॥ देवीनारायणीयम् ॥


१ प्रथमदशकः - देवीमहिमा यस्मिन्निदं यत इदं यदिदं यदस्मात् उत्तीर्णरूपमभिपश्यति यत्समस्तम् । नो दृश्यते च वचसां मनसश्च दूरे यद्भाति चादिमहसे प्रणमामि तस्मै ॥ १॥ न स्त्री पुमान् न सुरदैत्यनरादयो न क्लीबं न भूतमपि कर्मगुणादयश्च । भूमंस्त्वमेव सदनाद्यविकार्यनन्तं सर्वं त्वया जगदिदं विततं विभाति ॥ २॥ रूपं न तेऽपि बहुरूपभृदात्तशक्ति- र्नाट्यं तनोषि नटवत्खलु विश्वरङ्गे । वर्षाणि ते सरसनाट्यकलाविलीना भक्ता अहो सहृदया क्षणवन्नयन्ति ॥ ३॥ रूपानुसारि खलु नाम ततो बुधैस्त्वं देवीति देव इति चासि निगद्यमाना । देव्यां त्वयीर्यस उमा कमलाऽथ वाग् वा देवे तु षण्मुख उमापतिरच्युतो वा ॥ ४॥ त्वं ब्रह्म शक्तिरपि धातृरमेशरुद्रैः ब्रह्माण्डसर्गपरिपालनसंहृतीश्च । राज्ञीव कारयसि सुभ्रु निजाज्ञयैव भक्तेष्वनन्यशरणेषु कृपावती च ॥ ५॥ माता करोति तनयस्य कृते शुभानि कर्माणि तस्य पतने भृशमेति दुःखम् । वृद्धौ सुखं च तव कर्म न नापि दुःखं त्वं ह्येव कर्मफलदा जगतां विधात्री ॥ ६॥ सर्वत्र वर्षसि दयामत एव वृष्ट्या सिक्तः सुबीज इव वृद्धिमुपैति भक्तः । दुर्बीजवद्व्रजति नाशमभक्त एव त्वं निर्घृणा न विषमा न च लोकमातः ॥ ७॥ सर्वोपरीश्वरि विभाति सुधासमुद्र- स्तन्मध्यतः परिवृते विविधैः सुदुर्गैः । छत्रायिते त्रिजगतां भवती मणिद्वी- पाख्ये शिवे निजपदे हसिताननाऽऽस्ते ॥ ८॥ यस्ते पुमानभिदधाति महत्त्वमुच्चै- र्यो नाम गायति शृणोति च ते विलज्जः । यश्चातनोति भृशमात्मनिवेदनं ते स स्वान्यघानि विधुनोति यथा तमोऽर्कः ॥ ९॥ त्वां निर्गुणां च सगुणां च पुमान् विरक्तो जानाति किञ्चिदपि नो विषयेषु सक्तः । ज्ञेया भव त्वमिह मे भवतापहन्त्रीं भक्तिं ददस्व वरदे परिपाहि मां त्वम् ॥ १०॥
२ द्वितीयदशकः - हयग्रीवकथा रणेषु दैत्येषु हतेषु देवाः पुरा प्रहृष्टाः सहदातृशर्वाः । यियक्षवो यज्ञपतिं विनीताः प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ १॥ दृष्ट्वा च निद्रावशगं प्रभुं तमधिज्यचापाग्रसमर्पितास्यम् । आश्चर्यमापुर्विबुधा न कोऽपि प्राबोधयत्तं खलु पापभीत्या ॥ २॥ हरेस्तदानीमजसृष्टवम्र्या मुखार्पणाकुञ्चितचापमौर्वी । भग्ना धनुश्चार्जवमाप सद्यस्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ ३॥ कायाच्छिरस्तूत्पतितं मुरारेः पश्यत्सु देवेषु पपात सिन्धौ । चेतः सुराणां कदने निमग्नं हाहेति शब्दः सुमहानभूच्च ॥ ४॥ किमत्र कृत्यं पतिते हरौ नः कुर्मः कथं वेति मिथो ब्रुवाणान् । देवान् विधाताऽऽह भवेन्न कार्यमकारणं दैवमहो बलीयः ॥ ५॥ ध्यायेत देवीं करुणार्द्रचित्तां ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् । सर्वाणि कार्याणि विधास्यते नः सा सर्वशक्ता सगुणाऽगुणा च ॥ ६॥ इत्यूचुषः प्रेरणया विधातुस्त्वामेव वेदा नुनुवुः सुराश्च । दिवि स्थिता देवगणांस्त्वमात्थ भद्रं भवेद्वो हरिणेदृशेन ॥ ७॥ दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः । वेदान् मुनींश्चापि हयास्यमात्रवध्यो भृशं पीडयति प्रभावात् ॥ ८॥ दैवेन कृत्तं हरिशीर्षमद्य संयोज्यतां वाजिशिरोऽस्य काये । ततो हयग्रीवतया मुरारिर्दैत्यं हयग्रीवमरं निहन्ता ॥ ९॥ त्वमेवमुक्त्वा सदयं तिरोधास्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः । संयोजितं पश्यति देवसङ्घे हयाननः श्रीहरिरुत्थितोऽभूत् ॥ १०॥ दैत्यं हयग्रीवमहन् हयास्यो रणे मुरारिस्त्वदनुग्रहेण । सदा जगन्मङ्गलदे त्वदीयाः पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ ११॥
३ तृतीयदशकः - महाकाल्यवतारः जगत्सु सर्वेषु पुरा विलीनेष्वेकार्णवे शेषतनौ प्रसुप्ते । हरौ सुरारी मधुकैटभाख्यौ महाबलावप्सु विजह्रतुर्द्वौ ॥ १॥ समाः सहस्रं यतचित्तवृत्ती वाग्बीजमन्त्रं वरदे जपन्तौ । प्रसादिताया असुरौ भवत्याः स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ २॥ एकाम्बुधौ तौ तरलोर्मिमाले निमज्जनोन्मज्जनकेलिलोलौ । यदृच्छया वीक्षितमब्जयोनिं रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३॥ पद्मासनं वीरवरोपभोग्यं न भीरुभोग्यं न वराकभोग्यम् । मुञ्चेदमद्यैव न यासि चेत्त्वं प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ४॥ इदं समाकर्ण्य भयाद्विरिञ्चः सुषुप्तिनिष्पन्दममोघशक्तिम् । प्रबोधनार्थं हरिमिद्धभक्त्या तुष्टाव नैवाचलदम्बुजाक्षः ॥ ५॥ अस्पन्दता त्वस्य कयापि शक्त्या कृतेति मत्वा मतिमान् विरिञ्चः । प्रबोधयैनं हरिमेवमुक्त्वा स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ६॥ नुतिप्रसन्नाऽब्जभवस्य तूर्णं निःसृत्य विष्णोः सकलाङ्गतस्त्वम् । दिवि स्थिता तत्क्षणमेव देवो निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ७॥ अथैष भीतं मधुकैटभाभ्यां विरिञ्चमालोक्य हरिर्जगाद । अलं भयेनाहमिमौ सुरारी हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ८॥ एवं हरौ वक्तरि तत्र दैत्यौ रणोत्सुकौ प्रापतुरिद्धगर्वौ । तयोरविज्ञाय बलं मुरारिर्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ९॥ बिभेमि रागादिमहारिपुभ्यो जेतुं यतिष्येऽहमिमान् सुशक्तान् । तदर्थशक्तिं मम देहि नित्यं निद्रालसो मा च भवानि मातः ॥ १०॥
४ चतुर्थदशकः - मधुकैटभवधः त्वं तामसी सुप्तरमाधवाङ्गजा श्यामा रुचा मोहनताम्रलोचना । एकार्णवे घोररणोत्सुकान् हरिं दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ १॥ पश्यत्यजे बाहुरणं मुरारिणा कृत्वा मधुः श्रान्तिमवाप सत्वरम् । अभ्येत्य युद्धं कुरुते स्म कैटभः श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ २॥ एवं मुहुः सङ्गरविश्रमावुभौ पर्यायतो वर्षसहस्रपञ्चकम् । ग्लानिं विना चक्रतुरच्युतः क्लमाद्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ३॥ श्रान्तेन भीतेन च बालकेन च प्रभुः पुमान्नैव करोति संयुगम् । मध्येरणं द्वौ कृतविश्रमौ युवामेकः करोम्येव निरन्तराहवम् ॥ ४॥ ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः सन्तस्थतुर्विश्रमसौख्यवांस्ततः । त्वामेव तुष्टाव कृपातरङ्गिणीं सर्वेश्वरीं दैत्यजयाय माधवः ॥ ५॥ देवि प्रसीदैष रणे जितोऽस्म्यहं दैत्यद्वयेनाब्जभवं जिघांसुना । सर्वं कटाक्षैस्तव साध्यमत्र मां रक्षेति वक्तारमभाषथा हरिम् ॥ ६॥ युद्धं कुरु त्वं जहि तौ मया भृशं सम्मोहितौ वक्रदृशेत्ययं त्वया । सञ्चोदितो हृष्टमना महार्णवे तस्थौ रणायाययतुश्च दानवौ ॥ ७॥ भूयोऽपि कुर्वन् रणमच्युतो हसन् कामातुरौ ते मुखपद्मदर्शनात् । तावाह तुष्टोऽस्म्यतुलौ रणे युवां ददाम्यहं वां वरमेष वाञ्छितम् ॥ ८॥ तावूचतुर्विद्धि हरे न याचकावावां ददावस्तव वाञ्छितं वरम् । नासत्यवाचौ स्व इतीरितो हरिस्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ९॥ मह्यं वरं यच्छतमद्य मे यतो वध्यौ युवां स्यातमितीरितावुभौ । दृष्ट्वाऽप्सु लीनं सकलं समूचतुस्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ १०॥ अस्त्वेवमित्यादृतवाङ्मुदा हरिः स्वोरौ पृथावुन्नमिते जलोपरि । कृत्वाऽरिणा तच्छिरसी तदाऽच्छिनत्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ११॥ द्वेषश्च रागश्च सदा ममाम्बिके दैत्यौ हृदि स्तोऽत्र विवेकमाधवः । आभ्यां करोत्येव रणं जयत्वयं तुभ्यं महाकालि नमः प्रसीद मे ॥ १२॥
५ पञ्चमदशकः - सुद्युम्नकथा जाता सुतेला मनुसप्तमस्य संप्रार्थितोऽनेन मुनिर्वसिष्ठः । शम्भोः कटाक्षेण सुतां कुमारं चक्रे स कालेन बभूव राजा ॥ १॥ सुद्युम्ननामा मृगयाविहारी गतो हयारूढ इलावृतं सः । स्त्रीत्वं पुनः प्राप्य सुतं हिमांशोर्वव्रे पतिं पुत्रमसूत चैषा ॥ २॥ न्यवेदयत्सा गुरवे वसिष्ठायैषा कदाचिन्निजपुंस्त्वकामम् । तत्साधनार्थं हरमेव दध्यौ मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ३॥ इलावृतं मा पुरुषः प्रयातु प्रयाति चेत्सोऽस्त्वबला तदैव । एवं मया निश्चितमेव सौम्य गौर्याः प्रसादाय भवान् प्रियो मे ॥ ४॥ न पक्षभेदोऽत्र ममास्ति गौरी भवांश्च तृप्तौ भवतां मदीयौ । इतः परं तस्य मनोरपत्यं मासं पुमान् स्याद्वनिता च मासम् ॥ ५॥ एवं शिवोक्तेन मनोरपत्यं लब्ध्वा च पुंस्त्वं धरणीं शशास । स्त्रीत्वे च हर्म्येषु निनाय कालं जनो न चैनं नृपमभ्यनन्दत् ॥ ६॥ पुरूरवस्यात्मसुतेऽर्पयित्वा राज्यं विरक्तो वनमेत्य भूपः । श्रीनारदाल्लब्धनवार्णमन्त्रो भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ७॥ सिंहाधिरूढामरुणाब्जनेत्रां त्वां सुप्रसन्नामभिवीक्ष्य नत्वा । स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष लेभेऽथ सायुज्यमवाप चान्ते ॥ ८॥ शौर्यं न वीर्यं न च पौरुषं मे नैवास्ति च स्त्रीसहजा तितिक्षा । मूढो न जानाम्यशुभं शुभं च देयं त्वया मे शुभमेव मातः ॥ ९॥ पश्यानि मातः प्रवरान्गुरूंस्ते कारुण्यतो मां सुपथा नयन्तु । सत्सङ्गसम्भावितचित्तवृत्तिर्भवानि ते देवि नमः प्रसीद ॥ १०॥
६ षष्ठदशकः - व्यासनारदसमागमः त्वदिच्छया देवि पुलस्त्यवाचा पराशराद्विष्णुपुराणकर्तुः । मुनेर्हरिर्लोकहिताय दीपाद्यथा प्रदीपोऽजनि कृष्णनामा ॥ १॥ वेदं चतुर्धा व्यदधत्स कृष्णद्वैपायनो व्यास इति प्रसिद्धः । वेदान्तसूत्राणि पुराणजालं महेतिहासं च महांश्चकार ॥ २॥ तपः प्रवृत्तः कलविङ्कपोतं मात्रा स संलालितमाश्रमान्ते । पश्यन्नधन्यामनपत्यतां स्वां सपुत्रभाग्यातिशयं च दध्यौ ॥ ३॥ सत्पुत्रलाभाय तपश्चिकीर्षुस्तीव्रं महामेरुसमीपमेत्य । आराधनीयः क इति क्षणं स चिन्तातुरो लोकगुरुः स्थितोऽभूत् ॥ ४॥ श्रीनारदस्तत्र समागतस्त्वत्कृपाकटाक्षाङ्कुरवन्महर्षिः । अर्घ्यादिसम्पूजित आसनस्थो व्यासेन पृष्टः प्रहसन्निवाह ॥ ५॥ किं चिन्तया कृष्ण भजस्व देवीं कृपावती वाञ्छितदानदक्षा । अहेतुरेषा खलु सर्वहेतुर्निरस्तसाम्यातिशया निरीहा ॥ ६॥ सैषा महाशक्तिरिति प्रसिद्धा यदाज्ञया ब्रह्मरमेशरुद्राः । ब्रह्माण्डसर्गस्थितिसंहृतीश्च कुर्वन्ति काले न च ते स्वतन्त्राः ॥ ७॥ यस्याश्च ते शक्तिभिरेव सर्वकर्माणि कुर्वन्ति सुरासुराद्याः । मर्त्या मृगाः कृष्ण पतत्रिणश्च शक्तेर्विधेयाः क इहाविधेयः ॥ ८॥ प्रत्यक्षमुख्यैर्न च साप्रमाणैर्ज्ञेया तपोभिः कठिनैर्व्रतैश्च । न वेदशास्त्राध्ययनेन चापि भक्त्यैव जानाति पुमान् महेशीम् ॥ ९॥ तामेव भक्त्या सततं भजस्व सर्वार्थदां कृष्ण तवास्तु भद्रम् । इत्यूचुषि ब्रह्मसुते गते स व्यासस्तपोऽर्थं गिरिमारुरोह ॥ १०॥ इहास्मि पर्याकुलचित्तवृत्तिर्गुरुं न पश्यामि महत्तमं च । सन्मार्गतो मां नय विश्वमातः प्रसीद मे त्वां शरणं व्रजामि ॥ ११॥
७ सप्तमदशकः - शुकोत्पत्तिः कृष्णस्य तस्यारणितः शुकाख्यस्तव प्रसादादजनिष्ट पुत्रः । हृष्टो मुनिर्मङ्गलकर्म चक्रे तत्रादितेया ववृषुः सुमानि ॥ १॥ केचिज्जगुः केचन वाद्यघोषं चक्रुश्च नाके ननृतुः स्त्रियश्च । वायुर्ववौ स्पर्शसुखः सुगन्धः शुकोद्भवे सर्वजनाः प्रहृष्टाः ॥ २॥ बालः स सद्यो ववृधे सुचेताः बृहस्पतेरात्तसमस्तविद्यः । दत्वा विनीतो गुरुदक्षिणां च प्रत्यागतो हर्षयति स्म तातम् ॥ ३॥ युवानमेकान्ततपःप्रवृत्तं व्यासः कदाचिच्छुकमेवमूचे । वेदांश्च शास्त्राणि च वेत्सि पुत्र कृत्वा विवाहं भव सद्गृहस्थः ॥ ४॥ सर्वाश्रमाणां कवयो विशिष्टा गृहाश्रमं श्रेष्ठतरं वदन्ति । तमाश्रितस्तिष्ठति लोक एष यजस्व देवान् विधिवत्पितॄंश्च ॥ ५॥ तवास्तु सत्पुत्र ऋणादहं च मुच्येय मां त्वं सुखिनं कुरुष्व । पुत्रः सुखायात्र परत्र च स्यात्त्वां पुत्र तीव्रैरलभे तपोभिः ॥ ६॥ किञ्च प्रमाथीनि सदेन्द्रियाणि हरन्ति चित्तं प्रसभं नरस्य । पश्यन् पिता मे जननीं तपस्वी पराशरोऽपि स्मरमोहितोऽभूत् ॥ ७॥ य आश्रमादाश्रममेति तत्तत्कर्माणि कुर्वन् स सुखी सदा स्यात् । गृहाश्रमो नैव च बन्धहेतुस्त्वया च धीमन् क्रियतां विवाहः ॥ ८॥ एवं ब्रुवाणोऽपि शुकं विवाहाद्यसक्तमाज्ञाय पितेव रागी । पुराणकर्त्ता च जगद्गुरुः स मायानिमग्नोऽश्रुविलोचनोऽभूत् ॥ ९॥ भोगेषु मे निस्पृहताऽस्तु मातः प्रलोभितो मा करवाणि पापम् । मा बाधतां मां तव देवि माया मायाधिनाथे सततं नमस्ते ॥ १०॥
८ अष्टमदशकः - परमज्ञानोपदेशः अथाह कृष्णः शृणु चिन्तयाऽलं गृहाश्रमस्ते न च बन्धकृत्स्यात् । बन्धस्य मुक्तेश्च मनो हि हेतुर्मनोजयार्थं भज विश्वधात्रीम् ॥ १॥ यस्याः प्रसादे सफलं समस्तं यदप्रसादे विफलं समस्तम् । माहात्म्यमस्या विदितं जगत्सु मया कृतं भागवतं शृणु त्वम् ॥ २॥ विष्णुर्जगत्येकसमुद्रलीने बालः शयानो वटपत्र एकः । स्वबालताहेतुविचारमग्नः शुश्राव कामप्यशरीरिवाचम् ॥ ३॥ सनातनं सत्यमहं मदन्यत्सत्यं न च स्यादहमेव सर्वम् । श्रुत्वेदमुन्मीलितदृष्टिरेष स्मिताननां त्वां जननीं ददर्श ॥ ४॥ चतुर्भुजा शङ्खगदारिपद्मधरा कृपाद्यैः सह शक्तिजालैः । स्थिता जलोपर्यमलाम्बरा त्वं प्रहृष्टचित्तं हरिमेवमात्थ ॥ ५॥ किं विस्मयेनाच्युत विस्मृताऽहं त्वया पराशक्तिमहाप्रभावात् । सा निर्गुणा वाङ्मनसोरगम्या मां सात्विकीं शक्तिमवेहि लक्ष्मीम् ॥ ६॥ श्रुतस्त्वया यस्त्वशरीरिशब्दो हिताय ते देव तया स उक्तः । अयं हि सर्वश्रुतिशास्त्रसारो मा विस्मरेमं हृदि रक्षणीयम् ॥ ७॥ नातः परं ज्ञेयमवेहि किञ्चित्प्रियोऽसि देव्याः शृणु मे वचस्त्वम् । त्वन्नाभिपद्माद्द्रुहिणो भवेत्स कर्ता जगत्पालय तत्समस्तम् ॥ ८॥ भ्रूमध्यतः पद्मभवस्य कोपाद्रुद्रो भविष्यन् सकलं हरेच्च । देवीं सदा संस्मर तेऽस्तु भद्रमेवं निगद्याशु तिरोदधाथ ॥ ९॥ हरेरिदं ज्ञानमजस्य लब्धमजात्सुरर्षेश्च ततो ममापि । मया त्विदं विस्तरतः सुतोक्तं यत्सूरयो भागवतं वदन्ति ॥ १०॥ देव्या महत्त्वं खलु वर्ण्यतेऽत्र यद्भक्तिमाप्तस्य गृहे न बन्धः । यद्भक्तिहीनस्त्वगृहेऽपि बद्धो राजाऽपि मुक्तो जनको गृहस्थः ॥ ११॥ विदेहराजं तमवाप्य पृष्ट्वा स्वधर्मशङ्काः परिहृत्य धीरः । फलेष्वसक्तः कुरु कर्म तेन कर्मक्षयः स्यात्तव भद्रमस्तु ॥ १२॥ श्रुत्वेति सद्यः शुक आश्रमात्स प्रस्थाय वैदेहपुरं समेत्य । प्रत्युद्गतः सर्वजनैर्नृपाय न्यवेदयत्स्वागमनस्य हेतुम् ॥ १३॥ गृहस्थधर्मस्य महत्त्वमस्माद्विज्ञाय धीमान् स शुको निवृत्तः । पित्राश्रमं प्राप्य सुतां पितॄणां व्यासेऽतिहृष्टे गृहिणीं चकार ॥ १४॥ उत्पाद्य पुत्रांश्चतुरः सुतां च गृहस्थधर्मान् विधिनाऽऽचरन् सः । प्रदाय चैनां मुनयेऽणुहाय बभूव काले कृतसर्वकृत्यः ॥ १५॥ हित्वाऽऽश्रमं तातमपीशशैलशृङ्गे तपस्वी सहसोत्पतन् खे । बभौ स भास्वानिव तद्वियोगखिन्नं शिवो व्यासमसान्त्वयच्च ॥ १६॥ सर्वत्र शङ्काकुलमेव चित्तं ममेह विक्षिप्तमधीरमार्तम् । कर्तव्यमूढोऽस्मि सदा शिवे मां धीरं कुरु त्वं वरदे नमस्ते ॥ १७॥
९ नवमदशकः - भुवनेश्वरीदर्शनः एकार्णवेऽस्मिन् जगति प्रलीने दैत्यौ हरिर्ब्रह्मवधोद्यतौ तौ । जघान देवि त्वदनुग्रहेण त्वदिच्छयैवागमदत्र रुद्रः ॥ १॥ एको विमानस्तरसाऽऽगतः खात्त्रिमूर्त्यविज्ञातगतिस्त्वदीयः । त्वत्प्रेरिता आरुरुहुस्तमेते स चोत्पतन् व्योम्नि चचार शीघ्रम् ॥ २॥ वैमानिकाश्चोद्गतयः सशक्रं दिवं सपद्मोद्भवसत्यलोकम् । सरुद्रकैलासममी सविष्णुवैकुण्ठमप्युत्पुलका अपश्यन् ॥ ३॥ अदृष्टपूर्वानितरांस्त्रिमूर्तीन् स्थानानि तेषामपि दृष्टवन्तः । त्रिमूर्तयस्ते च विमोहमापुः प्राप्तो विमानश्च सुधासमुद्रम् ॥ ४॥ त्वद्भ्रूलतालोलतरङ्गमालं त्वदीयमन्दस्मितचारुफेनम् । त्वन्मञ्जुमञ्जीरमृदुस्वनाढ्यं त्वत्पादयुग्मोपमसौख्यदं च ॥ ५॥ तन्मध्यतस्ते ददृशुर्विचित्रप्राकारनानाद्रुलतापरीतम् । स्थानं मणिद्वीपमदृष्टपूर्वं क्रमाच्छिवे त्वां च सखीसमेताम् ॥ ६॥ ज्ञात्वा द्रुतं त्वां हरिराह दातस्त्रिनेत्र धन्या वयमद्य नूनम् । सुधासमुद्रोऽयमनल्पपुण्यैः प्राप्या जगन्मातृनिवासभूमिः ॥ ७॥ सा दृश्यते रागिजनैरदृश्या मञ्चे निषण्णा बहुशक्तियुक्ता । एषैव दृक् सर्वमिदं च दृश्यमहेतुरेषा खलु सर्वहेतुः ॥ ८॥ बालः शयानो वटपत्र एक एकार्णवेऽपश्यमिमां स्मितास्याम् । ययैव मात्रा परिलालितोऽहमेनां समस्तार्तिहरां व्रजेम ॥ ९॥ रुध्यामहे द्वारि यदि स्तुवामस्तत्र स्थिता एव वयं महेशीम् । इत्यच्युतेनाभिहिते विमानस्त्वद्गोपुरद्वारमवाप देवि ॥ १०॥ आयाम्यहं चित्तनिरोधरूपविमानतस्ते पदमद्वितीयम् । न केनचिद्रुद्धगतो भवानि त्वामेव मातः शरणं व्रजामि ॥ ११॥
१० दशमदशकः - शक्तिप्रदानम् ततो विमानादजविष्णुरुद्रास्त्वद्गोपुरद्वार्यवरुह्य सद्यः । स्त्रियः कृता देवि तवेच्छयैव सविस्मयास्त्वन्निकटं समीयुः ॥ १॥ कृतप्रणामास्तव पादयुग्मनखेषु विश्वं प्रतिबिम्बितं ते । विलोक्य साश्चर्यममोघवाग्भिः पृथक्पृथक् तुष्टुवुरम्बिके त्वाम् ॥ २॥ नुतिप्रसन्ना निजसर्गशक्तिं महासरस्वत्यभिधामजाय । रक्षार्थशक्तिं हरये महालक्ष्म्याख्यां च लीलानिरते ददाथ ॥ ३॥ गौरीं महाकाल्यभिधां च दत्वा संहारशक्तिं गिरिशाय मातः । नवाक्षरं मन्त्रमुदीरयन्ती बद्धाञ्जलींस्तान् स्मितपूर्वमात्थ ॥ ४॥ ब्रह्मन् हरे रुद्र मदीयशक्तित्रयेण दत्तेन सुखं भवन्तः । ब्रह्माण्डसर्गस्थितिसंहृतीश्च कुर्वन्तु मे शासनया विनीताः ॥ ५॥ मान्या भवद्भिः खलु शक्तयो मे स्याच्छक्तिहीनं सकलं विनिन्द्यम् । स्मरेत मां सन्ततमेवमुक्त्वा प्रस्थापयामासिथ तांस्त्रिमूर्तीन् ॥ ६॥ नत्वा त्रयस्ते भवतीं निवृत्ताः पुंस्त्वं गता आरुरुहुर्विमानम् । सद्यस्तिरोधाः स सुधासमुद्रो द्वीपो विमानश्च तिरोबभूवुः ॥ ७॥ एकार्णवे पङ्कजसन्निधौ च हतासुरे ते खलु तस्थिवांसः । दृष्टं नु सत्यं किमु बुद्धिमोहः स्वप्नो नु किं वेति च न व्यजानन् ॥ ८॥ ततस्त्रयस्ते खलु सत्यलोकवैकुण्ठकैलासकृताधिवासाः । ब्रह्माण्डसृष्ट्यादिषु दत्तचित्तास्त्वां सर्वशक्तामभजन्त देवि ॥ ९॥ सुधासमुद्रं तरलोर्मिमालं स्थानं मणिद्वीपमनोपमं ते । मञ्चे निषण्णां भवतीं च चित्ते पश्यानि ते देवि नमः प्रसीद ॥ १०॥
११ एकादशदशकः - ब्रह्मनारदसंवादः श्रीनारदः पद्मजमेकदाऽऽह पितस्त्वया सृष्टमिदं जगत्किम् । किं विष्णुना वा गिरिशेन वा किमकर्तृकं वा सकलेश्वरः कः ॥ १॥ इतीरितोऽजः सुतमाह साधु पृष्टं त्वया नारद मां शृणु त्वम् । विभाति देवी खलु सर्वशक्तिस्वरूपिणी सा भुवनस्य हेतुः ॥ २॥ एकं परं ब्रह्म सदद्वितीयमात्मेति वेदान्तवचोभिरुक्ता । न सा पुमान् स्त्री च न निर्गुणा सा स्त्रीत्वं च पुंस्त्वं च गुणैर्दधाति ॥ ३॥ सर्वं तदावास्यमिदं जगत्सा जाता न सर्वं तत एव जातम् । तत्रैव सर्वं च भवेत्प्रलीनं सैवाखिलं नास्ति च किञ्चनान्यत् ॥ ४॥ गौणानि चान्तःकरणेन्द्रियाणि सा निर्गुणाऽवाङ्मतिगोचरा च । सा स्तोत्रमन्त्रैः सगुणा महद्भिः संस्तूयते भक्तविपन्निहन्त्री ॥ ५॥ सुधासमुद्रे वसतीयमार्या द्वीपे विचित्राद्भुतशक्तियुक्ता । सर्वं जगद्यद्वशगं वयं च त्रिमूर्तयो नाम यदाश्रिताः स्मः ॥ ६॥ तद्दत्तशक्तित्रयमात्रभाजस्त्रिमूर्तयः पुत्र वयं विनीताः । तदाज्ञया साधु सदाऽपि कुर्मो ब्रह्माण्डसर्गस्थितिसंहृतीश्च ॥ ७॥ दैवेन मूढं कविमातनोति सा दुर्बलं तु प्रबलं करोति । पङ्गुं गिरिं लङ्घयते च मूकं कृपावती चाऽतनुते सुवाचम् ॥ ८॥ यत्किञ्चिदज्ञायि मया महत्त्वं देव्यास्तदुक्तं तव सङ्ग्रहेण । सर्वत्र तद्वर्णय विस्तरेण विधत्स्व भक्तिं हृदये जनानाम् ॥ ९॥ इतीरितोऽजेन मुनिः प्रसन्नस्तव प्रभावं करुणार्द्रचित्ते । व्यासं तथाऽन्यांश्च यथोचितं स प्रबोधयामस पवित्रवाग्भिः ॥ १०॥ न मे गुरुस्त्वच्चरितस्य वक्ता न मे मतिस्त्वत्स्मरणैकसक्ता । अवाच्यवक्ताऽहमकार्यकर्ता नमामि मातश्चरणाम्बुजं ते ॥ ११॥
१२ द्वादशदशकः - उतथ्यजननम् पुरा द्विजः कश्चन देवदत्तो नाम प्रजार्थं तमसासमीपे । कुर्वन् मखं गोभिलशापवाचा लेभे सुतं मूढमनन्तदुःखः ॥ १॥ उतथ्यनामा ववृधे स बालो मूढस्तु दृष्टं न ददर्श किञ्चित् । श्रुतं न शुश्राव जगाद नैव पृष्टो न च स्नानजपादि चक्रे ॥ २॥ इतस्ततोऽटन् समवाप्तगङ्गो जले निमज्जन् प्रपिबंस्तदेव । वसन् मुनीनामुटजेषु वेदमन्त्रांश्च शृण्वन् स दिनानि निन्ये ॥ ३॥ क्रमेण सत्सङ्गविवृद्धसत्त्वः सत्यव्रतः सत्यतपाश्च भूत्वा । नासत्यवाक् त्वत्कृपया स मूढोऽप्युन्मीलितान्तर्नयनो बभूव ॥ ४॥ कुलं पवित्रं जननी विशुद्धा पिता च सत्कर्मरतः सदा मे । मया कृतं नैव निषिद्धकर्म तथाऽपि मूढोऽस्मि जनैश्च निन्द्यः ॥ ५॥ जन्मान्तरे किं नु कृतं मयाऽघं किं वा न विद्याऽर्थिजनस्य दत्ता । ग्रन्थोऽप्यदत्तः किमु पूज्यपूजा कृता न किं वा विधिवन्न जाने ॥ ६॥ नाकारणं कार्यमितीर्यते हि दैवं बलिष्ठं दुरतिक्रमं च । ततोऽत्र मूढो विफलीकृतोऽस्मि वन्ध्यद्रुवन्निर्जलमेघवच्च ॥ ७॥ इत्यादि सञ्चिन्त्य वने स्थितः स कदाचिदेकं रुधिराप्लुताङ्गम् । बीभत्सरूपं किटिमेष पश्यन्नय्यय्य इत्युत्स्वनमुच्चचार ॥ ८॥ शरेण विद्धः स किरिर्भयार्तः प्रवेपमानो मुनिवासदेशे । अन्तर्निकुञ्जस्य गतश्च दैवाददृश्यतामाप भयार्तिहन्त्रि ॥ ९॥ विना मकारं च विना च भक्तिमुच्चार्य वाग्बीजमनुं पवित्रम् । प्रसन्नबुद्धिः कृपया तवैष बभूव दूरीकृतसर्वपापः ॥ १०॥ नाहं कविर्गानविचक्षणो न नटो न शिल्पादिषु न प्रवीणः । पश्यात्र मां मूढमनन्यबन्धुं प्रसन्नबुद्धिं कुरु मां नमस्ते ॥ ११॥
१३ त्रयोदशदशकः - उतथ्यमहिमा अथागतः कश्चिदधिज्यधन्वा मुनिं निषादः सहसा जगाद । त्वं सत्यवाग्ब्रूहि मुने त्वया किं दृष्टः किटिः सायकविद्धदेहः ॥ १॥ दृष्टस्त्वया चेद्वद सूकरः क्व गतो न वाऽदृश्यत किं मुनीन्द्र । अहं निषादः खलु वन्यवृत्तिर्ममास्ति दारादिकपोष्यवर्गः ॥ २॥ श्रुत्वा निषादस्य वचो मुनिः स तूष्णीं स्थितश्चिन्तयति स्म गाढम् । वदामि किं दृष्ट इतीर्यते चेद्धन्यादयं तं मम चाप्यघं स्यात् ॥ ३॥ सत्यं नरं रक्षति रक्षितं चेदसत्यवक्ता नरकं व्रजेच्च । सत्यं हि सत्यं सदयं न किञ्चित्सत्यं कृपाशून्यमिदं मतं मे ॥ ४॥ एवं मुनेश्चिन्तयतः स्वकार्यव्यग्रो निषादः पुनरेवमूचे । दृष्टस्त्वया किं स किटिर्न किं वा दृष्टः स शीघ्रं कथयात्र सत्यम् ॥ ५॥ मुनिस्तमाहात्र पुनः पुनः किं निषाद मां पृच्छसि मोहमग्नः । पश्यन् न भाषेत न च ब्रुवाणः पश्येदलं वाग्भिरवेहि सत्यम् ॥ ६॥ उन्मादिनो जल्पनमेतदेवं मत्वा निषादः सहसा जगाम । न सत्यमुक्तं मुनिना न कोलो हतश्च सर्वं तव देवि लीलाः ॥ ७॥ द्रष्टा परं ब्रह्म तदेव च स्यादिति श्रुतिः प्राह न भाषते सः । सदा ब्रुवाणस्तु न पश्यतीदमयं हि सत्यव्रतवाक्यसारः ॥ ८॥ भूयः स सारस्वतबीजमन्त्रं चिरं जपन् ज्ञाननिधिः कविश्च । वाल्मीकिवत्सर्वदिशि प्रसिद्धो बभूव बन्धून् समतर्पयच्च ॥ ९॥ स्मृता नता देवि सुपूजिता वा श्रुता नुता वा खलु वन्दिता वा । ददासि नित्यं हितमाश्रितेभ्यः कृपार्द्रचित्ते सततं नमस्ते ॥ १०॥
१४ चतुर्दशदशकः - सुदर्शनकथा - भरद्वाजाश्रमप्रवेशम् राजा पुराऽऽसीत्किल कोसलेषु धर्मैकनिष्ठो ध्रुवसन्धिनामा । आस्तां प्रिये अस्य मनोरमा च लीलावती चेति दृढानुरक्ते ॥ १॥ मनोरमाऽसूत सुदर्शनाख्यं कुमारकं शत्रुजितं च साऽन्या । संवर्धयंस्तौ मृगयाविहारी वने नृपो हा हरिणा हतोऽभूत् ॥ २॥ विचिन्तयन् राजकुलस्य वृत्तं तज्ज्येष्ठपुत्रस्य सुदर्शनस्य । राज्याभिषेकाय गुरुर्वसिष्ठश्चकार मन्त्रं सचिवैः समेतः ॥ ३॥ मातामहः शत्रुजितो युधाजिदभ्येत्य सद्योऽमितवीर्यशाली । राज्ये स्वदौहित्रमिहाभिषिक्तं कर्तुं कुबुद्धिः कुरुते स्म यत्नम् ॥ ४॥ मनोरमाया अपि वीरसेनः पिताऽभ्युपेत्याशु रुरोध तस्य । यत्नं बली स्वस्वसुतासुताभिषेकैकबुद्धी खलु तावभूताम् ॥ ५॥ कृत्वा विवादं च ततो नृपौ द्वौ घोरं रणं चक्रतुरिद्धरोषौ । युधाजिता तत्र तु वीरसेनो दैवाद्धतोऽभूद्धरिणा करीव ॥ ६॥ राज्येऽभिषिक्तः खलु शत्रुजित्स बालस्ततोऽयं रिपुभिद्युधाजित् । दौहित्रराज्यं सुखमेकनाथः शशास वज्रीव दिवं महेशि ॥ ७॥ पत्युः पितुश्चापि मृतेरनाथा भीता विदल्लाभिधमन्त्रियुक्ता । मनोरमा बालसुता त्वरण्ये ययौ भरद्वाजमुनिं शरण्यम् ॥ ८॥ तपोनिधिर्दीनजनानुकम्पी ज्ञात्वा मुनिस्तां ध्रुवसन्धिपत्नीम् । उवाच- वत्से वस निर्भयैव तपोवनेऽत्रास्तु शुभं तवेति ॥ ९॥ अल्पोऽप्युपेक्ष्यो न रिपुर्न रोगोऽप्येवं स्मरन्नाशु नृपो युधाजित् । तां हर्तुकामः ससुतां महर्षेः प्रापाश्रमं मन्त्रिवरेण साकम् ॥ १०॥ न मानितस्तेन तपस्विना स मनोरमां नैव सुतं च लेभे । प्रहर्तुकामोऽपि मुनिं स मन्त्रिवाचा निवृत्तः श्रुतकौशिकोऽभूत् ॥ ११॥ एवं मुनिस्तां ससुतां ररक्ष भीतोऽस्मि संसारयुधाजितोऽहम् । न मे सहायोऽस्ति विना त्वयैष सनूपुरं ते चरणं नमामि ॥ १२॥
१५ पञ्चदशदशकः - सुदर्शनकथा - देवीदर्शनम् एवं तवैव कृपया मुनिवर्यशीतच्छायाश्रितो हतभयः स सुदर्शनोऽयम् । वेदध्वनिश्रवणपूतहृदाश्रमान्ते सम्मोदयन् मुनिजनान् ववृधे कुमारः ॥ १॥ आबाल्यमेष मुनिबालकसङ्गमेन क्लीं क्लीमितीश्वरि सदा तव बीजमन्त्रम् । तत्रोच्चचार कृपयाऽस्य पुरः कदाचिदाविर्बभूविथ नतं तमभाषथाश्च ॥ २॥ प्रीताऽस्मि ते सुत जगज्जननीमवेहि मां सर्वकामवरदां तव भद्रमस्तु । चन्द्राननां शशिकलां विमलां सुबाहोः काशीश्वरस्य तनयां विधिनोद्वह त्वम् ॥ ३॥ नष्टा भवेयुरचिरेण तवारिवर्गा राज्यं च यैरपहृतं पुनरेष्यसि त्वम् । मातृद्वयेन सचिवैश्च समं स्वधर्मान् कुर्याः सदेति समुदीर्य तिरोदधाथ ॥ ४॥ स्वप्ने त्वया शशिकला कथिताऽस्ति भारद्वाजाश्रमे प्रथितकोसलवंशजातः । धीमान् सुदर्शन इति ध्रुवसन्धिपुत्र एनं पतिं वृणु तवास्तु शुभं सदेति ॥ ५॥ स्वप्नानुभूतमनृतं किमृतं न वेति सुप्तोत्थिता तु मतिमत्यपि न व्यजानात् । पृष्टात्सुदर्शनकथां सुमुखी द्विजात्सा श्रुत्वाऽनुरक्तहृदयैव बभूव देवि ॥ ६॥ ज्ञात्वा सुबाहुरिदमाकुलमानसस्तामस्मान्निवर्त्तयितुमाशु सहेष्टपत्न्या । कृत्वा प्रयत्नमखिलं विफलं च पश्यन्निच्छास्वयंवरविधिं हितमेव मेने ॥ ७॥ कश्चित्कदाचन सुदर्शनमेत्य विप्रः प्राहागतः शशिकलावचसाऽहमत्र । सा त्वां ब्रवीति- नृपपुत्र जगज्जनन्या वाचा वृतोऽसि पतिरस्मि तवैव दासी ॥ ८॥ अत्रागता नृपतयो बहवस्त्वमेत्य तेषां सुधीर मिषतां नय मां प्रियां ते । एवं वधूवचनमानय तां सुशीलां भद्रं तवास्त्विदमुदीर्य जगाम विप्रः ॥ ९॥ स्वप्ने च जाग्रति च पश्यति भक्तवर्यस्त्वां सन्ततं तव वचो मधुरं शृणोति । ऐश्वर्यमाशु लभतेऽपि च मुक्तिमेति त्वद्भक्तिमेव मम देहि नमो जनन्यै ॥ १०॥
१६ षोडशदशकः - सुदर्शनविवाहम् श्रुत्वा वधूवाक्यमरं कुमारो हृष्टो भरद्वाजमुनिं प्रणम्य । आपृछ्य मात्रा सह देवि स त्वां स्मरन् रथेनाप पुरं सुबाहोः ॥ १॥ स्वयंवराहूतमहीभुजां स सभां प्रविष्टो हतभीर्निषण्णः । कन्या कला पूर्णशशी त्वसावित्याहुर्जनास्तामभिवीक्षमाणाः ॥ २॥ वधूश्च तद्दर्शनवर्धितानुरागा स्मरन्ती तव वाक्यसारम् । सभां नृपाणामजितेन्द्रियाणां न प्राविशत्सा पितृचोदिताऽपि ॥ ३॥ शङ्काकुलास्ते नृवरा बभूवुरुच्चैर्युधाजित्कुपितो जगाद- । मा दीयतां लोकहितानभिज्ञा वधूरशक्ताय सुदर्शनाय ॥ ४॥ बालोऽयमित्येष मयाऽऽश्रमे प्रागुपेक्षितः सोऽत्र रिपुत्वमेति । माऽयं च वध्वा व्रियतां वृतश्चेद्धन्यामिमं तां च हरेयमाशु ॥ ५॥ श्रुत्वा युधाजिद्वचनं नृपाला हितैषिणः केचिदुपेत्य सर्वम् । सुदर्शनं प्रोचुरथापि धीरः स निर्भयो नैव चचाल देवि ॥ ६॥ एकत्र पुत्री च सुदर्शनश्च युधाजिदन्यत्र बली सकोपः । तन्मध्यगो मंक्षु नृपः सुबाहुर्बद्धाञ्जलिः प्राह नृपान् विनम्रः ॥ ७॥ नृपा वचो मे शृणुतेह बाला नायाति पुत्री मम मण्डपेऽत्र । तत्क्षम्यतां श्वोऽत्र नयाम्यहं तां याताद्य वो विश्रममन्दिराणि ॥ ८॥ गतेषु सर्वेषु सुदर्शनस्तु त्वां संस्मरन् मातृहितानुसारी । सुबाहुना तन्निशि तेन दत्तां वधूं यथाविध्युदुवाह देवि ॥ ९॥ प्रातर्युधाजित्प्रबलो विवाहवार्तां निशम्यात्तरुषा ससैन्यः । सुदर्शनं मातृवधूसमेतं यात्रोन्मुखं भीमरवो रुरोध ॥ १०॥ ततो रणे घोरतरे सुबाहुः क्लीं क्लीमितीशानि समुच्चचार । तत्राविरासीः समराङ्गणे त्वं सिंहाधिरूढा स्वजनार्तिहन्त्री ॥ ११॥ त्वन्नाम गायन् कथयन् गुणांस्ते त्वां पूजयंश्चात्र नयामि कालम् । स्वप्नेऽपि दृष्टा न मया त्वमम्बे कृपां कुरु त्वं मयि ते नमोऽस्तु ॥ १२॥
