श्रीबगलाष्टोत्तरशतनामावलिः
ॐ अस्य श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः,
अनुष्टुप्छन्दः, श्रीपीताम्बरा देवता,
श्रीपीताम्बराप्रीतये पाठे विनियोगः ।
श्रीबगलायै नमः ।
श्रीविष्णुवनितायै नमः ।
श्रीविष्णुशङ्करभामिन्यै नमः ।
श्रीबहुलायै नमः ।
श्रीवेदमात्रे नमः ।
श्रीमहाविष्णुप्रस्वै नमः ।
श्रीमहामत्स्यायै नमः ।
श्रीमहाकूर्मायै नमः ।
श्रीमहावाराहरूपिण्यै नमः ।
श्रीनरसिंहप्रियायै नमः । १०
श्रीरम्यायै नमः ।
श्रीवामनायै नमः ।
श्रीवटुरूपिण्यै नमः ।
श्रीजामदग्न्यस्वरूपायै नमः ।
श्रीरामायै नमः ।
श्रीरामप्रपूजितायै नमः ।
श्रीकृष्णायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकृत्यायै नमः ।
श्रीकलहायै नमः । २०
श्रीकलकारिण्यै नमः ।
श्रीबुद्धिरूपायै नमः ।
श्रीबुद्धभार्यायै नमः ।
श्रीबौद्धपाखण्डखण्डिन्यै नमः ।
श्रीकल्किरूपायै नमः ।
श्रीकलिहरायै नमः ।
श्रीकलिदुर्गतिनाशिन्यै नमः ।
श्रीकोटिरूर्यप्रतीकाशायै नमः ।
श्रीकोटिकन्दर्पमोहिन्यै नमः ।
श्रीकेवलायै नमः । ३०
श्रीकठिनायै नमः ।
श्रीकाल्यै नमः ।
श्रीकलायै नमः ।
श्रीकैवल्यदायिन्यै नमः ।
श्रीकेशव्यै नमः ।
श्रीकेशवाराध्यायै नमः ।
श्रीकिशोर्यै नमः ।
श्रीकेशवस्तुतायै नमः ।
श्रीरुद्ररूपायै नमः ।
श्रीरुद्रमूर्त्यै नमः । ४०
श्रीरुद्राण्यै नमः ।
श्रीरुद्रदेवतायै नमः ।
श्रीनक्षत्ररूपायै नमः ।
श्रीनक्षत्रायै नमः ।
श्रीनक्षत्रेशप्रपूजितायै नमः ।
श्रीनक्षत्रेशप्रियायै नमः ।
श्रीनित्यायै नमः ।
श्रीनक्षत्रपतिवन्दितायै नमः ।
श्रीनागिन्यै नमः ।
श्रीनागजनन्यै नमः । ५०
श्रीनागराजप्रवन्दितायै नमः ।
श्रीनागेश्वर्यै नमः ।
श्रीनागकन्यायै नमः ।
श्रीनागर्यै नमः ।
श्रीनगात्मजायै नमः ।
श्रीनगाधिराजतनयायै नमः ।
श्रीनगराजप्रपूजितायै नमः ।
श्रीनवीनायै नमः ।
श्रीनीरदायै नमः ।
श्रीपीतायै नमः । ६०
श्रीश्यामायै नमः ।
श्रीसौन्दर्यकारिण्यै नमः ।
श्रीरक्तायै नमः ।
श्रीनीलायै नमः ।
श्रीघनायै नमः ।
श्रीशुभ्रायै नमः ।
श्रीश्वेतायै नमः ।
श्रीसौभाग्यदायिन्यै नमः ।
श्रीसुन्दर्यै नमः ।
श्रीसौभगायै नमः । ७०
श्रीसौम्यायै नमः ।
श्रीस्वर्णाभायै नमः ।
श्रीस्वर्गतिप्रदायै नमः ।
श्रीरिपुत्रासकर्यै नमः ।
श्रीरेखायै नमः ।
श्रीशत्रुसंहारकारिण्यै नमः ।
श्रीभामिन्यै नमः ।
श्रीमायायै नमः ।
श्रीस्तम्भिन्यै नमः ।
श्रीमोहिन्यै नमः । ८०
श्रीशुभायै नमः ।
श्रीरागद्वेषकर्यै नमः ।
श्रीरात्र्यै नमः ।
श्रीरौरवध्वंसकारिण्यै नमः ।
श्रीयक्षिण्यै नमः ।
श्रीसिद्धनिवहायै नमः ।
श्रीसिद्धेशायै नमः ।
श्रीसिद्धिरूपिण्यै नमः ।
श्रीलङ्कापतिध्वंसकर्यै नमः ।
श्रीलङ्केशरिपुवन्दितायै नमः । ९०
श्रीलङ्कानाथकुलहरायै नमः ।
श्रीमहारावणहारिण्यै नमः ।
श्रीदेवदानवसिद्धौघपूजितापरमेश्वर्यै नमः ।
श्रीपराणुरूपापरमायै नमः ।
श्रीपरतन्त्रविनाशिन्यै नमः ।
श्रीवरदायै नमः ।
श्रीवरदाऽऽराध्यायै नमः ।
श्रीवरदानपरायणायै नमः ।
श्रीवरदेशप्रियावीरायै नमः ।
श्रीवीरभूषणभूषितायै नमः । १००
श्रीवसुदायै नमः ।
श्रीबहुदावाण्यै नमः ।
श्रीब्रह्मरूपावराननायै नमः ।
श्रीबलदायै नमः ।
श्रीपीतवसनापीतभूषणभूषितायै नमः ।
श्रीपीतपुष्पप्रियायै नमः ।
श्रीपीतहारायै नमः ।
श्रीपीतस्वरूपिण्यै नमः । १०८
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ।
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥
प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः ॥
॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे
श्रीबगलाष्टोत्तरशतनामावलिः समाप्ता ॥
Encoded and proofread by
Anand senartcon at gmail.com