisati, Pancasati and Sahasranamavali-s, Sadguru Saranagati Gadyam, and Mangalastakam.) by Smt. Pushpa Srivatsan Copyright : Smt. Pushpa Srivatsan 1994 All rights reserved by the author. Neither the whole nor any part or parts of this publication may be reproduced, translated or adapted, stored in a retrieval system or transmitted, in any form or by any means whatsoever, whether electronic, mechanical, photocopying, recording or otherwise, without the prior written permission of the author.

Introduction

Sadguru Sri Tyagabrahmam (more commonly known as Saint Tyagaraja) was a saint who lived in the 18th century in Tiruvaiyaru (Panchanadakshetra) near Tanjore in Tamilnadu. He was an intense Rama bhakta and a Nada Yogi. He is said to have sung about 24,000 kirtanas (even as an incarnation of Valmiki) though only about 800 are available today. His songs are in Telugu, his mother tongue, and Sanskrit. They are mostly on Sri Rama. He has also sung on other deities. He recited Rama Nama about 96 crore times and was blessed with the vision of Sri Rama. . His songs reveal his intense experience of Sri Rama wherein he converses, pleads with, chides, adores and finally merges with Him in deep samadhi. In fact he was always in a Sahaja Samadhi state. His life was Ramamayam. He rejected the riches offered by the Tanjore king to sing in his court and said he would sing only before his Rama. His annual aradhana is conducted every year at his Samadhi shrine in Tiruvaiyaru on Pushya Bahula Panchami. Shrimati Pushpa Srivatsan is an intense bhakta of Sadguru and worships Him even as He worshipped His Rama. Her book reveals his personality, his songs and his vedantic teachings. You may read her preface and then the whole book (linked in the end) to get a clear picture of Sadguru Sri Tyagabrahmam.

सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः ॥ ॐ त्यागराजाय विद्महे । नादब्रह्मणे धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ अष्टोत्तरशतनामावलिः । ॐ ॥ मङ्गलस्वरूपश्रीसद्गुरुस्वामिसच्चरणारविन्दमेव शरणम् ॥ ॐ नादब्रह्मावताराय नमः । ॐ नारदांशभूताय नमः । ॐ करुणारस-परिपूर्णाय नमः । ॐ परमहंसाय नमः । ॐ ज्ञाननिधये नमः । ॐ रामभक्तिवपुषे नमः । ॐ मृदुतम-सत्त्व-सुभाषिणे नमः । ॐ मधुरगानमूर्तये नमः । ॐ रोधरहित-नादौघादिमूलाय नमः । ॐ स्वरलय-निलयाय नमः । ॐ कोकिलगान-सुकवीशाय नमः । ॐ सङ्गीतसाम्राज्याधिपतये नमः । १२ ॐ सुस्वरालय-नित्यवास-रसिक-दैवकाय नमः । ॐ एकाग्रचित्त-स्मरणार्द्रीभूत-भक्ताश्र्वभिषिक्त-पदपङ्कजाय नमः । ॐ तुम्बर-झल्लक-प्रसाधित-करकमलाय नमः । ॐ अक्षय-सुगन्ध-सुस्वर-पुष्पावल्यलङ्कृत-वक्षस्थलाय नमः । ॐ हरिगुण-मुक्ताहार-शोभितकण्ठाय नमः । ॐ श्रीरामनाम-परितुष्टि-विकसितवदनाय नमः । ॐ नामप्रभाव-स्वानुभव-बाष्पाकुल-दीप्रलोचनाय नमः । ॐ श्रीरामनाम-गानलय-लीनोज्ज्वल-सुमुखमण्डलाय नमः । ॐ तेजोमयगात्राय नमः । ॐ सत्त्वमूर्तये नमः । ॐ सगुणोपासकाय नमः । ॐ नादोपासक-वरिष्ठाय नमः । २४ ॐ श्रीराममन्दिर-झणझणायित-घण्टामणये नमः । ॐ शतकोटि-रामतारकमन्त्र-जपकाय नमः । ॐ श्रीरामध्यान-लीन-सम्मूर्च्छिताय नमः । ॐ श्रीराम-साक्षात्कारप्राप्त-महात्मने नमः । ॐ श्रीरामेण सह सरस-सम्भाषिणे नमः । ॐ श्रीरामार्पण-देहात्मने नमः । ॐ श्रीरामनाम-स्मरण-सुखस्थिताय नमः । ॐ श्रीरामकथा-सुधारस-पानमत्ताय नमः । ॐ श्रीरामभक्तिसाम्राज्य-चक्रवर्तिने नमः । ॐ श्रीसीताराम-नित्यपूजोत्सव-प्रमुदितहृदयाय नमः । ॐ श्रीरामाभरण-रागरत्नमालिका-विरचनाय नमः । ॐ श्रीरामनाम-महिमोद्घोषि-घनस्वनाय नमः । ३६ ॐ मधुरस्वर-जित-वीणावेणवे नमः । ॐ श्रुतिमनोहर-सुस्वरातिमञ्जुल-रवाय नमः । ॐ कलोत्तालामृतधारा-वाक्प्रवाहिणे नमः । ॐ श्रीरामसन्निधि-मधुस्रावि-गानानन्द-परिनर्तनाविष्टोन्मादिताय नमः । ॐ तारकनाम-स्मरण-ध्यान-समाधिस्थाय नमः । ॐ श्रीरामचन्द्र-सान्निध्य-पुलकिताय नमः । ॐ सारसपादार्पित-हृदयारविन्दाय नमः । ॐ नित्य-भजनोत्सव-निरताय नमः । ॐ भजनामृत-निमग्नाय नमः । ॐ नामकुसुमार्चन-रोमाञ्चिताय नमः । ॐ पावन-सुचरिताय नमः । ॐ सुस्वरगानार्द्राय नमः । ४८ ॐ सरिगमपधनि-वर-सप्तस्वरानन्द-नर्तनाह्लादिताय नमः । ॐ साक्षात् सुस्वरदेवतायै नमः । ॐ मूलाधारज-नाद-रहस्यज्ञ-नादयोगिने नमः । ॐ नादविद्या-मर्माभिज्ञ-गानवारिधये नमः । ॐ स्वररागसुधारसयुतभक्ताय नम । ॐ रागसुधारसपानरञ्जिताय नमः । ॐ नादसुधारसाकृतये नमः । ॐ गीतामृत-सार-वर्षिणे नमः । ॐ भक्ति-सङ्गीत-ज्ञानार्णवाय नमः । ॐ स्वरार्णवमर्मज्ञाय नमः । ॐ वीणावादन-तत्त्वज्ञाय नमः । ॐ श्रुतिशास्त्र-विशारदाय नमः । ६० ॐ भावरागतालमोदिने नमः । ॐ रागताललयलास्यरूपाय नमः । ॐ तुम्बर-सहित-गानलोलाय नमः । ॐ शिञ्जान-झल्लरी-मञ्जीर-नर्तनाय नमः । ॐ मृदङ्गनादमोदिताय नमः । ॐ सुशोभन-सप्तस्वर-सुन्दरदेवता-भजनकाय नमः । ॐ नाद-पञ्जर-कीराय नमः । ॐ गानगगनोर्ध्वगमन-मधुगायनाय नमः । ॐ सङ्गीतवन-नर्तन-मयूराय नमः । ॐ सङ्गीतानन्दसागर-विहार-वैसारिणाय नमः । ॐ श्रुतिलय-समुद्र-परिप्लुताय नमः । ॐ ध्यानगङ्गास्नानानन्दिताय नमः । ७२ ॐ गान्धर्व-गानविद्या-परिनैष्ठिकाय नमः । ॐ प्राणानल-संयोग-समुत्थ-प्रणवनाद-रहस्योपदेष्ट्रे नमः । ॐ श्रीगायत्रीहृदय-सूक्ष्मरूप-प्रकाशनाय नमः । ॐ अज्ञानतिमिरादित्याय नमः । ॐ साक्षादग्नये प्रज्वलच्छुचये नमः । ॐ मानवरूप-भूसञ्चरित-दैवताय नमः । ॐ तामसनिद्रा-भञ्जनाय नमः । ॐ तापस-हृदयताप-निर्वापकाय नमः । ॐ भयनाशनाय नमः । ॐ भवसागरोल्लङ्घनानुकूल-मारुतये नमः । ॐ संसार-मकरघ्न-चक्रायुधाय नमः । ॐ आशापाश-बन्धन-विच्छेत्रे नमः । ८४ ॐ शरणागत-हृत्खेद-शमनाय नमः । ॐ शिष्य-मनोनाश-कारकाय नमः । ॐ स्वभक्त-मनोमन्दिर-ज्वलज्ज्योतीरूपाय नमः । ॐ आश्रित-हृदयालय-नित्यवासाय नमः । ॐ प्रणयि-प्राणार्चिताय नमः । ॐ प्रपन्नानन्यगतये नमः । ॐ उपासकानुरागैकास्पदाय नमः । ॐ आराधयितृ-जीवनाधाराय नमः । ॐ शिष्यहृदय-पुष्पसुगन्ध-भक्तिमधु-रसिक-भृङ्गाय नमः । ॐ सङ्गीतसौभाग्यप्रदायकाय नमः । ॐ सुशरीर-सुस्वरानुग्राहिणे नमः । ॐ शरणार्थि-परिनिर्वृत्तिभूताय नमः । ९६ ॐ मोक्षमार्गदर्शकाय नमः । ॐ नादोपासनतत्पराय नमः । ॐ नादात्मकश्रीरामतन्मयाय नमः । ॐ ब्रह्मानन्दचिन्मयाय नमः । ॐ सच्चिदानन्दपरिपूर्णाय नमः । ॐ सङ्गीतानन्दसाराय नमः । ॐ सङ्गीतयोगब्रह्मनिष्ठाय नमः । ॐ नादचिन्तामणये नमः । ॐ नादोत्तुङ्गश‍ृङ्ग-दीपाङ्कुराय नमः । ॐ तेजोमय-जाज्वल्यमान-परमात्म-निलीनाय नमः । ॐ साक्षात्परब्रह्मणे नमः । ॐ श्रीत्यागब्रह्मसद्गुरवे नमो नमः । १०८ ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः शुभचरणयुगपुष्पे गुरुशरणार्थिपुष्पया अनुरागेण कृता अष्टोत्तरशतनामावलिः समर्पिता । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मत्रिशती

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मत्रिशती ॥ ॐ रामरामाय विद्महे नामरूपाय धीमहि । तन्नस्सुनादःप्रचोदयात् ॥ अथ त्रिशती । ॐ ॐ अद्वैतसिद्धिप्रदानन्दगुरवे नमः । ॐ इहलोकसायुज्यदेश्वराय नमः । ॐ उत्तमसङ्गीतोषोपासिताय नमः । ॐ एकान्तभक्त्यैश्वर्यप्रदाय नमः । ॐ ओंकारनादौषधाय नमः । ॐ कल्पनातिक्रान्त-सूक्ष्मरूपाय नमः । ॐ शिष्यमानस-मञ्जुसुवास-कुञ्जकुटीर-विश्रान्ताय नमः । ॐ शिष्यान्तर्गत-मङ्गलगुरवे नमः । ॐ शिष्यमनःसारमयाय नमः । ॐ मनोजवस-गुरुनाथाय नमः । ॐ व्यूतानन्यशिष्यचिन्तनाय नमः । ॐ शिष्यात्यन्त-भक्तिभाव-जाल-ग्रहकाय नमः । १२ ॐ शिष्यहृन्मन्दिराय नमः । ॐ शिष्यात्मदीपाय नमः । ॐ मङ्गलानुग्रह-वर्षण-दिव्यदीपाय नमः । ॐ शिष्यानुरागाकाराय नमः । ॐ तपःपुष्पोपासित-सूक्ष्मचरणाय नमः । ॐ शिष्यैकभाव्याभिषिक्ताय नमः । ॐ शिष्यैक्यभाव-दुकूलाय नमः । ॐ शिष्यानवरत-स्मरणार्चिताय नमः । ॐ सविकाश-मानसपुष्पार्पिताय नमः । ॐ शिष्य-जीवन-पर्यन्तासङ्ग-श्वासरूप-नाम- पुष्पापूजित-पदाम्बुजाय नमः । ॐ शिष्यहृत्-पुष्पानन्यभक्ति-सौरभ-धूपाधिवासिताय नमः । ॐ शिष्य-हृदयोत्कूलानुराग-स्तुतिपुष्पाधूशिताय नमः । २४ ॐ शिष्याश्रान्त-चिन्तन-प्ररोह-परिवृत्ति-निवेदिताय नमः । ॐ शिष्य-निश्चलचित्त-नीराजिताय नमः । ॐ गुरुदर्शनोत्कानन्यशिष्य-दयोत्कट-परिक्षेपिणे नमः । ॐ शिष्यशिशुजिह्व-श्रीरामनाम-मधु-लेहयितृ-मात्रे नमः । ॐ शिष्य-योगक्षेमावह-पित्रे नमः । ॐ शिष्यासङ्ग-सङ्गीतोपासन-सम्प्राप्तिद-सद्गुरवे नमः । ॐ शिष्याभीष्टदैवताय नमः । ॐ शिष्याभीष्टसिद्धये नमः । ॐ मूककोकिल-शिष्य-सुमधुर-गापयित्रे नमः । ॐ शिष्याबलकण्ठ-घण्टानादोद्भावयित्रे नमः । ॐ नानाविध-रागालापन-वैचक्षण्यानुग्राहिणे नमः । ॐ शिष्यासङ्गजीवन-प्रणेनी-ध्रुवनक्षत्राय नमः । ३६ ॐ शिष्यासङ्ग-जीवयानाभिक्षण-सहचर-नेत्रे नमः । ॐ लोक-युद्धरङ्ग-शिष्यजीवन-रथ्ये नमः । ॐ गीतोपदेशन-गीथाचार्याय नमः । ॐ संसार-परिवृत्ति-क्षोभित-शिष्य-द्वीप-प्रशान्तकाय नमः । ॐ पादावलम्बात्यन्तभक्तावरूत्रे नमः । ॐ वैमनस्यापहन्त्रे नमः । ॐ विक्षेपापनेत्रे नमः । ॐ तामसराजसोत्पाटिने नमः । ॐ कामक्रोधरोधकाय नमः । ॐ लोभमोहहन्त्रे नमः । ॐ मदमात्सर्य-व्यवधान-विदारकाय नमः । ॐ शिष्य-मनोभीति-भीकराय नमः । ४८ ॐ जन्म-मृत्यु-जराधि-व्याधि-विकृति-भय-हराय नमः । ॐ भवरोग-समुत्थानाय नमः । ॐ भक्तेच्छाशक्ति-दृढीकर्त्रे नमः । ॐ मन्तव्य-तत्त्वोपदेष्ट्रे नमः । ॐ मनःशान्ति-जनयित्रे नमः । ॐ शरणागत-कृतान्त-दमयित्रे नमः । ॐ प्रत्याहार-प्रवर्धकाय नमः । ॐ क्षालित-शिष्यमानसाय नमः । ॐ यापित-मनआवृत्ति-शिष्यचित्त-चिरस्थाय नमः । ॐ शिष्यमानस-कल्पितवीचि-श्रीरामतारकमन्त्रसात्कर्त्रे नमः । ॐ श्रीरामतारकमन्त्रसात्कृत-मानस-पुष्पामोदिने नमः । ॐ परिपूतानन्यभागन्तःकरण-सततवासिने नमः । ६० ॐ शरीरव्यथा-विमोक्त्रे नमः । ॐ शरीरात्म-भेदावबोधकाय नमः । ॐ प्रकृतिरूपक-शिक्षागुरवे नमः । ॐ ब्रह्मजिज्ञासा-परिपूरयित्रे नमः । ॐ चेतनीकृतैकाग्रशिष्याय नमः । ॐ पाटित-मायापट-भक्तात्मस्वरूप-स्फुटीकर्त्रे नमः । ॐ आत्मलय-प्रतिपादयित्रे नमः । ॐ जीवन्मुक्त्यापादन-सद्गुरवे नमः । ॐ निशान्त-स्वरविद्या-निशान्ताय नमः । ॐ अमित-नादशक्ति-मूलाय नमः । ॐ शब्दातीतापर्यन्त-प्रशान्तये नमः । ॐ प्रत्यह-प्रवृत्ति-विप्लवाधिकरण-प्रशान्तये नमः । ७२ ॐ शिष्य-मनस्तल-तुमुल-कल्लोल-चिन्तनाधस्थ- प्रशान्त-जलधये नमः । ॐ अविरत-कल्पना-कलनातिक्रान्त-तूष्णींस्थानाय नमः । ॐ नादार्थि-लोलुपा-नीरवतास्थाय नमः । ॐ उपासकान्तर्गाढ-मौनाधारश्रुतये नमः । ॐ अवगाढ-मौनगूढ-मधुरध्वनये नमः । ॐ मौनोदीर्ण-मृदु-मधुर-स्वराय नमः । ॐ पूजकान्तरुदर्क-प्रणवनादाय नमः । ॐ विकस्वर-दिव्यनादाय नमः । ॐ भक्ताकारालय-प्रणवनाद-रेभिणे नमः । ॐ प्रणवरूप-भक्तान्तर्व्यापिने नमः । ॐ भक्तान्तःपिञ्जर-कारागुप्त-मिष्टस्वर-नादपक्ष्यखण्ड- गानगगनाप्रयास-विस्तारयित्रे नमः । ॐ गुरुपाद-स्पर्शन-गानपक्ष-दायिने नमः । ८४ ॐ शिष्यान्तर्नभो-जपापुष्प-रक्तोदयादित्याय नमः । ॐ झगझगायमान-नादद्युतये नमः । ॐ अनन्त्य-नादानन्द-रोचिष्मते नमः । ॐ शिष्यान्तस्-सर्वकाल-श्रूयमाण-गानकोकिलाय नमः । ॐ शिष्यान्तर्-भावनासामोद-मञ्जरीकुञ्ज-मधुमधुर-गीत- शिक्षागुरवे नमः । ॐ शिष्यसिञ्चन-दिव्यवागमृताय नमः । ॐ शिष्याभिषेचन-दिव्यगानामृताय नमः । ॐ भक्तृ-वरूथ-कृति-वरूथाय नमः । ॐ भक्तान्तर-प्रकाशक-प्रणेनी-नादमयूखाय नमः । ॐ एकान्तभक्तानन्द-स्वरविद्याऽहरहर्वर्धन-त्वरयित्रे नमः । ॐ एकान्तभक्त-सुस्वरगान-प्रवेशिताय नमः । ॐ एकान्तभक्त-भावानुग-स्तुतिपुष्पामोद-प्रवेशिताय नमः । ९६ ॐ एकान्तभक्त-भावज्ञाय नमः । ॐ एकान्तभक्त-भावशुद्धि-प्रतीताय नमः । ॐ एकान्तभक्त-भावसर्गेदंस्तोत्र-भावग्राहिणे नमः । ॐ सँल्लीन-मानस-सँल्लीनाय नमः । ॐ अनन्यशिष्य-मनोगुप्त-ध्यातामूल्य-कुनाभये नमः । ॐ चिदानन्दस्वरूप-नादव्यक्तये नमः । ॐ नामपुष्पावलि-स्रजिष्ठाय नमः । ॐ स्वयङ्कारित-स्तुतिपुष्पप्रकराय नमः । ॐ सङ्गीत-ख-घनारुण-प्राक्सन्ध्यायै नमः । ॐ सुधामय-कृतिपुञ्ज-चिरञ्जीविने नमः । ॐ सङ्गीतचरित्र-सानसिशिलोत्कीर्ण-नाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८ ॐ श्रीरामनामकिरण-सङ्गीतज्ञानसूर्याय नमः । ॐ श्रीरामसूर्य-स्फुटित-गानवारिजाय नमः । ॐ श्रीरामगान-वारिजमित्राय नमः । ॐ श्रीरामपरत्व-ज्ञानदर्पणाय नमः । ॐ श्रीरामानुभूति-स्वरूपाय नमः । ॐ श्रीरामानुभूति-प्रगाढाय नमः । ॐ श्रीरामानुभूति-समग्रतायै नमः । ॐ श्रीरामानुभव-प्रहर्ष-मन्दस्मित-विलसित-वक्त्राय नमः । ॐ श्रीरामदर्शनानन्द-पूरित-क्लिन्नाक्षाय नमः । ॐ श्रीरामानन्यचिन्तन-सुम-सौरभ्यान-घ्राणाय नमः । ॐ श्रीरामनाम-श्रवण-प्रहृष्ट-श्रोत्राय नमः । ॐ श्रीरामनाम-रत्नहार-स्फुरित-कण्ठाय नमः । १२० ॐ श्रीराम-रामहास-तुल्य-सप्तस्वर-मुक्ताकलाप-भूषितोरस्काय नमः । ॐ श्रीरामागार-रागोद्गार-रागहृदयाय नमः । ॐ श्रीरामार्चन-व्यापृत-सुस्वर-पुष्पहस्ताय नमः । ॐ श्रीरामानुग्रह-फलप्रद-भद्रपादाय नमः । ॐ श्रीरामान्तरङ्गाय नमः । ॐ श्रीरामप्रेम-स्वान्ताय नमः । ॐ श्रीरामप्रेमिणे नमः । ॐ श्रीरामाश्लिष्ट-हृष्टरोम्णे नमः । ॐ श्रीरामभक्त्यप्रकम्पाय नमः । ॐ श्रीरामभक्ति-प्रकम्पिताय नमः । ॐ श्रीराम-कैङ्कर्यार्पितस्वाय नमः । ॐ श्रीराम-नैत्यपूजनपर-न्यस्तविचाराय नमः । १३२ ॐ श्रीराम-सुगुणाक्षमाला-सुशोभिताय नमः । ॐ श्रीरामभद्र-गानभद्राय नमः । ॐ श्रीराम-सङ्गीत-सन्दानिताय नमः । ॐ श्रीराममूर्ति-गानभजन-रागमूर्तये नमः । ॐ श्रीरामनाम-गानभजन-कीर्तनप्रियाय नमः । ॐ श्रीरामनाम-गान-भजनप्रियाय नमः । ॐ श्रीरामनाम-गानप्रियाय नमः । ॐ श्रीरामनामप्रियाय नमः । ॐ श्रीरामप्रियाय नमः । ॐ श्रीरामभक्तप्रियाय नमः । ॐ श्रीरामभक्ततिलकाय नमः । ॐ श्रीरामभक्ति-चिरसिक्ताय नमः । १४४ ॐ श्रीरामसायुज्य-सिद्धाय नमः । ॐ श्रीरामभक्ति-सागर-पारमिताय नमः । ॐ श्रीरामप्रेमसागराय नमः । ॐ श्रीरामभक्तिरस-पूरित-गान-वरुणालयाय नमः । ॐ श्रीरामनाम-पेत्व-वर्षक-गान-मुमुचानाय नमः । ॐ श्रीरामानुरागप्लुति-नानाराग-कृतिप्लुतये नमः । ॐ श्रीराम-निमज्जन-सङ्गीत-मन्दाकाय नमः । ॐ श्रीराम-नामाभिपुष्प-गान-देववृक्षाय नमः । ॐ श्रीरामराम-सशब्द-सङ्गीत-मधूकाय नमः । ॐ श्रीराम-नामाविराम-गान-मधुकण्ठाय नमः । ॐ श्रीरामभक्तिपञ्जर-मञ्जुपाठकाय नमः । ॐ श्रीरामतारकनाम-सर्वकाल-ध्वननाय नमः । १५६ ॐ श्रीरामतारकनाम-गेहाय नमः । ॐ श्रीरामतारक-नामानन्दावरोकिणे नमः । ॐ श्रीरामनुत्यमरगान-वरेण्याय नमः । ॐ श्रीरामनाम-मिष्टपेय-पायनाय नमः । ॐ श्रीराम-प्रसादन-राग-प्रासाद-वप्र-कृतिपुङ्गकाराय नमः । ॐ श्रीरामनाम-मध्वापात-गाथश्रवसे नमः । ॐ श्रीरामकथासार-सागरानुराग-राग-रागराजाय नमः । ॐ श्रीरामराग-रागरागिणे नमः । ॐ श्रीरामरत्न-गायकरत्नाय नमः । ॐ श्रीरामानर्घ-कृतिरत्न-भूषणाय नमः । ॐ श्रीरामाद्भुत-गुणाद्भुत-गायकाय नमः । ॐ श्रीराम-कमनीयगात्र-कमनीयगायत्र-नुतिगात्रे नमः । १६८ ॐ श्रीरामराजन्य-सौखसुप्तिकाय नमः । ॐ श्रीरामलीला-सुरेभाय नमः । ॐ श्रीरामनाम-सङ्कीर्तनानन्द-तेजोरूपाय नमः । ॐ श्रीसीतारामस्वमूर्तये नमः । ॐ चराचरात्मक-श्रीराम-तथ्योपचारपर-मधुर-स्वरात्मकाय नमः । ॐ श्रीरघुवरपद-चिन्तनपर-धीतिमते नमः । ॐ पट्टाभिराम-गानाभिरामाय नमः । ॐ पापविराम-श्रीराम-नामाविराम-गानारामाय नमः । ॐ माधुर्यतर-सुस्वर-विभूषितरामाय नमः । ॐ मृदुतर-हृत्संस्तर-संस्तव-लालितरामाय नमः । ॐ मृदुतम-मानस-सुवास-सुमतूलिका-शायितरामाय नमः । ॐ मधुर-स्वरानन्दित-वरानन्दरामाय नमः । १८० ॐ नुतिगीत-कदम्बकुसुम-पूजितरामाय नमः । ॐ वन्दित-वन्दितवन्द्य-श्रीरामाय नमः । ॐ छन्दितच्छन्दन-रामचन्द्रच्छन्दस्य-नामकीर्तनाय नमः । ॐ सर्वलोकदयानिधि-श्रीरामनुति-सङ्गीतपयोनिधये नमः । ॐ सुज्ञाननिधि-श्रीरामनुति-सुगाननिधये नमः । ॐ रिङ्गित-श्रीरामानुराग-वीचये नमः । ॐ सकललीलाविनोद-श्रीरामनामविनोदाय नमः । ॐ दोषनिवारण-सन्तोषद-रामनाम-रक्षाकलनाय नमः । ॐ कल्याणरामचन्द्र-गायकचन्द्राय नमः । ॐ मोहनाकार-श्रीराम-नामाकाराय नमः । ॐ हसितमुख-श्रीरामानन्द-लसितमुखाय नमः । ॐ गुणभरित-श्रीराम-रागभरिताय नमः । १९२ ॐ भरित-श्रीराम-सुगुणकलापाय नमः । ॐ रीण-रामामृतक-गीत-कण्ठाय नमः । ॐ कृत-रामराम-नामघोष-कृतिकृत्स-वाग्विशेषाय नमः । ॐ मधुरध्वनित-श्रीराम-मधुतरनाम्ने नमः । ॐ पावनगुण-श्रीराम-गायन-पावनगुणिने नमः । ॐ निरञ्जन-श्रीराम-रागरञ्जनाय नमः । ॐ निर्धारित-श्रीरामानवधिक-माहात्म्याय नमः । ॐ निर्मलरूप-श्रीराममय-निर्मलमानसाय नमः । ॐ रमित-स्वमानस-नूपुर-घल्कृत-रामपदागतये नमः । ॐ वृतिंकृत-स्वप्रकाश-श्रीराम-स्वगानपरिधये नमः । ॐ भराजमुख-श्रीरामानन्द-विराजमुखाय नमः । ॐ देवाधिदेव-श्रीरामोपासक-रागाधिदेवाय नमः । २०४ ॐ राजित-रामनामभूषाय नमः । ॐ जीवन-रामनामस्मरण-जागरूकाय नमः । ॐ जीवन-प्रतिक्षण-श्रीरामतारकनामपूरक-महात्मने नमः । ॐ जीवन-तान्तवोत-तारकनाम्ने नमः । ॐ दिगम्बर-श्रीरामावरण-दिव्य-वागम्बराय नमः । ॐ चिदम्बर-श्रीराम-सङ्गीतोपासन-चिदानन्दरूपाय नमः । ॐ चिद्विलास-श्रीरामानन्दविलासाय नमः । ॐ श्रीराम-सालोक्य-सङ्गीत-सार्वभौमाय नमः । ॐ भावाभाव-श्रीराम-भावाभातये नमः । ॐ ओंकारधाम-श्रीराम-नामधाम्ने नमः । ॐ मनश्शुन्धन-पावननाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । २१६ ॐ श्रीरामकृष्ण-गानानन्दावताराय नमः । ॐ कीर्तित-नामौत्कर्ष्याय नमः । ॐ भागवत-समूहाद्रि-दीपाय नमः । ॐ हरिजप-भासित-हृत्प्रसादाय नमः । ॐ अरिदमनाराधन-दमनमुनये नमः । ॐ अमृतकीर्तन-श्रीरामानुरागिणे नमः । ॐ मङ्गलगीतवाद्यप्रियाय नमः । ॐ वीणानादमोदिने नमः । ॐ वेणुगानलोल-सखाय नमः । ॐ वेणुगानलोल-लीलालोलाय नमः । ॐ वृन्दावन-लोलालोकन-लोलाय नमः । ॐ नन्दार्चित-पदयुगार्चन-गीतायुताय नमः । २२८ ॐ नन्दनीय-नन्दनन्दनीय-लीलास्तवाय नमः । ॐ नन्दनन्दित-नवरस-सवन-गीतानन्दिने नमः । ॐ नन्दित-नन्दनन्दन-नाम्ने नमः । ॐ नलिनदल-नयन-नवनव-पदनटन-नामगानानन्दनाय नमः । ॐ मन्दरधर-मन्त्रधराय नमः । ॐ अगराजधर-मनोधराय नमः । ॐ यादवकुलतिलक-गायकतिलकाय नमः । ॐ यदुनन्दन-नुतिचन्दनाय नमः । ॐ नतपोषण-नादभूषणाय नमः । ॐ नुतार्णवसदन-स्वरार्णवसदनाय नमः । ॐ नुतगीत-परमेशनुतगीताय नमः । ॐ गिरीशमनोहर-मनोहर-गिरीशाय नमः । २४० ॐ विनुत-वागधिपविनुत-वागधिपाय नमः । ॐ माधव-माधवगान-रन्त्रे नमः । ॐ राघव-राग-मध्वभिषेक्त्रे नमः । ॐ रसिकाग्रेसर-श्रीराम-रसिकाग्रेसराय नमः । ॐ भूजालोल-पूजालोलाय नमः । ॐ धराप-गिरा-मधुपाय नमः । ॐ ताराधीशवदन-वदनवन्दन-स्वराधीशाय नमः । ॐ तरणिकुलविभूष-विभूष-मधुरतर-गीतकुलाय नमः । ॐ तरणिवंश-संजात-सङ्गीत-साधवे नमः । ॐ कंजात-बन्धु-कुलज-बन्धवे नमः । ॐ वरिवसित-वरवीरवीर-वरधीरधीरस्वराय नमः । ॐ उरगराज-शयनोपचारपर-रागराजाय नमः । २५२ ॐ शायितोरगशयन-रागशय्याय नमः । ॐ श्रीलोल-गुणलोलाय नमः । ॐ श्रीप-वाक्पाय नमः । ॐ श्रीश-गेयेशाय नमः । ॐ श्रीद-नादाय नमः । ॐ श्रीकलत्र-कलत्व-कलनाय नमः । ॐ मदनजनक-मोदन-मधुर-कीर्तनजनकाय नमः । ॐ धरसुतारमण-स्वरसुधारमणाय नमः । ॐ धराधिप-करार्चितार्चनपर-स्वराधिपाय नमः । ॐ रावणारि-रागरवणाय नमः । ॐ घननिभकाय-घननयराग-गेयाय नमः । ॐ गिर्याविष्यश्रीराम-प्रत्यक्षदर्शिने नमः । २६४ ॐ घृणापाङ्गानन्दार्द्रापाङ्गाय नमः । ॐ दशरथपुत्र-दर्शनोत्पुलकाय नमः । ॐ दाशरथि-रति-स्वरशरधये नमः । ॐ खादोऽर्णस्-स्वर-सुरनद्यै नमः । ॐ माधूक-मङ्गलकरामृतवाण्यै नमः । ॐ मधुरकीर्तन-निवह-श्रोत्रसुखातिशायिने नमः । ॐ निगमान्तचरणार्पण-निगमार्थसार-सुकीर्तन-निःसाराय नमः । ॐ नादानन्दकर-कृतिनिकराय नमः । ॐ नवरसनिचयि-कृतिनिचयाय नमः । ॐ लसत्-स्वरलयच्छवि-कृतिचयाय नमः । ॐ वेदशास्त्र-तत्त्वसार-सङ्ग्रह-कृतिसङ्घाय नमः । ॐ अविभेद्य-भक्तिसङ्गीत-सङ्गाङ्काय नमः । २७६ ॐ भक्तिरहित-सङ्गीतविद्वद्वितति-दूराय नमः । ॐ वरभक्तकवये नमः । ॐ नादोपासन-परमता-नादि-परमेष्ठिने नमः । ॐ शीलितासङ्ग-सङ्गीतोपासन-स्वामिने नमः । ॐ जीवितोदाहृत-भगवद्गीताय नमः । ॐ ज्ञानभक्तिवैराग्य-दृढचित्ताय नमः । ॐ दृढविक्रमाय नमः । ॐ विषवत्-त्यक्त-कनकधनाय नमः । ॐ निन्दित-परनिन्दनाय नमः । ॐ विवृत-निष्कामपूजनाय नमः । ॐ उदाहृतोत्तम-भक्तिमार्ग-जीवनाय नमः । ॐ प्रेमभक्ति-समन्विताय नमः । २८८ ॐ भजनपरान्तरङ्गाय नमः । ॐ घण्टानादवर्षि-मधुरकण्ठाय नमः । ॐ परादि-वाक्स्वरूप-परात्पराय नमः । ॐ श्रीरामभक्त्युद्यान-नामपुष्पाकर-सुकीर्तनाकाराय नमः । ॐ गीताभिपुष्प-ज्ञानभक्तितरवे नमः । ॐ पादपतित-तापहरच्छाय-पादपाय नमः । ॐ संसारताप-धूनमानस-सङ्गीतसरये नमः । ॐ संसारतापापह-स्वर्णगङ्गायै नमः । ॐ स्नानपानानन्दद-वाग्गङ्गायै नमः । ॐ दर्शन-मुक्तिद-गुरुगङ्गायै नमः । ॐ पादावनामानुराग-रागसुधारस-प्रोक्षणाय नमः । ॐ झरासार-सुस्वरामृतधारायै नमः । ३०० ॐ शोकानलामृतगानवरुणाय नमः । ॐ दिवारात्र-चरण-स्मरणपरानुषङ्गि-हृत्सागर-चन्द्राय नमः । ॐ दुःखध्वान्त-नभोमणये नमः । ॐ तामससहायान्ताय नमः । ॐ नादार्थि-हृदन्त-भेशाय नमः । ॐ नादोपासनोत्सुकैकान्त्येकायनाय नमः । ॐ नादार्थि-नाधसे नमः । ॐ नाधमान-नादविद्या-राद्धिदाय नमः । ॐ भावगम्भीर-स्पृहित-गुरुदेवाय नमः । ॐ भक्तृ-हृद्रोचना-देवतातये नमः । ॐ विराजित-भक्तिहृत्पुष्प-भद्रासनाय नमः । ॐ लसत्सुकीर्तन-रत्नमकुटाय नमः । ३१२ ॐ उपासक-भक्तिस्तुति-भर्माम्बराय नमः । ॐ भक्तिहृत्-पुष्पाधिवासि-सङ्गीत-सुगन्धाय नमः । ॐ अनुराग-नुतिपुष्पावलि-रागामोदनाय नमः । ॐ सुस्वर-पुष्पावासित-नामावल्यामोदिताय नमः । ॐ रक्तानुराग-स्तुतिपुष्पालय-दैवताय नमः । ॐ शिष्यशिर-स्पर्शनाशीकर-शुभकराय नमः । ॐ शिष्याज्ञाचक्र-स्पर्शन-ज्ञानशक्त्युत्तेजन- ज्ञानगुरवे नमो नमः । ॐ मूलाधारस्थ-कुण्डलिनीरूप-नादशक्त्युत्थापन-नादगुरवे नमो नमः । ॐ कुण्डलिनीरूप-मूलाधारोत्थान-नादशक्तये नमो नमः । ॐ सहस्रारस्थित-नादज्योतिर्-गुरुब्रह्मणे नमो नमः । ॐ सेवितानत्युक्तिस्तुतिमण्डल-नादपरमात्मने नमो नमः । ॐ श्रीत्यागब्रह्मसद्गुरुस्वामिने नमो नमः ॥ ३२४ ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया पुष्पया सुभक्त्या कृता त्रिशतिनामावलिः गुरुचरणपुष्पे समर्पिता । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मपञ्चशती

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मपञ्चशती ॥ ॐ गुरुदेवाय विद्महे स्वरज्योतिषे धीमहि । तन्नस्सुपादः प्रचोदयात् ॥ अथ पञ्चशती । ॐ ॐ पञ्चनदक्षेत्र-सञ्चरित-परमगुरवे नमः । ॐ उञ्छवृत्ति-धर्म-चारिणे नमः । ॐ उत्तम-भक्तिमार्ग-गानिने नमः । ॐ प्राभातिक-प्रादोषिक-गान-नीराजनानुशासिने नमः । ॐ घनीभूताष्टाङ्गयोग-नादयोगाचार्याय नमः । ॐ उद्दीप्र-पवित्र-गात्राय नमः । ॐ अतितेजस्-सुमुखाय नमः । ॐ करुणार्द्र-देदीप्यमान-नयनकुसुमाय नमः । ॐ गानामृतकलश-कण्ठाय नमः । ॐ सुन्दरतर-कोमल-हृदयाय नमः । ॐ भक्तालम्बन-कराम्भोजाय नमः । ॐ भक्त-हृत्तटाक-पावनकर-पद-कोकनदाय नमः । १२ ॐ नैश्चिन्त्य-प्रद-भद्र-पदच्छायाय नमः । ॐ गुरुपाद-दृढग्राहि-क्षिप्रानुग्राहिणे नमः । ॐ शरणागतात्मताप-विरोपण-शुभ-स्पर्शनाय नमः । ॐ निरुपाय-वैकल्यप्रचुर-चरणपतित- वात्सल्योपतारकोद्ग्रभणाय नमः । ॐ सुधामय-दृष्टि-परित्रात-भक्ताय नमः । ॐ कोटिसूर्य-प्रकाश-मन्दीकर-दीप्ततेजसे नमः । ॐ भक्ताश्रुबिन्दु-स्फटिकमणिमाला-स्फुरितप्रभायै नमः । ॐ वज्रभक्त्यन्वित-शिष्याध्यक्षावरोकिणे नमः । ॐ रागार्द्र-हृदय-भक्तानुरागोपगूहन-निबद्धाय नमः । ॐ वन्द्रान्तश्चक्षुस्-सर्वकाल-समक्षाय नमः । ॐ वन्द्र-हृद्ग्रन्थि-भिदे नमः । ॐ संशयच्छिदे नमः । २४ ॐ शिष्यान्तःसुप्त-चिच्छक्ति-जागरयितृ-सद्गुरवे नमः । ॐ शिष्यचित्त-ज्ञानज्वालोद्दीपकाय नमः । ॐ परिमार्गि-पारमार्थिक-मार्गिणे नमः । ॐ नादोपासन-मार्ग-निर्देष्ट्रे नमः । ॐ सङ्गीताञ्जलि-समीहित-सपर्यूपगापयित्रे नमः । ॐ शिष्यशरीरवेणु-सुस्वरोपध्मानाय नमः । ॐ देहोद्भव-नाद-दिव्य-प्रणवाकाराभिव्यञ्जकाय नमः । ॐ सप्तस्वर-स्वरूप-स्फोटयित्रे नमः । ॐ स्वर-जाति-मूर्च्छना-भेदान्तर्-ज्ञापयित्रे नमः । ॐ स्वर-रागलयज्ञानदात्रे नमः । ॐ रागलय-भजन-पराङ्गव-प्लावयित्रे नमः । ॐ स्वर-समुद्र-पार-दर्शयित्रे नमः । ३६ ॐ सुस्वर-सुरगङ्गा-स्नापयित्रे नमः । ॐ स्व-गान-सुधारस-पाययित्रे नमः । ॐ श्रीरामनामगान-सोमपान-मादयित्रे नमः । ॐ शिष्यहृन्-नादपुष्प-विकचीकर्त्रे नमः । ॐ नादयोगनिष्ठानुग्राहिणे नमः । ॐ अग्रे पृष्ठे उभयपार्श्वयोस्सदा भक्तायाः परिरक्षकाय नमः । ॐ अनन्योपासिकायाः क्षणमप्यपरोक्षाय नमः । ॐ भक्तचित्तान्यूनव्यापिने नमः । ॐ भावस्थ-हृद्-द्योतन-सवित्रे नमः । ॐ उपासक-शरीरालय-सुवासिने नमः । ॐ ध्यानस्थान्तस्थाय नमः । ॐ अनवरत-मननकान्तरात्म-समावेशिने नमः । ४८ ॐ मानुषतन्वाश्रित-ज्ञानपतये नमः । ॐ मनुष्यजीवनाढ्यङ्करण-सहस्रिय-सुकृतिदाम्ने नमः । ॐ भुक्तिमुक्तिप्रद-भद्रकीर्तन-प्रसादिने नमः । ॐ भक्तिरस-परिपूर्ति-विवृत-कृतिवार-प्रतिपादयित्रे नमः । ॐ सद्विषय-गुटिकारूप-कृतिवृन्द-प्रतिपादक-वृन्दारकाय नमः । ॐ सर्वजनीय-मधुश्च्युदुपदेशसार-निर्जर-कीर्तन- निःसार-प्रसादाय नमः । ॐ श्रीरामनाम-मधुरित-मधुगान-सर्वजन-रामभक्त्यावहाय नमः । ॐ मनआवृत्ति-स्थापन-श्रीरामचिन्तन-नामकीर्तन-जिन्वित्रे नमः । ॐ अन्तवद्देहातीतानन्तात्म-स्वरूप-प्रकाशयित्रे नमः । ॐ अनृतपूजन-जीवनोपक्रोशन-चिच्छुद्ध्युपदेशन- निजभक्त्युपसेचन-गीताचार्याय नमः । ॐ वाक्तैक्ष्ण्य-पटुतमाय नमः । ॐ अनिर्वचनीय-स्वादुमय-वाक्प्रभावाय नमः । ६० ॐ श्रीरामगानैकार्थावतारिणे नमः । ॐ सहजसमाधिस्थ-सङ्गीतस्वामिने नमः । ॐ गीतोपनिषत्सार-मधुदोह-श्रोत्राभिराम-सुकीर्तनानुग्राहिणे नमः । ॐ सप्तस्वरभूषित-नादरङ्गरङ्गण-श्रीराम-नादाकृति- सुस्वरगान-नुतये नमः । ॐ स्वर-राग-लय-ज्ञान-भक्ति-वैराग्य-भावानन्द- नाद-नवरत्न-खचित- हाटक-हृन्मण्डप-श्रीराम-ध्यानाभिनिविष्टाय नमः । ॐ द्राक्षारस-नवरसयुत-कृतिसंवर्त- श्रीरामभजन-सम्मत्ताय नमः । ॐ निगमार्थ-निजवाक्-स्वरशुद्धि-सद्भक्ति-पूरित- सुश्राव्य-गान-हारित-हरये नमः । ॐ यति-विरति-युत-कृतियुक्तिज्ञ-सद्भक्ताय नमः । ॐ प्रासानुप्रासालङ्कार-निपुणाय नमः । ॐ यान्तभान्त-नुति-धान्तथान्त-निशान्ताय नमः । ॐ नैगम-शास्त्र-पुराणागमार्थ-संक्षेप-शतराग-कृतिरत्न- रञ्जित-रामाय नमः । ॐ भजनानन्द-कीर्तन-कारिणे नमः । ७२ ॐ सन्तत-नियमसहित-नामसङ्कीर्तनाविप्लुत-महातपस्विने नमः । ॐ सङ्गीतार्णव-पारावारीण-सुरगायनाय नमः । ॐ मथित--रामामृतक-गान-क्षीरोदाय नमः । ॐ अनुरागि-हृत्-सङ्गीतोत्कण्ठार्णश्चन्द्रोदयाय नमः । ॐ रागानुरक्त-हृदयानुराग-सागर-सुस्वर-शुभ्र-विकिरण- सङ्गीत-शीतकिरणाय नमः । ॐ शीतल-करुणाकिरण-परिवृत्त-तेजसानन्द-सङ्गीत- पीयूषनिधये नमः । ॐ उपासक-हृदयाब्ध्यनुराग-तरङ्गोत्थापन-सङ्गीतसोमाय नमः । ॐ सङ्गीत-ब्रह्मानन्द-सुधाम्बुधि-गभीर-मर्म-विरोचिष्णवे नमः । ॐ मायावृत-संसार-सागर-निमग्न-कृपणोद्धारकाय नमः । ॐ तमोऽन्ध-प्रसर-भवोद-क्षितिजोदर्चिषे नमः । ॐ मनोऽन्धापनोदक-गान-विरोचनाय नमः । ॐ अज्ञान-तिमिरावृत-धरणीतल-प्रद्योतन- प्रज्ञान-सूर्याय नमः । ८४ ॐ अविद्यान्धापसारण-शुद्धज्ञानप्रकाश-सङ्गीत-द्युमणये नमः । ॐ उग्रोज्ज्वल-शुचिरश्मि-मलिन-मनोवृत्ति-भस्मीकर--भासवे नमः । ॐ गीत-वाद्य-नृत्य-सङ्गीत--श‍ृङ्गाटकोद्द्योतकाय नमः । ॐ भक्त-मानस-सरोवर-भावानन्द-राग-रञ्जकाय नमः । ॐ निजभक्त-स्वावेश-गुरुदेवाय नमः । ॐ फलहेतु-पामर-दूर-परवस्तुने नमः । ॐ मनःशुद्धि-रहित-पूजा-तिरस्कर्त्रे नमः । ॐ सुशुद्ध-मानस-पुष्पार्चन-स्वीकर्त्रे नमः । ॐ मनोमौनकरसद्गुरवे नमः । ॐ निरेभ-मानसगुहा-निध्याताय नमः । ॐ निरेभ-मानस-स्पष्ट-क्वणित-दिव्यवाण्यै नमः । ॐ सान्धकार-मानसगुहा-दीपकाय नमः । ९६ ॐ स्व-तेजोरश्मि-मालिने नमः । ॐ निश्चल-चित्त-सरसी-संक्रान्तात्म-स्वरूपाय नमः । ॐ पूजक-हृदयाब्ज-विरोचनाय नमः । ॐ रागोक्तये नमः । ॐ भक्त-प्रणयासिद्धाय नमः । ॐ भक्त-प्राणाभिन्नाय नमः । ॐ प्रणयार्द्र-भक्तात्मीयाय नमः । ॐ मनोवेग-प्रशमन-प्रशान्त-प्रणवाय नमः । ॐ प्रणवान्तस्थ-परवस्तुने नमः । ॐ प्रादुर्भूत-सुस्वरज्योतिषे नमः । ॐ श्रोत्र-जिह्वामृत-नाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८ ॐ अद्वैतसाराय नमः । ॐ आनन्दामृत-सङ्गीत-सागराय नमः । ॐ इह-पर-साधनाय नमः । ॐ ईश्वरदर्शकाय नमः । ॐ उदारधिये नमः । ॐ ऊर्ध्वभासिने नमः । ॐ ऋग्मिय-ऋषये नमः । ॐ एकब्रह्मणे नमः । ॐ एकाक्षर-गूढ-परमात्मने नमः । ॐ ऐकान्तिक-नादयोगिने नमः । ॐ ओंकारस्वरूपिणे नमः । ॐ औपनिषदसार-सङ्गीताकृतये नमः । १२० ॐ कलहंसाय नमः । ॐ कालभय-हरणाय नमः । ॐ किरणमय-गानसूर्याय नमः । ॐ कीर्तित-रामचन्द्राय नमः । ॐ कुलधन-श्रीरामावृत्त-जीवनाय नमः । ॐ कूजित-रामराम-स्वर-जित-सुस्वराय नमः । ॐ कृष्णलीलास्तव-मधुर-गीतकाराय नमः । ॐ क्लृप्तिदाय नमः । ॐ केवलात्मने नमः । ॐ कैवल्यप्रद-नादोपासन-मार्गोपदेशकाय नमः । ॐ कोकिलगान-पुष्पाञ्जलि-भाग्यप्रदाय नमः । ॐ कौसल्या-सुकुमार-गुण-गानोल्लसिताय नमः । १३२ ॐ क्रमिक-श्रीसीतारामार्चार्चनाराधन-गान-भजन- नित्योत्सव-निरताय नमः । ॐ क्रान्तदर्शिने नमः । ॐ क्रियायोगोदाहृति-ज्ञानव्यक्तये नमः । ॐ क्रीडाविनोदि-श्रीकृष्ण-लीलाविनोद-गानविनोदिने नमः । ॐ क्रोडीकृत-गानानन्द-श्रीरामाय नमः । ॐ क्लान्तिच्छिद्-गानानन्दरूपाय नमः । ॐ क्लिन्नहृदे नमः । ॐ क्लेशापहाय नमः । ॐ क्वणित-वीणा-स्वरित-प्रणवाय नमः । ॐ क्षपानाथ-लज्जापयितृ-श्रीरामचन्द्रानन-वर्णन-गाननाथाय नमः । ॐ क्षालित-भक्तदुरिताय नमः । ॐ क्षितिजाकान्त-दास-धौरेयाय नमः । १४४ ॐ क्षीराब्धि-कन्यका-रमण-रागाब्धि-रामकाय नमः । ॐ क्षुद्र-चिन्ताकुल-चित्त-वन-कुठार-गीताय नमः । ॐ क्षेमंकराय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षैत्रज्ञदाय नमः । ॐ खगाधिप-वाहन-श्रीमन्नारायण-नामभजन-गानाधिपाय नमः । ॐ खाण्डव-नाम-मधुरित-गान-मधु-धाराधराय नमः । ॐ खिन्नोन्मनस्कैकायतनाय नमः । ॐ खेदकर-तापत्रयोत्खेदाय नमः । ॐ ख्यान-वर्धनाय नमः । ॐ गङ्गीभूत-पोतनाय नमः । ॐ गाङ्गेय-गाथिने नमः । १५६ ॐ गिरा-माधुर्य-भूषणाय नमः । ॐ गीर्ण-सङ्गीत-गीतप्रिय-श्रीरामाय नमः । ॐ गीतार्थ-भाव-पुष्टि-वाङ्माधुर्यानुपमाय नमः । ॐ गीतवाद्यलय-ज्ञानदाय नमः । ॐ गुरुदेवाय नमः । ॐ गूढोत्मने नमः । ॐ गृत्स-कवीशाय नमः । ॐ गेयराजाय नमः । ॐ गोपाल-गांमालालङ्करिष्णवे नमः । ॐ गोपिका-काम-कामिने नमः । ॐ गोविन्द-नामसङ्कीर्तन-वन्दिने नमः । ॐ गोविन्द-नारायण-हरिनाम-सङ्कीर्तनोत्पुलकाय नमः । १६८ ॐ ग्रथित-भक्तान्तर्भावना-मणिमाला-विभूषिताय नमः । ॐ ग्रहपीडा-निग्रहण-हरिभजन-प्रचोदिने नमः । ॐ ग्लानि-विद्रावणाय नमः । ॐ घन-रव-गम्भीर-स्वराय नमः । ॐ घूर्णमानसोद्वेग्यनन्यभागाश्वासनाय नमः । ॐ घोर-भवग्राह-विमोचनाय नमः । ॐ चरणयुग-दृढग्राह्युद्बाष्पोद्भावयित्रे नमः । ॐ चारुस्वर-सत्त्वोत्साह-प्रसादस्थाय नमः । ॐ चित्स्वरूपाय नमः । ॐ चीर्ण-रामनाम-जप-स्मरण-व्रतिने नमः । ॐ चुम्बित-नाद-हिमाद्रि-शिखर-नामानन्द-वारिधराय नमः । ॐ चेतनाचेतन-सूक्ष्मव्यापिने नमः । १८० ॐ चैतन्यरूप-सर्वव्यापिने नमः । ॐ चोदयन्मति-गीतकाचार्याय नमः । ॐ च्यावित-नादशक्तये नमः । ॐ छन्द-रामचन्द्र-गानच्छन्द-वन्द्र-चन्द्राय नमः । ॐ छायामण्डल-सम्परिक्षिप्ताय नमः । ॐ छिद्रहृच्छमनाय नमः । ॐ छुरित-रामचन्द्रकिरण-स्वर-सुन्दरमूर्तये नमः । ॐ जयराम-जयगेय-घोषयित्नवे नमः । ॐ जाड्यापाकर्त्रे नमः । ॐ जितानन्यभक्तमानसाय नमः । ॐ जितात्मने नमः । ॐ जीवन्मुक्ताय नमः । १९२ ॐ जुष्ट-रामयुक्ताय नमः । ॐ जूतिमन्-नादगङ्गायै नमः । ॐ जृम्भित-नादपुष्पार्चिताय नमः । ॐ जेन्य-नाद-वसुधारायै नमः । ॐ ज्ञातसर्वस्वाय नमः । ॐ ज्ञीप्सुचक्षसे नमः । ॐ ज्ञेय-नादरहस्य-निधये नमः । ॐ ज्योतिष्टमाय नमः । ॐ ज्वलत्-सुस्वर-नभोमणये नमः । ॐ झङ्कार-रामनामश्रुतिकर-दैवतुम्बराय नमः । ॐ झाङ्कृत-गानापाताय नमः । ॐ झिल्लीझञ्झन-भजन-नर्तनानन्दरूपाय नमः । २०४ ॐ टलनोपशमनाय नमः । ॐ टालोद्वेलित-शिष्य-वृषयाय नमः । ॐ टिप्पणीभूत-स्वरार्णव-ग्रन्थाय नमः । ॐ टीकित-नादरहस्याय नमः । ॐ टेपित-घृणार्द्र-वीक्षिताय नमः । ॐ ठक्कुररूप-श्रीरामदैव-पूजापराय नमः । ॐ ठक्कुररूपाधिष्ठितावदात-शिष्य-पूजागृह-दैवाय नमः । ॐ डमरु-सशब्द-शिव-हाटकाकृति-हृन्नालीक-दर्शनाय नमः । ॐ डाङ्कृत-रामराम-गानघनाय नमः । ॐ डिण्डिम-घुषित-तारकनाम्ने नमः । ॐ डीन-गानवरूथाय नमः । ॐ ढौकित-नादब्रह्मानन्द-श्रीत्यागब्रह्म-गुरुनाथाय नमो नमः ॥ २१६ ॐ तन्त्रीस्वरस्वराय नमः । ॐ तारकनामप्रियाय नमः । ॐ तिमित-मनः-श्रुत-प्रणवाय नमः । ॐ तीर्थीकृत-पञ्चनदक्षेत्राय नमः । ॐ तुङ्ग-तरङ्ग-कोलाहल-सप्तस्वरोर्मिमालिने नमः । ॐ तूष्णींस्थानोत्थोंकारनादाय नमः । ॐ तृष्य-सङ्गीतार्थाय नमः । ॐ तेजोऽमृतमय-गानमूर्तये नमः । ॐ तैजस-नाद-भासन्ताय नमः । ॐ तोयात्मने नमः । ॐ तौर्यत्रिकौकसे नमः । ॐ त्यागराजाय नादब्रह्मणे नमः । २२८ ॐ त्रसन-प्रशमनाय नमः । ॐ त्राणच्छायाय नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रिताप-रहिताय नमः । ॐ त्रुटिमपि भक्ताया अनपेताय नमः । ॐ त्रैलोक्यातीत-नाद-विबुधाय नमः । ॐ त्वेषद्युम्नाय नमः । ॐ दयालवाल-श्रीरामानुराग-गानालवालाय नमः । ॐ दान्त-संरक्षक-गानसँल्लीनाय नमः । ॐ दिनमणिवंश-तिलकानुदिन-गान-पुलकाय नमः । ॐ दीनजनावन-गान-संस्तावनाय नमः । ॐ दीनार्ति-भञ्जन-दिनरात्रि-भजनाय नमः । २४० ॐ दुःख-शोक-परित्राणाय नमः । ॐ दूर-प्रसारित-कीर्तन-श्रवसे नमः । ॐ दृढभक्त-स्वीयाय नमः । ॐ देह-मन-आरोग्यप्रदाय नमः । ॐ दैविक-गान-प्रसाददाय नमः । ॐ दोलोत्सव-दिव्यगान-प्रसिद्धाय नमः । ॐ दौर्बल्यापहाय नमः । ॐ द्युम्नवते नमः । ॐ द्युक्षाक्ष-दीक्षागुरवे नमः । ॐ द्योतित-स्वरार्णवाय नमः । ॐ द्रष्टुकामि-सम्यताञ्जल्यन्तरात्म-प्रकाशीभूताय नमः । ॐ द्राक्षापाक-सांसिद्धिक-सुकीर्तन-भावकाय नमः । २५२ ॐ द्रुतमानसोपसेवकावसादावसारणाय नमः । ॐ द्वन्द्व-दुःख-चातनाय नमः । ॐ द्वन्द्वातीताय नमः । ॐ द्वारका-निलय-नाम-तारक-निलयाय नमः । ॐ द्विकरेहपरार्थ-सङ्गीत-ज्ञानमूलाय नमः । ॐ धर्मात्म-श्रीराम-भक्त्यात्मकाय नमः । ॐ धारणायोग-प्राप्याय नमः । ॐ धाराधराभ-शरीर-श्रीराम-गानवार-वर्षण- स्वर-धाराधराय नमः । ॐ धिक्कृत-विषयासक्त-फलेहित-भिन्न-मानस-पूजाय नमः । ॐ धीर-सङ्गीतसमीराय नमः । ॐ धुनिमद्गान-सरिद्वरायै नमः । ॐ धूपित-मानसात्मताप-धूपिताय नमः । २६४ ॐ धृतमानसानुसारणासङ्ग-सङ्गीतानन्ददाय नमः । ॐ धेष्ठगुरुवराय नमः । ॐ धैर्यधाय नमः । ॐ धोरण-मधुर-गान-नित्याञ्जलीप्सा-परिपूरकाय नमः । ॐ धौतात्म-गानाराधन-प्रीताय नमः । ॐ ध्यायमान-गुरुदेवाय नमः । ॐ ध्यान-तत्पर-दृष्टि-गोचराय नमः । ॐ ध्रणित-ध्यान-धन्यताय नमः । ॐ ध्रुव-सङ्गीत-सिद्धये नमः । ॐ ध्वनित-रामराम-पटुस्वर-स्वाकारालयाय नमः । ॐ नव-तुलसी-दल-रागानुरागार्चित-रामाय नमः । ॐ नवनीत-सम-रवाय नमः । २७६ ॐ नन्दित-नाम-कीर्तनाय नमः । ॐ नर्दित-नाम-श्रेयसे नमः । ॐ नर्तित-नाम-कीर्तनानन्दाय नमः । ॐ नदित-नाम-तारकाय नमः । ॐ नाद-मार्गाग्र्याय नमः । ॐ निरालम्बन-नाद-विद्यार्थ्यैक-गतये नमः । ॐ निराकारोंकार-गूढाय नमः । ॐ निर्भासित-नाद-नभसे नमः । ॐ नीरधर-स्वरगाम्भीर्याय नमः । ॐ नुतिगीत-सहस्र-जनकाय नमः । ॐ नूतन-कीर्तन-सुमार्चित-रामाय नमः । ॐ नृत्य-गीत-रूप-रागदैवताय नमः । २८८ ॐ नेत्रानन्द-श्रीराम-रूप-लावण्य-गानानन्द-मयाय नमः । ॐ नैत्य-गानाञ्जलि-प्रतीताय नमः । ॐ नोदित-नादोपासनाय नमः । ॐ नौकाचरित्र-गेयनाटक-श्रीकृष्णलीला-स्तवित्रे नमः । ॐ न्युङ्ख-कृति-पुष्पोपासन-प्रीताय नमः । ॐ पवनज-सतत-सेवित-भजनानन्द-कीर्तन-सेवितरामाय नमः । ॐ पवनज-स्तुतिपात्र-प्रमोदन-पावन-नुतिगात्रे नमः । ॐ पावन-श्रीराम-भक्ति-श्रेयः-प्रमाणीकर्त्रे नमः । ॐ पिपासित-नामामृत-पानाय नमः । ॐ पीत-नामकीर्तनानन्दताय नमः । ॐ पुण्यरूप-श्रीराम-दर्शनानन्द-पुण्यरूपाय नमः । ॐ पूज्यगुरवे नमः । ३०० ॐ पृक्त-भक्तप्राणाय नमः । ॐ पृष्टिदीक्षागुरवे नमः । ॐ पेषित-नादार्थ-वरदाय नमः । ॐ पैतामह-श्रीसीताराममूर्ति-सङ्गीतेज्यापर-यजताय नमः । ॐ पोतन-श्रीरामनाम-मधुरगान-मदयित्नवे नमः । ॐ पौनरुक्त-नादोपासन-गरिम्णे नमः । ॐ प्यायन-स्वरामृत-स्रुते नमः । ॐ प्रतिक्षण-नामस्मरणातिजागराय नमः । ॐ प्रातस्तरां तुम्बर-सहित-सुस्वर-गानाञ्जल्यामोदिने नमः । ॐ प्राञ्जलि-तथ्योपचार-प्राण-प्रसून-पुष्पोपहार-प्रमोदिने नमः । ॐ प्रियभाषिणे नमः । ॐ प्रियङ्कर-गुरुनाथाय नमः । ३१२ ॐ प्रीतिमय-गुरुदेवाय नमः । ॐ प्रीति-रसायन-सुकीर्तन-बोधकाय नमः । ॐ प्रुषित-मानसपुष्पावश्यायबिन्द्वश्र्वार्द्रगुरवे नमः । ॐ प्रुषित-पुष्पासवानुराग-गानार्द्रीभूत-गुरवे नमः । ॐ प्रेमार्द्र-मधुर-मय-गीत-श्रीराम-परिष्वङ्गाय नमः । ॐ प्रैय-विग्रह-सद्गुरुमूर्तये नमः । ॐ प्रोक्षित-श्रीरामचरणोदक--गानामृतकाय नमः । ॐ प्रौढ-रामभक्ति-चन्द्राय नमः । ॐ प्रौढ-नामकुसुम-नाद-पारिजाताय नमः । ॐ प्लुत-नाम-दिव्यगन्ध-नादानन्द-समीरणाय नमः । ॐ प्लाव्य-दिव्यगान-देवकुल्यायै नमः । ॐ फणिनाथ-तल्पग-सान्निध्यग-गाननाथ- श्रीत्यागराजगुरुनाथाय नमो नमः ॥३२४ ॐ फलदातृ-सद्गुरवे नमः । ॐ फल-निष्पत्तिद-सङ्गीत-योगमार्ग-नीथाय नमः । ॐ फलनिर्वृत्तिदाय नमः । ॐ फलित-परब्रह्म-श्रीरामाय नमः । ॐ फाल-प्रभान-भक्तानुराग-तिलकाय नमः । ॐ फुल्ल-नामानन्दारविन्द-नयनाय नमः । ॐ बंहिष्ठानुराग-प्रसृमराय नमः । ॐ बाष्पकण्ठ-भक्ताग्र-प्रादुर्भावाय नमः । ॐ बिठद्वयस-नादाकृतये नमः । ॐ बीजाक्षरोंकारान्तस्थ-नादशक्तये नमः । ॐ बुद्धियोगोपाश्रित-भक्त-चित्त-सतताश्रिताय नमः । ॐ बृहद्भास-सङ्गीत-ज्योतिषे नमः । ३३६ ॐ बोधगुरवे नमः । ॐ ब्रह्मज्ञानिने नमः । ॐ ब्रह्मस्वरूपाय नमः । ॐ ब्राह्ममुहूर्त-नादोपासन-प्रियाय नमः । ॐ भक्तिपूर्व-सुस्वर-गानानन्दिताय नमः । ॐ भगवद्गुण-गानलोलाय नमः । ॐ भाव-समाहिताय नमः । ॐ भिन्नहृद्-भिषजे नमः । ॐ भीतगायनोच्छ्वासयित्रे नमः । ॐ भुजगशयन-भजनानन्दिताय नमः । ॐ भूजामनोहराध्युषित-सुमानसाय नमः । ॐ भृतोत्तम-भक्तये नमः । ३४८ ॐ भेषज्य-सङ्गीताचार्याय नमः । ॐ भैरवीराग-सुकीर्तनानन्दितागाधादिदेव-दर्शन-भाग्याय नमः । ॐ भोगमोक्ष-प्रद-कीर्तनोपदेशकाय नमः । ॐ भौलीरागालापन-मधुरगान-श्रीराम-प्रातर्गेयाय नमः । ॐ भ्रमि-मानस-बाधा-निधनाय नमः । ॐ भ्रान्तिहराय नमः । ॐ भ्रूमध्यैक्यान्तरीक्षण-विलसित-नादशक्तये नमः । ॐ मङ्गलकर-दिव्यवाण्यै नमः । ॐ मङ्गलवपुषे नमः । ॐ मङ्गलायन-दिव्य-गानाचार्याय नमः । ॐ मानित-गानविद्या-प्रमात्रे नमः । ॐ मिष्ट-गीत-प्रसादिने नमः । ३६० ॐ मीर-रहित-सुस्वरार्णवाय नमः । ॐ मुखजित-सुधाकर-श्रीराम-गानजित-सुधामाधुर्याय नमः । ॐ मुनिजीवन-श्रीराम-गान-जीवन-मुनये नमः । ॐ मूकवच्छिष्य-पञ्चशतिनामावल्यर्चित-गुरवे नमः । ॐ मृदुतर-मधुर-त-वाग्भूषणाय नमः । ॐ मेघश्याम-गीर्मेघाय नमः । ॐ मैत्रीमयाय नमः । ॐ मोक्षोपायाय नमः । ॐ मौनगुरवे नमः । ॐ मौनोदीर्ण-नाद-दीधितये नमः । ॐ मौनश्रुति-श्वासाखण्ड-गानार्पिताय नमः । ॐ म्नात-सद्गुरुदेवाय नमः । ३७२ ॐ म्रक्षित-तारकनाम-धनाय नमः । ॐ यशस्कर-नादविद्या-भाग्यधेयाय नमः । ॐ याचिताचार्य-दर्शन-सहवर्तन-वरदाय नमः । ॐ युक्तमानस-शिष्य-लोकान्तरङ्ग-मर्म-वेदयित्रे नमः । ॐ युक्त-नामयोगाय नमः । ॐ येष्ठ-नाम-धारावाहिने नमः । ॐ योगेश्वर-नामजप-योग-पथकाय नमः । ॐ यौगिक-सङ्गीत-भक्तजा-भक्तजीवनाय नमः । ॐ रक्षितानन्यभक्ताय नमः । ॐ रघुवर-नुति-कृतिवाराय नमः । ॐ रागहराय नमः । ॐ रागवरदाय नमः । ३८४ ॐ राजराजवर-रामगानपर-त्यागराजगुरुवराय नमः । ॐ राजाधिप-रामनुति-गानाधिपाय नमः । ॐ राजित-रामचन्द्र-रागसुधाम्बुधये नमः । ॐ राजीवलोचन-रागार्द्रलोचनाय नमः । ॐ रिक्थ-कुलधन-राममूर्तये नमः । ॐ रीण-रामभक्ति-रोमकूपाय नमः । ॐ रुचित-राम-रूपरुचये नमः । ॐ रुत-रामभक्तिश्रेयसे नमः । ॐ रूढ--रामानुराग-रागरागिणे नमः । ॐ रूषित-रामरत्न-राग-कनक-माला-धराय नमः । ॐ रेभित-रामनाम-गानानन्दाय नमः । ॐ रैवत-राग-राधस्पतये नमः । ३९६ ॐ रोगहर-राग-निर्झराय नमः । ॐ रोमाञ्चनकर-गुरुवराय नमः । ॐ ललितपद-रचित-रागसुधा-स्यन्न-सुकीर्तनोद्भावकाय नमः । ॐ लाञ्छित-लाघव-सुकवित्वाय नमः । ॐ लिप्त-वासित-रामनाम-चन्दनसाराय नमः । ॐ लीन-सुस्वराय नमः । ॐ लुलित-मानस-शमन-सङ्गीतस्वनाय नमः । ॐ लून-मानसपुष्पार्पकान्तर्-नभोद्गम-प्ररोहाय नमः । ॐ लेश्यामयाय नमः । ॐ लोकातिग-नादशक्तये नमः । ॐ वर-सुस्वर-मूलकन्दाय नमः । ॐ वाग्वरदाय नमः । ४०८ ॐ वाचामगोचराय नमः । ॐ विद्याशयाय नमः । ॐ वीणावादन-वित्तिदाय नमः । ॐ वेदसन्नुत-श्रीराम-सन्नुतये नमः । ॐ वेदसार-श्रीरामनाम-नादसाराय नमः । ॐ वैदेहीभाग्य-गेय-भाग्यवते नमः । ॐ वैभोगरङ्ग-रङ्ग-गानरङ्गणाय नमः । ॐ व्याप्त-सुस्वरगानाय नमः । ॐ व्यालीन-भवारण्य-तारकाय नमः । ॐ शङ्ख-चक्रादि-धर-स्व-हृद्-धराय नमः । ॐ शङ्करप्रिय-प्रिय-शङ्करगेयाय नमः । ॐ शस्त-तारकनाम-महिम्ने नमः । ४२० ॐ शस्त-नादशक्तये नमः । ॐ शाश्वतिक-सङ्गीत-वरप्रसाददाय नमः । ॐ शिष्ट-नादोपासन-शुभचरिताय नमः । ॐ शीकित-सुस्वरानन्द-वरानन्द-कीर्तनाय नमः । ॐ शुभस्वराय नमः । ॐ शुभकराक्षय-कीर्तन-पुष्पोपमादाय नमः । ॐ शून्यवाद-व्यपरोपण-नामकीर्तन-बुधानाय नमः । ॐ श‍ृङ्गारशेखर-श्रीराम-गानानन्दशेखराय नमः । ॐ शेखरित-रामरत्न-ज्योतिषे नमः । ॐ शैलसार-दृढभक्तानुग्राहिणे नमः । ॐ शोधन-सङ्गीतशुभ्रायै नमः । ॐ शौभश्रीत्यागराजस्वामिने नमो नमः । ४३२ ॐ श्यामसुन्दरमूर्ति-गायन-सुन्दर-सप्तस्वरमूर्तये नमः । ॐ श्रद्धालु-गोप्त्रे नमः । ॐ श्रमिशिष्यान्तस्थामितात्मशक्ति-दीप-सन्धुक्षयित्रे नमः । ॐ श्रवस्य-प्रदाय नमः । ॐ श्रान्तमनस्-संवाहन-गीतामृत-परीवाहिणे नमः । ॐ श्रितानन्यभक्तावनाय नमः । ॐ श्रीरामतारक-महिमास्पदाय नमः । ॐ श्रुतिशुद्धात्मानन्द-गानाविष्याय नमः । ॐ श्रेष्ठतम-नाद-ब्रह्मवर्चसाय नमः । ॐ श्रैष्ठ्यद-नादाचार्याय नमः । ॐ श्रोत्रपेय-पेयूष-वाचे नमः । ॐ श्रौष्टि-सेवन-प्रीत-श्रीरामाय नमः । ४४४ ॐ श्लक्ष्णगिरे नमः । ॐ श्लाखित-सङ्गीतान्तरीक्षाय नमः । ॐ श्लाघित-सङ्गीतोपासनाय नमः । ॐ श्लिष्ट-श्लिष्टनिजभक्ताय नमः । ॐ श्लील-गानराजाय नमः । ॐ श्लेष-कविवराय नमः । ॐ श्लोकित-नादकीर्तये नमः । ॐ श्लोक्य-गानमूर्तये नमः । ॐ श्लोकित-गुरुवराय नमः । ॐ श्वसित-सुस्वराहराय नमः । ॐ श्वान्त-सुस्वर-सरोवराय नमः । ॐ श्वोवसीयसाय नमः । ४५६ ॐ षड्जाधार-श्रुतिमूलक-सङ्गीत-स्रोतसे नमः । ॐ षाडवौडव-सम्पूर्ण-रागसार-गृहीतदेहाय नमः । ॐ षोडशोपचाररूप-श्रीराम-नित्य-गान- पूजापर-परमभागवताय नमः । ॐ सङ्गीतप्रियाय नमः । ॐ सङ्गीतसद्मने नमः । ॐ सर्वत्र-सत्त्वाय नमः । ॐ सार-रामनाम-महिम-रहस्योपदेशन-सद्गुरवे नमः । ॐ सितराम-प्रेमबन्धनाय नमः । ॐ सीताराम-सततनिवास-सुकीर्तनजालाय नमः । ॐ सुमधुर-सप्तस्वरोपनिवेशिने नमः । ॐ सुस्वर-सुधारस-पूर्णाय नमः । ॐ सुस्वरामृत-रसायनाय नमः । ४६८ ॐ सुस्वराकाश-स्फुरन्-मेघदीपाय नमः । ॐ सुस्वरारण्यकाय नमः । ॐ सुस्वरविद्यासक्तैकाकि-मार्गिताय नमः । ॐ सुस्वरार्थि-मनोव्योम-वैयुष्टार्चिषे नमः । ॐ सूत्रधारि-श्रीराम-गान-सिद्धमानसाय नमः । ॐ सृष्ट-सूनृत-श्रीरामार्चन-सुकीर्तनायुताय नमः । ॐ सेवित-सुकवित्वाय नमः । ॐ सेवित-श्रीराम-सेवाकाराय नमः । ॐ सोत्कृष्ट-रामराम-मधुर-स्वराय नमः । ॐ सौमित्रि-सहित-श्रीराम-यागरक्षण-दर्शन-मधुर-गानाय नमः । ॐ स्तुतिगीत-मण्डल-शोभित-श्रीरामाय नमः । ॐ स्तोत्र-पुष्पावलि-मण्डित-सद्गुरवे नमः । ४८० ॐ स्थित-श्रीरामप्रज्ञाय नमः । ॐ स्थिर-प्रतिष्ठित-भक्तप्रज्ञाय नमः । ॐ स्निग्धदृष्टि-सङ्गीतशास्त्र-ज्ञान-सारूप्यदाय नमः । ॐ स्नात-रामगानगङ्गाय नमः । ॐ स्नेहितासङ्ग्यनुराग-चन्दनसाराय नमः । ॐ स्नेहलाय नमः । ॐ स्पष्टार्थ-तत्त्वाढ्य-गान-ज्ञानावबोधकाय नमः । ॐ स्पृहावन्-नादवरदाय नमः । ॐ स्फुरत्-सहस्रायुत-भास्कर-तेजाय नमः । ॐ स्फुट-रामनामचन्द्र-सुस्वरतारक-सङ्गीतपुष्कराय नमः । ॐ स्फूर्तिमन्-नामगानानन्दाय नमः । ॐ स्फूर्तिहेतुकाय नमः । ४९२ ॐ स्मृत-सुन्दर-रघुरामाय नमः । ॐ स्मेर-नाद-कुसुम-नाम-सुगन्धाय नमः । ॐ स्योनकृत्-सङ्गीतातिदेवाय नमः । ॐ स्मृत-मात्रावभासिने नमः । ॐ स्वच्छ-दिव्य-सङ्गीत-पुष्करिण्यै नमः । ॐ स्वरविद्यानिधये नमः । ॐ स्वरशुद्धि-प्रदाय नमः । ॐ स्वतन्त्रत्व-वरदाय नमः । ॐ स्वराक्षर-कदम्बक-सुवासिताय नमः । ॐ स्वादित-पूजक-भावाकूत-नैवेद्याय नमः । ॐ स्वीकृतानन्दित-निजभक्त-गानाञ्जलये नमः । ॐ स्वीयानन्यभक्तानन्त्योंकार-नादरूप-वृतिंकराय नमः । ५०४ ॐ हरिनामसङ्कीर्तन-हारिकण्ठाय नमः । ॐ हरिनामसङ्कीर्तन-श्रेयोपश्वसिताय नमः । ॐ हरिभक्ति-स्रवत्-सुकीर्तन-बोधि-चित्तये नमः । ॐ हास्यरसानुविद्ध-निन्दास्तुतिराजाय नमः । ॐ हितोपदेशसार-सुकीर्तनानुग्राहिणे नमः । ॐ हीनशक्तैकभक्तैकपर्त्रे नमः । ॐ हृद्गतसद्गुरवे नमः । ॐ हृदयपूर्व-भक्ति-पुष्पाञ्जल्यामोदिताय नमः । ॐ ह्लादुक-दिव्यस्वराय नमः । ॐ ह्लादित-भक्तानुराग-गानाय नमः । ॐ हेमकुम्भ-हृत्पूर्णानुराग-मध्वर्पिताय नमः । ॐ हैमन-सुस्वरार्णव-बालार्काय नमः । ५१६ ॐ श्रीरामबालार्क-सुवर्णीकृत-सुस्वरार्णवाय नमः । ॐ सर्वानन्द-सुख-रम्य-रमणीय-लावण्य-सञ्चयास्पदाय नमः । ॐ भक्तान्तःकरण-परिपूर्ण-व्यापिने नमः । ॐ भक्तान्तःकरण-भावित-सुवास-पुष्पार्पिताय नमः । ॐ भक्तिपुष्प-सङ्गीत-क्षिपण्यवे नमः । ॐ भक्तिसुरभित-गानमधुरित-निश्चलचित्त-पुष्पार्चिताय नमः । ॐ भक्त-हृद्गुहा-विकाशित-नादस्फूर्तये नमः । ॐ स्वर्णवन्नादतेजसे नमः । ॐ एकान्तयेवानुभूयमानाय स्वरोचिषे नमः । ॐ सुनादमूलातिगहन-प्रशान्तये नमः । ॐ नादब्रह्म-सूक्ष्मरूप-प्राणशक्तये नमः । ॐ स्वच्छ-प्रशान्त-मनःस्फुट-नादब्रह्मणे नमः । ५२८ ॐ नादबिन्दवे नमः । ॐ नादवलयिताय नमः । ॐ नादलयाय नमः । ॐ नादालयाय नमः । ॐ नादालयज्ञानदीपाय नमः । ॐ नादालयहृद्दैवताय नमः । ॐ नादार्चये नमः । ॐ नादार्चिताय नमः । ॐ नादसिद्धये नमः । ॐ नादातिशक्तये नमः । ॐ नादोपासक-स्वैकीभावक-नादातिगुरवे नमो नमः । ॐ नादब्रह्मानन्दसद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥ ५४० ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः सुपादयुग्मपुष्पे गुरुपादयुक्तपुष्पया तथ्योपचारोपहारीकृता पञ्चशतीनामावलिः । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मसहस्रनामावली

