श्रीभवानीसहस्रनामस्तोत्रम्

श्रीभवानीसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । कैलास शिखरे रम्ये देवदेवं महेश्वरम् । ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ १॥ सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् । प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ २॥ श्रीनन्दिकेश्वर उवाच । देवदेव जगन्नाथ संशयोऽस्ति महान्मम । रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल ॥ ३॥ देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् । पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ॥ ४॥ इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः । प्रोवाच भगवानीशो विकसन्नेत्रपङ्कजः ॥ ५॥ ईश्वर उवाच । साधु साधु गुणश्रेष्ठ पृष्टवानसि मां च यत् । स्कन्दस्यापि च यद्गोप्यं रहस्यं कथयामि तत् ॥ ६॥ पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतनः । गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥ ७॥ तस्यामहं समुत्पन्नस्तत्वैस्तैर्महदादिभिः । चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तस्थुषी ॥ ८॥ हेतुस्सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा । इच्छेति परमा शक्तिरुन्मिलति ततः परम् ॥ ९॥ ततो वागिति विख्याता शक्तिः शब्दमयी पुरा । प्रादुरासीज्जगन्माता वेदमाता सरस्वती ॥ १०॥ ब्राह्मी च वैष्णवी सैन्द्री कौमारी पार्वती शिवा । सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥ ११॥ तयैतत्सृज्यते विश्वमनाधारं च धार्यते । तयैतत्पाल्यते सर्वं तस्यामेव प्रलीयते ॥ १२॥ अर्चिता प्रणता ध्याता सर्वभावविनिश्चतैः । आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी ॥ १३॥ तस्याश्चानुग्रहादेव तामेव स्तुतवानहम् । सहस्रैर्नामर्भिर्दिव्यैस्त्रैलोक्य प्रणिपूजितैः ॥ १४॥ स्तवेनानेन सन्तुष्टा मामेव प्रतिवेश सा । तदारभ्य मया प्राप्तमैश्वर्यं पदमुत्तमम् ॥ १५॥ तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम् । ससुरासुरगन्धर्वयक्षराक्षसमानवम् ॥ १६॥ सपन्नगं साच्छिकं च सशैलवनकाननम् । सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम् ॥ १७॥ नन्दिन्नाम सहस्रेण स्तवेनानेन सर्वदा । स्तौम्यहं परापराशक्तिं ममानुग्रहकारिणीम् ॥ १८॥ इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम् । प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥ १९॥ श्रीनन्दिकेश्वर उवाच । भगवन्देवदेवेश लोकनाथ जगत्पते । भक्तोऽस्मि तव दासोऽस्मि प्रसादः क्रियतां मयि ॥ २०॥ देव्याः स्तवमिदं पुण्यं दुर्लभं यत्सुरैरपि । श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु ॥ २१॥ श‍ृणु नन्दिन्महाभाग स्तवराजमिमं शुभम् । सहस्रैर्नामर्भिर्दिव्यैः सिद्धिदं सुखमोक्षदम् ॥ २२॥ शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः । त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तव; ॥ २३॥ ॐ अस्यश्रीभवानीनामसहस्रस्तवराजस्य, श्रीभगवान्महादेव ऋषिः ,अनुष्टुप्छन्दः, आद्या शक्तिः श्रीभगवती भवानी देवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, श्रीभगवतीभवानीप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् अर्धेन्दुमौलिममलाममराभिवन्द्यामम्भोजपाशसृणिरक्तकपालहस्ताम् । रक्ताङ्गरागरसनाभरणान्त्रिनेत्रान्ध्यायेच्छिवस्यवनितां विह्वलाङ्गीम् ॥ १॥ ॐ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् । पाशाङ्कुशशरं चापं धारयन्तीं शिवां भजे ॥ २॥ ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया । विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती ॥ १॥ क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला । हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया ॥ २॥ त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता । यज्ञविद्या महामाया वेदमाता सुधाधृतिः ॥ ३॥ प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी । सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता ॥ ४॥ पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना । प्रह्लादिनी महामाता दुर्गा दुर्गतिनाशिनी ॥ ५॥ ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी । दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी ॥ ६॥ अपर्णा शाम्बरी माया मदिरामृदुहासिनी । कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी ॥ ७॥ कामेश्वरी च नीला च भिरुण्डा वह्रिवासिनी । लम्बोदरी महाकाली विद्याविद्येश्वरी तथा ॥ ८॥ नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी । सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी ॥ ९॥ कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी । नारायणी महानिद्रा योगनिद्रा प्रभावती ॥ १०॥ प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः । क्षीरार्णवसुधाहारा कालिका सिंहवाहना ॥ ११॥ ॐकारा च सुधाकारा चेतना कोपनाकृतिः । अर्धबिन्दुधराधारा विश्वमाता कलावती ॥ १२॥ पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती । कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी ॥ १३॥ जिनमाता जिनेन्द्रा च शारदा हंसवाहना । राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका ॥ १४॥ राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती । सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा ॥ १५॥ सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती । गोदावरी विपाशा च कावेरी च शतह्रदा ॥ १६॥ सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः । नर्मदा कर्मनाशा च चर्मण्वती च वेदिका ॥ १७॥ वेत्रवती वितस्ता च वरदा नरवाहना । सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी ॥ १८॥ एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी । सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी ॥ १९॥ पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया । परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी ॥ २०॥ ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना । इच्छा भगवती शक्तिः कामधेनुः कृपावती ॥ २१॥ वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा । गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ २२॥ एकानेका महेज्या च शत बाहुर्महाभुजा । भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी ॥ २३॥ षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता । सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी ॥ २४॥ अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी । रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा ॥ २५॥ क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया । कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी ॥ २६॥ सुवर्णरसना नासाचक्षुः स्पर्शवती रसा । गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः ॥ २७॥ मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी । पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी ॥ २८॥ योनिमुद्रा महामुद्रा खेचरी खगगामिनी । मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ २९॥ मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी । रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी ॥ ३०॥ शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया । सुवेणी पद्महस्ता च मुक्ताहारविभूषणा ॥ ३१॥ कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा । खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा ॥ ३२॥ चापिनी पाशहस्ता च त्रिशूलवरधारिणी । सुबाणा शक्तिहस्ता च मयूरवरवाहना ॥ ३३॥ वरायुधधरा वीरा वीरपानमदोत्कटा । वसुधा वसुधारा च जया शाकम्भरी शिवा ॥ ३४॥ विजया च जयन्ती च सुस्तनी शत्रुनाशिनी । अन्तर्वती वेदशक्तिर्वरदा वरधारिणी ॥ ३५॥ शीतला च सुशीला च बालग्रहविनाशिनी । कौमारी च सुपर्णा च कामाख्या कामवन्दिता ॥ ३६॥ जालन्धरधरानन्ता कामरूपनिवासिनी । कामबीजवती सत्या सत्यमार्गपरायणा ॥ ३७॥ स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी । षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी ॥ ३८॥ वृषप्रिया वृषारूढा महिषासुरघातिनी । शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा ॥ ३९॥ कपालभूषणा काली कपालामाल्यधारिणी । कपालकुण्डला दीर्घा शिवदूती घनध्वनिः ॥ ४०॥ सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी । कम्बुग्रीवावसुमती छत्रच्छाया कृतालया ॥ ४१॥ जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी । प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी ॥ ४२॥ मूलाधारा निराकारा वह्रिकुण्डकृतालया । वायुकुण्डसुखासीना निराधारा निराश्रया ॥ ४३॥ श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया । वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा ॥ ४४॥ तपस्विनी तपःसिद्धि तपसः सिद्धिदायिनी । तपोनिष्ठा तपोयुक्ताः तापसी च तपःप्रिया ॥ ४५॥ सप्तधातुर्मयीर्मूतिः सप्तधात्वन्तराश्रया । देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता ॥ ४६॥ औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी । वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी ॥ ४७॥ मृगया मृगमांसादा मृगत्वङ् मृगलोचना । वागुराबन्धरूपा च बन्धरूपावधोद्धता ॥ ४८॥ बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी । श‍ृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी ॥ ४९॥ अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजर्नाचिता । कौलिकी कुलविद्या च सुकुला कुलपूजिता ॥ ५०॥ कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी । वात्याली मेघमाला च सुवृष्टिः सस्यर्वधिनी ॥ ५१॥ अकारा च इकारा च उकारौकाररूपिणी । ह्रीङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी ॥ ५२॥ सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी । सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥ ५३॥ वश्या च वश्यबीजा च लोकवश्यविभाविनी । नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया ॥ ५४॥ महिषा नृपमान्या च नृपान्या नृपनन्दिनी । नृपधर्ममयी धन्या धनधान्यविवर्धिनी ॥ ५५॥ चतुर्वर्णमयीमूर्तिश्चतुर्वणैंश्च पूजिता । सर्वधर्ममयीसिद्धि श्चतुराश्रमवासिनी ॥ ५६॥ ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा । वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी ॥ ५७॥ अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी । सुमेधा सत्यमेधा च भद्रकाल्यपराजिता ॥ ५८॥ गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया । त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी ॥ ५९॥ पाञ्चाली बालिका बाला बालक्रीडा सनातनी । गर्भाधारधराशून्या गर्भाशयनिवासिनी ॥ ६०॥ सुरारिघातिनी कृत्या पूतना च तिलोत्तमा । लज्जा रसवती नन्दा भवानी पापनाशिनी ॥ ६१॥ पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा । सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता ॥ ६२॥ मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी । अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी ॥ ६३॥ गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा । निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा ॥ ६४॥ सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी । शतमारी महादेवी वैष्णवी शतपत्रिका ॥ ६५॥ विषारिर्नागदमनी कुरुकुल्ल्याऽमृतोद्भवा । भूतभीतिहरारक्षा भूतावेशविनाशिनी ॥ ६६॥ रक्षोघ्नी राक्षसी रात्रिर्दीर्घनिद्रा निवारिणी । चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ६७॥ डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी । शीता शीतप्रिया स्वङ्गा सकला वनदेवता ॥ ६८॥ गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा । महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी ॥ ६९॥ चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी । अणिमादिगुणोपेता सुस्पृअहा कामरूपिणी ॥ ७०॥ अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी । अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी ॥ ७१॥ चतुस्समुद्रशयना चतुर्वर्गफलप्रदा । काशपुष्पप्रतीकाशा शरत्कुमुदलोचना ॥ ७२॥ सोमसूर्याग्निनयना ब्रह्मविष्णुशिर्वार्चिता । कल्याणीकमला कन्या शुभा मङ्गलचण्डिका ॥ ७३॥ भूता भव्या भविष्या च शैलजा शैलवासिनी । वाममार्गरता वामा शिववामाङ्गवासिनी ॥ ७४॥ वामाचारप्रिया तुष्टिर्लोंपामुद्रा प्रबोधिनी । भूतात्मा परमात्मा भूतभावविभाविनी ॥ ७५॥ मङ्गला च सुशीला च परमार्थप्रबोधिनी । दक्षिईणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः ॥ ७६॥ योगिनी योगयुक्ता च योगाङ्ग ध्यानशालिनी । योगपट्टधरा मुक्ता मुक्तानां परमा गतिः ॥ ७७॥ नारस्ंइही सुजन्मा च त्रिवर्गफलदायिनी । धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः ॥ ७८॥ साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी । ऋअतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया ॥ ७९॥ सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा । मीनपुत्री सती साध्वी मैनाकभगिनी तडित् ॥ ८०॥ सौदामिनी सुदामा च सुधामा धामशालिनी । सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी ॥ ८१॥ श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी । रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः ॥ ८२॥ जगज्जीवा जगद्बीजा जगत्रयहितैषिणी । चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला ॥ ८३॥ यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता । चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी ॥ ८४॥ चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता । अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ॥ ८५॥ उमा कलशहस्ता च पूर्णकुम्भपयोधरा । अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी ॥ ८६॥ महाचण्डी च रौद्री च महाभैरवपूजिता । निर्मुण्डा हस्तिनीचण्डा करालदशनानना ॥ ८७॥ कराला विकराला च घोरा घुर्घुरनादिनी । रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा ॥ ८८॥ कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया । क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा ॥ ८९॥ मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी । हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा ॥ ९०॥ पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला । महिषी च लेखनी लेखा सुलेखा लेखकप्रिया ॥ ९१॥ शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता । कुरुक्षेत्राऽवनिः काशी मथुरा काञ्च्यवन्तिका ॥ ९२॥ अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया । त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी ॥ ९३॥ कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी । कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया ॥ ९४॥ तोतला च तुलाकोटिः कूटस्था कोटराश्रया । स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी ॥ ९५॥ तेजस्विनी सुभिक्षा च बलदा बलदायिनी । महाकोशी महावार्ता बुद्धिः सदसदात्मिका ॥ ९६॥ महाग्रहहरा सौम्या विशोका शोकनाशिनी । सात्विकी सत्वसंस्था च राजसी च रजोवृता ॥ ९७॥ तामसी च तमोयुक्ता गुणत्रयविभाविनी । अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी ॥ ९८॥ शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः । सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा ॥ ९९॥ सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका । जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका ॥ १००॥ सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी । मानभूमिः पानपात्रा पानदानकरोद्यता ॥ १०१॥ आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी । आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ १०२॥ नागवल्ली नागकन्या भोगिनी भोगवल्लभा । सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ॥ १०३॥ श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी । मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥ १०४॥ सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता । नागपाशधरामूर्तिरगाधा नागकुण्डला ॥ १०५॥ सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी । सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ॥ १०६॥ मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका । मातृमण्डलमध्यस्था मातृमण्डलवासिनी ॥ १०७॥ कुमार जननी क्रूरा सुमुखी ज्वरनाशिनी । निधाना पञ्चभूतानां भवसागरतारिणी ॥ १०८॥ अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता । रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ॥ १०९॥ कलङ्करहिता नारी चतुःषष्ठ्यभिधावती । अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ११०॥ सर्वसौख्यवतीयुक्तिराहारपरिणामिनी । जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ॥ १११॥ अजरा च रजःप्रीता रतिरागविवर्धिनी । पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ॥ ११२॥ पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी । उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा ॥ ११३॥ रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी । त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी ॥ ११४॥ अरागा शिवतत्त्वा च कामतत्वानुरागिणी । प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा ॥ ११५॥ अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया । शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता ॥ ११६॥ माता मातामही तृप्तिः पितुमाता पितामही । स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया ॥ ११७॥ स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी । शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी ॥ ११८॥ उर्वशी कदली केका विशिखा शिखिवर्तिनी । खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी ॥ ११९॥ लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा । वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः ॥ १२०॥ प्राकारवलया वेला मर्यादा च महोदधिः । पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १२१॥ ललिता मांसला तन्वी वेदवेदाङ्गधारिणी । नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ॥ १२२॥ अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी । शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता ॥ १२३॥ वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा । मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया ॥ १२४॥ अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः । स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः ॥ १२५॥ प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका । इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी ॥ १२६॥ शशिस्रवा च तालुस्था काकिन्यमृतजीविनी । अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता ॥ १२७॥ स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा । विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया ॥ १२८॥ चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी । निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी ॥ १२९॥ पुरुषाज्ञा चा भिन्ना च क्षान्तिः कैवल्यदायिनी । विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः ॥ १३०॥ निरीहा च समस्तैका सर्वलोकैकसेविता । शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी ॥ १३१॥ कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी । प्रत्यञ्चा च धुनर्यष्टिः खड्गधारा दुरानतिः ॥ १३२॥ अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी । वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी ॥ १३३॥ जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी । सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी ॥ १३४॥ क्षेमङ्करी क्षेमरूपा सर्त्कीत्तिः पथिदेवता । सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा ॥ १३५॥ सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला । पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम् ॥ १३६॥ यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः । यश्चापिश‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १३७॥ एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः । सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः ॥ १३८॥ तेजस्वी बलवाञ्छूरः शोकरोगविवर्जितः । यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ १३९॥ रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः । श्रेयांसि लभतेनित्यं निश्चलां च शुभां श्रियम् ॥ १४०॥ सर्वपापविनिर्मुक्तो लोभक्रोध विवर्जितः । नित्यं बन्धुसुतैर् दारैः पुत्रपौत्रैर्महोत्सवैः ॥ १४१॥ नन्दितः सेवितो भृत्यैर्बहुभिः शुद्धमानसैः । विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे । ॥ १४२॥ वैश्यस्तुधनलाभाढ्यः शूद्रश्चसुखमेधते । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १४३॥ इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् । कन्यार्थी लभते कन्यां रूपशीलगुणन्विताम् ॥ १४४॥ क्षेत्रं च बहुशस्यं स्याद्गावस्तु बहुदुग्धदाः । नाशुभं नापदस्तस्य न भयं नृपशत्रुभिः ॥ १४५॥ जायते ना शुभाबुद्धिर्लभते कुलधुर्यताम् । न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ॥ १४६॥ न पिशाचो न डाकिन्यो भूतव्यन्तरजृम्भिकाः । बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥ १४७॥ द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् । लोहपाशैर्दृढैर्बद्धो बद्धो वेश्मनि दुर्गमे ॥ १४८॥ तिष्ठन् श‍ृण्वन्पठेन्मर्त्यो मुच्यते नात्र संशयः । न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् ॥ १४९॥ पश्यन्ति नहि ते शोकं हि वियोगं चिरजीविताम् । अन्धस्तु लभते दृष्टिं चक्षुरोगैर्नबाध्यते ॥ १५०॥ बधिरः श्रुतिमाप्नोति मूको वाचं शुभान्नरः । एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥ १५१॥ स्रावणी बद्धगर्भा च सुखमेवप्रसूयते । कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ १५२॥ पठनाच्छ्रवणा द्वापि दिव्यकाया भवन्ति ते । ये पठन्ति शतावर्तं शुचिष्मन्तो जितेन्द्रियाः ॥ १५३॥ अपुत्राः प्राप्नुयुः पुत्रान् श‍ृण्वन्तोऽपि न संशयः । महाव्याधि परिग्रस्तास्तप्ता ये विविधैर्ज्वरैः ॥ १५४॥ भूताभिषङ्ग सङ्घातैश्चार्तुथिक तृतीयकैः । अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः ॥ १५५॥ गतबाधाः प्रजायन्ते मुक्तास्तेतैर्नसंशयः । श्रुतिग्रन्थधरोबालो दिव्यवादी कवीश्वरः ॥ १५६॥ पठनाच्छ्रवणाद्वापि भवत्येव न संशयः । अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः ॥ १५७॥ ये पठन्ति सदाभक्त्या न ते वै दुःखभागिनः । नवरात्रं जिताहारो दृढभक्तिर्जिन्तेन्द्रियः ॥ १५८॥ चण्डिकायतने विद्वान्च्छुचिष्मान् मूर्तिसन्निधौ । एकाकी च शतावर्तं पठन्धीरश्च निर्भयः ॥ १५९॥ साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् । सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६०॥ पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता । दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥ १६१॥ स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति । आवर्तन सहस्रैर्ये पठन्ति पुरुषोत्तमाः ॥ १६२॥ ते सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः । कवित्वं संस्कृतेतेषां शास्राणां व्याकृतौ ततः ॥ १६३॥ शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती । नखरागशिरोरत्नद्विगुणीकृतरोचिषः ॥ १६४॥ प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः । रोचनालिखितं भूर्जें कुङ्कुमेन शुभे दिने ॥ १६५॥ धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाम् । विप्राञ्श्च वरनारीश्च धूपैः कुसुमचन्दनैः ॥ १६६॥ क्षीरखण्डाज्य भोज्यैश्च पूजयित्वा सुभूषिताः । विधाय मातृका न्यासं अङ्गन्यास पुरस्सरम् ॥ १६७॥ भूतशुद्धि समोपैतं श‍ृङ्खला न्यासमाचरेत् । यथावदाशासम्बद्धः साधकः प्रीति संयुतः ॥ १६८॥ मूलमन्त्रं जपेद्वीमान् परया संयुतोधिया । प्रणवं पूर्वमुद्धृत्य रमाबीजमनुस्मरन् ॥ १६९॥ माया कामौ समुच्चार्य पुनर्जायां विभावसोः । बध्नन्तिये महारक्षां बालानां च विशेषतः ॥ १७०॥ भवन्ति नृप पूज्यास्ते कीर्तिभाजो यशस्विनः । शत्रुतो न भयंतेषां दुर्जनेभ्यो न राजतः ॥ १७१॥ न च रोगो न वै दुःख न दारिद्र्यं न दुर्गतिः । महार्णवे महानद्यां स्थितेऽपि च नभीः क्वचित् ॥ १७२॥ रणे द्युते विवादे च विजयं प्राप्नुवन्ति ते । नृपाश्च वश्यतां यान्ति नृपमान्याश्च ये नराः ॥ १७३॥ सर्वत्र पूजिता लोके बहुमानपुरस्सराः । रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ॥ १७४॥ यौवनाक्रान्तदेहा स्ताः श्रयन्ते वामलोचनाः । लिखितं मूर्ध्निकण्ठे वा धारयेद्यो रणे शुचिः ॥ १७५॥ शतधायुध्यमानं तु प्रतियोद्धा न पश्यति । केतौ वा दुन्दुभौ येषां निबद्धं लिखितं रणे ॥ १७६॥ महासैन्ये परित्रस्तान्कान्दिशीकान्हतौजसः । विचेतनान्विमूढांश्च शत्रुकृत्यविवर्जितान् ॥ १७७॥ निर्जित्य शत्रुसङ्घास्ते लभन्ते विजयं ध्रुवम् । नाभिचारो ने शापश्च बाणवीरादिकीलनम् ॥ १७८॥ डाकिनी पूतनाकृत्या महामारी च शाकिनी । भूतप्रेत पिशाचाश्च रक्षांसि व्यन्तरादयः ॥ १७९॥ न विशन्ति गृहे देहे लिखितं यत्रतिष्ठति । न शस्त्रानलतोयौघैर्भयं तस्योपजायते ॥ १८०॥ दुर्वृत्तानां च पापानां बलहानिकरं परम् । मन्दुराकरिशालासु गवां गोष्ठे समाहितः ॥ १८१॥ पठेत्तद्दोषशान्त्यर्थं कूटं कपटनाशिनी । यमदूतान्न पश्यन्ति न ते निरययातनाम् ॥ १८२॥ प्राप्नुवन्त्यक्षयं शान्तं शिवलोकं सनातनम् । सर्वबाधा सुघोराषु सर्वदुःखनिवारणम् ॥ १८३॥ सर्वमङ्गलकं स्वर्ग्यं पठितव्यं समाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १८४॥ पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् । चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ १८५॥ नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ १८६॥ तेधन्याः कृतपुण्यास्ते त एव भुवि पूजिताः । एकवारं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् ॥ १८७॥ देवतानां देवताया ब्रह्माद्यैर्या च पूजिता । भूयात्सा वरदा लोके साधूनां विश्वमङ्गला ॥ १८८॥ एतामेव पुराराद्यां विद्यां त्रिपुरभैरवीम् । त्रैलोक्यमोहिनीरूपामकार्षीद्भगवान्हरिः ॥ १८९॥ ॥ इति श्रीरुद्रयामलेतन्त्रे नन्दिकेश्वरसंवादे महाप्रभावी भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : durlabha bhavAnI kavacha ma.ntra sahasranAma stotra
% File name             : bhavaaniisahasra.itx
% itxtitle              : bhavAnIsahasranAmastotram
% engtitle              : bhavAnIsahasranAmastotram
% Category              : sahasranAma, devii, pArvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com.com
% Description-comments  : rUdrayAmala_ta.ntra
% Indexextra            : (meaning, text)
% Latest update         : August 22, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org