॥ हरब्रह्मकृतदेवीस्तुतिः ॥

ब्रह्मोवाच - इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने । उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥ शिव उवाच - यदि हरिस्तव देवि विभावज- स्तदनु पद्मज एव तवोद्भवः । किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ॥ २॥ त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः । जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ ३॥ न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् । तव कृतास्त्रय एव सदैव ते विरचयन्ति जगत्सचराचरम् ॥ ४॥ अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् । यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवाम्ब कलामृते ॥ ५॥ भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् । विविधवेषविलासकुतूहलै- र्विरमसे रमसेऽम्ब यथारुचि ॥ ६॥ सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाम यदाऽम्बिके । तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम ॥ ७॥ यदि दयार्द्रमना न सदाम्बिके कथमहं विहितश्च तमोगुणः । कमलजश्च रजोगुणसम्भवः सुविहितः किमु सत्त्वगुणो हरिः ॥ ८॥ यदि न ते विषमा मतिरम्बिके कथमिदं बहुधा विहितं जगत् । सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् ॥ ९॥ तव गुणास्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै । हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगतां किल कारणम् ॥ १०॥ परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै । पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि नवानि च ॥ ११॥ सृजसि पासि जगज्जगदम्बिके स्वकलया कियदिच्छसि नाशितुम् । रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म वयं शिवे ॥ १२॥ जननि देहि पदाम्बुजसेवनं युवतिभागवतानपि नः सदा । पुरुषतामधिगम्य पदाम्बुजा- द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ १३॥ न रुचिरस्ति ममाम्ब पदाम्बुजं तव विहाय शिवे भुवनेष्वलम् । निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै ॥ १४॥ सुदति नास्ति मनागपि मे रति- र्युवतिभावमवाप्य तवान्तिके । पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् ॥ १५॥ त्रिभुवनेषु भवत्वियमम्बिके मम सदैव हि कीर्तिरनाविला । युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम् ॥ १६॥ भुवि विहाय तवान्तिकसेवनं क इह वाञ्छति राज्यमकण्टकम् । त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ १७॥ तपसि ये निरता मुनयोऽमला- स्तव विहाय पदाम्बुजपूजनम् । जननि ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः ॥ १८॥ न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा । तव पदाब्जपरागनिषेवणा- द्भवति मुक्तिरजे भवसागरात् ॥ १९॥ कुरु दयां दयसे यदि देवि मां कथय मन्त्रमनाविलमद्भुतम् । समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम् ॥ २०॥ प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवा- ज्जननि तारय तारय तारके ॥ २१॥ इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा । उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ २२॥ तं गृहीत्वा महादेवः परां मुदमवाप ह । प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ २३॥ जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा । बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ २४॥ तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् । अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ २५॥ न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् । स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ २६॥ कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् । धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ २७॥ अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते । याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ २८॥ अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै । तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ २९॥ न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम् ॥ ३०॥ त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे ॥ ३१॥ श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण ॥ ३२॥ विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै ॥ ३३॥ परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम ॥ ३४॥ न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम् ॥ ३५॥ हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ ३६॥ न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ ३७॥ त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ ३८॥ यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् ॥ ३९॥ अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ ४०॥ दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ ४१॥ न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ ४२॥ एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ ४३॥ निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ ४४॥ स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ ४५॥ पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ ४६ ॥ इति श्रीमद्देवीभागवतमहापुराणे तृतीयस्कन्धे पञ्चमोऽध्याये हरब्रह्मकृतं देवीस्तुतिः सम्पूर्णा । Encoded and proofread by Vishwas Bhide, PSA Easwaran

% Text title            : devIstuti by Shiva and Brahma
% File name             : devIstutiharabrahma.itx
% itxtitle              : devIstutiH harabrahmakRitam (devIbhAgavatamahApurANAntargatam)
% engtitle              : devIstuti by Shiva and Brahma
% Category              : devii, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Source                : Devi Bhagavat Mahapurana 3.5
% Indexextra            : (Marathi)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net
% Latest update         : June 14, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP