चण्डीकुचपञ्चाशिकास्तोत्रम्
श्रीगणेशाय नमः ॥
श्रियं नौमि देवीं परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् ।
यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १॥
आशादासीभिरूर्ध्वं करविधृतचतुष्कोणभागाभखण्डैः
खण्डैराढ्या पटानां विधुरविघटिता शुष्कतावासयेया ।
स्वात्मानाधः पतन्तीं सजवमसकृदाकर्षणक्लान्तिपङ्कि-
श्वासोच्छ्वासौघपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ २॥
आसीद्विरिञ्चिवरदा सुरसार्थतीर्थं तेजोमयी मखभुजामखिलास्ति शक्तिः ।
एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ ३॥
मध्ये पीयूषसिन्धोर्धनकुसुमलसत्कल्पवृक्षान्तराले
दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवर्ण्या ।
शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणीं
तूर्णं चिन्तामणेर्मामपि सदसि सदाऽऽश्लिष्य सिंहासनेऽस्ति ॥ ४॥
वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा ।
संस्तोतृपद्मापतिपद्मजन्मस्वाराट्पिकाल्याभ्रगुणा विभाति ॥ ५॥
यत्रोदग्रहरिन्मणिप्रविलसत्सौधाङ्कुराणां गणै-
रुद्गीर्णैर्निजगर्भतश्च चणकैः साम्यं गतानां नवैः । रुद्गीर्णैर्निज
मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि
श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ ६॥
पादारविन्दस्य पुरन्दरोऽपि सेवां विधाताऽस्म्यहमेव देव्याः ।
नार्हस्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७॥
बिडौजसि पदाम्बुजे निबिडतेजसि त्र्यम्बकस्त्रियाः
प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः ।
हरावपि हरे विधौ प्रणतिकर्मकार्मीणके
जयाम्ब जगदम्बिके जय जयेति यत्र ध्वनिः ॥ ८॥
तत्रैकदा निखिललोकचरित्रविद्भिः
सम्प्रार्थिता भगवती प्रणिधीनवर्गैः ।
विज्ञाप्यमस्ति किमपीति रहस्यमस्मद्-
दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ ९॥
किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची-
सारप्रसारवचसां प्रमुखः कवीनाम् ।
यत्काव्यमन्यकवितां विधुनोति जीर्णां
जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ १०॥
असह्यभरसह्यभूधरमणौ महाराष्ट्रके
महाबलजटाढ्यनिष्प्रथितकृष्णवेणी धुनी ।
तदम्बुलहरीप्लुता जयति वाजिसंज्ञा पुरी
स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या स्वया ॥ ११॥
वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा
राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः ।
अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगोपाह्वो
यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ १२॥
यस्य गुरुर्यो जातो दण्डकराभिन्नपर्वतान्वयतः ।
रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३॥
स त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसन्दोहद-
स्यन्दन्मञ्जुमरन्दसुन्दरमधुव्यालोलरोलम्बकः ।
सत्पोतेतरताविनीतवनितासम्भोगशून्यः पुन-
र्योऽसौ सम्प्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४॥
तस्यैव चेत्किमपि काव्यमकव्ययेच्छो-
रस्मत्सभापरिसरे पठनीयमस्ति ।
यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य
मृद्वीकयापि न कयापि न मृद्विकासः ॥ १५॥
श्रुत्वाऽऽदेशं दूतवर्गैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् ।
न्यस्तो मूर्धा स्वामिनीपादपद्मे कर्त्रेत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६॥
सावधाना ततो देवी काव्यश्रवणकर्मणि ।
जातेत्यालोच्य सहगवर्गैः काव्यं प्रवर्ण्यते ॥ १७॥
यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य ।
मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८॥
प्रालेयशैलजनुषः सुहिरण्यवल्ल्या
गौर्याः पयोधरविचित्रफलं पिबामि ।
यत्स्पर्शनादपि बभूव स शूलिनोऽपि
मृत्युञ्जयत्वविभवैकपदेऽभिषेकः ॥ १९॥
कल्याणावलिमातनोतु नितरां कर्पूरपूराधिक-
प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः ।
येनाकारि पुरारिभालनयनज्वालाकरालावली-
बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥ २०॥
आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुचद्वन्द्वं
नीलगलं सुचन्दनयुतं तत्प्राङ्मुखेन्द्वङ्कितम् ।
यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि
प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ष्यया ॥ २१॥
प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच-
प्रान्तोत्तुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः ।
यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो
यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरार्तोऽभवत् ॥ २२॥
शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका-
काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् ।
यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता
वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्चिरम् ॥ २३॥
नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ
गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला ।
चण्ड्या मे नाथचेतोविहरणनिपुणेतीर्ष्यया तत्र बद्धां
गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४॥
नुमोऽपर्णाऽऽरामस्थलहृदयकासारतटग-
प्रवल्गद्वक्षोजच्छलमिलितचक्राह्वयुगलम् ।
दरालोकाच्छम्भोः शिशिरशशिरेखानखगता
स्मरन्ती सापत्न्यं व्यथयति नितान्तं यदिह सा ॥ २५॥
वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाब्जद्वयं
दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् ।
नित्यास्येन्दुविकासनान्मुकुलितं षड्वक्त्रवक्त्राम्बुजैः
पीतं किं किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ २६॥
मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लसन्-
मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला ।
यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभवत्
पायात्सा निखिलां हि विष्टपलतां संसारझञ्झानिलात् ॥ २७॥
तुषारगिरिकन्यकाकुचतटीपटीराटवी
विपाटयतु कङ्कटोद्भवकठोरतापं हि सा ।
यदीयदरदर्शनादपि गरप्रलीढो हरः
सुखेन घनसारविस्मररिपुर्महोग्रः शिवः ॥ २८॥
रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्ज्वलत्-
कनककलशत्विढ्बीजं तभिशुम्भरिपोश्चिरम् ।
तदपि च मुहुर्दर्शं दर्शं कपालिकरोच्छ्रित-
प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९॥
दूरीकरोतु दुरितानि पुरारिदारवक्षोजशैलमिथुनं जितमन्दराद्रि ।
येनाभवद्भवमनोऽर्णवतः प्रमोदपीयूषमत्र हुतमन्मथजीवनाय ॥ ३०॥
अपारां सम्पत्तिं दिशतु कुचरत्नक्षितिधरः
समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् ।
यदीये मूर्घ्नि श्रीगलकरनखालिद्युतिभर-
स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१॥
तं कासरासुरविमर्दसमुत्थशोण-
शोणार्द्रशोणितकणं स्तनमम्बिकायाः ।
वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं
यच्छम्भुहृद्यपि कटं स्मरणीबभूव ॥ ३२॥
उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा-
वक्षोजद्वयमत्र भद्रमनिशं धत्तां ममाप्राकृतम् ।
यच्छ्रीकण्ठकठोरकोटिनखरश्रेणीसृणिस्थापन-
प्रद्योतपृथुभाजनं समभवत्पुष्पायुधायोधने ॥ ३३॥
सौवर्णाचलसानुसम्मितकुचद्वन्द्वं भवान्याः स्तुमः
सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायितम् ।
ईशो नैजकरोरुभूषणगणं मत्वेति भूयस्तरा-
मादातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ ३४॥
मालूरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर-
प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् ।
यद्भोगैकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती
चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ ३५॥
दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः
शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्द्रुतम् ।
यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर-
ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् ॥ ३६॥
स्मरारातेः स्वान्तप्रकटकुमुदं मोदयति यो
हृदाकाशस्थस्तद्दहननयनाब्जं मुकुलयन् ।
दधच्चूचं लक्ष्म प्रकटयति चक्राह्वयुगलं
निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥
प्रालेयाचलकन्यकाकुचतटीपाटीरमोट्टायितां
पापाटोपकठोरकष्टपटलान्यापाटयन्तीं स्तुमः ।
यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठद्-
व्यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८॥
मातः पर्यभिवादये सुरपुरोद्यानान्तरालोल्लसद्-
भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् ।
यस्यान्तः परमेश्वरस्य करतः सम्मर्दनव्यापृतौ
भूतिः सङ्क्षरति क्षपापरिवृढार्भप्रेढ्यचूडामणेः ॥ ३९॥
परिधीमहिते कुचस्थलीं मणिकान्तिद्युनदीनभःस्थलीम् ।
शिवपाणिनखेन्दुमण्डलीं निजमौलौ विनिधाय या स्थिता ॥ ४०॥
मातुर्नौमि पयोधरौ त्रिजगतामारम्भकुभौ शुभौ
भावत्कौ भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ ।
यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ
षड्वक्त्रद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ ४१॥
वक्षःपीठे पटाढ्यं स्मितविबुधधुनीनिर्झरैश्चाभिषिक्तं
मातर्वक्षोजराजं श्रितपविमणिरुक्चामरं ते नमामि ।
छत्रं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा
दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥ ४२॥
पटासक्तं वक्षोजनियुगमपूर्वं गिरिपतेः
सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति ।
यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं
कराब्जव्यापारैः सममनिशमुन्मूलतितराम् ॥ ४३॥
धयत्येतौ धाता जगदखिलमेतद्रचयितुं
तथा पातुं विष्णुः पिबति हरजाये तव कुचौ ।
इति प्रेक्षं प्रेक्षं स्वयमपि हरो मर्दयति तौ
जगत्सम्मर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ ४४॥
भवेतां क्षेमाय स्मरहरवधूरोजकरिणौ
ययोरेका रोमावलिकपटशुण्डाद्भुतकरी ।
महादेवस्वान्तप्रचुरतरकासारगतया
यया तद्व्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ ४५॥
उदञ्चन्तौ मातस्तव कुचहरी हृद्दरिमुखात्
कुरङ्गानां तारौ शिवहृदटवीसीमनिहताम् ।
निहत्यैनःश्रेणीमददुरधिरोहद्विपपतिं
प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६॥
तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणावहं
ध्याये मातर्दितिजतृणराश्यद्मरवरौ ।
विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं
ययोरस्ति स्माराभिधशबरधाटीव्यतिकरे ॥ ४७॥
दृढं कूर्पासेन प्रतिपिहितमुर्वीधरसुते
भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् ।
स्मरन्तं वैरं तं स्मरमपरमासाद्य सुहृदं
स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ॥ ४८॥
वक्षस्तरक्षुवरसंस्थमुमे कुचं ते
तं नीलकण्ठपरिलिङ्गितभोगमीडे ।
यत्रेश्वरस्य मनसस्तव रूपमेवे-
त्याकल्पकल्पनमभूत् प्रविलोकनेन ॥ ४९॥
घनं वक्षोजं ते नवनवहिरण्याकृतिधरं
नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते ।
यदीयाभोगेऽस्मिन्ननुपमनखालिव्रणततिः
स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ॥ ५०॥
वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं
कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव ।
विष्णुः शम्भुहृदीति वाक्यममलं सत्यं विधातुं स्वयं
यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ॥ ५१॥
मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं
भवानि तव चिन्त्यते हृदयदेववर्त्मस्थितम् ।
विकासयति सन्ततं शिवमनःसरोजं परं
यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ ५२॥
स्मरान्तकरवल्लभे तव पयोधरश्रीफलद्वयं
स्मरति यो जनः स भवतीह सच्छ्रीफलः ।
इतीव किल बोधयन् स्मृतभवत्कुचश्रीः स्वयं
समुद्रमथने पपावपि गरं हरः श्रीफलः ॥ ५३॥
स्मृता तव कुचद्वयी तुहिनशैलबाले हर-
त्यसावघभरं भवप्रियतमे नृभिः कैरपि ।
इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं
प्रचण्डवृजिनावलीकवलितः कपाली धुवम् ॥ ५४॥
उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं
भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः ।
यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली
सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ ५५॥
वक्षःस्थं दितिजरिपोस्तवाभिवन्दे
तारुण्योदधिजमुरोजकौस्तुभं तम् ।
यत्स्थाने स्मरजनकं महो हि किञ्चित्
सम्मोहं सपदि महेशितुश्चकार ॥ ५६॥
तारुण्याम्भोधिजन्मा दलितसुमकरः कामदस्रे प्रकामं
कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः ।
दैत्यव्रातातपघ्नः पदगतजगतीं छायया स्वै रसौघै
रक्षंस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ ५७॥
मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव
प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि ।
यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः
शम्भोर्मुग्धमभूद्बभूवतुरहो व्याघूर्णिते च क्षणात् ॥ ५८॥
शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्तिं
क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते ।
यस्योपास्तिप्रभावात्पितृगहनगतो वासुकिं कालकूटं
कण्ठे बिभ्रच्च शूली नयनगहुतभुक्सोऽपि मृत्युञ्जयोऽभूत् ॥ ५९॥
चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला-
लोलाल्पाङ्कं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् ।
यस्यालोकैर्विनिद्रं भवति भवमनःकैरवं हर्षितं च
क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ ६०॥
क्षीराशसंसकलकामदमावके ते वक्षोजनुः सुरभिरूपमकं निहन्तु ।
यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्थरसनावसनैर्विरेजुः ॥ ६१॥
विचित्रालेखाढ्यं समरदसुचातुर्यकलितं
दधे मातस्तं ते हृदि हृदयजैरावणमहम् ।
यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः-
सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६२॥
भगवति तव वक्षोजन्मरम्भास्वरूपं
शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन ।
दिशतु मम शिवं तन्नृत्यतीशस्य चेतः
कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३॥
उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे
सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् ।
पयः पातुं श्लिष्टद्विरदमुखषड्वक्त्रवदना-
न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ॥ ६४॥
दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् ।
यदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ष्ययावतस्थे ॥ ६५॥
कर्पूरकुङ्कुमसुनाभिजचित्रलेखं
मन्ये कुचं वलयितं जननीन्द्रचापम् ।
यस्योद्भवे स्मररिपोः प्रववर्ष शम्भो-
रानन्दजाश्रुसलिलं नयनाम्बुवाहः ॥ ६६॥
शर्वाणि ते तरुणिमोद्गमसिन्धुजातं
मन्ये कुचं दरमहं वृजिनावलिघ्नम् ।
यं कुर्वतो निजकरे शशिशेखरस्य
जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७॥
धराधरसुते सुतत्रिदशपेयमाशास्महे
तव स्तनजनुःसुधारसमसारसंसारहम् ।
स्मरामि नयनोज्ज्वलज्ज्वलनजालदग्धोऽप्यसा-
वनङ्ग इह यत्पदे कृतपदेन सञ्जीवितः ॥ ६८॥
अलमलममलोहैः श्लोकजालैः कवेस्तैः
यदिदमखिलमेतैः क्रीतमेवास्मदीयम् ।
पुनरपि यदि चैवं वर्ण्यते तर्ह्यहं स्यां
तदपि भवतु चेत्किं पारितोषीयमस्य ॥ ६९॥
इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि
श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् ।
भूयः किञ्चिदुदञ्चितस्तबकया वाचेदमन्विष्यते
यच्चोक्तं किल पारितोषिकमिति स्यात्किं तदुक्तं वद ॥ ७०॥
स्तोत्रं गृहीतमनघं स्तनपाललक्ष्म्या
शुल्कं मदीयमखिलं हि मयास्य दत्त्वा ।
शिष्टाहमस्मि मदभेदमनर्घमेतं
दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१॥
एतदेव कविराजमानसे काङ्क्षितं लसति सन्ततं किल ।
अन्यदेकमपि दीयते स्वतः भूयतामनुचरेश्वराः स्फुटम् ॥ ७२॥
इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम
प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् ।
कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ
लभेत किल वाञ्छितं सहृदि सुन्दरीणां स्मरः ॥ ७३॥
मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः
क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः ।
अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा-
जटालहृदयान्तरः सदसि संस्थितो राजते ॥ ७४॥
यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः
स्तोत्रं पठेच्च किल संशृणुयात्सलोकः ।
गीर्वाणवामनयनानयनारविन्द-
जालप्रभासरणिकज्जलतामुपैति ॥ ७५॥
पृथिव्यां भूपालो भवति नववामोरुनयन-
प्रफुल्लाम्भोजन्मद्युमणिरपि वाचा सुरगुरुः ।
निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी-
स्तवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ ७६॥
यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्यं सकलकलासु सोऽयमेति ।
आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लभेत भक्तिम् ॥ ७७॥
रमापि सदने सदा कृतपदा मुदा दासवद्-
रिपुर्भवति मित्रवद्युवतिसङ्गमो मोक्षवत् ।
अवागपि कवीशवद्भवति पातकं पुण्यवद्-
यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८॥
चण्डीकुचपञ्चाशत्संज्ञमिमं यः स्तवं नवं पठति ।
स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ ७९॥
तथाऽस्तु किल तत्परं तव जयन्तु मातः प्रभो
पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् ।
यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत-
स्ततः स भवता न किं जगति मुक्तिकान्तापतिः ॥ ८०॥
इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता-
दम्बापदाम्बुजनिता मकरन्दधारा ।
या स्यन्दिता शिरसि मे कविलक्ष्मणस्य
स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८१॥
यावच्छिवार्धगतमस्ति वपुस्त्वदीयं
यावत्त्वदङ्घ्रिकमलं च पुनाति विश्वम् ।
तावत्तवाम्ब चरणाम्बुजयोर्निपत्य
याचे त्वहं किमपि यः शयनोत्थितस्त्वाम् ॥ ८२॥
वाक्कायचित्तप्रकृतिस्वभावबुद्ध्यात्मभिः सदसतोरपि सङ्गमेन ।
यद्यत्कृतं यदपि भाव्यमशेषमातर्यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ ८३॥
इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुत-
रसालङ्कारपारावारपारीणलक्ष्मणाचार्यकृता
श्रीचण्डीकुचपञ्चाशिकास्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com