१७ सप्तदशदशकः - सुदर्शनकोसलप्राप्तिः युधाजितं शत्रुजितं च हत्वा रणाङ्गणस्था नुतिभिः प्रसन्ना । सुबाहुमुख्याननुगृह्य भक्तान् सर्वेषु पश्यत्सु तिरोदधाथ ॥ १॥ पृष्टो नृपान् प्राह सुदर्शनस्तान् दृष्टा भवद्भिः खलु सर्वशक्ता । या निर्गुणा योगिभिरप्यदृश्या दृश्या च भक्तैः सगुणा विनीतैः ॥ २॥ या राजसीदं सृजतीव शक्तिर्या सात्विकी पालयतीव विश्वम् । या तामसी संहरतीव सर्वं सद्वस्तु सैवान्यदसत्समस्तम् ॥ ३॥ भक्तार्तिहन्त्री करुणामयी सा भक्तद्रुहां भीतिकरी प्रकामम् । वसन् भरद्वाजतपोवनान्ते चिराय मात्रा सह तां भजेऽहम् ॥ ४॥ तामेव भक्त्या भजतेह भुक्तिमुक्तिप्रदामस्तु शुभं सदा वः । श्रुत्वेदमानम्रमुखास्तथेति सम्मन्त्र्य भूपाश्च ततो निवृत्ताः ॥ ५॥ सुदर्शनो मातृवधूसमेतः सुबाहुमापृछ्य रथाधिरूढः । पुरीमयोध्यां प्रविशन् पुरेव सीतापतिस्तोषयति स्म सर्वान् ॥ ६॥ लीलावतीं प्राप्य विमातरं च नत्वा विषण्णां हतपुत्रताताम् । सदुक्तिभिः कर्मगतीः प्रबोध्य स सान्त्वयामास महेशि भक्तः ॥ ७॥ जनेषु पश्यत्सु सुदर्शनोऽत्र त्वां पूजयित्वा गुरुणाऽभिषिक्तः । राज्ये त्वदीयं गृहमाशु कृत्वा पूजाविधानादि च संवृधत्त ॥ ८॥ तस्मिन् नृपे त्वत्सदनानि कृत्वा जनाः प्रतिग्राममपूजयंस्त्वाम् । काश्यां सुबाहुश्च तथाऽकरोत्ते सर्वत्र पेतुः करुणाकटाक्षाः ॥ ९॥ न कर्मणा न प्रजया धनेन न योगसाङ्ख्यादिविचिन्तया च । न च व्रतेनापि सुखानुभूतिर्भक्त्यैव मर्त्यः सुखमेति मातः ॥ १०॥ नाहं सुबाहुश्च सुदर्शनश्च न मे भरद्वाजमुनिः शरण्यः । गुरुः सुहृद्बन्धुरपि त्वमेव महेश्वरि त्वां सततं नमामि ॥ ११॥
१८ अष्टादशदशकः - रामकथा सूर्यान्वये दाशरथी रमेशो रामाभिधोऽभूद्भरतोऽथ जातः । ज्येष्टानुवर्त्ती खलु लक्ष्मणश्च शत्रुघ्ननामाऽपि जगद्विधात्रि ॥ १॥ विमातृवाक्योज्झितराज्यभोगो रामः ससीतः सहलक्ष्मणश्च । चरन् जटावल्कलवानरण्ये गोदावरीतीरमवाप देवि ॥ २॥ तं वञ्चयन् रावण एत्य मायी जहार सीतां यतिरूपधारी । रामस्य पत्नीविरहातुरस्य श्रुत्वा विलापं वनमप्यरोदीत् ॥ ३॥ श्रीनारदोऽभ्येत्य जगाद रामं किं रोदिषि प्राकृतमर्त्यतुल्यः । त्वं रावणं हन्तुमिहावतीर्णो हरिः कथं विस्मरसीदमार्य ॥ ४॥ कृते युगे वेदवतीति कन्या हरिं श्रुतिज्ञा पतिमाप्तुमैच्छत् । सा पुष्करद्वीपगता तदर्थमेकाकिनी तीव्रतपश्चकार ॥ ५॥ श्रुता तयाऽभूदशरीरिवाक् ते हरिः पतिर्भाविनि जन्मनि स्यात् । निशम्य तद्धृष्टमनास्तथैव कृत्वा तपस्तत्र निनाय कालम् ॥ ६॥ तां रावणः कामशरार्द्दितः संश्चकर्ष सा च स्तवनेन देवीम् । प्रसाद्य कोपारुणलोचनाभ्यां निरीक्ष्य तं निश्चलमाततान ॥ ७॥ शशाप तं च त्वमरे मदर्थे सबान्धवो राक्षस नंक्ष्यसीति । स्वं कौणपस्पृष्टमशुद्धदेहं योगेन सद्यो विजहौ सती सा ॥ ८॥ जाता पुनः सा मिथिलेशकन्या काले हरिं त्वां पतिमाप दैवात् । स हन्यतां सत्वरमाशरेन्द्रस्तन्नाशकालस्तु समागतश्च ॥ ९॥ तदर्थमाराधय लोकनाथां नवाहयज्ञेन कृतोपवासः । प्रसाद्य तामेव सुरा नराश्च कामान् लभन्ते शुभमेव ते स्यात् ॥ १०॥ इत्यूचिवांसं मुनिमेव राम आचार्यमाकल्प्य सलक्ष्मणस्त्वाम् । सम्पूज्य सुस्मेरमुखीं व्रतान्ते सिंहाधिरूढां च पुरो ददर्श ॥ ११॥ भक्त्या नतं तं द्रुतमात्थ राम हरिस्त्वमंशेन मदाज्ञयैव । जातो नरत्वेन दशास्यहत्यै ददामि तच्छक्तिमहं तवेह ॥ १२॥ श्रुत्वा तवोक्तिं स हनूमदाद्यैः साकं कपीन्द्रैः कृतसेतुबन्धः । लङ्कां प्रविष्टो हतरावणाद्यः पुरीमयोध्यामगमत्ससीतः ॥ १३॥ हा देवि भक्तिर्न हि मे गुरुश्च न चैव वस्तुग्रहणे पटुत्वम् । सत्सङ्गतिश्चापि न ते पतन्तु कृपाकटाक्षा मयि ते नमोऽस्तु ॥ १४॥
१९ एकोनविंशदशकः - भूम्याः दुःखम् १ पुरा धरा दुर्जनभारदीना समं सुरभ्या विबुधैश्च देवि । विधिं समेत्य स्वदशामुवाच स चानयत्क्षीरपयोनिधिं तान् ॥ १॥ स्तुतो हरिः पद्मभवेन सर्वं ज्ञात्वाऽखिलान् साञ्जलिबद्धमाह । ब्रह्मन् सुरा नैव वयं स्वतन्त्रा दैवं बलीयः किमहं करोमि ॥ २॥ दैवेन नीतः खलु मत्स्यकूर्मकोलादिजन्मान्यवशोऽहमाप्तः । नृसिंहभावादतिभीकरत्वं हयाननत्वात्परिहास्यतां च ॥ ३॥ जातः पुनर्दाशरथिश्च दुःखाद्दुःखं गतोऽहं विपिनान्तचारी । राज्यं च नष्टं दयिता हृता मे पिता मृतो हा प्लवगाः सहायाः ॥ ४॥ कृत्वा रणं भीममरिं निहत्य पत्नीं च राज्यं च पुनर्गृहीत्वा । दुष्टापवादेन पतिव्रतां तां विहाय हा दुर्यशसाऽभिषिक्तः ॥ ५॥ यदि स्वतन्त्रोऽस्मि ममैवमार्तिर्न स्याद्वयं कर्मकलापबद्धाः । सदाऽपि मायवशगास्ततोऽत्र मायाधिनाथां शरणं व्रजामः ॥ ६॥ इतीरितैर्भक्तिविनम्रशीर्षैर्निमीलिताक्षैर्विबुधैः स्मृता त्वम् । प्रभातसन्ध्येव जपासुमाङ्गी तमोनिहन्त्री च पुरः स्थिताऽऽत्थ ॥ ७॥ जाने दशां वो वसुदेवपुत्रो भूत्वा हरिर्दुष्टजनान् निहन्ता । तदर्थशक्तीरहमस्य दद्यामंशेन जायेय च नन्दपुत्री ॥ ८॥ यूयं च साहाय्यममुष्य कर्तुमंशेन देवा दयितासमेताः । जायेध्वमुर्व्यां जगतोऽस्तु भद्रमेवं विनिर्दिश्य तिरोदधाथ ॥ ९॥ विचित्रदुष्टासुरभावभारनिपीडितं मे हृदयं महेशि । अत्रावतीर्येदमपाकुरु त्वं माता हि मे ते वरदे नमोऽस्तु ॥ १०॥
२० विंशदशकः - देवकीपुत्रवधं अथोरुपुण्ये मथुरापुरे तु विभूषिते मौक्तिकमालिकाभिः । श्रीदेवकीशौरिविवाहरङ्गे सर्वैः श्रुतं व्योमवचः स्फुटार्थम् ॥ १॥ अवेहि भो देवकनन्दनायाः सुतोऽष्टमः कंस तवान्तकः स्यात् । श्रुत्वेति तां हन्तुमसिं दधानः कंसो निरुद्धो वसुदेवमुख्यैः ॥ २॥ अथाह शौरिः शृणु कंस पुत्रान् ददामि तेऽस्याः शपथं करोमि । एतद्वचो मे व्यभिचर्यते चेन्मत्पूर्वजाता नरके पतन्तु ॥ ३॥ श्रद्धाय शौरेर्वचनं प्रशान्तस्तां देवकीं भोजपतिर्मुमोच । सर्वे च तुष्टा यदवो नगर्यां तौ दम्पती चोषतुरात्तमोदम् ॥ ४॥ काले सती पुत्रमसूत तातः कंसाय निश्शङ्कमदात्सुतं स्वम् । हन्ता न मेऽयं शिशुरित्युदीर्य तं प्रत्यदाद्भोजपतिश्च तस्मै ॥ ५॥ अथाशु भूभारविनाशनाख्यत्वन्नाटकप्रेक्षणकौतुकेन । श्रीनारदः सर्वविदेत्य कंसमदृश्यहासं सकलं जगाद ॥ ६॥ त्वं भूप दैत्यः खलु कालनेमिर्जगत्प्रसिद्धो हरिणा हतश्च । ततोऽत्र जातोऽसि सुरा हरिश्च त्वां हन्तुमिच्छन्त्यधुनाऽपि शत्रुम् ॥ ७॥ देवास्तदर्थं नररूपिणोऽत्र व्रजे च जाता वसुदेवमुख्याः । नन्दादयश्च त्रिदशा इमे न विसृम्भणीया न च बान्धवास्ते ॥ ८॥ त्वं व्योमवाणीं स्मर देवकस्य पुत्र्याः सुतेष्वष्टमतां गतः सन् । स त्वां निहन्ता हरिरेव शत्रुरल्पोऽपि नोपेक्ष्य इतीर्यते हि ॥ ९॥ सर्वात्मजानां नृप मेलनेऽस्याः सर्वेऽष्टमाः स्युः प्रथमे च सर्वे । मायाविनं विद्धि हरिं सदेति गते मुनौ क्रोधमियाय कंसः ॥ १०॥ स देवकीसूनुमरं जघान कारागृहे तां पतिमप्यबध्नात् । तयोः सुतान् षट् खलु जातमात्रान् हत्वा कृतं स्वं हितमेव मेने ॥ ११॥ कायेन वाचा मनसेन्द्रियैर्वा मा जातु पापं करवाणि देवि । ममास्तु सत्कर्मरतिः प्रियस्ते भवानि भक्तं कुरु मां नमस्ते ॥ १२॥
२१ एकविंशदशकः - नन्दसुतावतारः सर्वेऽपि जीवा निजकर्मबद्धा एते षडासन्द्रुहिणस्य पौत्राः । तन्निन्दया दैत्यकुले प्रजाताः पुनश्च शप्ता जनकेन दैवात् ॥ १॥ तेनैव ते शौरिसुतत्वमाप्ता हताश्च कंसेन तु जातमात्राः । श्रीनारदेनर्षिवरेण देवि ज्ञातं पुरावृत्तमिदं समस्तम् ॥ २॥ प्राग्दम्पती चादितिकश्यपौ हा स्वकर्मदोषेण पुनश्च जातौ । तौ देवकीशूरसुतौ स्वपुत्रनाशादिभिर्दुःखमवापतुश्च ॥ ३॥ त्वं देवकीसप्तमगर्भतो वै गृह्णन्त्यनन्तांशशिशुं स्वशक्त्या । निवेश्य रोहिण्युदरे धरण्यां मर्त्यो भवेत्यच्युतमादिशश्च ॥ ४॥ प्राक्कर्मदोषात्स सुहृन्मघोनः क्रुद्धेन शप्तो भृगुणा मुरारिः । दयार्हसंसारिदशामवाप्स्यन् हा देवकीगर्भमथाविवेश ॥ ५॥ पूर्णे तु गर्भे हरिरर्द्धरात्रे कारागृहे देवकनन्दनायाः । जज्ञे सुतेष्वष्टमतामवाप्तः शौरिर्विमुक्तो निगडैश्च बन्धात् ॥ ६॥ व्योमोत्थवाक्येन तवैव बालं गृह्णन्नदृष्टः खलु गेहपालैः । निद्रां गतैस्त्वद्विवृतेन शौरिर्द्वारेण यातो बहिरात्ततोषम् ॥ ७॥ त्वं स्वेच्छया गोपकुले यशोदानन्दात्मजा स्वापितजीवजाले । अजायथा भक्तजनार्तिहन्त्री सर्वं नियन्त्री सकलार्थदात्री ॥ ८॥ तव प्रभावाद्वसुदेव एको गच्छन्नभीतो यमुनामयत्नम् । तीर्त्वा नदीं गोकुलमाप तत्र दास्याः करे स्वं तनयं ददौ च ॥ ९॥ तयैव दत्तामथ बालिकां त्वामादाय शीघ्रं स ततो निवृत्तः । कारागृहं प्राप्य ददौ प्रियायै स चाभवत्पूर्ववदेव बद्धः ॥ १०॥ त्वद्रोदनोत्थापितगेहपालैर्निवेदितो भोजपतिः समेत्य । त्वां पादयुग्मग्रहणेन कुर्वन्नधःशिरस्कां निरगाद्गृहान्तात् ॥ ११॥ स पोथयामास शिलातले त्वां सद्यः समुत्पत्य करादमुष्य । दिवि स्थिता शङ्खगदादिहस्ता सुरैः स्तुता स्मेरमुखी त्वमात्थ ॥ १२॥ वधेन किं मे तव कंस जातस्तवान्तकः क्वाप्यविदूरदेशे । मा द्रुह्यतां साधुजनो हितं स्वं विचिन्तयेत्युक्तवती तिरोऽभूः ॥ १३॥ स भोजराट् स्वान्तकनाशनाय सर्वान् शिशून् हन्तुमरं बलिष्ठान् । वत्साघमुख्यानसुरान्नियुज्य कृतार्थमात्मानममन्यतोच्चैः ॥ १४॥ कंसोऽस्ति मे चेतसि कामलोभक्रोधादिमन्त्रिप्रवरैः समेतः । सद्भावहन्ता खलु नन्दपुत्रि तं नाशय त्वच्चरणं नमामि ॥ १५॥
२२ द्वाविंशदशकः - कृष्णकथा श्रियःपतिर्गोमलमूत्रगन्धिन्यस्तप्रभो गोपकुले विषण्णः । कृष्णाभिधो वत्सबकादिभीतो रुदन् सदा देवी निनाय बाल्यम् ॥ १॥ हैयङ्गवीनं मथितं पयश्च गोपीर्विलज्जः सततं ययाचे । स चाम्बया गोरसचौर्यचुञ्चुरुलूखले पाशवरेण बद्धः ॥ २॥ वनेषु भीमातपशुष्कगात्रो गाश्चारयन् कण्टकविद्धपादः । वन्याम्बुपायी फलमूलभक्षी दिने दिने ग्लानिमवाप कृष्णः ॥ ३॥ दैवेन मुक्तः स च गोपदास्यादक्रूरनीतो मथुरां प्रविष्टः । कंसं निहत्यापि हताभिलाषस्तत्रोग्रसेनस्य बभूव दासः ॥ ४॥ दृष्ट्वा जरासन्धचमूं भयेन स बन्धुमित्रो मथुरां विहाय । धावन् कथञ्चिद्बहुदुर्गमार्तः स द्वारकाद्वीपपुरं विवेश ॥ ५॥ स रुक्मिणीं जाम्बवतीं च भामां कन्यास्तथा द्व्यष्टसहस्रमन्याः । समुद्वहन् सस्मितनर्मलापः क्रीडामृगोऽभूत्सततं वधूनाम् ॥ ६॥ स दस्युवृत्तिस्त्रिदिवाज्जहार भामानियुक्तः सुरपारिजातम् । सत्या च तं गोवृषवत्सरोषं बद्ध्वा तरौ दुर्वचसाऽभ्यषिञ्चत् ॥ ७॥ श्रीनारदायातिथये तया स दत्तोथ मुक्तो मुनिना च नीतः । ततस्तयाऽस्मै कनकं प्रदाय पुनर्गृहीतस्त्रपयाऽऽप मौनम् ॥ ८॥ सूतीगृहाद्भीष्मकजासुते स प्रद्युम्ननाम्नीश्वरि शम्बरेण । हृते शिशौ निर्मथिताभिमान उच्चै रुदंस्त्वां शरणं प्रपन्नः ॥ ९॥ पुत्रार्थिनीं जाम्बवतीमपुत्रां स तोषयिष्यन्नुपमन्युशिष्यः । मुण्डी च दण्डी च शिवस्य शैले मन्त्रं जपन् घोरतपश्चकार ॥ १०॥ वरेण भर्गस्य दशात्मजान् सा प्रासूत सर्वा दयिताश्च शौरेः । तथैव लब्ध्वा स सुतायुतानि सुखं न लेभे निजकर्मदोषात् ॥ ११॥ शापादृषीणां धृतराष्ट्रपत्न्याश्चान्योन्यवैरेण कृताहवेषु । सर्वे हता हन्त कुलं यदूनां महत्प्रदग्धं वनमग्निनेव ॥ १२॥ व्याधेषुविद्धो मृतिमाप कृष्णः कुशस्थली चाब्धिजलाप्लुताऽभूत् । हा जह्रिरे दस्युभिरेनसाऽष्टावक्रस्य शापेन यदुस्त्रियश्च ॥ १३॥ एवं हरिः कर्मफलान्यभुङ्क्त न कोऽपि मुच्येत च कर्मबन्धात् । दुःखं त्वभक्तस्य सुदुस्सहं स्याद्भक्तस्य ते तत्सुसहं भवेच्च ॥ १४॥ जानास्यहं ते पदयोरभक्तो भक्तो नु किं वेति न चैव जाने । त्वं सर्वशक्ता कुरु मां सुशक्तं सर्वत्र भूयोऽपि शिवे नमस्ते ॥ १५॥
२३ त्रयोविंशदशकः - महालक्ष्म्यवतारः रम्भस्य पुत्रो महिषासुरः प्राक् तीव्रैस्तपोभिर्द्रुहिणात्प्रसन्नात् । अवध्यतां पुम्भिरवाप्य धृष्टो न मे मृतिः स्यादिति च व्यचिन्तीत् ॥ १॥ स चिक्षुराद्यैरसुरैः समेतः शक्रादिदेवान्युधि पद्मजं च । रुद्रं च विष्णुं च विजित्य नाके वसन् बलाद्यज्ञहविर्जहार ॥ २॥ चिरं भृशं दैत्यनिपीडितास्ते देवाः समं पद्मजशङ्कराभ्याम् । हरिं समेत्यासुरदौष्ट्यमूचूस्त्वां संस्मरन् देवि मुरारिराह ॥ ३॥ सुरा वयं तेन रणेऽतिघोरे पराजिता दैत्यवरो बलिष्ठः । मत्तो भृशं पुम्भिरवध्यभावान्न नः स्त्रियो युद्धविचक्षणाश्च ॥ ४॥ तेजोभिरेका भवतीह नश्चेत्सैवासुरान् भीमबलान्निहन्ता । यथा भवत्येतदरं तथैव संप्रार्थयामोऽवतु नो महेशी ॥ ५॥ एवं हरौ वक्तरि पद्मजातात्तेजोऽभवद्राजसरक्तवर्णम् । शिवादभूत्तामसरौप्यवर्णं नीलप्रभं सात्त्विकमच्युताच्च ॥ ६॥ तेजांस्यभूवन् विविधानि शक्रमुखामरेभ्यो मिषतोऽखिलस्य । सम्योगतस्तान्यचिरेण मातः स्त्रीरूपमष्टादशहस्तमापुः ॥ ७॥ तत्तु त्वमासीः शुभदे महालक्ष्म्याख्या जगन्मोहनमोहनाङ्गी । त्वं ह्येव भक्ताभयदानदक्षा भक्तद्रुहां भीतिकरी च देवि ॥ ८॥ सद्यस्त्वमुच्चैश्चकृषेऽट्टहासं सुराः प्रहृष्टा वसुधा चकम्पे । चुक्षोभ सिन्धुर्गिरयो विचेलुर्दैत्यश्च मत्तो महिषश्चुकोप ॥ ९॥ त्वां सुन्दरीं चारमुखात् स दैत्यो विज्ञाय कामी विससर्ज दूतम् । स चेश्वरीं दैत्यगुणान् प्रवक्ता त्वां नेतुकामो विफलोद्यमोऽभूत् ॥ १०॥ प्रलोभनैस्त्वामथ देवशक्तिं ज्ञात्वाऽपि वाक्यैरनुनेतुकामः । एकैकशः प्रेषयतिस्म दूतान् त्वां कामिनीं कर्तुमिमे न शेकुः ॥ ११॥ अवेहि मां पुच्छविषाणहीनं भारं वहन्तं महिषं द्विपादम् । हिंसन्ति मां स्वर्थिजनास्त्वमेव रक्षाकरी मे शुभदे नमस्ते ॥ १२॥
२४ चतुर्विंशदशकः - महिषासुरवधम् - देवीस्तुतिः देवि त्वया बाष्कलदुर्मुखादिदैत्येषु वीरेषु रणे हतेषु । सद्वाक्यतस्त्वामनुनेतुकामो मोघप्रयत्नो महिषश्चुकोप ॥ १॥ त्वां कामरूपः खुरपुच्छशृङ्गैर्नानास्त्रशस्त्रैश्च भृशं प्रहर्ता । गर्जन् विनिन्दन् प्रहसन् धरित्रीं प्रकम्पयंश्चासुरराड्युयोध ॥ २॥ जपारुणाक्षी मधुपानतुष्टा त्वं चारिणाऽरेर्महिषस्य कण्ठम् । छित्वा शिरो भूमितले निपात्य रणाङ्गणस्था विबुधैः स्तुताऽभूः ॥ ३॥ मातस्त्वया नो विपदो निरस्ता अशक्यमन्यैरिदमद्भुताङ्गि । ब्रह्माण्डसर्गस्थितिनाशकर्त्रीं कस्त्वां जयेत् केन कथं कुतो वा ॥ ४॥ विद्यास्वरूपाऽसि महेशि यस्मिन् स वै परेषां सुखदः कविश्च । त्वं वर्तसे यत्र सदाऽप्यविद्यास्वरूपिणी स त्वधमः पशुः स्यात् ॥ ५॥ कृपाकटाक्षास्तव देवि यस्मिन् पतन्ति तस्यात्मजवित्तदाराः । यच्छन्ति सौख्यं न पतन्ति यस्मिन् त एव दुःखं ददतेऽस्य नूनम् ॥ ६॥ पश्याम नित्यं तव रूपमेतत्कथाश्च नामानि च कीर्तयाम । नमाम मूर्ध्ना पदपङ्कजे ते स्मराम कारुण्यमहाप्रवाहम् ॥ ७॥ त्वमेव माताऽसि दिवौकसां नो नान्या द्वितीया हितदानदक्षा । अन्ये सुता वा तव सन्ति नो वा न रक्षिता नस्त्वदृते महेशि ॥ ८॥ क्व त्वं वयं क्वेति विचिन्त्य सर्वं क्षमस्व नो देव्यपराधजालम् । यदा यदा नो विपदो भवन्ति तदा तदा पालय पालयास्मान् ॥ ९॥ इति स्तुवत्सु त्रिदशेषु सद्यः कृपाश्रुनेत्रैव तिरोदधाथ । ततो जगद्देवि विभूतिपूर्णं बभूव धर्मिष्ठसमस्तजीवम् ॥ १०॥ त्वां संस्मरेयं न च वा स्मरेयं विपत्सु मा विस्मर मां विमूढम् । रुदन् बिडालार्भकवन्न किञ्चिच्छक्नोमि कर्तुं शुभदे नमस्ते ॥ ११॥
२५ पञ्चविंशदशकः - महासरस्वत्यवतारः सुम्भादिवधम् अथामराः शत्रुविनाशतृप्ताश्चिराय भक्त्या भवतीं भजन्तः । मन्दीभवद्भक्तिहृदः क्रमेण पुनश्च दैत्याभिभवं समीयुः ॥ १॥ सुम्भो निसुम्भश्च सहोदरौ स्वैः प्रसादितात्पद्मभवात्तपोभिः । स्त्रीमात्रवध्यत्वमवाप्य देवान् जित्वा रणेऽध्यूषतुरैन्द्रलोकम् ॥ २॥ भ्रष्टश्रियस्ते तु गुरूपदेशाद्धिमाद्रिमाप्ता नुनुवुः सुरास्त्वाम् । तेषां पुरश्चाद्रिसुताऽऽविरासीत्स्नातुं गता सा किल देवनद्याम् ॥ ३॥ तद्देहकोशात्त्वमजा प्रजाता यतः प्रसिद्धा खलु कौशिकीति । महासरस्वत्यभिधां दधाना त्वं राजसीशक्तिरितीर्यसे च ॥ ४॥ हिमाद्रिशृङ्गेषु मनोहराङ्गी सिंहाधिरूढा मृदुगानलोला । श्रोत्राणि नेत्राण्यपि देहभाजां चकर्षिथाष्टादशबाहुयुक्ता ॥ ५॥ विज्ञाय सुम्भः किल दूतवाक्यात्त्वां मोहनाङ्गीं दयितां चिकीर्षुः । त्वदन्तिके प्रेषयतिस्म दूतानेकैकशः स्निग्धवचोविलासान् ॥ ६॥ त्वां प्राप्य ते कालिकया समेतामेकैकशः सुम्भगुणान् प्रभाष्य । पत्नी भवास्येति कृतोपदेशास्तत्प्रातिकुल्यात्कुपिता बभूवुः ॥ ७॥ सुम्भाज्ञया धूम्रविलोचनाख्यो रणोद्यतः कालिकया हतोऽभूत् । चण्डं च मुण्डं च निहत्य काली त्वत्फालजा तद्रुधिरं पपौ च ॥ ८॥ चामुण्डिकेति प्रथिता ततः सा त्वां रक्तबीजोऽध युयुत्सुराप । यद्रक्तबिन्दूद्भवरक्तबीजसङ्घैर्जगद्व्याप्तमभूदशेषम् ॥ ९॥ ब्रह्मेन्द्रपाश्यादिकदेवशक्तिकोट्यो रणं चक्रुररातिसङ्घैः । तत्सङ्गरं वर्णयितुं न शक्तः सहस्रजिह्वोऽपि पुनः किमन्ये ॥ १०॥ रणेऽतिघोरे विवृतानना सा काली स्वजिह्वां खलु चालयन्ती । त्वच्छस्त्रकृत्ताखिलरक्तबीजरक्तं पपौ गर्जनभीतदैत्या ॥ ११॥ त्वया निसुम्भस्य शीरो निकृत्तं सुम्भस्य तत्कालिकयाऽपि चान्ते । अन्येऽसुरास्त्वां शिरसा प्रणम्य पातालमापुस्त्वदनुग्रहेण ॥ १२॥ हतेषु देवा रिपुषु प्रणम्य त्वां तुष्टुवुः स्वर्गमगुः पुनश्च । ते पूर्ववद्यज्ञहविर्हरन्तो भूमाववर्षन् जहृषुश्च मर्त्याः ॥ १३॥ मातर्मदीये हृदी सन्ति दम्भदर्पाभिमानाद्यसुरा बलिष्ठाः । निहत्य तान् देह्यभयं सुखं च त्वमेव माता मम ते नमोऽस्तु ॥ १४॥
२६ षड्विंशदशकः - सुरथकथा राजा पुराऽऽसित् सुरथाभिधानः स्वारोचिषे चैत्रकुलावतंसः । मन्वन्तरे सत्यरतो वदान्यः सम्यक्प्रजापालनमात्रनिष्ठः ॥ १॥ वीरोऽपि दैवात्समरे स कोलाविध्वंसिभिः शत्रुबलैर्जितः सन् । त्यक्त्वा स्वराज्यं वनमेत्य शान्तं सुमेधसं प्राप मुनिं शरण्यम् ॥ २॥ तपोवनं निर्भयमावसन्द्रुमच्छायाश्रितः शीतलवातपृक्तः । स एकदा राज्यगृहादिचिन्तापर्याकुलः कञ्चिदपश्यदार्तम् ॥ ३॥ राजा तमूचे सुरथोऽस्मि नाम्ना जितोऽरिभिर्भ्रष्टविभूतिजालः । गृहादिचिन्तामथितान्तरङ्गः कुतोऽसि कस्त्वं वद मां समस्तम् ॥ ४॥ श्रुत्वेति स प्रत्यवदत्समाधिनामाऽस्मि वैश्यो हृतसर्ववित्तः । पत्नीसुताद्यैः स्वगृहान्निरस्तस्तथाऽपि सोत्कण्ठमिमान् स्मरामि ॥ ५॥ अनेन साकं सुरथो विनीतो मुनिं प्रणम्याह समधिनामा । गृहान्निरस्तोऽपि गृहादिचिन्तां करोति सोत्कण्ठमयं महर्षे ॥ ६॥ ब्रह्मैव सत्यं परमद्वितीयं मिथ्या जगत्सर्वमिदं च जाने । तथाऽपि मां बाधत एव राज्यगृहादिचिन्ता वद तस्य हेतुम् ॥ ७॥ ऊचे तपस्वी शृणु भूप माया सर्वस्य हेतुः सगुणाऽगुणा सा । बन्धं च मोक्षं च करोति सैव सर्वेऽपि मायावशगा भवन्ति ॥ ८॥ ज्ञानं हरेरस्ति विधेश्च किन्तु क्वचित्कदाचिन्मिलितौ मिथस्तौ । विमोहितौ कस्त्वमरे नु कस्त्वमेवं विवादं किल चक्रतुः स्म ॥ ९॥ ज्ञानं द्विधैकं त्वपरोक्षमन्यत्परोक्षमप्येतदवेहि राजन् । आद्यं महेश्याः कृपया विरक्त्या भक्त्या महत्सङ्गमतश्च लभ्यम् ॥ १०॥ य एतदाप्नोति स सर्वमुक्तो द्वेषश्च रागश्च न तस्य भूप । ज्ञानं द्वितीयं खलु शास्त्रवाक्यविचारतो बुद्धिमतैव लभ्यम् ॥ ११॥ शमादिहीनो न च शास्त्रवाक्यविचारमात्रेण विमुक्तिमेति । देव्याः कटाक्षैर्लभते च भुक्तिं मुक्तिं च सा केवलभक्तिगम्या ॥ १२॥ सम्पूज्य तां साकमनेन दुर्गां कृत्वा प्रसन्नां स्वहितं लभस्व । श्रुत्वा मुनेर्वाक्यमुभौ महेशि त्वां पूजयामासतुरिद्धभक्त्या ॥ १३॥ वर्षद्वयान्ते भवतीं समीक्ष्य स्वप्ने सतोषावपि तावतृप्तौ । दिदृक्षया जाग्रति चापि भक्तावाचेरतुर्द्वौ कठिनव्रतानि ॥ १४॥ वर्षत्रयान्ते सुमुखीं प्रसन्नां त्वां वीक्ष्य तौ तुष्टुवतुः प्रहृष्टौ । दैवात्समाधिस्त्वदनुग्रहेण लब्ध्वा परं ज्ञानमवाप मुक्तिम् ॥ १५॥ भोगाविरक्तः सुरथस्तु शीघ्रं निष्कण्टकं राज्यमवाप भूयः । मन्वन्तरे भूपतिरष्टमे स सावर्णिनामा च मनुर्बभूव ॥ १६॥ त्वं भुक्तिकामाय ददासि भोगं मुमुक्षवे संसृतिमोचनं च । किञ्चिन्न पृच्छामि परं विमूढो नमामि ते पादसरोजयुग्मम् ॥ १७॥
२७ सप्तविंशदशकः - शताक्ष्यवतारः दैत्यः पुरा कश्चन दुर्गमाख्यः प्रसादितात्पद्मभवात्तपोभिः । अवैदिकं वैदिकमप्यगृह्णान्मन्त्रं समस्तं दिविषज्जयैषी ॥ १॥ वेदे गृहीते दितिजेन विप्राः श्रुतिस्थिरा विस्मृतवेदमन्त्राः । सान्ध्यानि कर्माण्यपि नैव चक्रुः क्षितिस्त्ववेदाध्ययना बभूव ॥ २॥ हृतेषु मन्त्रेष्वखिलेषु पूजायज्ञादि भूमौ न कृतं मनुष्यैः । सुरा अशक्तास्तदलाभखिन्ना दैत्येन युद्धे बलिना जिताश्च ॥ ३॥ त्यक्त्वा दिवं ते गिरिगह्वरेषु निलीय वर्षाणि बहूनि निन्युः । वृष्टेरभावाद्धरणी च शुष्कजलाशया तर्षनिपीडिताऽभूत् ॥ ४॥ सर्वे तृषार्ताश्च हिमाद्रिमेत्य त्वां ध्यानपूजानुतिभिर्भजन्तः । प्रसादयामासुरनेककोटिब्रह्माण्डकर्त्रीमखिलार्तिहन्त्रीम् ॥ ५॥ दृष्टा दयार्द्राक्षिशता त्वमेभिः कृपाश्रुवर्षैर्नवरात्रमुर्व्याम् । जलाशयान्पूर्णजलांश्चकर्थ जनाः शताक्षीत्यभिधां ददुस्ते ॥ ६॥ क्षुत्पीडितानां च चराचराणां सर्वत्र नानाविधमन्नमिष्टम् । स्वादूनि मूलानि फलानि चादाः शाकम्भरीति प्रथिता ततोऽभूः ॥ ७॥ दैत्यस्तु विज्ञाय समस्तमस्त्रशस्त्रैः ससैन्यः प्रहरन् वपुस्ते । रणाङ्गणे सायकविद्धगात्रः सशब्दमुर्व्यां तरुवत्पपात ॥ ८॥ स चासुरात्मा खलु वेदमन्त्रान् चिरं पठंस्त्वामभिवीक्षमाणः । गतायुराविश्य परात्मनि त्वय्यवाप मुक्तिं मिषतां सुराणाम् ॥ ९॥ वेदान्हृतानब्जभवानने त्वं पुनश्च निक्षिप्य जगत्सुरक्षाम् । कृत्वा नुता देवगणैर्नरैश्च तुष्टा तिरोऽभूः करुणार्द्रनेत्रा ॥ १०॥ भक्तस्य वै दुर्गतिनाशिनी त्वं सुखप्रदा दुर्गमहन्त्रि मातः । दुर्गेति नाम्ना विदिता च लोके विचित्ररूपास्तव देवि लीलाः ॥ ११॥ कोऽप्यस्ति चित्ते मम दुर्गमोऽयं ज्ञातस्त्वया नैव मया तु देवि । यः सन्ततं द्रुह्यति मे तमाशु संहृत्य मां रक्ष नमो नमस्ते ॥ १२॥
२८ अष्टाविंशदशकः - शक्त्यवमानदोषः हालाहलाख्यानसुरान् पुरा तु निजघ्नतुर्विष्णुहरौ रणान्ते । स्वेनैव वीर्येण जयोऽयमेवं तौ मोहितौ दर्पमवापतुश्च ॥ १॥ ततो विधिस्तौ तरुवद्विचेष्टौ तेजोविहीनावभिवीक्ष्य भीतः । निमीलिताक्षः सकलं विचिन्त्य जानन् सुतान् दक्षमुखानुवाच ॥ २॥ पुत्रा हरिं पश्यत धूर्जटिं च यौ नष्टशक्ती खलु शक्तिकोपात् । ततो जगद्भारयुतोऽस्मि यूयं शक्तिं तपोभिः कुरुत प्रसन्नाम् ॥ ३॥ शक्तेः प्रसादेन हि पूर्ववत्तौ स्यातां यशोवृद्धिरनेन वः स्यात् । शक्तिश्च यत्रावतरत्यमोघमेतत्कुलं याति कृतार्थतां च ॥ ४॥ शक्तेः कटाक्षैर्जगतोऽस्तु भद्रमेवं निशम्याशु हिमाद्रिमेत्य । दक्षादयो ध्यानजपादिभिस्त्वामाराध्य भक्त्याऽब्दशतानि निन्युः ॥ ५॥ दृष्टा पुरस्तैस्तु नुता त्वमात्थ भीत्यालमार्त्या च हितं ददामि । गौरी च लक्ष्मीश्च ममैव शक्ती ते शम्भवे प्राग् हरये च दत्ते ॥ ६॥ तौ शक्तिसाहाय्यत एव दैत्यान्निजघ्नतुः सत्यमिदं तु ताभ्याम् । हा विस्मृतं शक्त्यवमानदोषाद्विनष्टशक्ती खलु तावभूताम् ॥ ७॥ तौ पूर्ववत्स्तामिह शक्तिरेका जायेत दक्षस्य कुले मदीया । क्षीराब्धितोऽन्या च पुरारिराद्यां गृह्णातु पश्चादितरां च विष्णुः ॥ ८॥ सर्वे स्वशक्तिं परिपूज्य मायाबीजादिमन्त्रान्विधिवज्जपन्तः । विराट्स्वरूपं मम रूपमेतत्सच्चित्स्वरूपं च सदा स्मरेत ॥ ९॥ प्रयात तुष्टा जगतां शुभं स्यादेवं त्वमाभाष्य तिरोदधाथ । कारुण्यतस्ते गिरिशो हरिश्च शक्तावभूतां निजकर्म कर्तुम् ॥ १०॥ मातः कटाक्षा मयी ते पतन्तु मा माऽस्तु मे शक्त्यवमानपापम् । सर्वान्स्वधर्मान् करवाण्यभीतो भद्रं मम स्यात्सततं नमस्ते ॥ ११॥
२९ एकोनत्रिंशदशकः - देवीपीठोत्पत्तिः अथैकदाऽदृश्यत दक्षगेहे शाक्तं महस्तच्च बभूव बाला । विज्ञाय ते शक्तिमिमां जगत्सु सर्वेऽपि हृष्टा अभवन् क्षणश्च ॥ १॥ दक्षः स्वगेहापतितां चकार नाम्ना सतीं पोषयति स्म तां सः । स्मरन् वचस्ते गिरिशाय काले प्रदाय तां द्वौ समतोषयच्च ॥ २॥ एवं शिवःशक्तियुतः पुनश्च बभूव गच्छत्सु दिनेषु दक्षः । दैवाच्छिवद्वेषमवाप देहं तत्पोषितं स्वं विजहौ सती च ॥ ३॥ दुःखेन कोपेन च हा सतीति मुहुर्वदन्नुद्धृतदारदेहः । बभ्राम सर्वत्र हरः सुरेषु पश्यत्सु शार्ङ्गी शिवमन्वचारीत् ॥ ४॥ रुद्रांसविन्यस्तसतीशरीरं विष्णुः शरौघैर्बहुशश्चकर्त । एकैकशः पेतुरमुष्य खण्डा भूमौ शिवे साष्टशतं स्थलेषु ॥ ५॥ यतो यतः पेतुरिमे स्थलानि सर्वाणि तानि प्रथितानि लोके । इमानि पूतानि भवानि देवीपीठानि सर्वाघहराणि भान्ति ॥ ६॥ त्वमेकमेवाद्वयमत्र भिन्ननामानि धृत्वा खलु मन्त्रतन्त्रैः । सम्पूज्यमाना शरणागतानां भुक्तिं च मुक्तिं च ददासि मातः ॥ ७॥ निर्विण्णचित्तः स सतीवियोगाच्छिवः स्मरंस्त्वां कुहचिन्निषण्णः । समाधिमग्नोऽभवदेष लोकः शक्तिं विना हा विरसोऽलसश्च ॥ ८॥ चिन्ताकुला मोहधियो विशीर्णतोषा महारोगनिपीडिताश्च । सौभाग्यहीना विहताभिलाषाः सर्वे सदोद्विग्नहृदो बभूवुः ॥ ९॥ शिवोऽपि शक्त्या सहितः करोति सर्वं वियुक्तश्च तया जडः स्यात् । मा माऽस्तु मे शक्तिवियोग एष दासोऽस्मि भूयो वरदे नमस्ते ॥ १०॥
३० त्रिंशदशकः - श्रीपार्वत्यवतारः समाधिमग्ने गिरिशे विरिञ्चात्तपःप्रसन्नात्किल तारकाख्यः । दैत्यो वरं प्राप्य विजित्य देवान् सबान्धवः स्वर्गसुखान्यभुङ्क्त १ ॥ वरैः स भर्गौरसपुत्रमात्रवध्यत्वमाप्तोऽस्य च पत्न्यभावात् । सर्वाधिपत्यं स्वबलं च मोहान्मत्तो भृशं शाश्वतमेव मेने ॥ २॥ नष्टाखिलाः श्रीहरये सुरास्ते निवेदयामासुरशेषदुःखम् । स चाह देवा अनयेन नूनमुपेक्षते नो जननी कृपार्द्रा ॥ ३॥ तद्विस्मृतेर्जातमिदं करेण यष्ट्या च या ताडयति स्वपुत्रम् । तामेव बालः स निजेष्टदात्रीं सास्रं रुदन्मातरमभ्युपैति ॥ ४॥ माता हि नः शक्तिरिमां प्रसन्नां कुर्याम भक्त्या तपसा च शीघ्रम् । सर्वापदः सैव हरिष्यतीति श्रुत्वामरास्त्वां नुनुवुर्महेशि ॥ ५॥ निशम्य तेषां श्रुतिवाक्यगर्भस्तुतिं प्रसन्ना विबुधांस्त्वमात्थ- । अलं विषादेन सुराः समस्तं जाने हरिष्यामि भयं द्रुतं वः ॥ ६॥ हिमाद्रिपुत्री विबुधास्तदर्थं जायेत गौरी मम शक्तिरेका । सा च प्रदेया वृषभध्वजाय तयोः सुतस्तं दितिजं च हन्यात् ॥ ७॥ इत्थं निशम्यास्तभयेषु देवेष्वभ्यर्थिता देवि हिमाचलेन । त्वं वर्णयन्ती निजतत्त्वमेभ्यः प्रदर्शयामासिथ विश्वरूपम् ॥ ८॥ सहस्रशीर्षं च सहस्रवक्त्रं सहस्रकर्णं च सहस्रनेत्रम् । सहस्रहस्तं च सहस्रपादमनेकविद्युत्प्रभमुज्ज्वलं च ॥ ९॥ दृष्ट्वेदमीश्वर्यखिलैर्भियोक्ता त्वं चोपसंहृत्य विराट्स्वरूपम् । कृपावती स्मेरमुखी पुनश्च निवृत्तिमार्गं गिरये न्यगादीः ॥ १०॥ उक्त्वाऽखिलं संसृतिमुक्तिमार्गं सुरेषु पश्यत्सु तिरोदधाथ । श्रुत्वाऽद्रिमुख्यास्तव गीतमुच्चैर्देवा जपध्यानपरा बभूवुः ॥ ११॥ अथैकदा प्रादुरभूद्धिमाद्रौ शाक्तं महो दक्षगृहे यथा प्राक् । क्रमेण तद्देवि बभूव कन्या सा पार्वतीति प्रथिता जगत्सु ॥ १२॥ हिमाद्रिणैषा च हराय दत्ता तयोः सुतः स्कन्द इति प्रसिद्धः । स तारकाख्यं दितिजं निहत्य ररक्ष लोकानखिलान् महेशि ॥ १३॥ दुर्वाससः शापबलेन शक्रो नष्टाखिलश्रीर्वचनेन विष्णोः । क्षीरोदधिं सासुरदेवसङ्घो ममन्थ तस्मादुदभूच्च लक्ष्मीः ॥ १४॥ या पूजितेन्द्रेण रमा तवैका शक्तिः स्वरैश्वर्यपुनःप्रदानात् । शापान्मुनेर्देवगणान्विमोच्य कटाक्षतस्ते हरिमाप भूयः ॥ १५॥ त्वं सर्वशक्तिर्न जिताऽसि केनाप्यन्यान् जयस्येव सदा शरण्या । मातेव पत्नीव सुतेव वा त्वं विभासि भक्तस्य नमो नमस्ते ॥ १६॥
३१ एकत्रिंशदशकः - भ्रामर्यवतारः कश्चित्पुरा मन्त्रमुदीर्य गायत्रीति प्रसिद्धं दितिजोऽरुणाख्यः । चिराय कृत्वा तप आत्मयोनेः प्रसादितादाप वरानपूर्वान् ॥ १॥ स्त्रीपुम्भिरस्त्रैश्च रणे द्विपादैश्चतुष्पदैश्चाप्युभयात्मकैश्च । अवध्यतां देवपराजयं च लब्ध्वा स दृप्तो दिवमाससाद ॥ २॥ रणे जिता दैत्यभयेन लोकपालैः सह स्वस्वपदानि हित्वा । देवा द्रुताः प्राप्य शिवं रिपूणां संयग्वधोपायमचिन्तयंश्च ॥ ३॥ तदाऽभवत्काप्यशरीरिणी वाग्भजेत देवीं शुभमेव वः स्यात् । दैत्योऽरुणो वर्धयतीह गायत्र्युपासनेनात्मबलं त्वधृष्यम् ॥ ४॥ यद्येष तं मन्त्रजपं जहाति स दुर्बलः साध्यवधोऽपि च स्यात् । एवं निशम्य त्रिदशैः प्रहृष्टैरभ्यर्थितो देवगुरुः प्रतस्थे ॥ ५॥ स प्राप दैत्यं यतिरूपधारी प्रत्युद्गतो मन्त्रजपातिसक्तम् । स्मितार्द्रमूचे कुशली सबन्धुमित्रो भवान् किं जगदेकवीर ॥ ६॥ दैत्यस्य ते मन्त्रजपेन किं यो नूनं बलिष्ठं त्वबलं करोति । येनैव देवा अबला रणेषु त्वया जितास्त्वं स्वहितं कुरुष्व ॥ ७॥ संन्यासिनो मन्त्रजपेन रागद्वेषादि जेतुं सततं यतन्ते । न त्वं यतिर्नापि मुमुक्षुरर्थकामातिसक्तस्य जपेन किं ते ॥ ८॥ एकं हि मन्त्रं समुपास्वहे द्वौ तेनासि मित्रं मम तद्वदामि- । मन्त्रश्च मे मुक्तिद एव तुभ्यं वृद्धिं न दद्यादयमित्यवेहि ॥ ९॥ बृहस्पतावेवमुदीर्य याते सत्यं तदुक्तं दितिजो विचिन्त्य । क्रमाज्जहौ मन्त्रजपं सदा हि मूढः परप्रोक्तविनेयबुद्धिः ॥ १०॥ एवं गुरौ कुर्वति दैत्यभीतैः कृत्वा तपोयोगजपाध्वरादि । जाम्बूनदेश्वर्यमरैः स्तुता त्वं प्रसादिता प्रादुरभूः कृपार्द्रा ॥ ११॥ त्वद्देहजातैर्भ्रमरैरनन्तैर्दैत्यः ससैन्यो विफलास्त्रशस्त्रः । दष्टो हतस्त्वं च नुतिप्रसन्ना पश्यत्सु देवेषु तिरोहिताऽभूः ॥ १२॥ स्वदेहतो वै भ्रमरान् विधात्री त्वं भ्रामरीति प्रथिता जगत्सु । अहो विचित्रास्तव देवि लीलाः नमो नमस्ते भुवनेशि मातः ॥ १३॥
