अम्बा नवमणिमाला अथवा आर्या नवकम्
वाणीं जितशुकवाणीमलिकुलवेणीं भवाम्बुधिद्रोणीम् ।
वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥ २॥
कमलाकमलजकान्ताकरसारसदत्तकान्तकरकमलाम् ।
करयुगलविधृतकमलां विमलां कमलाङ्कचूडसकलकलाम् ॥ ३॥
सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनाम् ।
करुणोज्जीवितमदनां सुरकुशलायाऽसुरेषुकृतकदनाम् ॥ ४॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बाम् ।
पालितसुजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५॥
शरणागतजनभरणां करुणावरुणालयां नवावरणाम् ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६॥
तुङ्गस्तनजितकुम्भां कृतपरिरम्भांशिवेन गुहडिम्भाम् ।
दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥ ७॥
नतजनरक्षादीक्षां प्रत्यक्षदैवताध्यक्षाम् ।
वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषुकृतरक्षाम् ॥ ८॥
धन्यां सुरवरमान्यां हिमिगिरिकन्यां त्रिलोकमूर्द्धन्याम् ।
विहृतसुरद्रुमवन्यां वेद्मि विना त्वां न देवतास्वन्याम् ॥ ९॥
एतां नवमणिमालां पठन्ति भक्त्येह ये पराशक्त्याः ।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥ १०॥
पातय वा पाताले स्थापय वा सकलभुवनसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ ११॥
इति अम्बा नवमणिमाला समाप्ता ।
नवरत्नमालिका
आर्या नवकम्
Encoded by Maniam Varagoor
and corrected by Sunder Hattangadi, NA, PR Ramamurthy, PSA Easwaran