दशाक्षरलक्ष्मीमन्त्रम्

दशाक्षरलक्ष्मीमन्त्रम्

अस्य श्रीदशाक्षरीमहामन्त्रस्य - दक्ष ऋषिः - विराट् छन्दः - श्रीलक्ष्मीः देवता - सर्वेष्टसिद्ध्यर्थे जपे विनियोगः । ऋष्यादि न्यासः दक्ष ऋषये नमः शिरसि - विराट् छन्दसे नमः मुखे श्रियै देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे करन्यासः ॐ देव्यै नमः अङ्गुष्टाभ्यां नमः । ॐ पद्मिन्यै नमः तर्जनीभ्यां नमः । ॐ विष्णुपत्न्यैनमः मध्यमाभ्यां नमः । ॐ वरदायैनमः अनामिकाभ्यां नमः । ॐ कमलायै नमः कनिष्ठिकाभ्यां नमः । ॐ कमलवासिन्यै नमः । ॐ करतलकरपृष्ठाभ्यां नमः ॥ नेत्रहीनहृदयादि पञ्चाङ्गन्यासः ॐ देव्यै नमः हृदयाय नमः । ॐ पद्मिन्यै नमः शिरसे स्वाहा । ॐ विष्णुपत्न्यैनमः शिखायै वषट् । ॐ वरदायै नमः कवचाय हुं । ॐ कमलवासिन्यै नमः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रति दानं पद्मयुगाभये च वपुषा सौदामिनीसन्निभा । मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥ (एवं ध्यात्वा पीठशक्तिभिः पीठपूजां कृत्वा स्वर्णादि निर्मितं यन्त्रं अस्त्रमन्त्रेण आसनं दत्वा पीठमध्ये संस्थाप्य पुनर्ध्यात्वा मूलेन मूर्तिं प्रकल्प्य, आवाहनादि पुष्पाक्षतैः उपचारैः सम्पूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।) षट्कोण केसरेषु - आग्नेयकोणे ॐ देव्यै नमः हृदयाय नमः । निरृतिकोणे ॐ पद्मिन्यै नमः शिरसे स्वाहा । वायव्यकोणे ॐ विष्णुपत्न्यै नमः शिखायै वषट् । ईशान्यकोणे ॐ वरदायै नमः कवचाय हुं । देवी पश्चिमे कोणे ॐ कमलवासिन्यै नमः अस्त्राय फट् । इति पञ्चाङ्गानि पूजयेत् ततः पुष्पाञ्जलिं आदाय मूलमन्त्रं उच्चार्य, ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति पुष्पाञ्जलिं विकीर्य विशेषार्घ्यात् बिन्दुं निक्षिप्य पूजिताः तर्पिताः सन्तु इति वदेत् - ततः अष्टदलपद्मेषु - पूर्वे ॐ बलाक्यै नमः । आग्नेये ॐ विमलायै नमः । दक्षिणे ॐ कमलायै नमः । नैरृत्यै ॐ विभीषिकायै नमः । पश्चिमे ॐ मालिकायै नमः । वायव्ये ॐ शाङ्कर्यै नमः । उदीच्यां ॐ वसुमालिकायै नमः । ईशान्ये ॐ वनमालिकायै नमः । इति भक्त्या पूजयित्वा पुष्पाञ्जलिं गृहीत्वा, ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ ततः भूपुरे क्रमेण - पूर्वे ॐ वं वज्राय नमः ॐ इन्द्राय नमः । आग्नेये ॐ शं शक्तये नमः ॐ अग्नये नमः । दक्षिणे ॐ दं दण्डाय नमः ॐ यमाय नमः । नैरृत्ये ॐ खं खड्गाय नमः ॐ निरृतये नमः । पश्चिमे ॐ पं पाशाय नमः ॐ वरुणाय नमः । वायव्ये ॐ अं अङ्कुशाय नम ॐ वायवे नमः । उत्तरे ॐ गं गदायै नमः ॐ कुबेराय नमः । ईशान्ये ॐ त्रिं त्रिशूलाय नमः ॐ ईशानाय नमः । (इति भक्त्या पूजां कृत्वा धूपादि नीराजनानन्तरं पूज्य हस्ते पुष्पाञ्जलिं गृहीत्वा -) ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ अथ दशाक्षरलक्ष्मी मन्त्रः । ॐ नमः कमलवासिन्यै स्वाहा । जपप्रकारः दशलक्षं जपेन्मन्त्रं मन्त्रविद्विजितेन्द्रियः । दशांशं जुहुयान्मन्त्री मधुनाऽऽक्तैः सरोरुहैः ॥ इति सम्पूजयेद्देवीं सम्पदामालयं भवेत् । समुद्रकन्यां सरिति कण्ठमात्रे जले स्थितः ॥ त्रिलक्षं प्रजपेन्मन्त्री साक्षाद्वैश्रवणो भवेत् । आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ॥ नन्द्यावर्त्तभवैः पुष्पैः सहस्रं जुहुयात्ततः । पूर्णमास्यां फलैः चित्रैः जुहुयान्मधुराप्लुतैः ॥ पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः । अन्यैर्वा विशदैः पुष्पैः प्रतिमासं फलावतीः ॥ स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः ॥ इति दशाक्षरलक्ष्मीमन्त्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : dashAkSharalakShmImantram
% File name             : dashAkSharalakShmImantram.itx
% itxtitle              : dashAkSharalakShmImantram
% engtitle              : dashAkSharalakShmImantram
% Category              : devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras
% Indexextra            : (Text)
% Latest update         : January 3, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org