३२ द्वात्रिंशदशकः - यक्षकथा पुरा सुरा वर्षशतं रणेषु निरन्तरेषु त्वदनुग्रहेण । विजित्य दैत्यान् जननीमपि त्वां विस्मृत्य दृप्ता नितरां बभूवुः ॥ १॥ मयैव दैत्या बलवत्तरेण हता न चान्यैरिति शक्रमुख्याः । देवा अभूवन्नतिदर्पवन्तस्त्वं देवि चान्तः कुरुषे स्म हासम् ॥ २॥ तच्चित्तदर्पासुरनाशनाय तेजोमयं यक्षवपुर्दधाना । त्वं नातिदूरे स्वयमाविरासीस्त्वां वासवाद्या ददृशुः सुरौघाः ॥ ३॥ सद्यः किलाशङ्क्यत तैरिदं किं मायाऽऽसुरी वेति ततो मघोना । अग्निर्नियुक्तो भवतीमवाप्तः पृष्टस्त्वया कोऽसि कुतोऽसि चेति ॥ ४॥ स चाह सर्वैर्विदितोऽग्निरस्मि मय्येव तिष्ठत्यखिलं जगच्च । शक्नोमि दग्धुं सकलं हविर्भुङ्मद्वीर्यतो दैत्यगणा जिताश्च ॥ ५॥ इतीरिता शुष्कतृणं त्वमेकं पुरो निधायात्थ दहैतदाशु । एवं ज्वलन्नग्निरिदं च दग्धुं कुर्वन् प्रयत्नं न शशाक मत्तः ॥ ६॥ स नष्टगर्वः सहसा निवृत्तस्ततोऽनिलो वज्रभृता नियुक्तः । त्वां प्राप्तवानग्निवदेव पृष्टो देवि स्वमाहात्म्यवचो बभाषे ॥ ७॥ मां मातरिश्वानमवेहि सर्वे व्यापारवन्तो हि मयैव जीवाः । न प्राणिनः सन्ति मया विना च गृह्णामि सर्वं चलयामि विश्वम् ॥ ८॥ इत्युक्तमाकर्ण्य तृणं तदेव प्रदर्श्य चैतच्चलयेत्यभाणीः । प्रभञ्जनस्तत्स च कर्म कर्तुमशक्त एवास्तमदो निवृत्तः ॥ ९॥ अथातिमानी शतमन्युरन्तरग्निं च वायुं च हसन्नवाप । त्वां यक्षरूपां सहसा तिरोऽभूः सोऽदह्यतान्तः स्वलघुत्वभीत्या ॥ १०॥ अथ श्रुताकाशवचोऽनुसारी ह्रीङ्कारमन्त्रं स चिराय जप्त्वा । पश्यन्नुमां त्वां करुणाश्रुनेत्रां ननाम भक्त्या शिथिलाभिमानः ॥ ११॥ ज्ञानं परं त्वन्मुखतः स लब्ध्वा कृताञ्जलिर्नम्रशिरा निवृत्तः । सर्वामरेभ्यः प्रददौ ततस्ते सर्वं त्वदिच्छावशगं व्यजानन् ॥ १२॥ ततः सुरा दम्भविमुक्तिमापुर्भवन्तु मर्त्याश्च विनम्रशीर्षाः । अन्योन्यसाहाय्यकराश्च सर्वे मा युद्धवार्ता भुवनत्रयेऽस्तु ॥ १३॥ त्वदिच्छया सूर्यशशाङ्कवह्निवाय्वादयो देवि सुराः स्वकानि । कर्माणि कुर्वन्ति न ते स्वतन्त्रास्तस्यै नमस्तेऽस्तु महानुभावे ॥ १४॥
३३ त्रयस्त्रिंशदशकः - गौतमकथा शक्रः पुरा जीवगणस्य कर्मदोषात्समाः पञ्चदश क्षमायाम् । वृष्टिं न चक्रे धरणी च शुष्कवापीतडागादिजलाशयाऽऽसीत् ॥ १॥ सस्यानि शुष्काणि खगान् मृगांश्च भुक्त्वाऽप्यतृप्ताः क्षुधया तृषा च । निपीडिता मर्त्यशवानि चाहो मर्त्या अनिष्टान्यपि भुञ्जते स्म ॥ २॥ क्षुधाऽर्दिताः सर्वजना महाऽऽपद्विमुक्तिकामा मिलिताः कदाचित् । तपोधनं गौतममेत्य भक्त्या पृष्टा मुनिं स्वागमहेतुमूचुः ॥ ३॥ विज्ञाय सर्वं मुनिराट् कृपालुः सम्पूज्य गायत्र्यभिधां शिवे त्वाम् । प्रसाद्य दृष्ट्वा च तवैव हस्ताल्लेभे नवं कामदपात्रमेकम् ॥ ४॥ दुकूलसौवर्णविभूषणान्नवस्त्रादि गावो महिषादयश्च । यद्यज्जनैरीप्सितमाशु तत्तत्तत्पात्रतो देवि समुद्बभूव ॥ ५॥ रोगो न दैन्यं न भयं न चैव जना मिथो मोदकरा बभूवुः । ते गौतमस्योग्रतपःप्रभावमुच्चैर्जगुस्तां करुणार्द्रतां च ॥ ६॥ एवं समा द्वादश तत्र सर्वे निन्युः कदाचिन्मिलितेषु तेषु । श्रीनारदो देवि शशीव गायत्र्याश्चर्यशक्तिं प्रगृणन्नवाप ॥ ७॥ स पूजितस्तत्र निषण्ण उच्चैर्निवेद्य तां गौतमकीर्तिलक्ष्मीम् । सभासु शक्रादिसुरैः प्रगीतां जगाम सन्तो जहृषुः कृतज्ञाः ॥ ८॥ काले धरां वृष्टिसमृद्धसस्यां दृष्ट्वा जना गौतममानमन्तः । आपृच्छ्य ते सज्जनसङ्गपूता मुदा जवात्स्वस्वगृहाणि जग्मुः ॥ ९॥ दुःखानि मे सन्तु यतो मनो मे प्रतप्तसङ्घट्टितहेमशोभि । विशुद्धमस्तु त्वयी बद्धरागो भवानि ते देवि नमोऽस्तु भूयः ॥ १०॥
३४ चतुस्त्रिंशदशकः - गौतमशापः स्वर्वासिभिर्गौतमकीर्त्तिरुच्चैर्गीता सभासु त्रिदशैः सदेति । आकर्ण्य देवर्षिमुखात्कृतघ्ना द्विजा बभूवुः किल सेर्ष्यचित्ताः ॥ १॥ तैर्माययाऽऽसन्नमृतिः कृता गौः सा प्रेषिता गौतमहोमशालाम् । अगान्मुनेर्जुह्वत एव वह्नौ हुङ्कारमात्रेण पपात चोर्व्याम् ॥ २॥ हता हता गौरिह गौतमेनेत्युच्चैर्द्विजाः प्रोच्य मुनिं निनिन्दुः । स चेद्धकोपः प्रलयानलाभस्तान् रक्तनेत्रः प्रशपन्नुवाच ॥ ३॥ व्रतेषु यज्ञेषु निवृत्तिशास्त्रेष्वपि द्विजा वो विमुखत्वमस्तु । निषिद्धकर्माचरणे रताः स्त स्त्रियः प्रजा वोऽपि तथा भवन्तु ॥ ४॥ सत्सङ्गमो माऽस्तु जगज्जनन्याः कथामृते वो न रतिः खलु स्यात् । पाषण्डकापालिकवृत्तिपापैः पीडा भवेद्वो नरकेषु नित्यम् ॥ ५॥ उक्त्वैवमार्यो मुनिरेत्य गायत्र्याख्यां कृपार्द्रां भवतीं ननाम । त्वमात्थ दुग्धं भुजगाय दत्तं दातुः सदाऽनर्थदमेव विद्धि ॥ ६॥ सदेदृशी कर्मगतिर्महर्षे शान्तिं भज स्वं तप एव रक्ष । मा कुप्यतामेवमृषिर्निशम्य महानुतापार्द्रमना बभूव ॥ ७॥ शप्ता द्विजा विस्मृतवेदमन्त्रा लब्ध्वा विवेकं मिलिता मुनिं तम् । प्राप्ताः प्रसीदेति मुहुर्वदन्तो नत्वा त्रपानम्रमुखा अतिष्ठन् ॥ ८॥ कृपार्द्रनेत्रो मुनिराह न स्यान्मृषा वचो मे नरके वसेत । जायेत विष्णुर्भुवी कृष्णनामा वन्देत तं शापविमोचनार्थम् ॥ ९॥ स्वपापमुक्त्यर्थमनन्तशक्तिं देवीं सदा ध्यायत भक्तिपूताः । सर्वत्र भूयाच्छुभमित्युदीर्य गायत्रि दध्यौ भवतीं महर्षिः ॥ १०॥ मुञ्चानि मा वाक्शरमन्यचित्ते कृतघ्नता माऽस्तु ममान्तरङ्गे । निन्दानि मा सज्जनमेष भीतो भवानि पापाद्वरदे नमस्ते ॥ ११॥
३५ पञ्चत्रिंशदशकः - अनुग्रहवैचित्र्यम् भाग्योदये त्रीणि भवन्ति नूनं मनुष्यता सज्जनसङ्गमश्च । त्वदीयमाहात्म्यकथाश्रुतिश्च यतः पुमांस्त्वत्पदभक्तिमेति ॥ १॥ ततः प्रसीदस्यखिलार्थकामान् भक्तस्य यच्छस्यभयं च मातः । क्षमां कृतागस्सु करोषि चार्योरन्योन्यवैरं शमयस्यनीहा ॥ २॥ दुष्कीर्तिभीत्या पृथया कुमार्या त्यक्तं तटिन्यां सुतमर्कलब्धम् । संप्रार्थिता त्वं परिपालयन्ती प्रादर्शयः स्वं करुणाप्रवाहम् ॥ ३॥ सुतान् कुरुक्षेत्ररणे हतान् स्वान् दिदृक्षवे मातृगणाय कृष्णः । संप्रार्थितस्त्वत्करुणाभिषिक्तः प्रदर्श्य सर्वान् समतोषयच्च ॥ ४॥ वणिक् सुशीलः खलु नष्टवित्तो व्रतं चरन् प्राङ्नवरात्रमार्यः । त्वां देवि सम्पूज्य दरिद्रभावान्मुक्तः क्रमाद्वित्तसमृद्धिमाप ॥ ५॥ देवद्रुहो देवि रणे त्वयैव दैत्या हता गर्हितधर्मशास्त्राः । प्रह्लादमुख्यानसुरान् स्वभक्तान् देवांश्च सन्त्यक्तरणानकार्षीः ॥ ६॥ पुरन्दरे पापतिरोहिते तत्स्थानाधिरूढान्नहुषात्स्मरार्तात् । भीता शची त्वां परिपूज्य दृष्ट्वा पतिं क्रमाद्भीतिविमुक्तिमाप ॥ ७॥ शप्तो वसिष्ठेन निमिर्विदेहो भूत्वाऽपि देवि त्वदनुग्रहेण । ज्ञानं परं प्राप निमेः प्रयोगान्निमेषिणो जीवगणा भवन्ति ॥ ८॥ हा भार्गवा लोभविकोपचित्तैः प्रपीडिता हैहयवंशजातैः । हिमाद्रिमाप्ता भवतीं प्रपूज्य प्रसाद्य भीतेः खलु मुक्तिमापुः ॥ ९॥ दस्रौ युवानां च्यवनं पतिं च समानरूपानभिदृश्य मुग्धा । सती सुकन्या तव संस्मृताया भक्त्या प्रसादात्स्वपतिं व्याजानात् ॥ १०॥ सत्यव्रतो विप्रवधूं प्रसह्य हर्ता निरस्तो जनकेन राज्यात् । वसिष्ठशप्तोऽपि तव प्रसादाद्राज्येऽभिषिक्तोऽथ दिवं गतश्च ॥ ११॥ हा हा हरिश्चन्द्रनृपो विपत्सु मग्नः शताक्षीं परदेवतां त्वाम् । संस्मृत्य सद्यः स्वविपन्निवृत्तः कारुण्यतस्ते सुरलोकमाप ॥ १२॥ अगस्त्यपूजां परिगृह्य देवि विभासि विन्ध्याद्रिनिवासिनी त्वम् । द्रक्ष्ये कदा त्वां मम देहि भक्तिं कारुण्यमूर्त्ते सततं नमस्ते ॥ १३॥
३६ षट्त्रिंशदशकः - मूलप्रकृतिमहिमा त्वमेव मूलप्रकृतिस्त्वमात्मा त्वमस्यरूपा बहुरूपिणी च । दुर्गा च राधा कमला च सावित्र्याख्या सरस्वत्यपि च त्वमेव ॥ १॥ दुर्गा जगद्दुर्गतिनाशिनी त्वं श्रीकृष्णलीलारसिकाऽसि राधा । शोभास्वरूपाऽसि गृहादिषु श्रीर्विद्यास्वरूपाऽसि सरस्वती च ॥ २॥ सरस्वती हा गुरुशापनष्टां त्वं याज्ञवल्क्याय ददाथ विद्याम् । त्वामेव वाणीकवचं जपन्तः प्रसाध्य विद्यां बहवोऽधिजग्मुः ॥ ३॥ त्वं देवि सावित्र्यभिधां दधासि प्रसादतस्ते खलु वेदमातुः । लेभे नृपालोऽश्वपतिस्तनूजां नाम्ना च सावित्र्यभवत्किलैषा ॥ ४॥ सा सत्यवन्तं मृतमात्मकान्तमाजीवयन्ती श्वशुरं विधाय । दूरीकृतान्ध्यं तनयानसूत यमाद्गुरोराप च धर्मशास्त्रम् ॥ ५॥ स्कन्दस्य पत्नी खलु बालकाधिष्ठात्रि च षष्ठीति जगत्प्रसिद्धा । त्वं देवसेना धनदाऽधनानामपुत्रिणां पुत्रसुखं ददासि ॥ ६॥ सत्कर्मलब्धे तनये मृते तु प्रियव्रतोऽदूयत भक्तवर्यः । तं जीवयित्वा मृतमस्य दत्वा स्वभक्तवात्सल्यमदर्शयस्त्वम् ॥ ७॥ त्वमेव गङ्गा तुलसी धरा च स्वाहा स्वधा त्वं सुरभिश्च देवि । त्वं दक्षिणा कृष्णमयी च राधा दधासि राधामयकृष्णतां च ॥ ८॥ त्वं ग्रामदेवी नगराधिदेवी वनाधिदेवी गृहदेवता च । सम्पूज्यते भक्तजनैश्च या या सा सा त्वमेवासि महानुभावे ॥ ९॥ यद्यच्छ्रुतं दृष्टमपि स्मृतं च तत्तत्त्वदीयं हि कलांशजालम् । न किञ्चनास्त्येव शिवे त्वदन्यद्भूयोऽपि मूलप्रकृते नमस्ते ॥ १०॥
३७ सप्तत्रिंशदशकः - विष्णुमहत्त्वम् पुरा हरिस्त्वां किल सात्त्विकेन प्रसादयामास मखेन देवि । सुरेषु तं श्रेष्ठतमं चकर्थ स तेन सर्वत्र बभूव पूज्यः ॥ १॥ अधर्मवृद्धिश्च यदा त्रिलोके धर्मक्षयश्चापि तदा भवत्या । धर्मं समुद्धर्तुमधर्ममृद्धं मार्ष्टुं च देव्येष नियुज्यते हि ॥ २॥ स ईड्यते सर्वत एव सर्वैः पत्न्या च भूतैश्च समं गिरीशः । इलावृतेऽपूरुषसन्निधाने सङ्कर्षणाख्यं भजते मुरारिम् ॥ ३॥ तमेव भद्रश्रवसो हयास्यं भद्राश्ववर्षे मुनयः स्तुवन्ति । प्रह्लाद उच्चैर्हरिवर्षवासी विश्वार्तिशान्त्यै नृहरिं च नौति ॥ ४॥ श्रीः केतुमाले खलु कामरूपं तं रम्यके मत्स्यतनुं मनुश्च । हिरण्मये कूर्मशरीरभाजं स्तुवन्ति नारायणमर्यमा च ॥ ५॥ महावराहं कुरुषूत्तरेषु भू राघवं किम्पुरुषे हनूमान् । तं नारदो भारतवर्षवर्ती नरं च नारायणमाश्रयन्ते ॥ ६॥ सत्कर्मभूमिर्भरतस्य राज्यं सन्त्यत्र वैकुण्ठकथैकसक्ताः । तीर्थानि पुण्याश्रमपर्वताश्च जन्मात्र देवाः स्पृहयन्त्यजस्रम् ॥ ७॥ प्रह्लादपौत्रः सुतलाधिवासः सुरक्षितश्चात्मनिवेदनेन । वार्धक्यरोगक्लमभीतिमुक्तो महाबलिर्वामनमेव नौति ॥ ८॥ सहस्रशीर्षः शिरसा दधत् क्ष्मां हली हरेस्तामसमूर्तिरार्यैः । संस्तूयमानः सहनागकन्यः पातालमूले च सलीलमास्ते ॥ ९॥ विचित्ररूपं जगतां हिताय सर्वे स्तुवन्त्यच्युतमिद्धभक्त्या । एनं कुरु त्वं वरदानदक्षं मातः कृपार्द्रे वरदे नमस्ते ॥ १०॥
३८ अष्टात्रिंशदशकः - चित्तशुद्धिप्राधान्यम् अन्तर्मुखो यः स्वशुभेच्छयैव स्वयं विमर्शेन मनोमलानि । दृष्ट्वा शमाद्यैर्धुनुते समूलं स भाग्यवान्देवि तव प्रियश्च ॥ १॥ न वेदशास्त्राध्ययनेन तीर्थसंसेवया दानतपोव्रतैर्वा । शुद्धिं मनो याति तव स्मृतेस्तद्वैशद्यमादर्शवदेति मातः ॥ २॥ शुद्धिर्न यज्ञेन यजन् शशाङ्कः पत्नीं गुरोः प्राप भृशं स्मरार्तः । शतक्रतुर्गौतमधर्मपत्नीमगादहल्यां मदनेषु विद्धः ॥ ३॥ स विघ्नकारी तपसां मुनीनां गतस्पृहं योगिवरं प्रशान्तम् । हा विश्वरूपं पविना जघान न किञ्चनाकार्यमधर्मबुद्धेः ॥ ४॥ मुनिर्वसिष्ठः खलु तीर्थसेवी तपोनिधिर्गाधिसुतश्च कोपात् । उभौ मिथः शेपतुराडिभावं प्राप्तः किलैको बकतां परश्च ॥ ५॥ धनानि पृष्टानि गुरूनदातृन् स्वान् भार्गवान् पुत्रकलत्रभाजः । क्रुद्धाः परं हैहयभूमिपाला न्यपीडयन् कोऽत्र विशुद्धचित्तः ॥ ६॥ कुर्यान्न किं लोभहतो मनुष्यो युधिष्ठिराद्या अपि धर्मनिष्ठाः । पितामहं बन्धुजनान् गुरूंश्च रणे निजघ्नुः खलु राज्यलोभात् ॥ ७॥ कृष्णोपदिष्टो जनमेजयस्तु शुद्धान्तरङ्गः पितरं मखेन । परीक्षितं पापविमुक्तमार्यं विधाय ते प्रापयतिस्म लोकम् ॥ ८॥ सदा सदाचाररतो विविक्ते देशे निषण्णश्चरणाम्बुजे ते । ध्यायन्नजस्रं निजवासना यो निर्मार्ष्टि स त्वन्मयतामुपैति ॥ ९॥ ज्ञानं न भक्तिर्न तपो न योगबुद्धिर्न मे चित्तजयोऽपि मातः । अन्धं तमोऽहं प्रविशामि मृत्योः समुद्धरेमं वरदे नमस्ते ॥ १०॥
३९ एकोनचत्वारिंशदशकः - मणिद्वीपनिवासिनी सुधासमुद्रो जगतां त्रयाणां छत्रीभवन् मञ्जुतरङ्गफेनः । सवालुकाशङ्खविचित्ररत्नः सतारकव्योमसमो विभाति ॥ १॥ तन्मध्यदेशे विमलं मणिद्वीपाख्यां पदं देवि विराजते ते । यदुच्यते संसृतिनाशकारि सर्वोत्तरं पावनपावनं च ॥ २॥ तत्रास्त्ययोधातुमयो मनोज्ञः सालो महासारमयस्ततश्च । एवं च ताम्रादिमयाः किलाष्टादशातिचित्रा वरणा लसन्ति ॥ ३॥ तैरावृतं ते पदमद्वितीयं विभाति चिन्तामणिसद्म देवि । सन्त्यत्र सत्स्तम्भसहस्ररम्यशृङ्गारमुक्त्यादिकमण्डपाश्च ॥ ४॥ ब्रह्माण्डकोटीः सुखमावसन्त उपासकास्ते मनुजाः सुराश्च । दैत्याश्च सिद्धाश्च तथेतरे च यदन्ततो यान्ति पदं तदेतत् ॥ ५॥ त्वं मण्डपस्था बहुशक्तियुक्ता शृणोषि देवीकलगीतकानि । ज्ञानं विमुक्तिं च ददासि लोकरक्षामजस्रं कुरुषे च देवि ॥ ६॥ मञ्चोऽस्ति चिन्तामणिगेहतस्ते ब्रह्मा हरी रुद्र इहेश्वरश्च । खुरा भवन्त्यस्य सदाशिवस्तु विराजते सत्फलकत्वमाप्तः ॥ ७॥ तस्योपरि श्रीभुवनेश्वरि त्वं सर्वेशवामाङ्कतले निषण्णा । चतुर्भुजा भूषणभूषिताङ्गी निर्व्याजकारुण्यवती विभासि ॥ ८॥ प्रतिक्षणं कारयसि त्वमिच्छाज्ञानक्रियाशक्तिसमन्विताऽत्र । त्रिमूर्तिभिः शक्तिसहस्रयुक्ता ब्रह्माण्डसर्गस्थितिसंहृतीश्च ॥ ९॥ सा त्वं हि वाचां मनसोऽप्यगम्या विचित्ररूपाऽसि सदाऽप्यरूपा । पुरः सतां सन्निहिता कृपार्द्रा सदा मणिद्वीपनिवासिनी च ॥ १०॥ मातर्मदन्तःकरणे निषण्णा विद्यामयं मां कुरु बन्धमुक्तम् । बन्धं च मोक्षं च ददास्यसक्ता दासोऽस्मि ते देवि नमो नमस्ते ॥ ११॥
४० चत्वारिंशदशकः - प्रार्थना आद्येति विद्येति च कथ्यते या या चोदयेद्बुद्धिमुपासकस्य । ध्यायामि तामेव सदाऽपि सर्वचैतन्यरूपां भवमोचनीं त्वाम् ॥ १॥ प्रतिष्ठिताऽन्तःकरणेऽस्तु वाङ्मे वदामि सत्यं न वदाम्यसत्यम् । सत्योक्तिरेनं परिपातु मां मे श्रुतं च मा विस्मृतिमेतु मातः ॥ २॥ तेजस्वि मेऽधीतमजस्रमस्तु मा मा परद्वेषमतिश्च देवि । करोमि वीर्याणि समं सुहृद्भिर्विद्या परा साऽवतु मां प्रमादात् ॥ ३॥ त्वं रक्ष मे प्राणशरीरकर्मज्ञानेन्द्रियान्तःकरणानि देवि । भवन्तु धर्मा मयि वैदिकास्ते निराकृतिर्माऽस्तु मिथः कृपार्द्रे ॥ ४॥ यच्छ्रूयते यत्खलु दृश्यते च तदस्तु भद्रं सकलं यजत्रे । त्वां संस्तुवन्नस्तसमस्तरोग आयुः शिवे देवहितं नयानि ॥ ५॥ अविघ्नमायात्विह विश्वतो मे ज्ञानं प्रसन्ना मम बुद्धिरस्तु । नावेव सिन्धुं दुरितं समस्तं त्वत्सेवयैवातितरामि देवि ॥ ६॥ उर्वारुकं बन्धनतो यथैव तथैव मुच्येय च कर्मपाशात् । त्वां त्र्यम्बकां कीर्तिमतीं यजेय सन्मार्गतो मां नय विश्वमातः ॥ ७॥ क्षीणायुषो मृत्युगतान् स्वशक्त्या दीर्घायुषो वीतभयान् करोषि । सङ्गच्छतः संवदतश्च सर्वान् परोपकारैकरतान् कुरुष्व ॥ ८॥ मर्त्यो ह्यहं बालिशबुद्धिरेव धर्मानभिज्ञोऽप्यपराधकृच्च । हा दुर्लभं मे कपिहस्तपुष्पसुमाल्यवच्छीर्णमिदं नृजन्म ॥ ९॥ यथा पथा वारि यथा च गौः स्वं वत्सं तथाऽऽधावतु मां मनस्ते । विश्वानि पापानि विनाश्य मे यद्भद्रं शिवे देहि तदार्तिहन्त्रि ॥ १०॥ बहूक्तिभिः किं विदितस्त्वयाऽहं पुत्रः शिशुस्ते न च वेद्मि किञ्चित् । आगच्छ पश्यानि मुखारविन्दं पदाम्बुजाभ्यां सततं नमस्ते ॥ ११॥
४१ एकचत्वारिंशदशकः - प्रणामम् देवि त्वदावास्यमिदं न किञ्चिद्वस्तु त्वदन्यद्बहुधेव भासि । देवासुरासृक्पनरादिरूपा विश्वात्मिके ते सततं नमोऽस्तु ॥ १॥ न जन्म ते कर्म च देवि लोकक्षेमाय जन्मानि दधासि मातः । करोषि कर्माणि च निस्पृहा त्वं जगद्विधात्र्यै सततं नमस्ते ॥ २॥ तत्त्वत्पदं यद्ध्रुवमारुरुक्षुः पुमान् व्रती निश्चलदेहचित्तः । करोति तीव्राणि तपांसि योगी तस्यै नमस्ते जगदम्बिकायै ॥ ३॥ त्वदाज्ञया वात्यनिलोऽनलश्च ज्वलत्युदेति द्युमणिः शशी च । निजैर्निजैः कर्मभिरेव सर्वे त्वां पूजयन्ते वरदे नमस्ते ॥ ४॥ भक्तिर्न वन्ध्या यत एव देवि रागादिरोगाभिभवाद्विमुक्ताः । मर्त्त्यादयस्त्वत्पदमाप्नुवन्ति तस्यै नमस्ते भुवनेशि मातः ॥ ५॥ सर्वात्मना यो भजते त्वदङ्घ्रिं माया तवामुष्य सुखं ददाति । दुःखं च सा त्वद्विमुखस्य देवि मायाधिनाथे सततं नमस्ते ॥ ६॥ दुःखं न दुःखं न सुखं सुखं च त्वद्विस्मृतिर्दुःखमसह्यभारम् । सुखं सदा त्वत्स्मरणं महेशि लोकाय शं देहि नमो नमस्ते ॥ ७॥ पतन्तु ते देवि कृपाकटाक्षाः सर्वत्र भद्राणि भवन्तु नित्यम् । सर्वोऽपि मृत्योरमृतत्वमेतु नश्यन्त्वभद्राणि शिवे नमस्ते ॥ ८॥ नमो नमस्तेऽखिलशक्तियुक्ते नमो नमस्ते जगतां विधात्रि । नमो नमस्ते करुणार्द्रचित्ते नमो नमस्ते सकलार्तिहन्त्रि ॥ ९॥ दुर्गे महालक्ष्मि नमो नमस्ते भद्रे महावाणि नमो नमस्ते । कल्याणि मातङ्गि रमे भवानि सर्वस्वरूपे सततं नमस्ते ॥ १०॥ यत् किञ्चिदज्ञातवतेह देवीनारायणीयं रचितं मयेदम् । अभद्रनाशाय सतां हिताय तव प्रसादाय च नित्यमस्तु ॥ ११॥ शुभं Composed by Prof. Paleli Narayanan Namboothiri The story of Devi and Narayanan and other aspects of the Bharatheeya wisdom is presented in Devi Narayaneeyam with 41 Dasakams and 480 verses. Encoded by Ganga Raamachandran geetanjaliglobalgurukulam at gmail.com Proofread by Ganga Raamachandran, PSA Easwaran psaeaswaran at gmail.com

% Text title            : devInArAyaNIyam
% File name             : devInArAyaNIyam.itx
% itxtitle              : devInArAyaNIyam
% engtitle              : devInArAyaNIyam
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Author                : Prof. Paleli Narayanan Namboothiri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganga Raamachandran geetanjaliglobalgurukulam at gmail
% Proofread by          : Ganga Raamachandran, Psa Easwaran psaeaswaran at gmail.com 
% Indexextra            : Temple
% Latest update         : April 2, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP