श्रीबगलामुखीहृदयम्

श्रीबगलामुखीहृदयम्

अथ हृदयम् । ॐ अस्य श्रीबगलामुखीहृदयस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीबगलामुखी देवता । ह्लीं बीजम् । क्लीं शक्तिः । ऐं कीलकम् । श्रीबगलामुखीप्रसादसिद्ध्यर्थे श्रीबगलामुखीहृदयम् जपे विनियोगः ॥ ऋष्यादिन्यासः । ॐ नारदऋषये नमः शिरसि । ॐ अनुष्टुप् छन्दसे नमः मुखे । ॐ श्रीबगलामुखी देवतायै नमः हृदये । ॐ ह्लीं बीजाय नमः गुह्ये । ॐ क्लीं शक्तयेनमः पादयोः । ॐ ऐं कीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ अथ करन्यासः । ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्लीं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ हृदयादिषडङ्गन्यासः । ॐ ह्लीं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्लीं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥ पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् । पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥ चिन्ततेऽनिशम् इति ध्यात्वा सम्पूज्य ॥ पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते । बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥ इति सम्प्रार्त्थ्य ॥ ॐ ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥ इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासङ्कृत्वा स्तोत्रम्पठेत् ॥ इस मन्त्रका जप ११ २१ ५१ या १०८ बार करें और पुनः न्यास करें । अथ करन्यासः । ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्लीं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतल करपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ हृदयादिषडङ्गन्यासः । ॐ ह्लीं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्लीं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥ तद्यथा ॥ बन्देऽहं बगलां देवीं पीतभूषणभूषिताम् । तेजोरूपमयीं देवीं पीततेजस्स्वरूपिणीम् ॥ १॥ गदाभ्रमणाभिन्नाभ्रां भ्रुकुटीभीषणाननाम् । भीषयन्तीं भीमशत्रून् भजे भक्तस्य भव्यदाम् ॥ २॥ पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् । पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ ३॥ पालयन्तीमनुपलं प्रसमीक्ष्यावनीतले । पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ॥ ४॥ पीतपद्मपदद्वन्द्वां चम्पकारण्यरूपिणीम् । पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ ५॥ लसच्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् । वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ॥ ६॥ सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं सल्लभन्ते । रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्धातमातः ॥ ७॥ भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् । गरीयो गुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ ८॥ जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरूपम् । भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ॥ ९॥ तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः । प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिका दासतुल्या भवन्ति ॥ १०॥ नमामस्ते मातः कनककमनीयाङ्घ्रिजलजं बलद्विद्युद्वर्णां घनतिमिरविध्वंसकरणम् । भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ ११॥ ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः । अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं परं पीताकारं परिचितमणिद्वीपवसनम् ॥ १२॥ वदामस्ते मातः श्रुतिसुखकरं नाम ललितं लसन्मात्रावर्णं जगति बगलेति प्रचरितम् । चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ १३॥ पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु यथा ते प्रासन्न्यं प्रतिपलमपेक्ष्यं प्रणमताम् । अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ १४॥ मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् । व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ १५॥ व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था करधृतगदया तान् घातयित्वाशु रोषात् । सधनवसनधान्यं सद्म तेषां प्रदह्य पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ १६॥ करधृतरिपु जिह्वापीडन व्यग्रहस्तां पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् । प्रणतसुरगणानां पालिकां पीतवस्त्रां बहुबलबगलान्तां पीतवस्त्रां नमामः ॥ १७॥ हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं प्रकटित करुणार्द्रां प्रीणतीजल्पतीति । धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ १८॥ तव चरणसरोजं सर्वदा सेव्यमानं द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् । मृदुलमपि शरणं ते शर्मदं सूरिसेव्यं वयमिह करवामो मातरेतद् विधेयम् ॥ १९॥ बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः । पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ २०॥ पीताध्यानपरो भक्तो यः श‍ृणोत्यविकल्पतः । निष्कल्मषो भवेन्मर्त्त्यो मृतो मोक्षमवाप्नुयात् ॥ २१॥ आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् । यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ॥ २२॥ देव्यालये पठन् मर्त्त्यो बगलां ध्यायतीश्वरीम् । पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ २३॥ पीताचाररतो नित्यं पीतभूषां विचिन्तयन् । बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ २४॥ न किञ्चिद् दुर्ल्लभं तस्य दृश्यते जगतीतले । शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ २५॥ इति सिद्धेश्वरतन्त्रे उत्तरखण्डे बगलापटले श्रीबगलाहृदयस्तोत्रं समाप्तम् ॥
Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : bagalAmukhI Hridayam
% File name             : bagalAmukhIhRidayam.itx
% itxtitle              : bagalAmukhIhRidayam
% engtitle              : bagalAmukhIhRidayam
% Category              : hRidaya, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Description-comments  : mAlAmantra
% Latest update         : November 28, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org