देवीगीतिशतकम्

देवीगीतिशतकम्

श्रीगणेशाय नमः ॥ किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहणं देवि कान्तिमत्यम्ब ॥ १॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसम्पदां करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३॥ अमितां समतां मम तां तनु तां तनुतां गतां पदाब्जं ते । कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४॥ मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् । तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५॥ न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् । असकृत्प्रणम्य याचे त्वच्चरणाब्जस्य कान्तिमत्यम्ब ॥ ६॥ अभजमहं किं सारे कंसारे वीपदेऽपि संसारे । रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७॥ मामसकृदप्रसादाद्दुष्कृतकारीति माऽवमन्यस्व । स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८॥ करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् । भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९॥ अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् । समतेर्ष्यया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ १०॥ द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे । हित्वा पयोदपङ्क्तिं स्तोकस्य गतिः क्व कान्तिमत्यम्ब ॥ ११॥ कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् । किं त्वामुपालभेऽहं विधिर्गरीयान् हि कान्तिमत्यम्ब ॥ १२॥ तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या । यदुपेक्षसे त्रिलोकीं मातर्मां देवि कान्तिमत्यम्ब ॥ १३॥ निन्दामि साधुवर्गं स्तौमि पुनः क्षीणषड्गसंसर्गम् । वन्दे किं ते चरणे किं स्यात्प्रीतिस्तु कान्तिमत्यम्ब ॥ १४॥ गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे । निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५॥ त्रिनयनकान्ते शान्ते तान्ते स्वान्ते ममास्तु वद दान्ते । कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६॥ धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् । मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ १७॥ गिरितनुजे हतदनुजे वरमनुजेद्धाभिधे च हर्यनुजे । गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ १८॥ गजगमने रिपुदमने हरकमने कॢप्तपापकृच्छमने । कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९॥ यन्मानसे पदाब्जं तव संविद्भास्वदाभयाऽऽभाति । तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २०॥ दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते । दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१॥ कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् । रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२॥ किञ्चनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् । चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३॥ अञ्चति यं त्वदपाङ्गः किञ्चित्तस्यैव कुम्भदासत्वे । अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ २४॥ किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण । बृंहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २५॥ प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे । गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६॥ करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् । सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७॥ शङ्करि नमांसि वाणी किङ्करि दैतेयराड्भयङ्करि ते । करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८॥ तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये । त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ २९॥ भवदवशिखाभिवीतं शीतलयेर्मां कटाक्षविक्षेपैः । कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३०॥ त्वद्गुणपयःकणं मे निपीय मुक्तेरलङ्क्रियां गिरतु । चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ ३१॥ गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते । गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२॥ पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके । वीटीरसेन कविताधाटीं कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३॥ तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् । ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४॥ ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः । किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५॥ मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण । हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६॥ ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य । पदयुगली तव शम्पा लक्ष्मीं विदधातु कान्तिमत्यम्ब ॥ ३७॥ कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः । जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ ३८॥ ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः । शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९॥ रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् । बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४०॥ विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि । नोच्छ्वसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्व ॥ ४१॥ जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् । गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२॥ अखिलदिविषदालम्बे पदयुग्मं देवि ते सदाऽऽलम्बे । जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३॥ अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि । वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ ४४॥ नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे । न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ ४५॥ खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे । मोदय कृपया नो चेत्क्व नु यायां देवि कान्तिमत्यम्ब ॥ ४६॥ कार्यं स्वेन स्वहितं को नाम वदेदयं जनो वेत्ति । त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यम्ब ॥ ४७॥ धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् । इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ ४८॥ तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते । भूतिः पदाब्जधूलिर्धूलिर्भूतिस्तु कान्तिमत्यम्ब ॥ ४९॥ त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र । हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५०॥ चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे । किञ्च सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१॥ किरतु भवती कटाक्षाञ्जलजसदृक्षान् रसेन तादृक्षान् । कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२॥ मानसवार्धिनिलीनौ रागद्वेषौ प्रवोधवेदमुषौ । मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३॥ मञ्जुलभाषिणि वञ्जुलकुड्मलललितालके लसत्तिलके । पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्व ॥ ५४॥ पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः । शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५॥ करुणारसार्द्रनयने शरणागतपालनैककृतदीक्षे । प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६॥ नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् । किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ ५७॥ यद्दुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् । सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ ५८॥ जीवति पञ्चभिरेभिर्न विनाऽस्त्येभिर्जनस्तनुं भजते । तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ ५९॥ यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते । जात्वपि मा भूद्भेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६०॥ शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते । अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१॥ मन्मानसपाठीनं कलिपुलिने क्रोधभानुसन्तप्ते । सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ ६२॥ यमिनः क्व वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा । यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ ६३॥ क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् । तत्राप्येवं यदि वद तव किं महिमाऽत्र कान्तिमत्यम्ब ॥ ६४॥ वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते । स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५॥ प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् । लभ्यमलभ्यं किं नस्तेन विना देवि कान्तिमत्यम्ब ॥ ६६॥ किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् । घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७॥ विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी । संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८॥ कियदायुस्तत्रार्धं स्वप्ने न हृतं कियच्च बाल्याद्यैः । कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९॥ वेद्मि न धर्ममधर्मं कायक्लेशोऽस्त्यदो विचारफलम् । जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७०॥ स्निह्यति भोगे द्रुह्यति योगायेदं वृथाऽद्य मुह्यति मे । हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१॥ न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते । आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२॥ चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः । वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ ७३॥ नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि । क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ॥ ७४॥ त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा कॢप्तम् । किमपि न सञ्चितममितं वृजिनमये किं तु कान्तिमत्यम्ब ॥ ७५॥ पापीत्युपेक्षसे चेत्पातुं काऽन्या भवेद्विना भवतीम् । किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६॥ वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे । किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥ ७७॥ वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन । मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८॥ त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु सम्भवति । आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ ७९॥ अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः । ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ ८०॥ सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि । प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ ८१॥ कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् । जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ ८२॥ तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया । लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३॥ शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् । मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४॥ अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेद्म्यतःप्रभृति । अवने वाऽनवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ ८५॥ किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् । यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ ८६॥ कर्तुं जगन्ति विधिवद्भर्तुं हरिवद्गिरीशवद्धर्तुम् । लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ ८७॥ केचिद्विदन्ति भवतीं केचिन्न विदन्ति देवि सर्वमिदम् । त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८॥ शास्त्राणि कुक्षिपूर्त्यै स्फूर्त्यै निगमाश्च कर्मणा किं तैः । किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९॥ किं प्रार्थये पुनः पुनरवने भवतीं विना विचारः स्यात् । कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ॥ ९०॥ विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् । करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ ९१॥ प्रणवोपनिषन्निगमागमयोगिमनःस्विवातितुङ्गेषु । भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ ९२॥ स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् । श्रुतिशिखरशेखरं ते चरणाब्जं स्तौमि कान्तिमत्यम्ब ॥ ९३॥ तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् । स्वप्नेऽपि किञ्चिदपि मे मा स्म भवेद्देवि कान्तिमत्यम्ब ॥ ९४॥ विस्मापनं पुरारेरस्मादृग्जीविकां परात्परमम् । सुषमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५॥ मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते । वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६॥ आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः । स्वामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७॥ निगमैरपरिच्छेद्यं क्व वैभवं तेऽल्पधीः क्व चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ ९८॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्यं तव रूपं स्तौमि कान्तिमत्यम्ब ॥ ९९॥ जय धरणीधरतनये जय वेणुवनाधिराट्प्रिये देवि । जय जम्भभेदिविनुते जय जगतामम्ब कन्तिमत्यम्ब ॥ १००॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्याः क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१॥ वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महान्- माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरो देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ॥ १०२॥ इति श्रीसुन्दराचार्यप्रणीतं देवीगीतिशतकं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : devIgItishatakam
% File name             : devIgItishatakam.itx
% itxtitle              : devIgItishatakam (sundarAchAryapraNItam)
% engtitle              : devIgItishatakam
% Category              : shataka, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Sundaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 23, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org