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मसहस्रनामावली ॥ ॐ त्यागराजाय विद्महे नाददेवाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥ अथ सहस्रनामावलिः । ॐ ॐ सङ्गीतालय-प्रतिष्ठित-भगवते नमः । ॐ ओंकारविग्रहाय नमः । ॐ नादोपासन-लालसा-प्रज्वलित-दीपसन्निधि-देवाय नमः । ॐ भक्ताश्र्वभिषिक्त-पावन-मूर्तये नमः । ॐ अनुराग्यत्यन्तभक्ति-भाव-चेलावृताय नमः । ॐ सुस्वर-सुवासिताय नमः । ॐ नादकुसुम-भूषिताय नमः । ॐ नामकुसुम-पूजिताय नमः । ॐ ध्यानस्थास्वर्चिताय नमः । ॐ सहस्रनाम-सामोद-पुष्पाञ्जलि-समर्पिताय नमः । ॐ सुस्वरगान-तृष्णात्मताप-धूपार्पिताय नमः । ॐ कृताञ्जल्यात्मनिवेदनाभिवन्दिताय नमः । १२ ॐ घन-नय-राग-गान-दीपाराधन-सन्दर्शिताय नमः । ॐ झणत्कार-घण्टानाद-मधुरगान-ज्वलत्- प्रेमहृत्कर्पूर-नीराजिताय नमः । ॐ स्वात्मानन्द-नादरूप-दर्शनानन्द-प्रसाददाय नमः । ॐ नादब्रह्मानन्द-स्वरूपाय नमः । ॐ नादानन्द-नर्तन-रूपाय नमः । ॐ उपासक-मनोरङ्ग-नर्तन-सुस्वरदेवतायै नमः । ॐ सरिगमपधनि-वर-सप्तस्वरानन्द-लास-लस-सङ्गीतदेवतायै नमः । ॐ नादासक्त-हृच्चित्त-कण्ठ-जिह्वस्थ-नाददेवतायै नमः । ॐ शोशुभ्यमान-सप्तस्वर-स्फुरत्-प्रभामण्डल-वलयिताय नमः । ॐ सङ्गीतानन्द-सुप्रभ-सुमुखाय नमः । ॐ नादरूप-श्रीराम-तिलकित-सुललाटूलाय नमः । ॐ ज्ञानोद्वह्नि-नयनदीप्तये नमः । २४ ॐ सुस्वर-सौरभ्य-श्वसत्-सुनसे नमः । ॐ सप्तस्वर-घण्टिका-मण्डित-कोदण्डपाणि-नामोच्चारणोष्ठाय नमः । ॐ मङ्गलवाण्यानन्द-नटन-मधुजिह्वाय नमः । ॐ घन-नय-रव-गान-सुधास्पर्धि-मधुरकण्ठाय नमः । ॐ स्वराक्षरमालालङ्कृत-कन्धराय नमः । ॐ स्वराक्षमालाशोभित-सुहृद्देशाय नमः । ॐ तुम्बर-ताल-सुनादन-करारविन्दाय नमः । ॐ नाभीहृत्कण्ठरसन-नासाभ्रमण-नादात्मकाय नमः । ॐ नादोपासन-सुस्वर-पुष्पापूजित-पदपुण्डरीकाय नमः । ॐ ओंकारावर्त्यन्तर्बीजाय नमः । ॐ ओंकारगूढ-नादमूल-प्रशान्तये नमः । ॐ प्रशान्ति-मूलक-दिव्य-प्रणवनाद-स्वरूपिणे नमः । ३६ ॐ ओंकारान्तस्थ-सुनादस्वरूप-भक्तान्तरीक्ष-व्यापिने नमः । ॐ सुनादभृत्-पर्याप्त-परमानन्द-प्रशान्तये नमः । ॐ सुस्वरान्तस्थित-सूक्ष्मरूपाय नमः । ॐ सुखश्रव-मधुर-नादरूप-सर्वव्यापिने नमः । ॐ मधुरस्वर-वीणा-प्रक्वण-स्थायिने नमः । ॐ अक्षर-सुस्वर-सञ्चर-सङ्गीतवाण्यै नमः । ॐ निश्शब्दोत्पन्न-सुशब्द-स्वरूपाय नमः । ॐ नीरव-श्रुति-सहित-गाथ-कलघोषाय नमः । ॐ ओंकार-श्रुति-सहित-कलोत्ताल-गानस्वरूपाय नमः । ॐ अखण्ड-नादानन्द-महाकाशाय नमः । ॐ अगाध-नाद-महोदधये नमः । ॐ अपार-नादार्णव-पाराय नमः । ४८ ॐ मौनाब्ध्युत्पन्न-मृदुतर-मधुस्वर-तरङ्गाय नमः । ॐ श्रीरामनाम-श्रुतिसहित-गीततरङ्ग-पूरित-नाद-नीरधये नमः । ॐ श्रीरामनामोर्मि-संसारतीरोपक्रमण-सङ्गीतानन्दपुरणाय नमः । ॐ अमृतमय-सुस्वरार्णव-क्षितिजोदित-सितरश्मये नमः । ॐ सङ्गीत-समीच-विद्योतन-हिमद्युतये नमः । ॐ सङ्गीतपयोनिध्यानन्दलहर्युत्थापन-राकाहिमकराय नमः । ॐ सुस्वरसुधाब्धि-मुदावीचि-स्फुरद्रजत- धवलप्रकाशन-शरच्चन्द्रिकायै नमः । ॐ समुद्रतट-ज्योत्स्न्यानन्दद-सङ्गीतकौमुद्यै नमः । ॐ सङ्गीतानन्दामृत-वर्षण-मधुरगान-पीयूषनिधये नमः । ॐ सङ्गीत-भुविस्तीर-प्रवात-शीतल-सुवास-सुस्वर-समीराय नमः । ॐ अमृतत्व-पूरित-सङ्गीत-रसानुभवमयाय नमः । ॐ अमृत-सेचन-दया-पयोधर-वाक्प्रभवाय नमः । ६० ॐ मधुरगान-तडित्वते नमः । ॐ परिधीर-गम्भीर-नाद-पयोभृते नमः । ॐ दिव्यगान-धारावाहिने नमः । ॐ सङ्गीतसीमारुणोदयाय नमः । ॐ सङ्गीतव्योम-नानाराग-रञ्जनकर-पिञ्जर-भासवे नमः । ॐ सुस्वरार्णव-विरोचन-विभाकराय नमः । ॐ विशाल-विपुल-गानगगन-भ्राजिष्णु-भास्करतेजसे नमः । ॐ शुष्क-मनोमरु-सङ्गीत-स्रोतसात्कर्त्रे नमः । ॐ सङ्गीततृष्णा-संतुष्टि-करोत्साय नमः । ॐ सङ्गीत-सुगन्ध-पुष्पारामामोद-सुस्वर-मन्दमारुताय नमः । ॐ सुखश्रव-गान-सौगन्ध्य-वहन-मलयमारुताय नमः । ॐ गानकुञ्ज-गुञ्जन्-मधुकराय नमः । ७२ ॐ गान-कानन-निलयाय नमः । ॐ गानगङ्गा-रयाय नमः । ॐ गाननिर्झर-नाम-मधुधारायै नमः । ॐ सङ्गीत-विपिन-सुस्वर-कूजित-वसन्तघोषिणे नमः । ॐ सङ्गीतज्ञान-नदी-भक्ति-मूलस्रोतसे नमः । ॐ सङ्गीत-नभोमण्डल-दीदिवि-देवभूयाय नमः । ॐ रागहिमालय-रौप्यमयकर-रामचन्द्रपादाय नमः । ॐ श्रीरामसूर्यारुणीकृत-सुस्वर-हिमाद्रिशिखराय नमः । ॐ श्रीरामसरोवर-प्रतिबिम्बित-सङ्गीतमूर्तये नमः । ॐ सङ्गीतसरोवर-प्रतिबिम्बिताय साक्षात् श्रीराममूर्तये नमः । ॐ परावर-विबोभुवन्-नादभाससे नमः । ॐ कूपार-व्योमदघ्न-नादाकृतये नमः । ८४ ॐ नगाधिराज-हिमालयोत्तुङ्गतर-गानाधिराजाय नमः । ॐ भक्ति-हिमवत्प्रभव-दिव्यसङ्गीत-ज्ञानगङ्गायै नमः । ॐ स्मृतमात्र-मुक्तिद-गानगङ्गोद्भेदाय नमः । ॐ विगाह-ह्लादक-कृतिगङ्गा-प्रवाहाय नमः । ॐ क्लान्त-मनःशरीरौषध-दैविक-कीर्तनगङ्गायै नमः । ॐ कोप-ताप-पाप-यापनोत्पवन-पुण्य-गीतगङ्गायै नमः । ॐ मनःपावक-दिव्य-वाग्गङ्गाप्रवाहिणे नमः । ॐ ज्ञानपिङ्गाश-रागमय-गानगङ्गाप्लावाय नमः । ॐ परब्रह्मस्वरूप-गङ्गापावित्र्यापररूपाय नमः । ॐ प्रदोषरमणीय-गङ्गातीर-गभीरप्रशान्तये नमः । ॐ गङ्गास्नानफलप्रद-श्रीरामध्यान-विधायिने नमः । ॐ प्रणव-व्योम-प्रभूत-पञ्चनदक्षेत्र-विभूत- सङ्गीतोपासनहृत्- पुष्पानुराग-मधुसागर-सङ्गमित- सङ्गीत-सुरगङ्गायै नमः । ९६ ॐ सङ्गीतमय-जीवनाधारश्रुतये नमः । ॐ सङ्गीत-कल्पद्रुमाय नमः । ॐ सङ्गीतसुम-भक्तिसौरभ्याय नमः । ॐ सङ्गीतज्ञानफलाय नमः । ॐ सङ्गीतस्वादाय नमः । ॐ पर्याप्त-स्वादुमयाय नमः । ॐ स्वादु-फलप्रदाय नमः । ॐ सांसिद्धिक-सङ्गीतवरदाय नमः । ॐ सङ्गीतोपासनाखण्डानन्द-सौमङ्गल -संवर्धकाय नमः । ॐ सुस्वरधाम्ने नमः । ॐ सङ्गीतापरनाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८ ॐ सस्मित-सङ्गीतदेवाय नमः । ॐ सदानन्द-सङ्गीतसत्त्वाय नमः । ॐ सङ्गीत-सत्त्वसाराय नमः । ॐ सदातन-सङ्गीतानन्दकाराय नमः । ॐ सद्यःप्राणकर-सङ्गीत-सञ्जीवनौषधये नमः । ॐ समुन्नत-नादाचल-शिखराय नमः । ॐ समुन्नत-नादाचलशिखर-भासकाय नमः । ॐ सौदामनीय-नादभाससे नमः । ॐ सौवर्णपर्ण-नादकलहंसाय नमः । ॐ सौरभ्यगाढ-सङ्गीतब्रह्मकमलाय नमः । ॐ सङ्गीतकूटावतीर्ण-ज्ञानगङ्गायै नमः । ॐ सनातन-परब्रह्म-सगुणोपासन-सङ्गीतमार्ग-संज्ञापनार्थावतीर्ण- परमपावनाय नमः । १२० ॐ परिपूर्णावतार-श्रीराम-ध्यान-नामभजन-सुगुणगान- परिपूर्णार्थाय नमः । ॐ नादरूप-श्रीरामनुति-नादावताराय नमः । ॐ श्रीरामाचलोद्भूत-सुरगान-द्युसरिते नमः । ॐ श्रीरामभक्तिमूलक-नाद-नभोनद्यै नमः । ॐ श्रीरामभक्त्युल्लोल-सङ्गीत-कल्लोलिन्यै नमः । ॐ श्रीरामपावननाम-गानप्रवाहाय नमः । ॐ श्रीरामनामावलि-स्फुरन्-नादपर्जन्याय नमः । ॐ श्रीरामनामनर्दन-जीमूतस्वनाय नमः । ॐ श्रीरामनाम-मधुतमगान-जीमूतवर्षिणे नमः । ॐ श्रीरामभक्ति-गानसुधाप्लावाय नमः । ॐ श्रीराम-नामाविरामगान-मधुगङ्गा-प्रवाहिणे नमः । ॐ श्रीरामामृत-प्रसृमर-गानामृत-प्रसराय नमः । १३२ ॐ श्रीरामसागर-सङ्गम-सङ्गीतगङ्गायै नमः । ॐ श्रीरामशयन-सङ्गीत-क्षीरसागराय नमः । ॐ श्रीरामभक्त्युदरथि-सङ्गीतवीचये नमः । ॐ श्रीराममाहात्म्य-साभ्र-सङ्गीतवियते नमः । ॐ श्रीरामभक्तिसरोवर-सङ्गीतसौगन्धिकाय नमः । ॐ श्रीरामनाम-सरसीरुह-भृङ्गाय नमः । ॐ श्रीराम-भृङ्ग-विलसित-सङ्गीत-सरोरुहाय नमः । ॐ श्रीरामनाम-मधुमन्--नादकुसुमाय नमः । ॐ श्रीरामभक्ति-मधुगन्धिक--नाममधुश्च्युत्-सुस्वर-सुमाय नमः । ॐ श्रीराम-स्तुतिगीत-मधु-घांषिणे नमः । ॐ श्रीराम-वाङ्माधुर्य-प्रकीर्तन-मधुकण्ठाय नमः । ॐ श्रीरामतारक-नामोन्नाद-नाद-मधुघोषाय नमः । १४४ ॐ श्रीरामोद्यान-नामकूजित-गान-कलघोषाय नमः । ॐ श्रीरामनाम-नीडाश्रित-गानखगाय नमः । ॐ श्रीरामरामकृष्णाहोरात्र-कूजित-जितकोकिलरव-माधुर्याय नमः । ॐ श्रीरामसपक्षोड्डीन-गान-काकलिरवाय नमः । ॐ श्रीरामनाम-तारकित-सङ्गीताकाशाय नमः । ॐ श्रीरामभक्ति-सागर-पाराय नमः । ॐ श्रीरामभक्तिसागर-सम्प्लुत-सङ्गीत-मत्स्यावताराय नमः । ॐ श्रीरामभक्तिभाग्य-सुधानिधि-प्लवनरामाय नमः । ॐ श्रीरामनाम-सङ्कीर्तनारमणाय नमः । ॐ श्रीरामानन्त-कल्याणगुण-प्रकीर्तन-देवगायनाय नमः । ॐ श्रीरामनाममधुपाय नमः । ॐ श्रीराम-मधुतमनाम-गान-मदालापिने नमः । १५६ ॐ श्रीरामनाम-मञ्जुगुञ्जत्समीर-कलरवाय नमः । ॐ श्रीरामनाम-काकलि-क्वणित-कायवेणवे नमः । ॐ श्रीरामराम-मधुरस्वरित-तनुवीणायै नमः । ॐ श्रीरामपूजन-वीणागान-श्रीराग-गिष्णवे नमः । ॐ श्रीरामनाम-पूरक-कुम्भक-रेचक-प्राणायाम-नादयोगिने नमः । ॐ श्रीराम-नादोपासन-मार्ग-गामिकाय नमः । ॐ श्रीराम-सुप्रभात-गान-मधुरालापिने नमः । ॐ श्रीराम-सीतारामात्यन्त-वात्सल्याकूजनाय नमः । ॐ श्रीराम-स्वगानमधुरित-भक्तिक्षीर-पाययित्रे नमः । ॐ श्रीराम-स्वज्ञान-नवनीताशयित्रे नमः । ॐ श्रीरामाभिनन्दन-तुम्बरसहित-श्रुतिसुख- मधुमय-गानार्पयित्रे नमः । ॐ श्रीरामगान-स्वानुभूति-ध्यान-समाधिगताय नमः । १६८ ॐ श्रीराम-सुपदध्यान-सुरगङ्गाजल-स्नानशीलाय नमः । ॐ श्रीराम-सम्प्रतिष्ठान-स्थिरचित्त-चामीकर-पीठाय नमः । ॐ श्रीराम-तेजोमय-विग्रह-ध्यानपराय नमः । ॐ श्रीरामाभिषेक-गानामृत-रसाय नमः । ॐ श्रीराम-परिधानानुराग-कनकमयचेलाय नमः । ॐ श्रीरामावरण-दिव्य-वाक्चेलाय नमः । ॐ श्रीरामालङ्करण-नामगानाशोष-कुसुममालाय नमः । ॐ श्रीरामाभूषण-स्फुरत्सहस्र-कीर्तन-रत्नावलये नमः । ॐ श्रीरामार्पण-स्तुतिभक्ति-धूपदीपाय नमः । ॐ श्रीरामार्चन-नामस्मरण-सुमाय नमः । ॐ श्रीरामभोग्य-दास्य-वात्सल्य-मधुर-प्रेम- भक्तिभावस्यन्द-चित्र-दिव्य-कीर्तनाय नमः । ॐ श्रीराम-नैवेद्य-स्वपूजाफलाय नमः । १८० ॐ श्रीरामात्यन्तिकसुख-पूजाताम्बूलाय नमः । ॐ श्रीराम-स्वात्म-दीपाराधनाय नमः । ॐ श्रीरामदर्शन-दीपाराधनानन्दिताय नमः । ॐ श्रीसीताराम-सन्निधि-प्रणिपतित-सङ्गीताकृतये नमः । ॐ श्रीराम-सर्वसारत्व-प्रगात्रे नमः । ॐ श्रीराम-सर्वसाक्षित्व-साक्षिणे नमः । ॐ श्रीरामस्वानुभूति-सम्प्रपात-सङ्गीत-दिव्यवाण्यै नमः । ॐ श्रीरामलालन-मधुश्च्युद्गान-भासुराय नमः । ॐ श्रीरामलासकाभिरुत-रामराम-गोविन्द-मुकुन्दाय नमः । ॐ श्रीरामरामक-वैचित्र्य-चित्रीकृत-गेयचतुराय नमः । ॐ श्रीरामानन्द-नर्तन-गाथपतये नमः । ॐ श्रीरामानन्द-नर्तित-गानमूर्तये नमः । १९२ ॐ श्रीरामानुरागेक्षुचाप-सप्तस्वर-सुमशर-सङ्गीतलोल- हृदयहारिणे नमः । ॐ श्रीरामसुगुणगानलोलाय नमः । ॐ गानलोलश्रीरामलोलाय नमः । ॐ मोहनराममोहिताय नमः । ॐ गतकामश्रीरामकामिताय नमः । ॐ जितरामजितमानसाय नमः । ॐ लावण्यरामलालकाय नमः । ॐ श्रीसीतारामपूजकाय नमः । ॐ जगदात्मश्रीरामस्वात्मारामाय नमः । ॐ रमणीयनाम-रामाभिराम-श्रोत्राभिराम-गानलीनाय नमः । ॐ सङ्गीतलोल-श्रीरघुवर-लुब्ध-मानसाय नमः । ॐ स्वमानस-लासि-श्रीराम-सङ्गीत-सम्परिरब्ध्रे नमः । २०४ ॐ सुधाकरानन-श्रीराम-गानसुधाकराय नमः । ॐ सुधामाधुर्य-श्रीरामभाषणापायिने नमः । ॐ सुधारसपूर्ण-श्रीराम-पायन-गान-सुधारसपूर्णाय नमः । ॐ मधुर-लालिगान-श्रीराम-योगनिद्रा-स्वापकाय नमः । ॐ नादरूप-श्रीराम-स्वान-वन्दथाय नमः । ॐ सुगुणालय-श्रीराम-सेवन-सुस्वरालयाय नमः । ॐ सप्तस्वर-समस्त-श्रीराम-नुति-सुस्वरविग्रहाय नमः । ॐ श्रीरामनाम-मौक्तिकसर-लसत्-सङ्गीतमूर्तये नमः । ॐ सङ्गीतपुष्पासार-प्रसाधितश्रीराममूर्तये नमः । ॐ श्रीरामचन्द्रमूर्ति-सँल्लीन-सङ्गीतानन्दमूर्तये नमः । ॐ नादब्रह्मानन्दरूप-श्रीराम-निवास-नादालयाय नमः । ॐ नादावतारश्रीत्यागब्रह्मसद्गुरुनाथाय नमो नमः । २१६ ॐ श्रीरामचैतन्याय नमः । ॐ श्रीरामप्रेमावताराय नमः । ॐ श्रीरामानुरागमूर्तये नमः । ॐ श्रीरामालयाकाराय नमः । ॐ श्रीरामाकार-हृदय-भावुकाय नमः । ॐ श्रीरामभूषण-प्रेमहृदयाय नमः । ॐ श्रीरामसुसदन-हृदयायतनाय नमः । ॐ श्रीराम-स्वान्तरारामाय नमः । ॐ श्रीराम-स्वानुभूति-समाहिताय नमः । ॐ श्रीरामभक्ति-योगारूढाय नमः । ॐ श्रीरामभक्ति-रसानुभवमयाय नमः । ॐ श्रीरामतारकमन्त्र-गानस्वरूपाय नमः । २२८ ॐ श्रीरामांशुजालावृताय नमः । ॐ श्रीरामध्यान-लीन-विभ्राजमानाननाय नमः । ॐ श्रीरामरेखा-भालाङ्काय नमः । ॐ श्रीराम-दिव्यरूप-विकाश-विकाशदुत्पल-चक्षुषे नमः । ॐ श्रीरामनामकुसुम-सुवासान-सुनसे नमः । ॐ श्रीरामनाम-मधुरस-मधुर-रसनाय नमः । ॐ श्रीरामगायन-मधुरकण्ठाय नमः । ॐ श्रीराममूर्ति-मुद्रित-सुहृदयाय नमः । ॐ श्रीरामपूजन-नामकुसुम-पाणिने नमः । ॐ श्रीरामप्रीणन-दिव्यगानोत्थान-मणिपूरक-चक्राय नमः । ॐ श्रीरामस्वरूप-प्रणवनादोद्भाव-मूलाधार-चक्राय नमः । ॐ श्रीरामनाम-सङ्कीर्तयत्-पावित-पञ्चनदक्षेत्र- पङ्कजचरणाय नमः । २४० ॐ श्रीरामसंयुक्त-प्राणाय नमः । ॐ श्रीरामप्रेष्ठ-दिव्यवाणाय नमः । ॐ श्रीराममय-लपिताय नमः । ॐ श्रीरामनाम-शर्करामिश्रित-मिष्टभाषिणे नमः । ॐ श्रीरामनाम-पुष्पावल्यामोदितोरस्काय नमः । ॐ श्रीरामभक्ति-चन्दनिने नमः । ॐ श्रीरामभक्त-मुद्रिताय नमः । ॐ श्रीरामनाम-खड्गधारिणे नमः । ॐ श्रीरामस्मरण-रोमाञ्चन-कञ्चुकिने नमः । ॐ श्रीरामभक्तिमार्ग-प्रत्यूहन-कामक्रोधादि-शत्रून्मूलनाय नमः । ॐ श्रीरामभक्तिलक्ष्मणे नमः । ॐ श्रीरामोपसेविने नमः । २५२ ॐ श्रीराम-दास्यभाव-वन्दिने नमः । ॐ श्रीरामदास-दास-स्व-मानिने नमः । ॐ श्रीराम-सतताश्रित-मनस्विने नमः । ॐ श्रीरामभक्ति-स्थेष्ठ-तपस्विने नमः । ॐ श्रीरामसद्भक्ति-पदवि-तेजस्विने नमः । ॐ श्रीरामानुभूत्यानन्द-सुत्वने नमः । ॐ श्रीराममय-सर्व-दृश्वने नमः । ॐ श्रीराम-स्वान्तरनवरत-दृष्टिने नमः । ॐ श्रीरामप्रेम-चिरस्थायिने नमः । ॐ श्रीरामनाम-स्मरणसुखिने नमः । ॐ श्रीरामसन्निधि-सेवसुखिने नमः । ॐ श्रीराम-सुकीर्तन-नुतये नमः । २६४ ॐ श्रीरामनाम-गानैकवृत्तये नमः । ॐ श्रीराम-सुगुणार्चत्रये नमः । ॐ श्रीराम-स्व-हृद्राजीवार्चित्रे नमः । ॐ श्रीरामैकान्ताराधयित्रे नमः । ॐ श्रीरामनिकट-लोक-तृणमात्रावेक्षित्रे नमः । ॐ श्रीरामापर्यन्त-प्रताप-विस्मयिने नमः । ॐ श्रीरामचरणोपगूढ-विस्मृतात्मने नमः । ॐ श्रीरामालिङ्गन-रोमहर्षिणे नमः । ॐ श्रीराम-चिन्तितमात्रोद्धर्षिणे नमः । ॐ श्रीराम-चिन्तनाच्छिन्नाय नमः । ॐ श्रीरामचिन्तन-गतचिन्तनाय नमः । ॐ श्रीरामनाम-जप-स्मरण-व्रतपरायण-पूतात्मने नमः । २७६ ॐ श्रीराममय-जीवनाचरित-महाज्ञानिने नमः । ॐ श्रीरामपद-पूजन-गान-प्रणेत्रे नमः । ॐ श्रीराम-परमोत्तमगुण-प्रतिज्ञेयाय नमः । ॐ श्रीरामानुग्रह-बल-दृढप्रत्ययाय नमः । ॐ श्रीराम-दृढबद्धाय नमः । ॐ श्रीराम-परिष्टवन-विशिष्टाय नमः । ॐ श्रीराम-सपर्या-पर्यायाय नमः । ॐ श्रीमद्रामायण-पारायण-परायणाय नमः । ॐ श्रीमद्रामायण-प्रतिसान्धानिकाय नमः । ॐ श्रीराम-सुचरित्र-समुद्र-विमङ्क्त्रे नमः । ॐ श्रीमद्रामायण-सुरस-घटन-बहुल-मुक्ताफल- स्फुरत्-कीर्तनावलिकर्त्रे नमः । ॐ श्रीरामपरत्व-द्योतन-भूयिष्ठ-कृतिरत्नाय नमः । २८८ ॐ श्रीराम-नामालुप्ताभिलेखन-गीतपत्राय नमः । ॐ श्रीरामतारकनाम-वैभव-विभावकाय नमः । ॐ श्रीरामतारकरूप-निजतत्त्व-ज्ञापकाय नमः । ॐ श्रीरामस्तुतिस्तोम-कीर्तनोरुकीर्तये नमः । ॐ श्रीराम-भजनानन्द-कीर्तन-वनिने नमः । ॐ श्रीराम-सदातन-गानाञ्जलि-विश्रुताय नमः । ॐ श्रीराम-नेत्रानन्द-रूपलावण्य-वर्णन-गायनललमाय नमः । ॐ श्रीराम-दिव्यनामसङ्कीर्तन-प्रीणित-प्रबुधाय नमः । ॐ श्रीरामनाम-श्रुतमात्र-रोमोद्गमाय नमः । ॐ श्रीराम-सुपद-चेतोध्र-गेयधन्याय नमः । ॐ श्रीरामपादार्चन-गीतपुष्पामोद-वाहिने नमः । ॐ श्रीरामनाम-गान-कदम्बानिलाय नमः । ३०० ॐ श्रीराममय-कलत्व-क्वणित-सुस्वरवीणायै नमः । ॐ श्रीरामसमर्पण-सङ्गीत-तनुषे नमः । ॐ श्रीरामप्रेम-सङ्गीतज्ञान-समष्टि-वपुषे नमः । ॐ श्रीराममोद-नादित-नामरूपाय नमः । ॐ श्रीरामनाम-मोदसार-नादरूपाय नमः । ॐ श्रीरामचन्द्र-गानकिरणाय नमः । ॐ श्रीरामसूर्य-नामरश्मये नमः । ॐ श्रीरामाभिन्नाय नमः । ॐ श्रीरामनामावस्थिताय नमः । ॐ श्रीरामतारकमन्त्रगोचराय नमः । ॐ श्रीरामतारकमन्त्रगम्याय नमः । ॐ श्रीरामतारकमन्त्रोपदेशन-गुरुदेवाय नमः । ३१२ ॐ श्रीरामतारकमन्त्र-गुह्यार्थ-प्रज्ञानदाय नमः । ॐ श्रीराम-नादब्रह्मैक्य-व्यक्तीकरण-कृतिदात्रे नमः । ॐ श्रीरामभक्त्यत्यूर्मि-सुकीर्तन-हृत्पूर्व-गाथिकाग्राविर्भूताय नमः । ॐ श्रीरामानुग्रह-निर्वपण-सङ्गीतानुग्रह-मूर्तये नमः । ॐ श्रीरामतारकमन्त्र-जप-दीपज्योतिर्-विरोचिष्णवे नमः । ॐ श्रीरामैकान्तचिन्तन-धूपाधिवासिताय नमः । ॐ श्रीरामप्रेम-कुड्मलित-हृत्-पुष्पार्चनप्रियाय नमः । ॐ श्रीरामानन्यशरणागति-भाव-मधु-नैवेद्यप्रियाय नमः । ॐ श्रीरामनामसङ्कीर्तन-भजन-दीपाराधनप्रियाय नमः । ॐ श्रीरामतारकनामानवरत-जपपरायण-शिष्यप्रियाय नमः । ॐ श्रीरामप्रसाद-सङ्गीतज्ञानदाय नमः । ॐ श्रीरामभक्तसमूहपूजनीयसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ३२४ ॐ अनन्यगुरवे नमः । ॐ अनन्त्य-नादशक्तये नमः । ॐ अनिमान-नादोर्जाय नमः । ॐ अनधिक-नादव्योम-विस्तृताय नमः । ॐ अत्यादित्य-नादौजसे नमः । ॐ अभिरोरुद-नादात्मने नमः । ॐ अभ्यर्हित-नादगुरवे नमः । ॐ अनातप-नादतरवे नमः । ॐ अतिगहन-नादारण्याय नमः । ॐ अमितानन्दौजस-नादमहार्णवाय नमः । ॐ अभिविमान-सङ्गीत-सुमहते नमः । ॐ अनन्तनादब्रह्मणे नमः । ३३६ ॐ अक्षर-सुस्वर-लय-नादात्मने नमः । ॐ अक्षर-सुस्वर-पुष्पार्चिताय नमः । ॐ अव्याज-नादमूर्तये नमः । ॐ अनन्त-नादानन्द-कन्दाय नमः । ॐ अखण्डगानानन्दकाराय नमः । ॐ अनित्यलोक-नित्यैकवस्तुने नमः । ॐ अचिन्त्यरूपाय नमः । ॐ अघल-पदयुगलाय नमः । ॐ अनन्यभक्तोद्दितानन्ताय नमः । ॐ अनन्तश्रीरामोद्दान-मधुरगानाय नमः । ॐ अन्तरात्मश्रीरामगानात्मने नमः । ॐ अपरिमित-सङ्गीतानन्द-लहर्यै नमः । ३४८ ॐ अनायासोद्भूत-नादामृत-स्रुतये नमः । ॐ अविघात-गानगतये नमः । ॐ अमृतवागधिपतये नमः । ॐ अमितमाधुर्य-पदप्रयोग-विचक्षणाय नमः । ॐ अविश्रान्तनादवर्षाय नमः । ॐ अतिस्वादुतर-गानप्रक्षरणाय नमः । ॐ असमान-कृतिकाराय नमः । ॐ अद्भुत-कविवराय नमः । ॐ अनुरागामोदित-सप्तस्वरदल-नादकुसुमाय नमः । ॐ अतिसौरभ-सहस्रदल-नामकुसुमाय नमः । ॐ अत्यूष-सुस्वर-गानोपासनीयाय नमः । ॐ अनुदिन-समर्पणीयाविच्छिन्न-गानाञ्जलये नमः । ३६० ॐ अविच्युत-नित्योपासन-प्रीताय नमः । ॐ अविरत-स्मरणार्द्रीभूतानन्य-भक्ताध्यक्षाय नमः । ॐ अनवरत-प्रार्थिकानारत-नादरूप-सहवर्तकाय नमः । ॐ अभिरक्तोपासित्रभिरक्षित्रे नमः । ॐ अनन्यगतिक-करुणावेक्षणाय नमः । ॐ अनन्यभाक्-सङ्गीत-शिक्षागुरवे नमः । ॐ अनानुदाय नमः । ॐ अक्षितवसवे नमः । ॐ अक्षय्य-नादविद्या-दधाय नमः । ॐ अन्तरहित-सङ्गीतानन्द-वरप्रसाददाय नमः । ॐ अनन्यदृष्टि-नादब्रह्मज्ञानदाय नमः । ॐ अनन्यार्थ-नादोपासनापवृक्तिदाय नमः । ३७२ ॐ अनन्यशरणागताभ्युपपादयित्रे नमः । ॐ अभयाञ्जल्यविदूराय नमः । ॐ अनुशयि-जिगत्नवे नमः । ॐ अनुकम्पाकृतये नमः । ॐ अनानुकृत्याय नमः । ॐ अवगाढ-शम-महोदधये नमः । ॐ अखण्डनामसङ्कीर्तनप्रियाय नमः । ॐ अनन्यभक्ताप्ताय नमः । ॐ अनुराग-राग-संयोगाय नमः । ॐ अनुराग्यन्तरात्म-स्वरूप-रागरूपाय नमः । ॐ अविज्ञ-भक्तात्मतापार्चिताय नमः । ॐ अशक्त-भक्तानुराग-मनो-वचन-कर्म-पूज्यमान-गुरवे नमः । ३८४ ॐ आसक्तोपासकात्मसात्कर्त्रे नमः । ॐ आविर्भूत-नादौजसे नमः । ॐ आपृक्त-नादान्तरीक्ष-दिव्यतेजसे नमः । ॐ आद्यन्त-रहितानुराग-परञ्ज्योतिषे नमः । ॐ आसङ्ग-सङ्गीतानन्दावृताय नमः । ॐ आराधक-हृदयकमल-निवासाय नमः । ॐ आयुत-भक्तचित्ताय नमः । ॐ आत्मसनये नमः । ॐ आश्रितैकनिधये नमः । ॐ आत्मनिवेदि-हृदयपूर्वानुराग-कार्त्स्न्याय नमः । ॐ आनन्दक-सङ्गीतातिगुरवे नमः । ॐ आचार्यदेवाय नमः । ३९६ ॐ आयुरारोग्यप्रदाय नमः । ॐ आलस्य-क्षोभणकराय नमः । ॐ आह्लादक-गानविद्या-वरदाय नमः । ॐ आगाध-रागताल-वित्तिदाय नमः । ॐ आत्मज्ञानावबोधकाय नमः । ॐ आत्मतत्त्व-ज्ञानदाय नमः । ॐ आत्मीभाव-हेतुकाय नमः । ॐ इष्टदैवताय नमः । ॐ इयसा-व्यपाकर्त्रे नमः । ॐ इयक्षु-नादविद्याभिनिष्पत्ति-वित्तापयित्रे नमः । ॐ इक्षुरसस्रव-सुकवित्व-दात्रे नमः । ॐ इष्टार्थ-शुभ-सङ्गीतानन्ददुहे नमः । ४०८ ॐ इहभोग-ज्ञान-मोक्ष-प्रदात्रे नमः । ॐ ईहित-सङ्गीत-लयानुसम्पत्ति-समीरयित्रे नमः । ॐ ईश्वरप्रसाद-नादविद्या-सौक्ष्म्योपदेष्ट्रे नमः । ॐ उत्तमश्लोक-सङ्गीतगुरवे नमः । ॐ उदात्त-सङ्गीतमय-जीवनोदाहृतये नमः । ॐ उत्थित-नादावभासाय नमः । ॐ उद्वेल-नाद-सिद्धसिन्धवे नमः । ॐ उत्तमसङ्गीतसिद्धाय नमः । ॐ उत्सवसम्प्रदायकीर्तनापराय नमः । ॐ उत्सवसम्प्रदाय-मधुरकीर्तन-श्रीराम-नूपुर- झाङ्कृति-श्रावयित्रे नमः । ॐ उदात्त-सुस्वर-रामरामोत्कूजित-गानकोकिलाय नमः । ॐ उषोगानाराधन-विधायिने नमः । ४२० ॐ उषोपगापितानुरागार्द्रैकान्तोपासकाय नमः । ॐ उपासकोत्तारकाय नमः । ॐ उपासकान्तस्थिताय नमः । ॐ ऊर्ध्वोड्डीन-सुस्वर-सपक्षाय नमः । ॐ ऋग्म्यूमाय नमः । ॐ ऋजुवनये नमः । ॐ ऋणानुबन्ध-विमोक्त्रे नमः । ॐ ऋतन्ये नमः । ॐ ऋतधीतये नमः । ॐ ऋतधाम्ने नमः । ॐ एकदृश्याय नमः । ॐ एकान्तभक्तिपुष्पोपासितसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ४३२ ॐ एकान्तभक्तिप्रतीतसद्गुरवे नमः । ॐ एकाग्रध्यानगम्याय नमः । ॐ एकाग्रभक्तान्तर्ज्ञानचक्षुर्विकाशकाय नमः । ॐ एकाग्रध्यातृ-श्रोत्रगोचर-सुस्वरामृत-वाण्यै नमः । ॐ एकनिष्ठ-ध्यानस्थान्तरीक्षोत्थान-नादोदर्चिषे नमः । ॐ एकमनः-सपर्यु-सङ्गीतापवर्गदाय नमः । ॐ ऐकाग्र्यप्रदाय नमः । ॐ ओंकारनादरूपिणे नमः । ॐ औजस्यनादशक्तये नमः । ॐ कदनादकाय नमः । ॐ कलस्वनानुग्राहिणे नमः । ॐ करुणाकटाक्षेक्षणाय नमः । ४४४ ॐ कल्मषनाशनोद्द्योतवीक्षणाय नमः । ॐ कष्टनिवारिणे नमः । ॐ कर्मकौशलप्रदायिने नमः । ॐ कर्मबन्धन-विदलनकराय नमः । ॐ कालकालाय नमः । ॐ कारुण्यमीराय नमः । ॐ कार्यसिद्धिप्रदाय नमः । ॐ कार्तस्वरस्वराय नमः । ॐ किरद्-रामचन्द्रांशुजाल-सुस्वर-पूर्णचन्द्राय नमः । ॐ कीर्तनाचार्याय नमः । ॐ कुण्डलीशशयन-कीर्तनानन्दनाय नमः । ॐ कूर्मावतार-गानामोदनाय नमः । ४५६ ॐ कृष्णवसन-सुकीर्तन-वायकाय नमः । ॐ कृष्णलीलारसिक-गायकाय नमः । ॐ केशवकीर्तन-केवलज्ञानदाय नमः । ॐ कैवल्यप्रद-कल्याणराम-कीर्तन-निदेशिने नमः । ॐ कोलाहल-सप्तस्वर-गृहीत-देहाय नमः । ॐ कोदण्डराम-गानाराधनानन्दनाय नमः । ॐ कौतुकित-जानकीजान्युपगायनाय नमः । ॐ क्रवण-भक्तृ-स्पर्त्रे नमः । ॐ क्वणत्-सुस्वरमय-कलत्व-शिष्यतनुवीणाय नमः । ॐ क्षणमप्यविस्मृताय नमः । ॐ क्षरान्तस्थाक्षरात्मने नमः । ॐ क्षान्तिमते नमः । ४६८ ॐ क्षिप्रोद्धर्त्रे नमः । ॐ क्षीरसागर-विहारातिललित-रमणीय-गान-सुभूषण-विहारिणे नमः । ॐ क्षीरसागरशयन-श्रीराम-स्वगानसागरशायनाय नमः । ॐ क्षुब्धार्णव-मन-उपशमनाय नमः । ॐ क्षेम्याय नमः । ॐ क्षैप्र-कवित्वदाय नमः । ॐ खगतुरङ्ग-गानतुङ्गाय नमः । ॐ ख्यापितोद्दण्डरामाय नमः । ॐ गरिष्ठाय नमः । ॐ गम्भीरध्वनये नमः । ॐ गभीरात्मने नमः । ॐ गभीरवेध-नाद-सूक्ष्मशक्तये नमः । ४८० ॐ गङ्गापावन-नामतीर्थ-प्रोक्षण-गानलहर्यै नमः । ॐ गानगहनाय नमः । ॐ गाहित-गानार्णवाय नमः । ॐ गिरा-माधुर्य-वरदाय नमः । ॐ गीर्देवी-निरन्तरवास-जिह्वाग्र-भक्ताग्र्याय नमः । ॐ गुणमय-श्रीराम-गानानन्दमय-गुण्याय नमः । ॐ गुञ्जित-रामराम-नामकुसुम-गान-मधुलोलुपाय नमः । ॐ गुष्पितानन्यशिष्यात्मांशुकाय नमः । ॐ गुम्फित-गुणाक्षरमाला-सुशोभयितृ-गुरुनाथाय नमः । ॐ गुरुतमाय नमः । ॐ गुरूत्तमाय नमः । ॐ गूढात्मशक्तये नमः । ४९२ ॐ गृहदैवत्याय नमः । ॐ गेयज्ञाय नमः । ॐ गोविन्दनामसङ्कीर्तन-गेयेन्द्राय नमः । ॐ गौरवार्थ-भावाढ्य-गाथपतये नमः । ॐ घननिभ-देह-श्रीराम-गानानन्दघनाय नमः । ॐ घोरासुरहर-श्रीरामहर-सुस्वराय नमः । ॐ घ्राणतर्पण-नामकुसुम-रामपूजन-चोदनाय नमः । ॐ चरणपतित-सर्वच्छन्दकाय नमः । ॐ चलचित्त-स्थिरकराय नमः । ॐ चकितशिरा-धृतिकराय नमः । ॐ चकासित-सुस्वरद्युतये नमः । ॐ चन्द्रवदन-रामचन्द्र-गानानन्द-चन्द्रवदनाय नमः । ५०४ ॐ चमत्कृति-पदरम्य-माधुर्य-कविचञ्चवे नमः । ॐ चराचर-व्यापकोंकारान्तर्गर्भ-वेदयित्रे नमः । ॐ चारुसार-सङ्गीतस्वराय नमः । ॐ चारुनेत्र-श्रीराम-गानानन्द-क्लिन्ननेत्राय नमः । ॐ चित्रपदार्थ-भावस्निग्ध-मधुरगीत-श्रीराम-रोचुकाय नमः । ॐ चिद्घन-श्रीराम-गानपर-चिदानन्दरूपाय नमः । ॐ चिरस्थायि-सङ्गीतानन्द-सुकीर्तन-प्रदात्रे नमः । ॐ चित्तसङ्ख्य-सद्गुरुनाथाय नमः । ॐ चित्तवृत्ति-निरोधकाय नमः । ॐ चिच्छक्त्युत्तेजकाय नमः । ॐ चिन्तितार्चिताय नमः । ॐ चित्तशोधन-नामतारकाय नमः । ५१६ ॐ चीर्ण-रामतारकनाम-स्रग्विणे नमः । ॐ चुम्बित-नामकुसुम-नादवेल-गान-समीराय नमः । ॐ चूषित-नामसुम-नाद-मधुकृते नमः । ॐ चेतोहर-चारुगिरे नमः । ॐ चैतन्यपरब्रह्मणे नमः । ॐ चोक्ष-कविताशक्तये नमः । ॐ च्युत-नामामृत-गान-कनककलश-पाणिने नमः । ॐ च्योत-कीर्तनामृत-सङ्गीतदैवताय नमः । ॐ छन्दन-रघुनन्दन-वन्दन-भक्तचन्दनाय नमः । ॐ छाय-गुरुवराय नमः । ॐ छिद्रान्वितानन्यचोदित-शिष्यावसात्रे नमः । ॐ छिन्नमानसोपशमनाय नमः । ५२८ ॐ छुरित-रामरत्न-गान-कनकचेलावृत-नाददैवताय नमः । ॐ छेकाद्यनुप्रासालङ्कारोत्कट-सुरस-कृतिवार- श्रीरामालङ्करिष्णवे नमः । ॐ जनकजाभाग्य-गेय-भाग्यवते नमः । ॐ जलेशशयन-कीर्तनामोदन-कवीशाय नमः । ॐ जाजीसुमधर-श्रीराम-नामकुसुमार्चनपराय नमः । ॐ जानकीप्राणनायक-नामस्मरण-युक्तप्राण-गायकाय नमः । ॐ जानकीनायक-घन-नय-रागालापनाराधकाय नमः । ॐ जितपुष्पासव-स्वर-माधुर्याय नमः । ॐ जिज्ञासु-श्राय-सुकीर्तनकाराय नमः । ॐ जीवल-कृतिप्रकरकराय नमः । ॐ जीवशक्तये नमः । ॐ जीवात्मसीता-शोकवन-पीडन-वासनावृत्ति-दानवसमूह-कर्मानुबन्ध- रावणहर-रामनामबाण-सत्कीर्तनकोदण्डपाणि-परमात्मने नमो नमः । ५४० ॐ जुष्य-सङ्गीतस्वामिने नमः । ॐ ज्ञानमयाय नमः । ॐ ज्यायिष्ठ-गायकाय नमः । ॐ ज्युतिमते नमः । ॐ ज्योतिष्ट्वाय नमः । ॐ ज्योत्स्नानन्दाय नमः । ॐ झणत्कार-सुस्वर-पटुघण्टा-नाम-मधुरतायै नमः । ॐ टङ्कार-ज्याघोषण-रामबाण-त्राण-शौर्य-गान-गान्धर्वकाय नमः । ॐ टाङ्कृत-रामनामघोष-सुस्वर-कोदण्डपाणिने नमः । ॐ तन्त्रीलय-स्थिताय नमः । ॐ तत्त्वदर्शकाय नमः । ॐ तपोनाथाय नमः । ५५२ ॐ तमोनुद-भाकोषाय नमः । ॐ तमोमयशिष्य-चित्तोत्तेजकाय नमः । ॐ तारक-सुकीर्तन-बोधकाय नमः । ॐ तापस-मानस-सञ्चर-ब्रह्मणे नमः । ॐ तितीर्ष्वेकाश्रयाय नमः । ॐ तीर्थतमाय नमः । ॐ तीव्रोद्यम्युन्नेत्रे नमः । ॐ तुरग-घनौघाशुगाय नमः । ॐ तुष्टिजननाय नमः । ॐ तुर्यातीताय नमः । ॐ तूर्णजलाष-भववैद्याय नमः । ॐ तृष्णाक्षयकराय नमः । ५६४ ॐ तृषित-सङ्गीतार्थानुग्राहिणे नमः । ॐ तेजोबल-संयुक्तिदाय नमः । ॐ तैर्थिक-सुकीर्तन-प्रसाददाय नमः । ॐ तोषद-सङ्गीतज्ञानदाय नमः । ॐ तौर्यत्रिक-प्रसादस्थाय नमः । ॐ त्यक्तसङ्गाय नमः । ॐ त्रात्रे नमः । ॐ दमशमदात्रे नमः । ॐ दशरथनन्दनालोकनानन्दिने नमः । ॐ दासजनाग्रेसराय नमः । ॐ दिव्य-वागम्बर-धराय नमः । ॐ दिननक्त-निध्यात-गुरुनाथाय नमः । ५७६ ॐ दीनचित्त-खद्योताय नमः । ॐ दीप्त-ज्ञानाग्नये नमः । ॐ दुस्स्वप्ननाशनाय नमः । ॐ दुवसन-नादगुरवे नमः । ॐ दूरपार-सङ्गीत-सुरसरिते नमः । ॐ दृढनिश्चय-पादावपातात्मसात्कर्त्रे नमः । ॐ देहवन्नादसुप्रभायै नमः । ॐ दैविकगानवर्षिणे नमः । ॐ दोलारोपित-श्रीरामोत्सवमूर्ति-संस्तावन-मधुरमय-गानाय नमः । ॐ दौर्ग्य-विद्रावकाय नमः । ॐ द्युमद्गान-वरिवस्या-वरदाय नमः । ॐ द्युमन्नादयोगिने नमः । ५८८ ॐ द्रुतनादयोगसिद्धिप्रदाय नमः । ॐ द्रुतिकर-गानगङ्गोद्भेदाय नमः । ॐ द्वन्द्वनिगड-विमोक्त्रे नमः । ॐ द्वयातिगाय नमः । ॐ द्वारकानाथ-लीलावैचित्र्य-चित्रगानालापिने नमः । ॐ द्विकर-श्रीरामसुपद-भक्तिप्रचोदिने नमः । ॐ द्वैताद्वैत-तत्त्वार्थोद्द्योतन-कीर्तन-वनिने नमः । ॐ धरणिजालोल-निन्दास्तुतिनन्दिने नमः । ॐ धारासार-नामावलिगान-धाराधराय नमः । ॐ धिषणावर्धकाय नमः । ॐ धीधये नमः । ॐ धीरस्वराय नमः । ६०० ॐ धुतानित्यताय नमः । ॐ धूनमानसाप्यायन-गान-सरिद्वरायै नमः । ॐ धृतहस्तानन्यभक्त-नादोपासन-सुनीथाय नमः । ॐ धेय-सत्कीर्तन-सार-सन्दोह-सन्दोहाय नमः । ॐ धेष्ठ-नादधनिने नमः । ॐ ध्यातव्याय नमः । ॐ ध्यानगम्याय नमः । ॐ ध्रुवाक्षरान्तस्थाय नमः । ॐ ध्वनित-नामाक्षर-सङ्गीतशङ्खाय नमः । ॐ ध्वनयन्-नादश्रेयः-सुकृतिवार-कविवराय नमः । ॐ ध्वान्तमनो-ज्ञानसूर्याय नमः । ॐ नम्यगुरुदेवाय नमः । ६१२ ॐ नादलोलुभ-परिमार्गित-परमगुरवे नमः । ॐ नादविद्यार्थ्याधाराय नमः । ॐ नादोपासक-लक्ष्याय नमः । ॐ नादोपासकोच्छ्वसिताय नमः । ॐ नादयोगाध्यवसायि-सिद्धिबीजाय नमः । ॐ नादोपासन-निभृतात्मैकाश्रयाय नमः । ॐ नादोपासन-संशितव्रताच्छिद्रोतये नमः । ॐ नादानन्दवर्षण-सुमधुर-कीर्तन-जालकिने नमः । ॐ नादोपासक-वाङ्माधुर्यस्थाय नमः । ॐ नामगान-सुधारस-पानापायिने नमः । ॐ नादोद्यान-नामावचायिने नमः । ॐ नामपुष्पार्चितानन्दित-रामाय नमः । ६२४ ॐ नामप्रताप-ऋग्मिणे नमः । ॐ नारायण-हरिनाम-सङ्कीर्तन-परितोषिताय नमः । ॐ निरन्तर-नुत-रामतारकनाम्ने नमः । ॐ निगमागम-शास्त्र-पुराण-सार-सुकीर्तन-प्रतिपादयित्रे नमः । ॐ निजभक्तिबुधानाय नमः । ॐ निजभक्तरक्षकाय नमः । ॐ निर्वेद-निर्यापकाय नमः । ॐ निद्रालस्यारातये नमः । ॐ नित्यत्व-वरदाय नमः । ॐ नित्यानन्दरूपाय नमः । ॐ निरन्तर-नादानन्ददाय नमः । ॐ निर्मल-निश्चल-चित्ताय नमः । ६३६ ॐ निर्मल-निश्चल-चित्तस्थाय नमः । ॐ निर्मल-चित्ताकाश-विकाश-नादब्रह्म-तिग्मरुचे नमः । ॐ निरवधि-सङ्गीतसुखद-सद्गुरवे नमः । ॐ निःसन्देह-निवृत्तिद-पदयुगाय नमः । ॐ निरुपायैकश्राय-चरणयुगलाय नमः । ॐ निजभक्त-स्वाश्लिष्ट-पवित्रचरणाय नमः । ॐ नित्य-नूतन-गान-विचक्षणाय नमः । ॐ नीलाकृति-घनश्याम-श्रीराम-रूपलावण्य-वर्णनातिरिक्ताय नमः । ॐ नुतश्रीरामाय नमः । ॐ नूतन-क्षीर-नवनीत-दिव्यगान-प्रत्यूष-प्राशित-श्रीरामाय नमः । ॐ नृसिंहदर्शन-पुलकित-प्रह्लादमुख-विवृत-स्वानुभूतये नमः । ॐ नृपोत्तमश्रीरामगानापरभागवतोत्तमसद्गुरुश्रीत्यागराज- स्वामिने नमो नमः । ६४८ ॐ नेमिवृत्ति-नादवृद्धिद-सद्गुरवे नमः । ॐ नैराश्यापोहनाय नमः । ॐ नैष्कर्म्यसिद्धिप्रद-ज्ञानाचार्याय नमः । ॐ नैत्यद-नादोपासन-प्राप्तिदाय नमः । ॐ नैसर्गिक-सङ्गीत-वरदाय नमः । ॐ नैःश्रेयसिक-नादयोगाचार्याय नमः । ॐ नैष्ठिक-वाग्गेयकाराय नमः । ॐ न्यक्त-सुस्वरचन्दनानुरागाकाराय नमः । ॐ न्यूनध्युद्यम्युत्कर्षकाय नमः । ॐ परमात्मज्ञानावबोधकाय नमः । ॐ परार्ध्यगुरवे नमः । ॐ परमानन्दार्चये नमः । ६६० ॐ परमानन्दजलधि-श्रीराम-गानानन्दजलधये नमः । ॐ परलोकसाधन-श्रीराम-भजन-गान-मार्गण्ये नमः । ॐ पराकृत-भक्तिरहित-सङ्गीतज्ञानाय नमः । ॐ परिचरित-श्रीसीतारामार्चावतारमूर्तये नमः । ॐ परिगत-नामानन्द-द्युतये नमः । ॐ परिगलित-नामकीर्तनानन्द-स्वानुभूतये नमः । ॐ परिमृष्ट-भक्तिपरिमलाय नमः । ॐ परिच्छन्न-श्रीरामभक्तितेजसाय नमः । ॐ परिरम्भित-श्रीराममूर्तये नमः । ॐ परिमार्गि-प्रत्यक्ष-प्रसत्तये नमः । ॐ परिभ्रमित-मायावृत-वावातृ-नादोपासन-प्रणेन्ये नमः । ॐ पर्युपासकात्यन्तमाङ्गलिक-सङ्गीतामृतोपनिवापिने नमः । ६७२ ॐ पादपतितपावनाय नमः । ॐ पावन-नामतीर्थ-प्रोक्षणाय नमः । ॐ पादस्पर्शन-तृषालु-क्रोडीकरण-हृदयालवे नमः । ॐ पिपासालुभक्त-स्वगानामृत-पायनाय नमः । ॐ पिन्वमान-नादामृत-स्रोतसे नमः । ॐ पीयूषवर्षण-गान-नभ्राजे नमः । ॐ पुष्ट-नाद-पीयूषलहर्यै नमः । ॐ पुण्यकीर्तये नमः । ॐ पुष्पसुवासित-मानसपुष्पार्चिताय नमः । ॐ पूजार्हाय नमः । ॐ पूजकैकबन्धवे नमः । ॐ पृशनभक्तानवसादद-भद्रचरणाय नमः । ६८४ ॐ पेलव-भक्तिपुष्पार्चित-पदयुगलाय नमः । ॐ पेशल-सुकवित्वदाय नमः । ॐ पैतृकधन-प्रतिमागत-श्रीसीताराम-नैत्यक- पूजाराधन-गानपरावतारपुरुषाय नमः । ॐ पोतन-भागवतोत्तमाय नमः । ॐ पौनःपुनिक-नाममहिम-गीत-कदम्ब-प्रतिभानाय नमः । ॐ प्यायित-भक्तामृतकीर्तनाय नमः । ॐ प्रगीत-नाममहिम्ने नमः । ॐ प्रकम्पित-गमक-स्थायिने नमः । ॐ प्रकटीभूत-नाददैवताय नमः । ॐ प्रणवरूप-सर्वव्यापि-नादशक्तये नमः । ॐ प्रतिचिन्तन-भक्त-प्रत्यक्ष-नाद-प्रवृत्तये नमः । ॐ प्रदीप्त-नादतेजसे नमः । ६९६ ॐ प्रतीक्ष्यमाण-सङ्गीतगुरवे नमः । ॐ प्रणत-भक्त-परित्रात्रे नमः । ॐ प्राणदात्रे नमः । ॐ प्रारब्ध-बन्ध-प्रतिमोचनाय नमः । ॐ प्राणनाथ-श्रीकृष्ण-लीलागान-घाण्टिकाय नमः । ॐ प्रियतम-गुरुदेवाय नमः । ॐ प्रीति-जनकाय नमः । ॐ प्रीतिस्निग्ध-दिव्य-दृष्ट्यावृत-भक्ताय नमः । ॐ प्रेङ्खोल-भजनानन्द-परिधये नमः । ॐ प्रेक्षणीय-सुन्दरतर-श्रीराम-रूपलावण्य-गानानतिक्रान्ताय नमः । ॐ प्रोक्षणीय-नामामृत-गान-कनकाक्षयकलश-कीर्तनायुताय नमः । ॐ प्रोन्नत-तत्त्वार्थाढ्य-गान-विदाराय नमः । ७०८ ॐ प्रौढत्वद-सद्गुरवे नमः । ॐ प्रौण-कविराजाय नमः । ॐ प्लुत-नामामृत-गानानन्दरूपाय नमः । ॐ फणिपतिशायि-भजन-गानपतये नमः । ॐ फलित-रामानन्द-गीतशाखा-नादमूलाश्वत्थाय नमः । ॐ फुप्फुस-फुल्लन-सुस्वर-दिव्यगन्धाहराय नमः । ॐ बद्धधार-रागरस-प्रसराय नमः । ॐ बद्धदृष्ट्यनुगृहीत-भक्ताय नमः । ॐ बद्धानुरागि-स्वैकात्म्य-प्रसादस्थाय नमः । ॐ बालरामलीला-स्वानुभूत-भावुकाय नमः । ॐ बिल्वपत्र-तुलसीदल-नानाविध-सुम-नामकुसुम- श्रीराम-पूजार्चन-प्रहृष्ट-रूपाय नमः । ॐ बीजमति-प्रदाय नमः । ७२० ॐ बुद्ध्यतीताय नमः । ॐ बृहच्छ्रवसे नमः । ॐ बृहन्मतये नमः । ॐ बोधातीत-परमात्म-श्रीराम-मृदुतर-मधुरगान-बोधकराय नमः । ॐ ब्रह्मज्योतिषे नमः । ॐ ब्रह्मज्ञानदाय नमः । ॐ भक्तिभिक्षादात्रे नमः । ॐ भक्तिसागर-पार-दर्शयित्रे नमः । ॐ भक्तपाप-भस्मसात्कर्त्रे नमः । ॐ भक्तातङ्कान्ताय नमः । ॐ भक्त-मान-रक्षकाय नमः । ॐ भक्त-भागधेयाय नमः । ७३२ ॐ भक्त-दृढगृहीत-पदयुगलाय नमः । ॐ भक्त-हृदयायतन-स्थिर-प्रतिष्ठित-भद्र-चरणाय नमः । ॐ भक्तहृदय-सुसदनाय नमः । ॐ भक्तहृदयालय-स्फुरन्-नाददीप-ज्योतिषे नमः । ॐ भगवदर्चन-गानाराधन-नामतारकानन्दोपतारकाय नमः । ॐ भगवन्नाम-सङ्कीर्तन-सन्निविष्टाय नमः । ॐ भक्तिरसानुभवमयाय नमः । ॐ भक्ति-योगमार्ग-बोधिन्मनसे नमः । ॐ भक्तिपरिमलित-स्तुतिपुष्पानन्दिने नमः । ॐ भक्तानुराग-प्रवाह-प्लुताय नमः । ॐ भक्त-जीवनकलश-सङ्गीतमधु-पूरिणे नमः । ॐ भद्रङ्कराय नमः । ७४४ ॐ भरण्यवे नमः । ॐ भर्गस्वते नमः । ॐ भगदात्रे नमः । ॐ भवरोग-प्रतियोगाय नमः । ॐ भवातीताय नमः । ॐ भावगम्याय नमः । ॐ भावपुष्पार्चिताय नमः । ॐ भामण्डलवलयिताय नमः । ॐ भासमान-सुस्वरमूर्तये नमः । ॐ भिक्षित-सुस्वरविद्या-वरदाय नमः । ॐ भूयिष्ठ-भावस्निग्ध-भक्त्यतिसौरभाक्षय- कीर्तनपुष्पानुग्राहिणे नमः । ॐ भूरितेजस्सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ७५६ ॐ भृत-सङ्गीतानन्द-सद्गुरुस्वामिने नमः । ॐ भृमिमानसैकीकरण-सुश्रुतये नमः । ॐ भ्राजत्-सङ्गीतसूर्याय नमः । ॐ मङ्गलगानमूर्तये नमः । ॐ मञ्जुगिरे नमः । ॐ मञ्जुलतम-सुस्वरानन्द-लहर्यै नमः । ॐ मञ्जरित-नाममञ्जूषक-दिव्यगान-व्रततये नमः । ॐ मनोगह्वर-गह्वरित-मङ्गल-गान्तवे नमः । ॐ मनीषित-सङ्गीत-फलप्रदाय नमः । ॐ मनस्स्वाधीन-प्रचोदि-महस्वते नमः । ॐ मन्त्रदात्रे नमः । ॐ मन्धात्रे नमः । ७६८ ॐ मन्दभाग्य-प्रतिहर्त्रे नमः । ॐ मङ्गलकर-कलवचसे नमः । ॐ मंहिष्ठ-सङ्गीत-वसवे नमः । ॐ मन्तव्य-तत्त्वार्थ-परिपिञ्ज-सुकीर्तन-निचय-प्रतिपादन- सङ्गीतपरिपूर्णावताराय नमः । ॐ महानुभावाय नमः । ॐ महितगुरुदेवाय नमः । ॐ माहिन-गान-घनाय नमः । ॐ मानघनाय नमः । ॐ मानसोल्लसित-श्रीराम-रम्यरूप-गानोल्लसिताय नमः । ॐ मार्गण-मानस-प्रतिभासाय नमः । ॐ मार्जित-मार्जित-मार्गण-मानसाय नमः । ॐ माप्ताप्ताय नमः । ७८० ॐ मिन्वित-माधुर्यतमभाषण-श्रीराम-माधुर्यमयगायनाय नमः । ॐ मिष्ट-नाममिश्रित-स्वर-रागलय-सुधारस-मन्दिने नमः । ॐ मीनादि-दशावतार-प्रभाव-प्रगातृ-गानावताराय नमः । ॐ मुनिमनोधाम-धाम-धाम्ने नमः । ॐ मुरखरहर-हर-हरिभक्ताय नमः । ॐ मुमुक्षु-नाधसे नमः । ॐ मूलाधारजोंकार-नादमयाय नमः । ॐ मूलायतनाय नमः । ॐ मृदुस्वर-मधुरतायै नमः । ॐ मेरुसमान-मेधाविलासिने नमः । ॐ मोदकर-नादगुरवे नमः । ॐ मोहनाङ्ग-मोहाङ्काय नमः । ७९२ ॐ मोक्षद-नानाराग-सुकीर्तन-जनकाय नमः । ॐ मोक्षकाय नमः । ॐ मौनमनन-गम्याय नमः । ॐ म्लान-मनो-महौषधये नमः । ॐ यतमानसाय नमः । ॐ यतिश्रेष्ठाय नमः । ॐ यशस्विने नमः । ॐ यशस्कराय नमः । ॐ यातायात-कालगत्यतीताय नमः । ॐ युक्ताय नमः । ॐ येष्ठ-गानगङ्गायै नमः । ॐ योज्याय नमः । ८०४ ॐ योगसार-नादविद्या-सागराय नमः । ॐ यौक्तिकोपदेशक-गुरुदेवाय नमः । ॐ रक्तिरूपक-रागदेवाय नमः । ॐ रक्तकण्ठिने नमः । ॐ रणित-रामरक्तये नमः । ॐ रघुनन्दनानन्दगानवन्दिने नमः । ॐ रङ्गशायि-दिव्यरूप-हृद्भूषणाय नमः । ॐ रजतगिरीश-नगजोक्त-स्वरार्णव-मर्मजिते नमः । ॐ रमारमण-रमित-मानसाय नमः । ॐ रामचन्द्र-दयित-गेयज्ञाय नमः । ॐ रामदैव-सुलब्धृ-वरभक्ताय नमः । ॐ रामनाम-रक्षामन्त्रोपदेशिने नमः । ८१६ ॐ राजराजशिरोमणि-श्रीराम-गानपर-भागवतशिरोमणये नमः । ॐ रागरसिक-श्रीरामरसिकाय नमः । ॐ रागस्वरूपाय नमः । ॐ रागद्वेष-रहिताय नमः । ॐ रामरामगोविन्दमुकुन्द-नामसङ्कीर्तनानन्दमयाय नमः । ॐ रिप्तराम-रागलेपनाय नमः । ॐ रुक्षाक्षाय नमः । ॐ रुचिर-रामकिरणमालि-रागरुचिधाम्ने नमः । ॐ रुचिरानन-श्रीराम-रूपलावण्य-रक्तिराग-रोचनाय नमः । ॐ रूपवद्-रागरुचे नमः । ॐ रोचमान-रागातिदेवाय नमः । ॐ रोमाञ्चनकर-श्रीरामाञ्जलि-गाथकाराय नमः । ८२८ ॐ लक्ष्यगुरवे नमः । ॐ लक्ष्मीरमणारमण-गानरवणाय नमः । ॐ लक्ष्मणसहित-श्रीसीतारामार्चानन्तराय- गानाराधन-सन्निविष्टाय नमः । ॐ लक्षणान्वित-श्रीराम-प्रदक्षिणाकारणाय नमः । ॐ लगनीयगुरुदेवाय नमः । ॐ लगिताभियोगि-धारणाय नमः । ॐ लब्धवर्णाय नमः । ॐ लयरङ्गण-रागरङ्गित-भावक्षरण-कृतिवृन्द- भावक-कलावते नमः । ॐ लयशुद्धिप्रदाय नमः । ॐ लयवरदाय नमः । ॐ लालितक-श्रीराममूर्ति-लालिगान-लालनाय नमः । ॐ लावण्यमय-श्रीरामचन्द्र-प्रेममयाय नमः । ८४० ॐ लिखित-गानरूप-नामकीर्ति-नादमूर्तये नमः । ॐ लीलावतार-श्रीरामानुराग-प्रौढाय नमः । ॐ लीलाचतुर-श्रीकृष्णललन-गातुचतुराय नमः । ॐ लोकावनचतुर-श्रीराम-गान-संस्तावनाय नमः । ॐ वनजनयन-निन्दास्तुतिनन्दाय नमः । ॐ वन्दनीयाय नमः । ॐ वन्दारु-वरगान-वरदाय नमः । ॐ वारिजनयन-जप-नवनिधिवाचिने नमः । ॐ वासित-रामनाम-मधुवाचे नमः । ॐ विकच-नादकुसुमाय नमः । ॐ विमल-नामकुसुम-मधुरगान-पुष्पार्चन-प्रतीताय नमः । ॐ विमलचन्द्र-रामचन्द्र-गेयचन्द्राय नमः । ८५२ ॐ विमलहृदयाय नमः । ॐ विरक्ति-स्वाकाराय नमः । ॐ विश्वसनीयाय नमः । ॐ विषयवासनाद्युपमार्जनाय नमः । ॐ विख्यात-रामभक्ताय नमः । ॐ वित्त-वेदार्थ-नादग्रन्थाय नमः । ॐ विदूरग-गानविभायै नमः । ॐ वीणागान-विभ्वने नमः । ॐ वृन्दारक-श्रीराम-वरगानालोकन-वन्दारु-वृन्दारकाय नमः । ॐ वेङ्कटेशनाम-सोपान-सन्मार्गोन्नेत्रे नमः । ॐ वेद-शास्त्र-तत्त्वार्थ-नादरूपवेदकाय नमः । ॐ वेदान्तवेदिनादयोगिसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ८६४ ॐ व्यासक्तोपासक-समुद्धरण-सद्गुरवे नमः । ॐ शब्दब्रह्मणे नमः । ॐ शब्दातीताय नमः । ॐ शमशर्मदाय नमः । ॐ शान्तमनस्सौख्याय नमः । ॐ शातकुम्भ-लिखितव्य-सङ्गीतश्रेयसे नमः । ॐ शिष्यमनःक्लेशेनैवार्चिताय नमः । ॐ शिष्यवत्सलाय नमः । ॐ शिष्यापराधक्षमित्रे नमः । ॐ शिष्यमनोऽहंकारहन्त्रे नमः । ॐ शिष्यमनोऽन्धकारापवोढ्रे नमः । ॐ शिवताति-भवकाय नमः । ८७६ ॐ शिवंकर-दिव्यगान-काम्यगिरे नमः । ॐ शिवनाम-भजन-बिल्वार्चन-हृज्जलज-पूजनोत्तेजनाय नमः । ॐ शुश्रूषु-मृडन-सुस्वरमुखराय नमः । ॐ शुच्यवताराय नमः । ॐ शुभाकर-श्रीराम-नामाकराय नमः । ॐ शूर-श्रीराम-गानपर-सुस्वराकाराय नमः । ॐ श‍ृङ्गारगुणधाम-श्रीराम-भक्तिधाम्ने नमः । ॐ शेषशयन-गान-व्यसनिने नमः । ॐ शैथिल्य-प्रतिहर्त्रे नमः । ॐ शोकहिम-सूर्याय नमः । ॐ शोकोद्भूत-श्लोक-प्रियाय नमः । ॐ शोषितमानसाश्वासन-सुस्वरशीकरि--सङ्गीतशीतवाताय नमः । ८८८ ॐ शोभित-सप्तस्वर-सुरधनुषे नमः । ॐ शौर्योदार्यमय-श्रीराम-सुगुणगान-शौण्डाय नमः । ॐ श्यामलगात्र-श्रीराम-नुतिगात्रे नमः । ॐ श्रद्ध-प्रयताश्रित-स्वदर्शन-फलदात्रे नमः । ॐ श्रमयु-स्वरविद्या-सिद्धि-विधात्रे नमः । ॐ श्रयि-सम्परिरक्षकाय नमः । ॐ श्रवणहारि-सुस्वर-माधुर्यस्थ-वसुलाय नमः । ॐ श्रवणसुभग-सुस्वराय नमः । ॐ श्रवस्यु-सङ्गीतप्रवाहाय नमः । ॐ श्रविष्ठ-सङ्गीतशक्तये नमः । ॐ श्रावणसुख-श्रुतिस्वरूपाय नमः । ॐ श्रियन्ददाय नमः । ९०० ॐ श्रीकान्त-श्रीकर-वल्गुनादाय नमः । ॐ श्रीरम्यगात्र-रम्य-गायत्राय नमः । ॐ श्रीहरिकीर्तन-गतदेहेन्द्रियचेतः-सोहंस्वभाव-समाधिस्थाय नमः । ॐ श्रुतिलयस्वरूपाय नमः । ॐ श्रुतिसुख-सुस्वर-सङ्गीत-पुष्पार्चिताय नमः । ॐ श्रेयस्कराय नमः । ॐ श्रोत्रहारि-वाङ्माधुर्याय नमः । ॐ श्लवनोद्यमि-करालम्बन-सद्गुरवे नमः । ॐ श्लिष्ट-नादोपासन-व्रतेष्टसिद्धि-भवक-गुरवे नमः । ॐ श्लोकभुवे नमः । ॐ श्वान्तमानसाविष्य-नादब्रह्मणे नमः । ॐ षड्रिपु-सूदनाय नमः । ९१२ ॐ सङ्गीतार्थ-साधनाय नमः । ॐ सङ्गीतपरमाचार्याय नमः । ॐ सङ्गीत-समुच्चयास्पदाय नमः । ॐ सप्तस्वर-समष्ट्यै नमः । ॐ सप्तस्वर-सन्निविष्टाय नमः । ॐ सप्तस्वर-सञ्चराय नमः । ॐ सङ्गीतावताराय नमः । ॐ सङ्गीतयोग-कूटस्थाय नमः । ॐ सङ्गीतज्ञान-भक्ति-परिसीम्ने नमः । ॐ सत्कीर्तन-सत्सङ्ग-वनिने नमः । ॐ सत्कीर्तन-सन्मार्ग-बोधि-महर्षये नमः । ॐ सद्भक्त-मानससदन-संस्थापित-सद्गुरवे नमः । ९२४ ॐ सङ्गीतोपासक-संसक्ति-प्रतिबिम्बाय नमः । ॐ सङ्गीतभाषिणे नमः । ॐ सङ्गीतज्ञान-भिक्षादात्रे नमः । ॐ सङ्गीतज्ञानसागर-पारगमयित्रे नमः । ॐ संयताञ्जल्यन्तस्-सर्वदावसत्त्वाय नमः । ॐ संसक्तमानस-सर्वस्वाय नमः । ॐ सद्भक्ताजीवन-जीवाय नमः । ॐ सर्वसमर्पित-चरणावलम्बि-गोप्त्रे नमः । ॐ संसारदुःख-तप्तात्म-श्रीरामतारकमन्त्र-वितरित्रे नमः । ॐ संसाराब्भ्र-स्वर्णप्रान्ताय नमः । ॐ संसारसागर-निमग्नक-होडाय नमः । ॐ सप्तस्वर-क्षिपणि-रामनाम-नौका-संसारसागर-तारकाय नमः । ९३६ ॐ सकलार्णमय-सङ्गीतार्णवाय नमः । ॐ सकलार्थ-श्रीराम-गानार्थ-मुखराय नमः । ॐ सदनस्वान्त-संस्थापित-सकलजगदवन-श्रीरामाय नमः । ॐ सकललोकाभिराम-श्रीराम-मधुरगानाभिरामाय नमः । ॐ सकलमन्त्रतन्त्ररूप-श्रीराम-तारकमन्त्रप्रियाय नमः । ॐ सकलवेदसार-श्रीराम-बोधसाराय नमः । ॐ सत्त्वरूप-श्रीरामभक्ति-तत्त्वरूपाय नमः । ॐ सत्यसन्ध-श्रीरामसन्धाय नमः । ॐ सत्त्वचित्त-श्रीरामासक्तचित्ताय नमः । ॐ सर्वसारश्रीरामानुभूतिसाराय नमः । ॐ सर्वग्रहाधारभूत-श्रीरामगानाधारभूताय नमः । ॐ सर्वजीवजीवन-श्रीराम-नामाविरामस्मरण-जीवनाय नमः । ९४८ ॐ सर्वसाक्षि-श्रीराम-भक्तिप्राप्य-ब्रह्मानन्दसाक्षिणे नमः । ॐ सर्वोन्नत-श्रीराम-गानोन्नत-हिमालयाय नमः । ॐ सद्गङ्गाजनक-श्रीराम-गानगङ्गाजनकाय नमः । ॐ सर्वलोकशरण्य-श्रीराम-चरणयुगल-लालनापर्यन्तानन्द- स्वरसमुद्र-स्मितरुचिर-कोलाहल-लहर्यै नमः । ॐ समानरहित-श्रीराम-गान-समानरहिताय नमः । ॐ सप्तस्वरचारि-श्रीराम-नामगानचारिणे नमः । ॐ सङ्गीतप्रिय-श्रीराम-सुगुण-गानप्रियाय नमः । ॐ सद्गुणसान्द्र-श्रीरामानन्दन-सुस्वरसान्द्राय नमः । ॐ सरसगुण-श्रीराम-वर्णन-सरसकवये नमः । ॐ सरसविनोद-श्रीराम-गानविनोदाय नमः । ॐ सरसीरुहानन-श्रीराम-गानानुरक्ताननाय नमः । ॐ सरसीरुहनयन-श्रीराम-कटाक्षोद्बाष्पनयनाय नमः । ९६० ॐ सामगानलोल-श्रीरामनामलोलाय नमः । ॐ सामादि-निगम-सञ्चार-श्रीराम-गुणविशेष-सञ्चाराय नमः । ॐ साकेतधाम-श्रीराम-भक्तिसङ्गीतधाम्ने नमः । ॐ साक्षिभावित-विषयविरक्त-निजभक्त-सहोराय नमः । ॐ साक्षिभावितानन्दमय-श्रीरामानुदिनालोकनाभिरुचिताय नमः । ॐ सिद्धजनप्रिय-श्रीराम-सुचरित्र-गान-प्रसिद्धाय नमः । ॐ सीतावर-गानापर-कविवराय नमः । ॐ सीताराम-संस्तवान-साधुश्रेष्ठाय नमः । ॐ सीताराम-सङ्गीतोपासन-सन्निविष्टाय नमः । ॐ सुपवित्र-श्रीराम-दिव्यरूपध्यानपर-पवित्रात्मने नमः । ॐ सुगुणमणिकोश-श्रीराम-विभूषण-सुकीर्तन-स्वर्णकोशाय नमः । ॐ सुप्रकाशश्रीरामसुस्वरगाननीराजनप्रकाशन- सङ्गीतसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ९७२ ॐ सुमुख-श्रीराम-सुस्वरगाननुति-सुमुखिने नमः । ॐ सुमति-श्रीराम-सुकीर्तनसुखि-सुमतये नमः । ॐ सुखास्पद-श्रीराम-गाथि-सुस्वरास्पदाय नमः । ॐ सुधारसपूर्ण-श्रीराम-सुरसपूर्ण-गानसुधाभिवर्षिणे नमः । ॐ सुधामय-राग-स्रावकाय नमः । ॐ सुधामय-नाममाधुर्याय नमः । ॐ सुस्वरधार-नामसुधा-गडेराय नमः । ॐ सुधास्यन्द-सुगीतवृन्दाय नमः । ॐ सुमधुर-स्वरामोदोत्किर-प्राणप्रसून-गानप्रसूनाराधित-रामाय नमः । ॐ सुरसेव्य-सेवन-सेवित-सुस्वराय नमः । ॐ सूर्यकुलचन्दन-वन्दन-सुस्वरसूर्याय नमः । ॐ सूक्ष्मरूप-सर्वव्यापिने नमः । ९८४ ॐ सूक्ष्म-नादशक्ति-स्थूलरूपकाय नमः । ॐ सृष्ट-सृष्टिस्थित्यन्तकारक-परमेश्वर-स्तुतिगीतकूटाय नमः । ॐ सृप्र-सुस्वराय नमः । ॐ सेतुबन्धन-श्रीराम-सुगान-बन्धीकृते नमः । ॐ सेव्यसद्गुरवे नमः । ॐ सेवकैकाधीताय नमः । ॐ सेवक-दुःख-विरामाय नमः । ॐ सेवित-सुस्वरोपासकाय नमः । ॐ सोत्कण्ठ-सङ्गीत-पेयूष-पोषयित्नवे नमः । ॐ सोत्सुक-शिष्याप्रयुतमधुरगानधारा-प्राप्तिदाय नमः । ॐ सौभाग्यफलाय नमः । ॐ सौमङ्गलप्राप्त्याशीर्गेयाय नमः । ९९६ ॐ स्तिमितमानस-तडागतीर-ध्यातव्याय नमः । ॐ स्तिमितप्रवाह-नादनदी-मूलाय नमः । ॐ स्तिमितोद्भव-नादाखण्डशक्तये नमः । ॐ स्तोतव्याय नमः । ॐ स्तुतिपुष्पार्चन-विरोचिष्णवे नमः । ॐ स्पृहित-दर्शन-चरणस्पर्शन-दिव्यगानश्रवण- भाग्यद-सद्गुरवे नमः । ॐ स्फटिकप्रभ-गानमूर्तये नमः । ॐ स्फुट-नाददीप्तये नमः । ॐ स्मितरामचन्द्र-सुकीर्तनसान्द्राय नमः । ॐ स्मेररामानन्द-सुस्वरहाससे नमः । ॐ स्यन्दत्-सङ्गीतसुधांशु-रामानन्दचन्द्राय नमः । ॐ स्रवत्-सुस्वरानन्दसाराय नमः । १००८ ॐ स्वच्छहृत्-सम्प्रभातये नमः । ॐ स्वयंप्रकाशिने नमः । ॐ स्फुरत्-तारकनामाभरणाय नमः । ॐ स्फुरत्-सहस्रनामावलि-सुशोभिताय नमः । ॐ स्वरलयलयाय नमः । ॐ स्वरलयवरदाय नमः । ॐ स्वरशुद्ध-गानाञ्जल्युद्भावकाय नमः । ॐ स्वारसिक-भावाढ्य-नानाराग-गान-ज्ञानोद्बोधकाय नमः । ॐ स्वादुतर-गान-गान्धर्वकाय नमः । ॐ स्वादुतम-सङ्गीत-सुधोद्गारमयाय नमः । ॐ स्वर्य-मधुद्रव-सङ्गीतवाण्यै नमः । ॐ स्वाशुकवये नमः । १०२० ॐ स्वर-जित-सारङ्गाय नमः । ॐ स्वहृत्-सञ्चारि-श्रीराम-निदर्शयित्रे नमः । ॐ स्थावरजङ्गमेश्वरदर्शकाय नमः । ॐ स्वायुष्प्रदाय नमः । ॐ स्वानन्यभक्तानुराग-मानसपुष्पान्तस्-समासीनामोदाय नमः । ॐ स्वीकृतानन्यभक्ताय नमः । ॐ स्वरामृत-सिद्धस्थालिधर-सङ्गीत-वपुनाय नमः । ॐ स्वर-स्वर्णाकराय नमः । ॐ हंसगुह्य-प्रद्योतनकाय नमः । ॐ हर्षकर-गुरुदेवाय नमः । ॐ हर्यर्पण-कृतिकाराय नमः । ॐ हरिदास-शिरोमणये नमः । १०३२ ॐ हरिनामसङ्कीर्तनप्रियाय नमः । ॐ हरिनामसङ्कीर्तनानन्दविग्रहाय नमः । ॐ हरिनामसङ्कीर्तन-सानन्द-वर्णकाय नमः । ॐ हरिभजनानन्द-परिवाहाय नमः । ॐ हरिपरिवार-गायन-सुस्वरपरिवाराय नमः । ॐ हरिनामस्मरणमय-जीवनाचाराय नमः । ॐ हरिसमर्पणजीवनाय नमः । ॐ हरिपादारविन्द-भावक-भावुकाय नमः । ॐ हरिचरण-हृद्धराय नमः । ॐ हरिसात्म-सङ्गीत-सात्मीकृते नमः । ॐ हरिहरैकता-गानरूप-निदर्शकाय नमः । ॐ हरिनामसङ्कीर्तन-सन्निधिस्थाय नमः । १०४४ ॐ हनुमल्लक्ष्मणभरतशत्रुघ्नसमेत-श्रीसीतारामविग्रह- गान-पूजापर-पुण्यचरिताय नमः । ॐ हाटकमय-सीतारामचन्द्रोदय-सङ्गीत-क्षितिजाय नमः । ॐ हार्द-विग्रहाय नमः । ॐ हार्दिने नमः । ॐ हितकराय नमः । ॐ हितानुबन्धि-गीतकाचार्याय नमः । ॐ हितोपदेष्ट्रे नमः । ॐ हिमोपचार-गानवार-वर्षिणे नमः । ॐ हिमकरकिरण-दिव्यवाचे नमः । ॐ हिरण्मय-सुम-सौरभ-तुल्य-सुस्वर- सुरभिताशुकविताशक्ति-विधात्रे नमः । ॐ हीर-रामनाम-स्फुरण-सङ्गीत-हिरणिने नमः । ॐ हुत-विषयासक्ति-रामासक्त्यग्नये नमः । १०५६ ॐ हृत्तापापहाय नमः । ॐ हृदयङ्गम-कृतिकराय नमः । ॐ हृदयहारि-श्रीराम-मधुरगान-हारिणे नमः । ॐ हृद्यतम-श्रीराम-मृदुभाषणास्वादिने नमः । ॐ हृदय्यानुरागपुष्पापूजितगुरवे नमः । ॐ हृदयोन्मादकर-नादगुरवे नमः । ॐ हृष्टरोम-रामरमाय नमः । ॐ हृष्टिद-नाद-वसुधारायै नमः । ॐ हृदयात्यन्तरोद्भूतेदम्भक्त-बालालाप- स्तुति-महाप्रमोदाङ्गीकर्त्रे नमः । ॐ हेतुहेतुमते नमः । ॐ हैतुकोंकारनादब्रह्मणे नमः । ॐ अक्षर-सुस्वर-सहस्रनाम-पुष्पाञ्जलि-समर्पण-सेवित- श्रीसद्गुरवे नमो नमः । १०६८ ॐ श्रीकराय नमः । ॐ त्यागयुताय नमः । ॐ गमकगाय नमः । ॐ रागमूलाय नमः । ॐ जागर्तये नमः । ॐ यथानाम्ने नमः । ॐ सद्गुरवे नमः । ॐ गुणाश्रयाय नमः । ॐ रक्तिरागप्रियाय नमः । ॐ वेदसारकृतिकराय नमः । ॐ नमोगुरवे नमः । ॐ मङ्गलसुस्वरपुष्पार्चितश्रीत्यागब्रह्म- सद्गुरुस्वामिने नमो नमः । १०८० ॐ इति सद्गुरुश्रीत्यागराजस्वामिन एव शिष्यया भक्तया सद्गुरुचरणयुगलदृढग्राहिण्या सद्गुरोरनन्योपासिकया पुष्पया कृता बालालापस्तुतिः सहस्रनामपुष्पावली गुरोरङ्घ्रिपद्मे समर्पिता । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यम् ॥ ॐ त्यागराजाय विद्महे शुभचरणाय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ शरणागतिगद्यम् । ॐ ॐ जय जय श्रीरामनामगरुतैव-स्पर्शनीय-गुरुचरण ! हरिनामपुष्पाकर-पूजित-भद्रपाद ! भङ्गापनय-भव्य-पदयुगल ! भग्नमानस-दृंहण-भक्तानुराग-हृद्- धिषण-धिष्ण्य-शुभचरण ! भक्तार्थ-पावन-चरण ! भक्ताघ-नाशन-सर्वार्थ-साधन-सङ्गीतज्ञानद-सच्चरण ! प्रपन्नोद्धारण-पवित्र-पदयुग्म ! प्रसक्त-भक्तानाभिन्न-भगवत्पाद ! भक्तैकश्राय-पूज्य-गुरुचरण ! भक्ताश्लिष्ट-मङ्गल-पदकोकनद ! नादासक्ताभिवन्दित-सुपद-हल्लक ! नैःश्रेयस-सद्गुरु-चरणयुगल ! शरणमहं प्रपद्ये ! श्रीरामभक्तार्चितराम-रामभजक-भविक-भावुक-शुभोषक-रमणीय ! श्रीरामदास-सङ्गीतराम-रामगेय-नुतरामतारकनाम-नामस्वरूप ! श्रीरामशेव्य-सेवितराम-रामनाममद्वन्-नुतरामसुचरित- सन्नुतश्रीरामचन्द्र ! श्रीरामार्चि-रामतनु-निरामयद-राममयजीवन- रामनामध्वनन-मधुस्वन ! श्रीरामरम-रामाराम-रामरमरागालापनरम-रामनामाराम ! श्रीरामकृष्ण-लीलाजाल-ग्रहक-गृहीतश्रीरामकृष्ण-सुकीर्तनजाल ! नारायणहरिरामकृष्णगोविन्दनामभजनघोष ! हूतहरिभक्त-भजनोत्सवानन्द ! शूर-रघुरामाभिरमित-तारक-शतरागरत्नमालिक ! जगदानन्दकारकानन्दगान-जगदानन्दकारक ! भरितभगवन्नामसमूह-भव्यमानस-भागवततिलक ! भव्यदायक ! अभिविनीतभक्तिसङ्गीत-ज्ञानाचार्यदेव ! दिव्यनामसङ्कीर्तनातिरिक्त ! रागलय-ललितपद-लास्यानन्द ! रघूत्तम-मधुतम-गानोत्तम ! रघुवर-रङ्गण-रङ्गितसुस्वर-सुस्वरसुखवृत-कृत्ययुत ! योगिवर-रागलय-रोगहर-मोदमय-तीर्थतमनाम-रघुवरगायक ! पूजितहरि-गीर्जितहरि-बोधसहरि-कृतपुण्य- विनयविनुतगणपति-वन्दितमुरलीधर ! श्रितक्षम-जितश्रम-शैक्ष्यगुणक्रम- धृतात्माविकृताविक्लमद-दान्तवर- वरेण्यक्रतु-क्रतुस्पृक्-सत्सङ्ग-निश्शङ्क ! निष्काम-निर्मोह-निजदासरक्षक ! जितश्वासानश्वर-सुस्वर-रभोद-बोधक- कमनीयभूरिधामराम-तारकनामरामक ! प्रणाय्याद्वितीयाप्रतिमावर्णनीयाव्ययात्मन् ! अदीनवृत्त्युदारसत्त्वासङ्ग्यक्षोभ-जिताक्षर-वाक्चण ! हर्यत-तपोमय-चायनीय-दीप्तप्रज्ञ-ज्ञानगुरो ! भक्तानुरागरूप ! भक्तान्तरात्मन् ! अश्रुगङ्गास्नातानन्यभक्तान्तरङ्गानुराग-कीर्तनवार्यभिषिक्त ! रागबाष्पपुष्पार्चित ! भाव-घन-निवेदित ! एकाग्रचित्तपूजित ! प्रागुष-उपवीणित ! प्रपन्नानन्यशिष्याशोचानुग्राह्याचार्यदेव ! अनुरागाविर्भाव ! मङ्गल-दृष्टिपात-परिवेष्टितभक्त-भक्तानुराग-बालालाप- परिवेष्टित-पादादिकेश ! वर-मृदुस्वर-भूष-भूषित-शिष्यहृत्कञ्ज-कञ्जस्वर ! रघुनन्दन-नन्दन-मधुस्वर-स्वरमधुलषण-हृत्स्यन्दन- मधुस्यन्दन-सुस्वन ! राजितराम-सुगानभूष-पूषवंशभूष-भूषण-रामराम- सुस्वर-रामनाम-मुक्तावलिभूषित ! शान्तिभूषभूषण-शान्तमानस-प्रशान्त-सुस्वरविद्याभूषण ! सुगुणाकर-श्रीरामाम्बर-सुवाक्-सुस्वराकार ! रागनुत-रागरूप-राम-रामानुरागरूप ! श्रीराम-मन्त्राधारश्रुति-सुनादमय-दिव्यरूप ! विराजित-श्रीराममन्त्र-जिह्वाग्र ! श्रीराममन्त्र-पुष्पोपासित-सुस्वरदेव ! सुस्वरार्चित-देवदेवार्चित-सुस्वर-गानोल्लसित-देव ! श्रुतिनिकरसदन-श्रुतिमधुरवदन-कृतिनिकररचन- श्रुतिलयलय-द्युतिमयवदन ! इन्दु-दिननाथ-नयन-गानानन्दोद्बाष्प-नयनप्रसून ! राकाशशिवदन-राग-रागवदन-राग-राकाशशिकिरण ! रिप्रवाह-रागप्रवाह-नित्यरूप-तारकनामनित्य-मधुरगाननित्य ! श्लोकप्रियविष्णु-श्लोक-पुण्यश्लोक ! चञ्चुर-कविश्रेष्ठ ! श्रीरामराग-रागराजित-श्रीराग-रागरजतार्णव ! जलधरशोभ-स्वरजाल-जलधर-धर-शौभ- जलधि-गम्भीर-गम्भीरगानजलद- जलजारुण-चरणार्चन-हृज्जलज ! आशारैषि-हृत्तटाक-जलज ! कायज-जनक-गाय-जनक-भव-जलनिधि-पोत- भाव-जनक-भावजनक-भावज-जनक- -भावज-गानजनक ! भवमानसभावन-भावन-भवसन्नुति-भवसन्नुतसन्नुतिभावन- भवभय-घन-घनघन-प्रभञ्जन- प्रपञ्चनाथ-प्रन्पञ्चगाथ ! भावार्चित-पापाभाव-पद्मनाभ-पवित्रनामाभ ! हरिहरिनेत्र-हरिप्रिय-कलिहर-हरि-हरि-हरिहारि-हरिस्वर ! मङ्गलकर-मञ्जुलवेष-माधव-माधवनाम- मञ्जुघोषार्चित-कमलाकलत्र- -कल-कमनीयस्वर ! कमनीय-स्वररूपि-कवीन ! कल्याणसुन्दरराम-कल्याणनाम-कल्याणगानवृन्दार ! श्रीरामोपसन्नोपसन्नराम-रामरामनाम-गानोपसन्नोपसन्नभक्त- भक्तिभाव-पुष्पोपसन्न ! पुष्पविमान-विहरण-विलसत्-सप्तस्वरविमान ! पूजितामरपूजितामरगानवरेण्य-वेदितवेदवेद्य-गान्धर्ववेदवरेण्य- -कौसलेयगेय ! कौसल्यापुत्रमित्र-कौशिकमित्रमित्र-मित्रकुलेशमित्राश्रितमित्रमित्र- -मित्रीकृतश्रीरामचन्द्र ! वारिजमित्रकुलजाप्त-पवमानसुताप्ताप्त-परिचरित-परिचरकीश-वागीश ! अरिगणारात्याराधि-स्वरगण-गुणित-कमनीयवदन-श्रीरामगुणगण- -गुणशीलश्रीराम-गानपर-ज्ञानशील ! अविराम-रामरामराम-गान-रामाभिराम-राम- निर्वाणफलद-श्रीराम-गीर्वाण ! अमरेन्द्रविनुत-विनुति-स्वरेन्द्र ! आगमचराह्लादकगुणचर-करुणाकरकीर्तनाकार ! इनकुलोत्तमगानोत्तम-रघुराम-राम-रामरामरामनाम-गानसीमन् ! इनवंशराज-नुतिराज-स्तुत-रघुवीर-धीर-वरधीरधीर-स्वरवीर ! इन्दिराभाग्य-मन्दिर-हृद्भाग्य ! जनाधार-झरासार-रागसार-धार-धर- धरणीधरधर-धर-सुस्वरधार ! स्तुतान्तकस्तुताघान्तक-खगत-नामगान-पुष्पामोद ! वरलील-नररूप-परमात्म-वरिवस्या-वरस्वरानन्द ! मधुरस्वरोपगीत-वरानन्दश्रीरामचन्द्र ! सन्नुत-तुम्बुरुसन्नुत-तुम्बरसहित-सुस्वरगान ! सुमशरतात-सुस्वरगाथ-स्यूमकध-रघुनायक-युक्त-मदगायक ! चापालङ्कृत-सुन्दरालङ्करण-सुन्दर-सुरचाप- सप्तस्वर-सुस्वरगीत-यागपालन ! संततनुत-सततयानसुत-धृत-सुपदसारस-सरसगीत-सारसवदन ! नुताच्युताच्युतायुतगीत-गीतप्रिय- गीतप्रियगीताचार्यप्रियगीत-गीतललितातुल ! कपटनाटकसूत्रधारिश्रीकृष्ण-लीलानाटकगेय-गीतगोत्रकारिन् ! रागतूल-रागतूल-चित्रित-विश्वरूपश्रीकृष्ण-मञ्जुलाकार-तौलिक ! शिष्यानुराग-चित्ततूल-रागतूल-चित्रीकृत-रागाकार ! माधव-माध्वनामगुणघन-घनगान-माधवस्वन-नाममाध्विक ! मापित-मापतिस्वरमाधुरी-माधुरीस्वर ! मालोल-नामगांलोल ! मामुखाब्ज-दिनरमणानुदिन-गानरमण-सुनादाब्ज-दिनरमण ! मामनोरमण-मनोरमण-रमणीयनाम-सुग-गातुतल्लज ! सागरगुप्त-गुप्त-सुनादसागर-सारसार-रामनाम-स्वरानन्दसार ! धोरण-नामावलि-समुक्षण-गानघन-पेयूष- घनद्युमन्नादवर्षण-सर्वच्छन्दक- -श्रीरामनाम-पीयूषाब्भ्र ! पिन्वित-नामामृत-गानगगनसिन्धो ! सङ्गीत-सुधासिन्धो ! भक्तानुरागसिन्धु-खसिन्धो ! गानबन्धो ! गान्धर्वविद्यावरद-गीर्वरद-वरदराजस्तव-स्वरराज ! नागाचलनिलय-नामनिलय-नामामृत-पानामृत-गानपरानन्दनिलय ! दामोदरमोदन-मोदन-नामगान-रागामोद ! मधुसूदन-सूदन-नादमधुसूदन ! सीतारमणी-रमणीयहृत्सदन-सदनहृद्रमणीय- रमणीयनामगान-रमणीय-रमितराम ! शर्म-रामनाम-मर्मज्ञान-नामतारक-महिम-सुगान ! नाममधुर-नादार्चिताप्राकृततेजोमय-रूपलावण्यराम- राममयाकलङ्कस्वान्त ! नामरूपरहितदैव-नामरूपमहिम-दिव्यगानानन्द ! निर्गुण-श्रीरामागणितगुणगण-गणनानुपम-निगमसारतर- सारतरगान-निरुपम ! निर्गुणब्रह्मज्ञानिन् ! निर्गुणब्रह्मन् ! नादब्रह्मन् ! भक्तानुराग-रागावतार ! भक्तातिस्पृहित-नादमोदरूप ! सत्यैतद्वाक्सत्यसत्य-सत्यरूप-श्रीरामासक्त-सङ्गीतरूप ! सङ्गीतशास्त्रनिष्णात-नामकीर्तननदीष्ण-सृत्य- नामानन्द-नद-नामगानामृत-नद- -नामनदज्ज्ञाननद-रामकृष्णनामनद ! प्लक्षारित-नामामृत-नाददेव ! उदग्र-रामानुरागाचल-कूट ! उद्गाढ-नामकुसुम-सुगन्ध ! सुस्वरपुष्प-सुवासित-नादारण्य-ध्रेकित-सुस्वरानन्द- पिक-सुस्वर-कदम्बानिल ! सुस्वररसभरित-सुस्वररसमधुर-सुस्वरसमूहवृत- सुस्वरशरीर-सुस्वरसार- -हृदयहारिसुस्वर ! सुस्वरलोल-सुस्वरलोलहृल्लोल ! सुस्वरराज-सुस्वरसमाज-सेवितसुस्वर-सुस्वरनिन्दितमधुमधुर ! सुस्वरोपासित-शुभ्रभोगीन्द्रशय्य-सङ्गीतानन्दशय्य-सुस्वरयोगीन्द्र ! सुस्वरगानगम्य-सुधामयभाष-सुनादवरद-सङ्गीतानन्दकर- कृतिनिकर-सत्सङ्गीतरसिक ! शोभकर-शोभमय-सप्तस्वरदेवता-दर्शक ! अपश्रुतिवरूथ-सुस्वर-कवचाचार्य ! वरसप्तस्वर-सुश्रुतिलीन-प्रशान्तोंकार ! अनन्यभागनवरतध्यातानन्यभाक्कृपाविष्टानुलीनानुयाय्यनुरागगुरो ! भक्तृमनोवरुण-मनोवरुण-तरुणवरुण-मनोविषादवरुण- -मन्य्वनलवरुण-गानरसवरुण-दिव्यज्ञानफलवरुण ! भक्तदुरितमिहिरमिहिर-मिहिरकुलजभक्त-भक्तश्वसितमिहिर- -भक्तहृदयमीरमिहिर ! रागरङ्गित-रागमानस-पुष्पावासित-मानसच्छत्वर- मत्तमधुकर-मुक्तझङ्कृत- -सुश्रुतिमिलित-कोकिलालाप-मञ्जुसुनाद-नामकीर्तन- रागनर्तन-वर्तन-गुरुवर ! रामकृष्णनामानन्द-कलालाप-नादपुष्पवल्ली-नामपुष्पाकीर्ण-रागमद- -सङ्कीर्ण-रागवल्लुर-रागवल्लुर ! रागवल्लुरीकृत-रागमानस-पुष्पोल्लास-पूर्णचन्द्र ! राजितराग-भक्तहृद्-ह्रद-राजतराजि-रागराज ! शिष्यानुराग-हृद्-ह्रद-रागकुमुद-शीतकर-कुमुदकिरण ! प्रकृतिक्षोभ-निस्तार-निर्वात-गानगोत्र-गह्वरीभूत ! हिमालय-हिमकूमतट-हिमविलापन-सुरागालापन-विलीन-लेल्यमानस ! लेल्यहृल्-लेलायमान-नादलालसाग्नि-विलायितहृन्-नादगुरो ! ब्राह्ममुहूर्त-प्रबोधनोपगापन-गानघटाघटन-नादाचार्य ! धैवत्यधोद्धूतानन्दलहरि-प्रार्थिकात्मदर्शक ! मनोवाचामगोचरात्मानन्दद-नडहगान-नंहसैकहंस ! नादानन्दनिधे ! नादलुब्ध-मानसाब्धि-नादसुधाकराम्बरलेखि-नादावभास- -नभोलिण्णादश्रेयन् ! नादाम्बर-नादाम्बरमणिश्च्योतयन्-नादमयूख ! नादशक्तिप्रदायक-नादसात्मताभावक ! नादसदन-नादनाद-नादनाथ-नादाधार-नादागार ! प्रणवनादाकार ! नादब्रह्मानन्द ! नादरूपब्रह्मज्ञानद ! नादासक्त-चेतस्स्थ-नादज्योतिरनन्त-नादज्योतिर्मण्डल ! ज्योतिर्मयाखण्डनादरूप ! सेवितस्तुतिमण्डल ! स्फूर्तिबीज-स्तिमितमनःप्रशम ! स्फुरितमानसपुष्पासेवित-नादगुरो ! न कापि स्तुतिरत्युक्तिस्तव ! उच्चरितमात्र-रोमाञ्चनकर-दिव्यनामन् ! सद्गुरुस्वामिन् ! प्राणात्मन् ! दर्शनं प्रदेहि मे ! मङ्गलमानसपुष्पार्पितपुष्पपदयुगल ! भवतः शुभचरणौ शरणं प्रपद्ये ! ममाज्ञातापराधान् क्षमस्व ! मम सञ्चितकर्म भस्मसात् कुरु ! मां आत्मसात् कुरु ! अस्तु ते ! मङ्गलं ते ! ॐ इति सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यं गुरुचरणपुष्पे गुरुचरणाश्रितपुष्पया समर्पितम् । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ॥ ॐ रागराजाय विद्महे रक्तिरूपाय धीमहि । तन्नस्त्यागः प्रचोदयात् ॥ अथ मङ्गलाष्टकम् । ॐ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् । नादब्रह्मावताराय रामस्वारामगानिने । रागस्वरलयाधाय त्यागराजाय मङ्गलम् ॥ १॥ सङ्गीतयोगश्रेष्ठाय सत्कीर्तनसुकीर्तये । सङ्गीतगुरुदेवाय त्यागराजाय मङ्गलम् ॥ २॥ रिपुभीषणगेयाय रीयमाणस्वरादये । रुद्राधीशनुतीशाय त्यागराजाय मङ्गलम् ॥ ३॥ गङ्गापावनगानाय गान्धर्वाद्भुतगीतये । गीतमण्डलशोभाय गुरुनाथाय मङ्गलम् ॥ ४॥ मङ्गल्यवाक्प्रवाहाय माधुर्यमयभाषिणे । मौनोपदेशबोधाय त्यागराजाय मङ्गलम् ॥ ५॥ पञ्चापगोदितार्काय परेशहरिपार्श्विने । पूर्णत्वबोधिपूज्याय त्यागराजाय मङ्गलम् ॥ ६॥ धन्यश्रीरामरामाय धामश्रीरामरागिणे । ध्यातश्रीरामदिव्याय त्यागराजाय मङ्गलम् ॥ ७॥ निषादमित्रमित्राय निष्ठानुग्रहकारिणे । सङ्गीतपुष्पासाराय त्यागराजाय मङ्गलम् ॥ ८॥ ॐ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतत्रिशतिपञ्चशति- सहस्रनामावलिपुष्पकदम्बकं शरणागतिगद्यं मङ्गलाष्टकं च सद्गुरोराराधनार्थं पुष्पानामलेखनीरूपेण गुरुणैव रचितम् । ॐ शुभमस्तु ।

श्रीगुरुवन्दनम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । नादगङ्गाय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ गुरुवन्दनम् । नमः श्रीत्यागराजाय नमः सुज्ञानतेजसे । नमः श्रीरामभक्ताय आचार्याय नमो नमः ॥ १॥ नादावतारपूज्याय नादोपासनमार्गिणे । नादार्चितपरब्रह्मश्रीरामाय नमो नमः ॥ २॥ जप्ततारकसन्मन्त्रशतकोटिसुकीर्तये । श्रीरामभद्रसन्नामतारकानन्दमूर्तये ॥ ३॥ यागरक्षणसन्दर्शनाह्लादहृष्टिरूपिणे । गङ्गाप्रवाहवाग्वर्षसंसिक्तराममूर्तये ॥ ४॥ सुस्वरासारसत्कीर्तनानन्दबाष्पकण्ठिने । प्रासानुप्राससम्भासशैलीगभीरगायिने ॥ ५॥ सहस्रायुतसत्कीर्तनागीतरामतेजसे । सुदिव्यनामसङ्कीर्तनालासलयलासिने ॥ ६॥ रागताललयालास्यकृतिवृन्दप्रसारिणे । रामभक्तिसुधाप्लावस्वानुभूतिप्रकाशिने ॥ ७॥ रागानुरागसज्ज्ञानसंक्षेपकृतिबोधिने । नामगानाधिराजाय सद्भक्तिरसगीतये ॥ ८॥ नादयोगसुनिष्ठाय ध्यानयोगसमाधये । भक्तियोगवरिष्ठाय ज्ञानयोगसुसिद्धये ॥ ९॥ वेदोपनिषदासारकृतिगङ्गाप्रवाहिणे । वेदवेदान्तसत्सारबोधसद्गुरवे नमः ॥ १०॥ पुष्पासवसुगानाय नामपुष्पार्चिताय च । पुष्पावलिसुरागाय त्यागराजाय मङ्गलम् ॥ ११॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगुरुवन्दनं गुरुपादपुष्पे समर्पितम् । ॐ शुभमस्तु ।

गुरुस्तुतिप्रमाणिका

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । वाक्स्वरूपाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥ अथ गुरुस्तुतिप्रमाणिका । सुनादरामपूजनं सुगानसर्वमोदनम् । सरागभक्तिवन्दितं सुगीतसेवितं गुरुम् ॥ १॥ सुरामनामकीर्तनं सुनामगानतल्लजम् । समाधियोगसंस्थितं सदासुलीननामकम् ॥ २॥ सुगानवर्षगङ्गिकं सुगीतनामतारकम् । गलस्वरातिमञ्जुलं श्रुतिस्वलीनगीतकम् ॥ ३॥ लयप्रशान्तिकीर्तनं प्रवाहरागसारतम् । सुनामतारकाजपं सुदृष्टरामविग्रहम् ॥ ४॥ सुनादरूपतेजसं सुलीननादसद्रसम् । सदाविलीनरामकं सदानुभूतदैविकम् ॥ ५॥ कराम्बुजस्थझल्लकं सुलासपादपङ्कजम् । लयश्रुतिस्वभावकं प्रगीतभावकीर्तनम् ॥ ६॥ सुतत्त्वसत्त्वदर्शनं अहंहरम् अहँल्लयम् । मनोविलीनसद्गुरुं विलीनमानसार्चितम् ॥ ७॥ मनःप्रसन्नदैवतं मनःप्रसादरूपकम् । मनोजपुष्पसार्चितं मनोजभावसामुदम् ॥ ८॥ स्वभावमानसार्पणं सुरागभावमोदितम् । स्वरागरत्नमालिकं स्वशिष्यपुष्पमालिकम् ॥ ९॥ सुपादसेविताश्रयं पदागतासुरक्षणम् । सदा भजे गुरुं शुभं सुभव्यमङ्गलास्पदम् ॥ १०॥ गुरुस्तुतिप्रमाणिका गुरुप्रचोदमातृका । गुरुप्रमोददायिका गुरुप्रसादमङ्गला ॥ ११॥ गुरुप्रसादमङ्गलं सदाशुभं सुमङ्गलम् । सरक्तिगाथमङ्गलं सुभक्तिगीतमङ्गलम् ॥ १२॥ मङ्गलं त्यागराजाय गुरुदेवाय मङ्गलम् । प्रमाणिकास्तुतिस्तोत्रपुष्पार्चिताय मङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता गुरुस्तुतिप्रमाणिका गुरुपादपुष्पे समर्पिता । ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मभुजङ्गप्रयातस्तोत्रम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ भुजङ्गप्रयातस्तोत्रम् । यतित्यागराजेन्द्रसङ्गीतगीतं सदा तेन भक्त्याभिसन्नूतरामम् । नुतिश्रेष्ठसत्कीर्तिसत्कीर्तनौघं सदारामचन्द्रं सभव्यं भजेहम् ॥ १॥ भजे त्यागराजं यतीन्द्रं भजेहं भजे रामचन्द्रैकभक्ताग्रगण्यम् । भजे नादराजं सुवर्गापवर्गं भजे शङ्करं सद्गुरुं तं भजेहम् ॥ २॥ परब्रह्मगुण्यस्वरूपप्रगीतं परब्रह्मनैर्गुण्यतत्त्वप्रबोधम् । परब्रह्मलीनं परात्मानुभूतं परब्रह्मरूपं गुरुं तं भजेहम् ॥ ३॥ परब्रह्मनादप्रपूजं सुतेजं परार्थेतिसङ्गीतयोगप्रशंसम् । सुनादार्चितानन्दतेजस्स्वरूपं सुनादस्वरूपं गुरुब्रह्मरूपम् ॥ ४॥ सुरागस्वरानादसङ्गीतरूपं सुधासारसप्तस्वरालास्यगानम् । सुमाधुर्यवाणीरवाहूतरामं सरागं भजेहं गुरुत्यागराजम् ॥ ५॥ पदाम्भोजमञ्जीरशिञ्जत्सुनादं कराम्भोरुहानादसत्तालभेदम् । रणत्तुम्बरानादसँल्लीनकण्ठं झणत्कारघण्टासुनादाभिवर्षम् ॥ ६॥ सदाह्रीङ्करानुस्वरश्रोत्रलीनं सदात्मानुभूतिप्रवाहे निमग्नम् । सदानामसङ्कीर्तनानन्दयोगं सदा सद्गुरुत्यागराजं भजेहम् ॥ ७॥ सदारामरामेतिनामप्रगीतं सदानामसत्सारपानप्रमादम् । सदारागतालाभिलीनप्रभावं सदा तं भजेहं मदात्मप्रबोधम् ॥ ८॥ मुखश्रीकरज्वालसज्ज्ञानतेजं सुदीप्रातिकारुण्यनेत्रोपसान्त्वम् । सुमाधुर्यवाचाभिषङ्गाभिरामं ममोद्धारणं सद्गुरुं तं भजेहम् ॥ ९॥ सुखाराममारामनामाभिजप्यं लसत्कोटिकोटीशनामांशुजिह्वम् । उरोभासभासन्तरामस्वरूपं हरिस्मारकं सद्गुरुं तं भजेहम् ॥ १०॥ पदाश्लिष्टभक्ताशरण्यं वरेण्यं करालम्बनीतानुषक्तोपदेशम् । स्वरालीनसङ्गीतविद्याप्रवेशं मदालम्बनं सद्गुरुं तं प्रपद्ये॥ ११॥ सुसप्तस्वरानन्दविद्यातिदैवं अनुप्राससुप्राससम्भासकाव्यम् । रुचिस्फूर्तिसद्भक्तिकृत्यौघकारं ससङ्गीतराजं गुरुं तं भजेहम् ॥ १२॥ सदारामसद्ध्यानसङ्गीतलोलं समाधिस्थसङ्गीतवाग्गेयकारम् । महापुण्यगङ्गाभिवर्षाभिवाचं महान्तं गुरुं तं सदाहं भजेहम् ॥ १३॥ वरध्यानगङ्गामहास्नानभाग्यं कृतिस्यन्दसत्सारसङ्गीतभोग्यम् । सुधास्यन्दसत्कीर्तनागीतवृन्दं मदाचार्यवृन्दारकं तं भजेहम् ॥ १४॥ सुसङ्गीतसाम्राज्यचक्राधिपत्यं लसद्रामचन्द्राभिरामाप्तगानम् । सहर्षातिरोमाञ्चनानन्दगेयं सभावं भजे सद्गुरुत्यागराजम् ॥ १५॥ नदत्तारकश्रीरमाराममन्त्रं लसत्कीर्तनासारवेदार्थसारम् । हितप्रेर्यमाणोपदेशप्रसारं सदा सद्गुरुत्यागराजं भजेहम् ॥ १६॥ परानन्दसाराममन्त्रोपदेशं सदानन्दसङ्गीततत्त्वोपदेशम् । सुरानन्दगङ्गासुगानप्रवाहं वरानन्दकन्दं गुरुं तं भजेहम् ॥ १७॥ भवापोहसङ्गीतगङ्गाप्रवाहं सुमाङ्गल्यसङ्गीतसिद्धिप्रदानम् । चिरस्थायिसत्कीर्तनाभासरूपं मदाचार्यवर्यं सदाहं भजेहम् ॥ १८॥ चिदाभाससज्ज्ञानसङ्गीतबोधं सतालस्वरानन्दगाम्भीर्यरागम् । सलालित्यमाधुर्यशैलीगभीरं चिदाकाशदीपं भजे सद्गुरुं तम् ॥ १९॥ सदापूतसत्यस्वरूपप्रकाशं तमोगुण्यनिद्रारिभासप्रकाशम् । रजस्तामसापोहसत्त्वप्रकाशं भजे सद्गुरुं तं मदन्तःप्रकाशम् ॥ २०॥ भुजङ्गप्रभासप्रभातप्रगीतं भुजङ्गप्रशायिप्रशान्तप्रगेयम् । भुजङ्गप्रयातस्तुतिस्तोमनाथं भजे सद्गुरुत्यागराजं भजेहम् ॥ २१॥ भुजङ्गप्रयातप्रगीतप्रमोदं भुजङ्गप्रयातस्वगीतप्रभावम् । भुजङ्गप्रयातप्रगातृस्वलीनं भजेहं मदन्तः सुलीनं गुरुं तम् ॥ २२॥ गुरुत्यागराजेन्द्रभक्तिप्रगीतं वराह्लादसङ्गीतसद्मप्रणीतम् । सुपुष्पोपहारं च तथ्योपचारं गुरोरङ्घ्रिपद्मे समर्प्यं सुभद्रम् ॥ २३॥ सुभद्रं गुरुत्यागराजाय गाय सुभद्रं सुसङ्गीतपाथोधिचाय। सुभद्रं गगङ्गाप्रवाहाय हाय सुभद्रं सुमाङ्गल्यदात्रे सुभद्रम् ॥ २४॥ ॐ शुभमस्तु ।

सद्गुरुश्रीत्यागब्रह्मशरणागतिस्तोत्रम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ शरणागतिस्तोत्रम् । स्वररागसुधारसपुण्यतनो नरतल्लजसत्कृतिकारगुरो । कविशक्तिसरक्तिसुयुक्तकृते गुरुदेव भवच्चरणं शरणम् ॥ १॥ स्वरदैवतनर्तनदिव्यदृश सरिगामपधानिझरासरग । सकलार्थसुनामसुकञ्जसर गुरुदेव भवच्चरणं शरणम् ॥ २॥ ऋषभप्रियमोदननामनिधे ऋषिपुङ्गव मत्प्रियसत्त्वगुरो । रिपुसूदनसूदननादनिधे गुरुपुङ्गव सच्चरणं शरणम् ॥ ३॥ गगनागमदेव सुगानपते गगनागमपुण्यसरित्सुकृते । गिरिराजसुताप्रवहानदग गुरुदेव भवच्चरणं शरणम् ॥ ४॥ ममकारनकारनकारगुरो मम सुश्रुतिसद्गतिशिक्षगुरो । मम दोषनिवारणरक्षगुरो मम देव भवच्चरणं शरणम् ॥ ५॥ मम मानसराजतपुण्यहिम मम वाक्प्रवहानदगङ्गसर । मम मानसलीनसुनादगुरो मम सर्व भवच्चरणं शरणम् ॥ ६॥ परपञ्चनदोद्भवनादनद पररामपराङ्गवसङ्गमग । परसुस्वरपूजितरामहरे गुरुदेव भवच्चरणं शरणम् ॥ ७॥ धनदाशरथीनुतिगानसुधे धरणीतनयापतिरागनिधे । धरणीतलसञ्चरनादपते गुरुदेव भवच्चरणं शरणम् ॥ ८॥ निषदापनयानदरागसरे निरुपायमदोद्धरणं तव खम् । निगमागमशास्त्रसुकीर्तनधे गुरुदेव भवच्चरणं शरणम् ॥ ९॥ सगुणार्चितनिर्गुणरूपविद स्वरसागरपारगनादरुचे । हरिभक्तियुताद्भुतशक्तिदध गुरुदेव भवच्चरणं शरणम् ॥ १०॥ हरिदाशरथीरतगाशरधे हरिदाससुदाससुभावयुत । हरिहारणसत्तमकृत्ययुत गुरुदेव भवच्चरणं शरणम् ॥ ११॥ हरिरामसुगानसुनादरस हरिकृष्णसुनामसुधाप्लवन । हरिकेशवमाधवगानघन गुरुदेव भवच्चरणं शरणम् ॥ १२॥ सुरवन्दनसिञ्चनभक्तिरस सुररामसुनामसुगानरस । वररागलयज्ञसुभाषरस गुरुदेव भवच्चरणं शरणम् ॥ १३॥ पदशिञ्जनझङ्कृतिनादयुत करताललयालयलास्यगुरो । गललीनसुतुम्बरनादरत गुरुदेव भवच्चरणं शरणम् ॥ १४॥ भगवद्गुणगानसमाधिलय भगदायकगायकभक्तिनिधे । निधितुच्छमतप्रियरामनिधे गुरुराय भवच्चरणं शरणम् ॥ १५॥ रघुरामसरामविराममते अविरामरमारमराममते । अभिरामसुनामसुमन्त्रजप गुरुदेव भवच्चरणं शरणम् ॥ १६॥ नररूपसुदर्शितरामघृणे वरगानसुवर्षणनादगिरे । परदर्शनहर्षयुतप्रबुध गुरुदेव भवच्चरणं शरणम् ॥ १७॥ भवतारणतारकमन्त्रगुरो भवभावनभावनगाननिधे । भववैद्यनिवेद्यसुदिव्यकृते गुरुदेव भवच्चरणं शरणम् ॥ १८॥ स्वररागलयार्चितमारमण वररागसुधारसपानरत । पररामसुनामसुगानसुख गुरुदेव भवच्चरणं शरणम् ॥ १९॥ रघुपुङ्गवकीर्तनतुङ्गगिरे रघुनाथसुनादसुवर्गनद । रघुराजसुकीर्तनराजवर गुरुदेव भवच्चरणं शरणम् ॥ २०॥ मम जीवनजीवनजीवनद वरसत्कृतिविप्लवसान्त्वगुरो । वररागलयालयकीर्तनद गुरुदेव भवच्चरणं शरणम् ॥ २१॥ वरवाग्वचनार्थसुपुष्टिनृतिस्वरसौष्टवभक्तियुतप्रवह । रघुनायकगायकदिव्यनद गुरुदेव भवच्चरणं शरणम् ॥ २२॥ वरविष्णुसुपादवहानदवाक्सलसुस्वरनामसुनन्दलका । वरवेणिभगीरथयत्नफलानदगङ्गसुगासर मे शरणम् ॥ २३॥ परिपूतसुवागभिषिक्तहरे परिमूकसुवागभिषिक्तगुरो । गुरुभक्त्युपयुक्त्यसहायनुत गुरुदेव भवच्चरणं शरणम् ॥ २४॥ शरणागतनान्यगतिप्रणय स्वररागरहस्यलयाहरण । परिमूकसुनादसुवाग्वरद गुरुदेव भवच्चरणं शरणम् ॥ २५॥ हृदयङ्गमसत्कृतितत्त्वसर हृदयङ्गमसत्तमसत्त्वगुरो । हृदये कमले नितरां भवित गुरुदेव भवच्चरणं शरणम् ॥ २६॥ हृदयालयविग्रहरामनुते हृदयालयविग्रहरूपनुत । हृदयाचलघाङ्षणगाननद गुरुदेव भवच्चरणं शरणम् ॥ २७॥ हृदयालयवाससदानिरत हृदयालयवासनपुष्परस । हृदयालयसार्चनपुष्पपद गुरुदेव भवच्चरणं शरणम् ॥ २८॥ भगभव्यसुमङ्गलनित्यवर भवतारकनामसुगानवर । चिरजीवनिरामयदिव्यदृश गुरुमङ्गलसच्चरणं शरणम् ॥ २९॥ गुरुमङ्गलसुप्रदभव्यवर शुभमङ्गलसत्प्रदपूज्यपद । चिरमङ्गलकारकगानगुरो तव मङ्गलसच्चरणं शरणम् ॥ ३०॥ ॐ शुभमस्तु ।

श्रीत्यागब्रह्मगुर्वष्टकम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ गुर्वष्टकम् । गुरुरामसुभक्त्युतगाननिधिः गुरुसन्त्यजनायुतनामनिधिः । गुरुतेजजितायुतभासनिधिः गुरुरेवमदाश्रयतत्त्वनिधिः ॥ १॥ गुरुगद्यसुपद्यनुताशुकविः गुरुनामसुकीर्तनदिव्यसरिः । गुरुसत्कृतिकीर्तननव्यरुचिः गुरुरेवमदाश्रयसत्त्वनिधिः ॥ २॥ गुरुवाणिसुकीर्तनमिष्टवचः गुरुसुस्वरहृद्गतनामजपः । गुरुतथ्यनुतप्रभुभक्तिशयः गुरुरेवमदाश्रयतथ्यनिधिः ॥ ३॥ गुरुपञ्चनदप्रियगीतसुखी गुरुवाञ्छितसर्वदरामसुधीः । गुरुलाञ्छितलाघवकाव्यरसी गुरुरेवमदाश्रयनित्यनिधिः ॥ ४॥ गुरुगेयसुशिल्पितरामहरिः गुरुकीर्तनमन्दिरपूजितसः । गुरुनादलयालयभासुरसः गुरुरेवमदाश्रयनादनिधिः ॥ ५॥ गुरुपामरदूरसुनादहिमः गुरुपामरबोधनसत्कृतिदः । गुरुमानसपावननामसुगः गुरुरेवमदाश्रयबोधनिधिः ॥ ६॥ गुरुपावनगीःसुरनद्यसुखः गुरुपावनगानसुवर्गसुखः । गुरुजन्मनिवारणनैत्यसुखः गुरुरेवमदाश्रयरामनिधिः ॥ ७॥ गुरुरागविराजसुराजवरः गुरुरामसुपूजनगानवरः । गुरुभक्तिसमर्पितपुष्पपदः गुरुरेवमदाश्रयमङ्गलधिः ॥ ८॥ ॐ शुभमस्तु ।

सद्गुरुमङ्गलाष्टकम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ सद्गुरुमङ्गलाष्टकम् । सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने । षड्जाधारश्रुतिस्थाय सदाचार्याय मङ्गलम् ॥ १॥ ऋषभारूढगेयाय रिपुसूदनगीतये । ऋषिश्रेष्ठसुगीताय रिक्थगीताय मङ्गलम् ॥ २॥ गङ्गापावनगानाय गम्भीरस्वरभाषिणे । गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥ मङ्गलं गुरुनाथाय मङ्गलानन्दकीर्तये । मङ्गलस्वरसाराय मङ्गलस्वाय मङ्गलम् ॥ ४॥ पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये । पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥ धन्याय धन्यसेव्याय धैवत्यधैर्यदायिने । ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥ निषादस्वरमिष्टाय निशादिनस्मृताय च । निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥ सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने । सद्गुरुत्यागराजाय पुष्पार्चिताय मङ्गलम् ॥ ८॥ मङ्गलं त्यागराजाय मदाचार्यवराय च । मङ्गलं रामभक्ताय मङ्गलं ज्ञानतेजसे ॥ मङ्गलं त्यागराजाय मदाचार्यवराय च । मङ्गलं नादयोगाय मङ्गलं सर्वसिद्धये ॥ मङ्गलं त्यागराजाय मदाचार्यवराय च । मङ्गलं ज्ञानदेवाय मङ्गलं मोक्षसिद्धये ॥ ॐ तत्सदिति श्रीत्यागरामपुष्पावलीनामपुष्पकदम्बकं गुरुस्फूर्तिस्पुटं गुरुप्रीतं गुरुसान्निध्ये समर्पितम् । ॐ शुभमस्तु । Acknowledging support by Mr. N. V. Srivatsan and Col Govindan.
% Text title            : tyAgabrahmapuShpAnjalI
% File name             : tyAgabrahmapuShpAnjalI.itx
% itxtitle              : tyAgabrahmapuShpAnjalI (tyAgabrahma tyAgarAja gurustotrANi 108, 300, 500, 1000, gadyam)
% engtitle              : tyAgabrahmapuShpAnjalI Prayers to Sadguru Tyagaraja
% Category              : deities_misc, gurudev, puShpAshrIvatsan
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Description-comments  : aShTottarashata, trishati, panchashati and sahasranAmAvali-s, sharaNAgatigadyam, maNgalAShTakam
% Indexextra            : (Book with translation, sharaNAgatigadyam Audio, Collection)
% Latest update         : October 19, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP