बीजषोडशार्णमकरन्दस्तोत्रम् अथवा श्रीमकरन्दस्तवराजः

बीजषोडशार्णमकरन्दस्तोत्रम् अथवा श्रीमकरन्दस्तवराजः

श्रीगणेशाय नमः ॥ विनियोगः - ॐ अस्य श्रीमकरन्द-स्तव-राज-मन्त्रस्य ब्रह्म-विद्यायाः श्रीदक्षिणामूर्ति ऋषिः, अव्यक्त गायत्री छन्दः, श्रीमन्महा-त्रिपुर-सुन्दरी देवता, अं बीजं, आं शक्तिः, सौः कीलकं, दश-मुद्रा-ब्रह्मोपासन-सौभाग्यं चतुर्वर्गाप्तये विनियोगः॥ ऋष्यादि-न्यासः - ॐ श्रीदक्षिणामूर्ति-ऋषये नमः शिरसि। अव्यक्त-गायत्री-छन्दसे नमः मुखे। श्रीमन्महा-त्रिपुर-सुन्दरी-देवतायै नमः हृदि। अं-बीजाय नमः लिङ्ग-योनौ वा। आं-शक्तये नमः नाभौ। सौ-कीलकाय नमः पादयोः। दश-मुद्रा-ब्रह्मोपासन-सौभाग्याय चतुर्वर्गाप्तये विनियोगाय नमः सर्वाङ्गे। । । कर-न्यास-श्रीं ह्रीं क्लीं ऐं सौः अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं श्रीं तर्जनीभ्यां नमः। कए-ई-ल-ह्रीं मध्यमाभ्यां नमः। -स-क-ह-ल-ह्रीं अनामिकाभ्यां नमः। स-क-ल-ह्रीं कनिष्ठिकाभ्यां नमः । सौः ऐं क्लीं ह्रीं श्रीं करतल-कर-पृष्ठाभ्यां नमः। षडङ्ग-न्यासः - श्रीं ह्रीं क्लीं ऐं सौः हृदयाय नमः। ॐ ह्रीं श्रीं शिरसे स्वाहा। क-ए- ई-ल-ह्रीं शिखायै वषट्। ह-स-क-ह-ल-ह्रीं कवचाय हुम्। स-क-ल-ह्रीं नेत्र-त्रयाय वौषट्। सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट्। ध्यानम् - बालार्कायुत-तेजसं त्रि-नयनां रक्ताम्बरोल्लासिनीम्। नानालंकृति-राजमान-वपुषे बालोडुराट्-शेखराम्॥ हस्तैरिक्षु-धनुः सृणिं सुमशरं पाशं मुदा विभ्रतीम्। श्रीचक्र-स्थित-सुन्दरीं त्रि-जगतामाधार-भूतां स्मरेत्॥१ बालार्क-मण्डलाभासां, चतुर्बाहां त्रि-लोचनाम्। पाशाङ्कुश-शरांश्चापं, धारयन्तीं शिवां भजे॥२ मानस-पूजनम् - ``लं पृथिव्यात्मकङ्गन्धं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां नमः अनुकल्पयामि।'' यह पढ़कर अधो-मुख कनिष्ठा-अङ्गुष्ठ-योग से गन्ध-मुद्रा दिखाए। ``हं आकाशात्मकं पुष्पं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां नमः अनुकल्पयामि।'' यह पढ़कर अधो-मुख तर्जनी-अङ्गुष्ठ-योग से पुष्प-मुद्रा दिखाए। ``यं वाय्वात्मकं धूपं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां नमः अनुकल्पयामि।'' यह पढ़कर ऊर्ध्व-मुख-तर्जनी-अङ्गुष्ठ-योग से धूप-मुद्रा दिखाए। अथ स्तोत्रम् । श्रीं-बीजे नादबिन्दुद्वितयशशिकलाकाररूपे स्वरूपे मातर्मे देहि बुद्धिं जहि जहि दुरितं पाहि मां दीननाथे । अज्ञानध्वान्तनाशे क्षयरुचिरुचिरे प्रोल्लसत्पादपद्मे ब्रह्मेशाद्यैः सुरेन्द्रैः सुरगणनमिते संस्तुतां त्वां नमामि ॥ १॥ लज्जाबीजस्वरूपे त्रिजगति वरदव्रीडया या स्थितेयं तां नित्यां शम्भुशक्तिं त्रिभुवनजननीं विश्वसम्पालनीं च । सर्वासां तां निदानं सकलगुणमयीं सच्चिदानस्वरूपां तेजोरूपां प्रदीप्तां त्रिभुवननमितां ज्ञानदात्रीं नमामि ॥ २॥ क्लीं-बीजे कामरूपधृतकुसुमधनुर्बाणपाशाङ्कुशां तां वन्दे भास्वत्सरोजोदरविभवदृशं मोहयन्तीं त्रिलोकीम् । काञ्चीमञ्जीरहाराङ्गदमुकुटलसत्स्वर्णमाणिक्यरत्नै- र्भास्वन्तीमिन्दुवक्त्रां स्तनभरनमितां क्षीणमध्यां त्रिनेत्राम् ॥ ३॥ ऐं-वाणीबीजरूपे त्रिभुवनजडताध्वान्तविध्वंसिनी त्वं शब्दव्रह्मस्वरूपां श्रुतिभिरनुपदं गीयमाना त्वमेव । मातर्मे देहि बुद्धिं मम सदसि परद्वन्द्वसङ्क्षोभकर्त्रोमैन्द्रीं वाचस्पतेरप्यतिविविधपदं त्वत्पदाम्भोजमीडे ॥ ४॥ सौः-शक्त्या कामरूपे घटपटप्रभृतौ दृष्टहेतौ सदा या माया काचिन्महत्वत्प्रभृतिपरिणतौ शूलभूता त्वमेव । केचिद्बाह्यप्रपञ्चा मणिमिव हि तनौ तन्तुभूतात्मविद्या- विद्याविभ्रान्तिवृन्दं क्षपयति जगतां मेनिरे शुद्धभावाः ॥ ५॥ ओम्मातस्ते नमस्ते श्रुतिपथगुरुत्र्यक्षरब्रह्मरूपे मिथ्यामोहान्धकारे पतितमनुदिनं पाहि मां मन्दहीनम् । मोहक्रोधप्रलोभप्रमथमदचयैः शत्रुभिः पीड्यतेऽसौ पत्नीपुत्रादिभृत्यैर्नतविविधजनैः श‍ृङ्खलाभिर्निबद्धम् ॥ ६॥ ह्रीङ्कारे ह्रीस्वरूपे मम दह दुरितं व्याधिदारिद्र्यबीजं मातस्त्वत्पादपद्मं द्वितयपरिसते प्रार्थये भक्तिलेशम् । त्वं वाणी त्वं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्मविष्णुस्मरारेश्चित्तं नित्यं स्मराख्ये कृतमिह जननि हृत्कटाक्षैकवृन्देः ॥ ७॥ श्रीङ्कारे श्रीस्वरूपे वितर मयि धनं धान्यहस्त्यश्वयुक्तं स्वर्णं माणिक्यरत्नाद्यभिलषितयुतं त्वत्पदार्थैः सुयोग्यम् । विद्यां त्वं देहि मोक्षं मयि भवदहने देवि दन्दह्यमाने योगीन्द्रैः सेव्यमाना भृतकलुषचयैर्मोक्षमन्वेषयद्भिः ॥ ८॥ कामो योनिश्चतुर्थस्वरत्रिदशपतिर्भौवनेशीवबीजं तावद्वर्णावली त्वं नतजनवरदे लास्यदे भक्तिप्रीते । त्वत्पादाम्भोजयुग्मं हृदयसरसिजे सन्निधायैकचित्ते ध्यात्वा त्वत्कर्मबन्धं त्वतिविमलधियो मुक्तवन्तो मुनीन्द्रः ॥ ९॥ ब्रह्मेन्दुः कामदेवो वियदमरगुरुर्भौवनेशीवबीजं तावद्वर्णस्वरूपैर्घटितकनकलतां त्वां प्रसन्नोऽस्मि मातः । विष्णुब्रह्मेशमूर्धस्थितमुकुटमणिप्रोल्लसत्पादपद्मां योगीन्द्रैर्ध्येयपादाम्बुरुहनखशशिद्योतविद्योतितां त्वाम् ॥ १०॥ इन्दुः कामः सुरेशो विदथनलसृग्वामनेत्रार्धचन्द्रैर्युक्तं यद्बीजमेतत्तदपि तव वपुः सच्चिदानन्दरूपम् । बाला त्वं भैरवी त्वं त्रिभुवनजननी वारिणी नीलवर्णा त्वं गौरी त्वं च काली सकलमनुमयी त्वं महामोक्षदात्री ॥ ११॥ सौःकारा बीजराजस्त्रिभुवनजननी शक्तिराद्या त्वमेव त्वद्युक्तः शम्भुरेव प्रभवति चलितुं त्वां विना जाड्यवान् सः । ब्रह्मा विष्णुः कपर्दी जननि तव कृपालेशमात्राच्छरीरं गृह्णन्तः सृष्टिरक्षाप्रलयमविचलच्चक्रिरे त्वद्वशस्थाः ॥ १२॥ ऐम्बीजं वाग्भवाख्यं त्वमिह जडमतिध्वान्तचक्षुःप्रकाशा मातः कारुण्यधाराभववलितदृशा पश्य भां दीननाथे । मोह्यन्ते मोहितास्ते तव जननि महामायया बद्धचित्ताः कारुण्यं प्रार्थयन्ते तव पदयुगले ज्ञानवन्तो मुनीन्द्रः ॥ १३॥ क्लीङ्कारो बीजरूपस्तव जननि मनुश्रेष्ठमध्यप्रदेशः साक्षाद्ब्रह्मस्वरूपो मदनतनुलता ब्रह्मणो मोहकर्त्री । सुज्ञानस्मेरवक्त्राम्बुजकुहपलसत्सत्सु पीयूषधारा वेदाश्चत्वार एते तुहिनगिरिसुते प्राप्तमीनेन्द्ररूपे ॥ १४॥ ह्रीङ्कारोङ्काररूपा त्वमिह शशिमुखी ह्रींस्वरूपा त्वमेव क्षान्तिस्त्वं त्वं च कान्तिर्हरिहरकमलोद्भूतरूपा त्वमेव । त्वं सिद्धिस्त्वं च ऋद्धिः स्मररिपुमनसस्त्वं च सम्मोहयन्ती विद्या त्वं मुक्तिहेतुर्भवजलधिजदुःखस्य हन्त्री त्वमेका ॥ १५॥ श्रीं-बीजे श्रीस्वरूपे मधुरिपुमनसो मध्यमध्यासिता त्वं मातस्त्वद्भक्तिलेशादमरपतिरसौ प्राप्तवान् बुद्धिमेषाम् । इत्येवं षोडशार्णः पठितमनुदिनं स्वर्गमोक्षैकहेतुः सिद्धीरष्टौ लभन्ते य इह न तु वरं श्रेष्ठमेते भजन्ते ॥ १६॥ पूजयित्वा विधानेन महात्रिपुरसुन्दरीम् । इमं स्तवं पठित्वा तु देवीसायुज्यमाप्नुयात् ॥ १७॥ इति विष्णुयामले शिवोक्तं बीजषोडशार्णमकरन्दस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : bIjaShoDashArNamakarandastotram
% File name             : bIjaShoDashArNamakarandastotram.itx
% itxtitle              : bIjaShoDashArNamakarandastotram shrImakarandastavarAjaH (viShNuyAmalatantrAntargatam)
% engtitle              : bIjaShoDashArNamakarandastotram
% Category              : devii, devI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Source                : viShNuyAmala, rudrayAmala
% Latest update         : July 3, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org