श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि

श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि

श्रीरङ्गे द्वारकायां च श्रीकूर्मे च तथा स्थितः । सिंहाद्रौ च हिमाद्रौ च प्रयागे तुलसीवने ॥ १॥ गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह । गायत्रीमूलमन्त्राभ्यां त्रिवारमभिमन्त्र्य च ॥ २॥ धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् । ललाटे केशवं ध्यायेन्नारायणमथोदरे ॥ ३॥ वक्षःस्थले माधवञ्च गोविन्दं कण्ठकूबरे । विष्णुञ्च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥ ४॥ त्रिविक्रमं कन्धरेतु वामनं वामपार्श्वके । श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे ॥ ५॥ पृष्ठे तु पद्मनाभः स्यात्रिके दामोदरं न्यसेत् । तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥ ६॥ तत्तपुण्ड्राणि तन्मूर्तिं ध्यात्वा मन्त्रेण धारयेत् ॥ ७॥ इति श्रीऊर्ध्वपुण्ड्राणां नारायणादिनामद्वादशस्थानानि समाप्तिमगुः ॥ UrdhvapuNDramantraH : The vertical line separator below indicates column separation. कोष्टकः - mantra . chUrNamantra . place . number sequence of name . times the finger needs to touch the place as mentioned in श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः ऊर्ध्वपुण्ड्रमन्त्रः । श्रीचूर्णमन्त्रः । स्थानानि । नं.। अं. प्र. ॐ केशवाय नमः । श्रियै नमः । ललाटे । १। ४ ॐ नारायणाय नमः । अमृतोद्भवाय नमः । उदरे । २। १० ॐ माधवाय नम । कमलायै नमः । वक्षस्थले । ३। ८ ॐ गोविन्दाय नमः । चन्द्रलोदर्यै नमः । कण्ठे । ४। ४ ॐ विष्णवे नमः । विष्णुपत्न्यै नमः । दक्षिणपार्श्वे । ५। १० ॐ मधुसूदनाय नमः । वैष्णव्यै नमः । दक्षिणबाहौ । ६। ८ ॐ त्रिविक्रमाय नमः । वरारोहायै नमः । दक्षिणकण्ठे । ७। ४ ॐ वामनाय नमः । हरिवल्लभायै नमः । वामपार्श्वे । ८। १० ॐ श्रीधराय नमः । शार्ङ्गिण्यै नमः । वामबाहौ । ९। ८ ॐ हृषीकेशाय नमः । देवदेविकायै नमः । वामकण्ठे । १०। ४ ॐ पद्मनाभाय नमः । सुरसुन्दर्यै नमः । पृष्ठे । ११। ४ ॐ दामोदराय नमः । महालक्ष्म्यै नमः । कण्ठपृष्ठे । १२। ४ इति श्री द्वादश ऊर्ध्वपुण्ड्रमन्त्राः सम्पूर्णतामागुः ॥ श्री राधाकृष्णार्पणमस्तु ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909).
% Text title            : UrdhvapuNDramantrAH
% File name             : UrdhvapuNDramantrAH.itx
% itxtitle              : UrdhvapuNDramantrAH
% engtitle              : UrdhvapuNDramantrAH
% Category              : devii, radha, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : sarasa stotrasangrahaH (Lucknow, 1909)
% Indexextra            : (Scanned)
% Latest update         : November 4, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org