॥ अकुलवीर तन्त्रम् ॥

श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥ अनग्रहाय लोकानां सिद्धनाथेन भाषितम् । गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥ संसारार्णवमग्नातां भूतानां महदाश्रयम् । यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३॥ तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः । सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४॥ सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः । अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥ शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) । न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥ संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा । बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥ ७॥ मीमांस पञ्चस्त्रोताश्च वामसिद्धान्तदक्षिणाः । इतिहासपुराणञ्च भूततत्त्वन्तु गारुडम् ॥ ८॥ एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्विताइः । सविकल्पसिद्धिर्सञ्चारन्तत् सर्वं पापबन्धवित् ॥ ९॥ विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः । न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः ॥ १०॥ सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् । सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै ॥ ११॥ यत्नासौ अकुलवीरो दृश्यते सर्वतोमुखम् । तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२॥ शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् । सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३॥ भावाभावविनिर्मुक्त उदयास्तमनवर्जितः । स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४॥ अकुलवीरमिति ख्यातं सर्वाधारपापरम् । नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५॥ हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके । न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६॥ न नाभिचक्रकण्ठे च न शिरे नैव मस्तके । तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७॥ न पूरककुम्भके तत्र रेचके [च] तथा पुनः । न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८॥ प्रवेशनिर्गमे नैव नावाहनविसर्जनम् । न करणैर्नासनं मुद्रैर्नमासे भिन्नतालुके ॥ १९॥ न निरोधो न चोद्धारो नातीतां चालनं न हि । न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम् ॥ २०॥ न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् । एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्जितम् ॥ २१॥ न दूरे न च वै निकटे न भरितो न च रिक्तकः । न उन्नोन सोऽधिक एभिः पक्षैर्विवर्जितम् ॥ २२॥ यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै । यत्र लक्षं न विद्येत अकुलवीर स उच्च्यते ॥ २३॥ यस्यैवं संशितं कऽश्चित् समरस संशितः । स ब्रह्मा सो हरिश्चैशः स रुद्रो स च ईश्वरः ॥ २४॥ स शिवः परमदेवः स सोमार्काग्निकस्तथा । स च साङ्ख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५॥ स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः । स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता ॥ २६॥ यादृशेन तु भावेन पुरुषो भावयेत् सदा । तादृशां फलमाव्प्नोति नात्र कार्यविचारणात् ॥ २७॥ अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः । अनाम तस्य गियन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८॥ धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः । तेन मुञ्चन्ति संसारं नरकं योनिसङ्कुलम् ॥ २९॥ अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् । स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३०॥ निस्तरङ्गं निराभासं पदभेदविवर्जितम् । सर्वावयवनिर्मुक्तं निर्लयं निर्वकारजम् ॥ ३१॥ अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् । सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२॥ कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् । मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् ॥ ३३॥ समत्वं एकभूतञ्च ऊहापोहविवर्जितम् । अकुलवीरं महद्भूतं अस्तिनास्तिविवर्जितम् ॥ ३४॥ न मनो न च वै बुद्धिर्न चिन्ताचेतनाअदिकम् । न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५॥ न भूते गृह्यते सो हि न सुखं दुःखमेव च । न रसो हि न सुखं दुःखमेव च ॥ ३६॥ न रसो विरसश्चैव न कृतो न च जायते । न च्छाय न च तापस्तु न शीतो न च उष्णवान् ॥ ३७॥ न दृश्यते मन स्तत्र उदयास्तमनवर्जितम् । न सीमा दृश्यते तत्र न च तिर्थ्यं न चहिवहि ॥ ३८॥ अद्वैतमचलं शान्तं सङ्गदोषविवर्जितम् । निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९॥ अनाथं सर्वनाथञ्च उन्मनां मदवर्जितम् । अनिगृढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४०॥ ज्वलज्वलनभूम्या च आपोञ्चैव तथैव च । सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१॥ यस्यैषा सम्।स्थिता मुक्तिः स मुक्तो भवबन्धनात् । न तस्य मातापिता व बान्धवं न च देवता ॥ ४२॥ न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् । त्यक्त्वा विकल्पस।घातं अकुलवीरलयं गताः ॥ ४३॥ न जपो नार्चनं स्नानं न होमं नैव साधनम् । अग्निप्रवेशनं नास्ति हेतन्तभृगु नोदनम् ॥ ४४॥ नियमोऽपि न तस्यास्ति नोपवासो विधीयते । पितृकार्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५॥ धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया । स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च ॥ ४६॥ समयाचारविचारञ्च कृतका बन्धकानि तु । सङ्कल्पञ्च निकल्पञ्च ये चान्ये किल धर्मिणः ॥ ४७॥ भवे योगी निराचारो पशुचारविवर्जितः । सिद्धिश्चविविधाकार पाताले च रसायनम् ॥ ४८॥ प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन । सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९॥ एतेषु मोचना नास्ति अकुलवीरविवर्जिताः । यथा मृताः न जानन्ति स्वादं कटुमधुरस्य तु ॥ ५०॥ तथा अकुलवीरन्तु न जानन्ति स्वभावगम् । यथा मदिरा महान्तस्य कथितं नेवशकृते ॥ ५१॥ रस्यपरमानन्दमतिगुह्यं सुगोपितम् । लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२॥ निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् । मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् ॥ ५३॥ तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता । किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् ॥ ५४॥ अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः । लभ्द्वा तु मोक्षसद्भावं अकुलवीरं महापहम् ॥५५॥ कौलमार्गे द्वयो सन्ति कृतका सहजा तथा । कुण्डलि कृतका ज्ञेया सहजा समरस स्थिता ॥ ५६॥ प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते । ततः स पातयेद् भूमै मुद्रामन्त्रैर्नियोगितैः ॥ ५७॥ आहुते पतने चान्ये कर्णजापेन धूपकैः । एतत् साध्यमिदं तत्त्वं एतद् ध्यानञ्च धारणा ॥ ५८॥ अनेकैः कर्मसङ्घातैः नानामार्गविभावनैः । विकल्पकललोल्लोया उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९॥ हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः । हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६०॥ तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः । दग्धबीजेषु सम्भूतिर्यथा नैव प्रजायते ॥ ६१॥ मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते । अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२॥ न बध्यते यथा विमले रसं विप्रलयं गतम् । तद्वदकुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ॥ ६३॥ तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति । अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४॥ अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनिश्यति । दधिमधे यथा सर्पिः काष्ठे चाग्नि स्थितो यथा ॥ ६५॥ पुष्पे गन्धस्तिले तैलं वृक्षे चाया समाश्रिता । मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६॥ पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च । रक्तार्थाकुलवीरे च तत्सर्वं विनियोजितम् ॥ ६७॥ भावाऽभावादिसम्।युक्तैः प्रत्ययैर्द्दृष्टिगोचरैः । अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८॥ पाशजालनिबद्धाश्च महामायविमोहिताः । न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९॥ सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् । सर्वभूतस्थितं ह्येकमध्ययं धेयवर्जितम् ॥ ७०॥ स च सर्वगतो भावः स्थिरे पूर्णो निरन्तरे । तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१॥ मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता । यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२॥ तदा तन्मयतां याति निर्मलं निश्चलं पदम् । अकुलवीरं महद्भुतमेकवीरं च सर्वगम् ॥ ७३॥ दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् । केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः ॥ ७४॥ अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् । इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५॥ ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा । तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६॥ अनागतन्तु गतञ्चैव न हच्छेन्न च तिष्ठति । न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७॥ न चाहं प्रचितैर्दोषैः लिप्तते न कदाचन । नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८॥ न मुक्ति वै न च न मुक्तमे मोक्षस्य च स्पृहा । गच्छंस्तिष्ठन् स्थपन् जाग्रद्भूञ्जानओ मैथुनेऽपि वा ॥ ७९॥ भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा । चिकित्सा नैव कुर्वीत इन्द्रियाअर्थैः कदाचन ॥ ८०॥ आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् । एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१॥ पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम् । सोमशून्यस्तथा वह्निप्राणायमवर्जितम् ॥ ८२॥ अप्रमेयनिराभासं धारणाध्यानवर्जितम् । येन जन्मसहस्राणि भक्त्या सम्पूजितो गुरुः ॥ ८३॥ ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् । योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४॥ अकुलवीरं महद्भूतं गम्भीरं गहनामयम् । पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् ॥ ८५॥ पदव्यञ्जननिर्मुक्तं विमलं सततोदितम्। तल्लिने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६॥ चितातीतं भवेत् सो हि योगसंयोगवर्जितम् । निर्वाणं वासनाहीनं तृप्तात्म च निरामयः ॥ ८७॥ तेन लब्धा न सन्देहोऽमला मलच्छेदनाः । तस्य प्रवर्त्तते क्षिप्तं तस्यैव सर्वसर्वगम् ॥ ८८॥ वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च । तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९॥ विद्याहञ्ख़ारग्रस्तास्तु गर्विताः कुगतिं गताः । अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९०॥ अकुलवीरं न विन्दन्ति कृतकैर्मोहितामनः । गर्वितानं कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१॥ कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च । खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् । अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् ॥ ९२॥ धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना । न क्रिया सत्यश्चैवं वा कर्मकाण्डे न भावना ॥ ९३॥ न तस्य कर्मकर्माणि लोकाचाराणि यानि च । चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४॥ अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् । कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५॥ सम्।कल्पविकल्पञ्च कलाकर्माणि यानि च । सिद्धयो विविधा लोके पातालं च रसायनम् ॥ ९६॥ प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन । सर्वे ते पाशबद्धाश्च अधोमार्गप्रदायकाः ॥ ९७॥ न चैतैर्मुक्तिः सम्।सारे अकुलं बीरवर्जिताः । यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८॥ तद्वदकुलवीराख्यं स्वसम्।वेद्यनिरोपणम् । न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९॥ तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति । चितातीते यदा योगी स योगी योगचिन्तकः ॥ १००॥ विरक्ता वासना यस्य तृप्तात्म च निरामयः । तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः ॥ १०१॥ यावत् सममेकत्वं परमानन्दं न विन्दति । मुर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा ॥ १०२॥ अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः । दिशवेशाविनिर्मुल्तं स्थानवर्णविवर्जितम् ॥ १०३॥ निराकुलं निर्विकल्पं निर्गुणञ्च सुनिर्मलम् । अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् ॥ १०४॥ घननिविडनिसन्धिस्थावरे जङ्गमेषु च । जले ज्वलने तथा पवने भूम्याकाशे तथैव च ॥ १०५॥ सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् । न ज्ञातं येन देहस्थं स मुक्तः सर्वबन्धनात् ॥ १०६॥ न तस्य क्रियाबन्धेन न वेद्यं न च वेदना । न यज्ञो नोपवासश्च न चर्या न क्रियोदयः ॥ १०७॥ न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् । न जापो नार्चानग्नीनां न होमो नैव साधनम् ॥ १०८॥ नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् । नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः ॥ १०९॥ न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च । निरालम्बपदं शान्तं तथातीतं निरञ्जनम् ॥ ११०॥ सर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते । कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् ॥ १११॥ मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् । स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्यते ॥ ११२॥ समस्तमेकदाभूतं द्वैताभावविवर्जितम् । अकुलवीरं महद्भूतमस्तिनास्तिविवर्जितम् ॥ ११३॥ मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना । न कालकलना चैव न शक्तिश्च न चेन्द्रियः ॥ ११४॥ न भूते गृह्यते सो हि न दुःखं सुखमेव च । न रसोऽधिरसश्चैव कृतकं नैव कारकम् ॥ ११५॥ न च्छाया नातपो वह्निर्न च शीतोष्णववेदना । न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् ॥ ११६॥ न मनो दृश्यते तत्र नोर्द्ध्वमध्यं च ज्ञायते । अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् ॥ ११७॥ यादृशेन तु भावेन पुरुषो भावयेत् सदा । तादृशं फलमाप्नोति नात्र कार्यविचारणात् ॥ ११८॥ एवञ्च कुलसद्भावमवाच्यं परमामृतम् । अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविहोहिताः ॥ ११९॥ न दूरे न निकटे चैव प्रत्यक्षं न परोक्षता । न भरितो न रिक्तो वा निपुणो नापि चाधिकः ॥ १२०॥ एतत्पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः । कृतकैर्मोहिता मूढाः कर्मकाण्डरतास्तु ये ॥ १२१॥ न तेषां मुक्तिः संसारे नरके योनिसङ्कुले । अकुलवीरं महद्भूतं यदा पश्यति सर्वगम् ॥ १२२॥ सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् । निस्तरङ्गं निराभासं पदच्छेदविवर्जितम् ॥ १२३। सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् । अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् ॥ १२४॥ न ध्यानं धारणा नैव न स्थानं वर्णमेव च । न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् ॥ १२५॥ न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च । ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६॥ एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् । सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् ॥ १२७॥ समरसानन्द्ररूपेण एकाकारं चराचरे । ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् ॥ १२८॥ यस्याअ वशं स्थितः कश्चित् समरसं रससंस्थितम् । स ब्रह्मा स हरिश्चैव स रुद्रञ्चैवेश्वरस्तथा ॥ १२९॥ स शिवः शाश्वतो देवः स च सोमार्कशङ्करः । स विशाख्यो मयुराक्षो अर्हन्तो बुधमेव च ॥ १३०॥ स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः । स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वेश्वरो गुरुः ॥ १३१॥ सर्वज्ञः सर्वमासृत्य सर्वतो हितलक्षणः । सर्वयोगिनी तत्रस्था सर्वे सिद्धाश्च तत्र वै ॥ १३२॥ सर्वं सर्वा^र्थकं चैव सर्वज्ञानश्च तत्र वै । यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् ॥ १३३॥ शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च । सर्वे भीराश्च तत्रैव ये प्रलीनाः प्रलयं गताः ॥ १३४॥ नाधारे ध्येयलक्ष्ये च न नादगोचरे परे । न हृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः ॥ १३५॥ न इडा पिङ्गला चैव सुष्मण च गमागमैः । न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा ॥ १३६॥ चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे । न पूरके कुम्भके चैव रेचके च तथा पुनः ॥ १३७॥ न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः । प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके ॥ १३८॥ न करैर्न सरैर्मुद्रैः नाकाशो वायुमण्डले । न चापे चन्द्रसूर्ये च भावाभावे समागमे ॥ १३९॥ अनौपम्यं निरालम्बं पक्षापक्षविवर्जितम् । अज्ञानमलग्रस्तात्मा महामायविमोहिताः ॥ १४०॥ शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः । न विदन्ति पदं शान्तं कैवल्यं निश्क्रियं गुरुम् ॥ १४१॥ सङ्ख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा । बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः ॥ १४२॥ मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः । इतिहासपुराणानि भूततत्त्वञ्च गारुडम् ॥ १४३॥ एते चैव समाः सर्वे केचित् वाऽपि क्रियान्विताः । विकल्पसिद्धिदाः सर्वे तद्विदुर्न च पण्डिताः ॥ १४४॥ विकल्पबहलाः सर्वे मिथ्यावादनिरर्थकाः । न ते मुच्यन्ति संसारे अकुलवीरविवर्जिताः ॥ १४५॥ यानि कानि च स्थानानि गिरिर्नगरसागरम् । सर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च ॥ १४६॥ पञ्चभूतात्मकं सर्वे यत् किञ्चित् सचराचरम् । शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् ॥ १४७॥ ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः । गन्दैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः ॥ १४८॥ तर्पयन्ति च ये भक्तास्त्रिविधैश्चैवान्तरात्मना । तेऽपि बन्दैः प्रमुच्यन्ति मुक्तिमार्गी न काड्क्षिणः ॥ १४९॥ ब्रहेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च । विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः ॥ १५०॥ देवादिभो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः । ते सर्वे मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् ॥ १५१॥ अथान्यं सम्प्रवक्ष्यामि भिन्नावस्थां स्वभागः । पूर्वं यदुक्ता सर्वे अन्वयमार्गे त्वकौलिके ॥ १५२॥ * * * * * * * * * * * * * * * * * नात्र संशयः ॥ १५३॥ न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च । सर्वव्याधिहरश्चैव न पुनर्भवसम्भवः ॥ १५४॥ अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः । सर्वतः सर्वदा शुद्धः सर्वतः सर्वदा प्रभुः ॥ १५५॥ इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनीप्रसादाल्लब्धं अकुलवीरं समाप्तम् । Encoded by Mike Magee ac70@cityscape.co.uk

% Text title            : akulviiratantra
% File name             : akulviiratantra.itx
% itxtitle              : akulavIra tantram
% engtitle              : akulavIra tantram
% Category              : tantra, devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : tantram
% Transliterated by     : Michael Magee  1997 -  http://www.shivashakti.com/
% Proofread by          : Mike Magee 
% Latest update         : January 5,2005
% Send corrections to   : Mike Magee % Description-comments  : akulviiratantra
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP