श्रीचण्डी अथवा दुर्गा अथवा भगवती प्रातःस्मरणम्
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्रहस्तां
रक्तोत्पलाभचरणां महतीं परेशाम् ॥ १॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रसुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्रमुनिमोहनशीललीलां
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २॥
प्रातर्भजामि भवतामभिलाषदात्रीं bhajatAmabhilASha
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां
मायां परां समधिगम्य परस्य विष्णोः ॥ ३॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ।
सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ४॥
इति श्रीचण्डीप्रातःस्मरणं सम्पूर्णम् ।
Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA