भूमिस्तोत्रम्

भूमिस्तोत्रम्

भूमिस्तोत्रवर्णनम् । नारद उवाच - देव्या निमेषमात्रेण ब्रह्मणः पात एव च । तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥ प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा । जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २॥ वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति । सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३॥ कथं बभूव सा धन्या मान्या सर्वाश्रया जया । तस्याश्च जन्मकथनं वद मङ्गलकारणम् ॥ ४॥ श्रीनारायण उवाच - सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५॥ श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ ६॥ अहो केचिद्वदन्तीति मधुकैटभमेदसा । बभूव वसुधा धन्या तद्विरुद्धमतः श‍ृणु ॥ ७॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ ८॥ तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् । ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९॥ मेदिनीति च विख्यातेत्युक्तमेतन्मतं श‍ृणु । जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ १०॥ कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् । पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११॥ महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम् ॥ १२॥ तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च । कालेन महता पश्चाद् बभूव वसुधा मुने ॥ १३॥ प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा । आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ १४॥ आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता । प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ १५॥ प्रतिविश्वेषु वसुधा शैलकाननसंयुता । सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ १६॥ हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता । ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ १७॥ पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता । काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ १८॥ पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः । ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९॥ एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च । नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ २०॥ प्रलये प्राकृते चैव ब्रह्मणश्च निपातने । महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ २१॥ नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह । नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ २२॥ मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च । विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥ २३॥ तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः । नारद उवाच - पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ २४॥ वाराहे चैव वाराही सर्वैः सर्वाश्रया सती । मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ २५॥ तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ २६॥ श्रीनारायण उवाच - वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा । उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ २७॥ जले तां स्थापयामास पद्मपत्रं यथा हृदे । तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ २८॥ दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः । वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ २९॥ कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् । क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३०॥ सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी । विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः ॥ ३१॥ विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् । वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ ३२॥ पूर्वरूपं वराहं च दधार स च लीलया । पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम् ॥ ३३॥ धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः । वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ ३४॥ श्रीभगवानुवाच - सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् । मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥ ३५॥ अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने । वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥ ३६॥ तव पूजां करिष्यन्ति मद्वरेण सुरादयः । मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७॥ वसुधोवाच - वहामि सर्वं वाराहरूपेणाहं तवाज्ञया । लीलामात्रेण भगवन् विश्वं च सचराचरम् ॥ ३८॥ मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा । शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा ॥ ३९॥ यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् । जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ ४०॥ गोरोचनं चन्दनं च शालग्रामजलं तथा । एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु ॥ ४१॥ श्रीभगवानुवाच - द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि । यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ ४२॥ इत्येवमुक्त्वा भगवान् विरराम च नारद । बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥ ४३॥ पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः । कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते ॥ ४४॥ ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च । संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५॥ नारद उवाच - किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद । गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६॥ श्रीनारायण उवाच - आदौ च पृथिवी देवी वराहेण च पूजिता । ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा ॥ ४७॥ ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मन्त्रं श‍ृणु वक्ष्यामि नारद ॥ ४८॥ (अथ स्तोत्रम् ।) ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा । श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम् ॥ ४९॥ चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ॥ ५०॥ वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे । ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत् ॥ ५१॥ स्तवनं श‍ृणु विप्रेन्द्र कण्वशाखोक्तमेव च । श्रीनारायण उवाच - जये जये जलाधारे जलशीले जलप्रदे ॥ ५२॥ यज्ञसूकरजाये त्वं जयं देहि जयावहे । मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ॥ ५३॥ मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे । सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥ ५४॥ सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे । पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ॥ ५५॥ पुण्याश्रये पुण्यवतामालये पुण्यदे भवे । सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ॥ ५६॥ सर्वसस्यहरे काले सर्वसस्यात्मिके भवे । भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥ ५७॥ भूमिपानां सुखकरे भूमिं देहि च भूमिदे । इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ ५८॥ कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः । भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥ ५९॥ भूमिदानहरात्पापान्मुच्यते नात्र संशयः । अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥ ६०॥ अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् । परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥ ६१॥ भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् । पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥ ६२॥ अश्वमेधशतं पुण्यं लभते नात्र संशयः । भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥ ६३॥ इति श्रीमद्देवीभागवतमहापुराणे नवमस्कन्धे नवमोऽध्यायः सम्पूर्णः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : bhUmistotram
% File name             : bhUmistotram.itx
% itxtitle              : bhUmistotraM pRithvIstotraM vasudhA vasundharA stotram cha (devIbhAgavatamahApurANAntargatam)
% engtitle              : bhUmistotram
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Source                : Devi Bhagavat Mahapurana 9.9
% Indexextra            : (Marathi)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net
% Latest update         : June 13, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org