श्रीदिव्यमङ्गलाध्यानम्

श्रीदिव्यमङ्गलाध्यानम्

(श्रीसर्वमङ्गलमङ्गला श्रीमहाराज्ञी राजराजेश्वरीस्तोत्रध्यानम् ।) ॐ अस्य श्रीमहाराज्ञी श्रीराजराजेश्वरी ध्यानमहामन्त्रस्य आनन्ददक्षिणामूर्तिः ऋषिः । पङ्क्तिः छन्दः । श्रीराजराजेश्वरी परादेवता । एं बीजम् । सौः शक्तिः । क्लीं कीलकम् । मम श्रीमहाराज्ञी राजराजेश्वरी प्रसादसिद्ध्यर्थे जपे विनियोगः । अथ हृदयादिषडङ्गन्यासः ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्रीं कवचाय हुं । ॐ श्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥ अथ करन्यासः । ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्रीं अनामिकाभ्यां नमः । ॐ श्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ध्यानम् - आरक्ताभां त्रिनेत्रां मणिमकुटधरां रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुस्सायकैः विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहपरिविलुठत्तारहारोज्ज्वलाङ्गीं ध्यायेत् कामाङ्गसंस्थामरुणिमवसनां ईश्वरीं ईश्वराणाम् ॥ ॐ मानसपूजनम् अथवा पञ्चोपचारपूजाः । लं पृथिव्यात्मकं गन्धं कल्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्यात्मकं धूपमाघ्रापयामि । रं वह्न्यात्मकं दीपं दर्शयामि । वं अमृतात्मकं नैवेद्यं निवेदयामि । सं सर्वात्मकं ताम्बूलं निवेदयामि । देव्युवाच । देवदेव! महादेव! सच्चिदानन्दविग्रह!। पञ्चकृत्यपरेशान! परमानन्ददायक! १॥ श्रीराजराजराजेशी या श्रीमत्त्रिपुरसुन्दरी । परापरमयी विद्या परमानन्दरूपिणी ॥ २॥ तस्या ध्यानञ्च मन्त्रञ्च पूजां पूजकलक्षणम् । इदानीं श्रोतुमिच्छामी श्रुतानि बहुशः पुरा ॥ ३॥ मन्त्राणि कोटिसङ्ख्यातान्यनेकानि च विस्तरात् । मन्त्राणि दुर्विज्ञेयानि को वा वेत्ति समासतः ॥ ४॥ सर्वमन्त्रेषु यत्सारं सर्वतन्त्रेष्वपि प्रभो । ब्रह्मविष्णुमहेशाद्यैरनिशं यच्च जप्यते ॥ ५॥ यत्पूज्यते सदा सिद्धैस्तद्वदस्व क्रमादिह । अवाच्यमपि यद्वाच्यं यदि ते करुणा मयि । लक्षवारसहस्राणि वारितापि पुनः पुनः ॥ ६॥ श्रीशिव उवाच - स्त्रीस्वभावान्महादेवि! पुनस्त्वं परिपृच्छसि । षोडशाक्षरविद्याया न्यासस्सर्वार्थसाधकः ॥ ७॥ क्षयरोगादिमृत्युघ्नं सर्वसौभाग्यवर्द्धनम् । इतः पूर्वं मया नोक्तं गोप्याद्गोप्यतरं शिवे ॥ ८॥ श्रीराजराजराजेशीध्यानं सर्वोत्तमोत्तमम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ९॥ निगमागमकोटीनां सारात्सारतरं परम् । तव स्नेहात्प्रवक्ष्यामि भोगमोक्षप्रदं नृणाम् ॥ १०॥ यज्ज्ञानाज्जननीगर्भे न पुनर्जायते पुमान् । अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः ॥ ११॥ सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे । रत्नद्वीपजगद्दीपे शतकोटिप्रविस्तरे ॥ १२॥ पञ्चविंशति तत्त्वात्म पञ्चविंशति वप्रकैः । नवरत्नमयैस्तप्तहाटकालङ्कृतैः शुभैः ॥ १३॥ अनेककोटिविततैर्मणिकुट्टिममण्डितैः । जातीचम्पकपुन्नागकेतकीबकुलादिभिः ॥ १४॥ बिल्वैश्च सहकारैश्च हल्लकैश्च कदम्बकैः ॥ १५॥ सर्वर्तुकुसुमैः सर्ववाञ्छितार्थफलप्रदैः । वसन्तमन्मथानेकरक्षितैः पक्षिसङ्कुलैः ॥ १६॥ नदीनदसहस्रैश्च सुधाधिकरसोत्तरैः । स्वर्नदीशतसाहस्रैः कूलोद्यत्कल्पपादपैः ॥ १७॥ स्वर्णसारसहंसालिलसत्सौवर्णपङ्कजैः । अन्यैश्च विविधैः पक्षिलक्षैः पूर्णैः सलक्षणैः ॥ १८॥ शतयोजनमुन्नम्रैर्गोपुराट्टालमण्डपैः । रविकोटिसमप्रख्यैश्शोभितैर्मणितोरणैः ॥ १९॥ त्रिलक्षयोजनायामचिन्तामणिगृहाङ्गणे । नवशक्तिलसद्रत्नपीठे तत्त्वमये शुभे ॥ २०॥ शतयोजनविस्तारे श्रीचक्रान्तस्त्रिकोणके । चतुःपीठान्तरे बिन्दौ चन्द्रसूर्याग्निमण्डले ॥ २१॥ (सूर्याग्निकोटिभे) महामाया यविनका महिते सुबृहत्तरे । (लसदासनषट्कोणे चतुरासनगर्भिते ॥ २२॥) पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमयाम्बुजे ॥ २२॥ var सर्वतत्त्वमये शुभे सषडाननषट्कोणे चतुराननगर्भिते । चतुःपीठान्तषट्त्रिंशत्तत्त्वोद्यथंसतूलिके ॥ २३॥ (तुर्यपीठान्त) सर्वविद्यासने सर्वतेजोमयशुभास्तरे । कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् ॥ २४॥ एककालोदितानेककोटिकोट्यर्कपाटलाम् । जपाकुसुमशङ्काशामजपामजपात्मिकाम् ॥ २५॥ प्रभापाटलितानेककोटिब्रह्माण्डमण्डलाम् । दाडिमीकुसुमाकारां कुङ्कुमारुणविग्रहाम् ॥ २६॥ बालार्ककोटिप्रभां त्र्यक्षां बालेन्दुमकुटोज्ज्वलाम् । अचञ्चलतडित्कोटिप्रभां पिङ्गलवाससम् ॥ २७॥ समावृत्तसुवृत्तोरुजघनस्थलमण्डलाम् । कोटीरकोटिघटितसुधाकरकराप्लुताम् ॥ २८॥ फालभूतिलकीभूतलोचनां कामलोचनाम् । कटाक्षसरणीनिर्यत्करुणापूर्णवीक्षणाम् ॥ २९॥ सूर्येन्दुमण्डलाकारां मणिताटङ्कमण्डिताम् । शुक्राकारसमाकारनासाभरणभासुराम् ॥ ३०॥ दाडिमीबीजसन्दोहसन्देहरत्नावलिम् । वीणारवघृणादायिनिजवाणीगुणोदयाम् ॥ ३१॥ कर्पूरवीटिकागन्धसुगन्धितदिगन्तराम् । मणिदर्पणदर्पघ्नकपोलफलकप्रभाम् ॥ ३२॥ प्रसन्नवदनाम्भोजां समन्दहसितेक्षणाम् । मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धराम् ॥ ३३॥ श्रीतकल्पलतीभूतभुजवल्लीचतुष्टयाम् । रत्नाङ्गुलीयनिवहोज्ज्वलदङ्गुलिपल्लवाम् ॥ ३४॥ तारहारत्सरीभास्वत्स्तनहाटकभूधराम् । कुचभारनमन्मद्ध्यत्रिवलीललितोदराम् ॥ ३५॥ अनर्घरत्नखचितरशनाजघनस्थलाम् । सुवृत्तजङ्घोरुकाण्डां गूढगुल्फां गुडालकाम् ॥ ३६॥ शिञ्जानमणिमञ्जीरमञ्जुपादाब्जमञ्जुलाम् । रत्नग्रैवेयवलयमुकुटाङ्गदकङ्कणाम् ॥ ३७॥ सुनिर्मलावृत्तनाभिरोमराजिविराजिताम् । कम्बुकण्ठीं सुनासाढ्यां बिम्बोष्ठीमुडुपाननाम् ॥ ३८॥ सर्वश‍ृङ्गारवेषाढ्यां सर्वाभरणभासुराम् । चन्दनागरुकस्तूरीमृगनाभिसुगन्धिनीम् ॥ ३९॥ कारणेशशिरोरत्ननिघृष्टचरणाम्बुजाम् । पञ्चप्रेतासनारूढां पञ्चप्रवणवरूपिणीम् ॥ ४०॥ सृष्टिस्थित्यपसंहारतिरोधानानुग्रहोद्यताम् । षोढान्यासमहाभूषां षोडशार्णस्वरूपिणीम् ॥ ४१॥ इच्छाज्ञानक्रियानन्दचित्पञ्चकविलासिनीम् । प्रपञ्चादिजगन्मूर्तिं मन्त्रदैवतमातृकाम् ॥ ४२॥ सप्तकोटिमहामन्त्ररूपिणीं चित्स्वरूपिणीम् । शडध्वसौधश‍ृङ्गारविहाररसपेशलाम् ॥ ४३॥ षड्विधैक्यानुसन्धानपरचिद्धाम्नि संस्थिताम् । षडम्भोरुहचक्रान्तस्फूर्जत्सौदामिनीप्रभाम् ॥ ४४॥ षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरुपशोभिताम् । अणिमाद्यावृतामाद्यामणिमाद्यष्टसिद्धिदाम् ॥ ४५॥ सकृत्स्मरणमात्रेण विरिञ्चादिपदप्रदाम् । कल्याणगुणसम्पन्नां नित्यकल्याणदायिनीम् ॥ ४६॥ सर्वमङ्गलदां देवीं सर्वमङ्गलविग्रहाम् । अनेकजन्मसंसिद्धसुकृताराध्यपादुकाम् ॥ ४७॥ सर्वलोकैकजननीं सर्वलोकैकनायिकाम् । सचामराभ्यां श्रीवाग्भ्यां पार्श्वयोरुपजीविताम् ॥ ४८॥ मन्त्रिणीदण्डिनीनीतिविधानाकर्णनोत्सुकाम् । कलाचीवीटिकाच्छत्रभृङ्गारादर्शपादुकाम् ॥ ४९॥ मणिवीणां शुकं शारीं तालवृन्तं कमण्डलुम् । पानपत्रं स्वर्णवेत्रं पूर्णस्वर्णघटद्वयम् ॥ ५०॥ जयकाहलिकाभेरीशङ्खदुन्दुभिमद्दलाम् । दिव्यानि धूपपात्राणि तथा सौवर्णदीपिकाः ॥ ५१॥ बिभ्रतीभिश्च बालान्नपूर्णताराभिरावृताम् । गायत्र्या चैव सावित्र्या सिद्धलक्ष्म्यादिशक्तिभिः ॥ ५२॥ वाग्वादिन्या नकुल्या च तुरङ्गारूढयाऽऽवृताम् । सम्पत्कर्या च साम्राज्यलक्ष्म्या च कुरुकुल्यया ॥ ५३॥ पद्मवत्या रेणुकया भीमवत्या च दुर्गया । नीलकर्ण्या महाकाल्या भद्रकाल्या च भद्रया ॥ ५४॥ गङ्गाद्याभिस्सरिद्भिश्च मातृभिश्च सुसेविताम् । महाषोडोदिताशेषदेवतागणसेविताम् ॥ ५५॥ गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । पञ्चाशत्पीठमध्यस्थां पञ्चाशद्वर्णरूपिणीम् ॥ ५६॥ नवचक्रात्मिकां देवीं नवचक्राधिदेवताम् । नित्यानन्दमयीं नित्यां नित्यषोडशिकान्विताम् ॥ ५७॥ ओड्याणपीठनिलयां गुरुमण्डलमण्डिताम् । अनेकयोगिनीवृन्दैरणिमाद्यैर्महोज्ज्वलैः ॥ ५८॥ कोटिकोटिप्रभेदैश्च बालार्कद्युतिसन्निभैः । चतुस्समयदेवीभी षड्विधैर्योगिनीगणैः ॥ ५९॥ षड्दर्शनाधिदेवैश्च षडाम्नायाधिदैवतैः । चतुरायतनोद्भासि गणेशार्कहरीश्वरैः ॥ ६०॥ नवावरणदेवीभिर्न्नवधा योगिनीगणैः । सेवितामरुणानेककोटिकोट्यर्कपाटलाम् ॥ ६१॥ अनेककोटिभिश्चैव बालार्कायुतसन्निभैः । ब्रह्माणीकोटिसहितैर्ब्रह्मकोटिभिरावृताम् ॥ ६२॥ नामपारायणोद्युक्तैर्ल्लक्ष्मीनारायणैः स्तुताम् । ज्वलन्मन्युभिरत्युग्रैः शतरुद्रीयसंज्ञितैः ॥ ६३॥ रुद्राणीकोटिसहितै रुद्रकोटिभिरावृताम् । अनेकाघोरशरभैर्बडवानलभैरवैः ॥ ६४॥ दुर्गाभिः कालिकाभिश्च महाकाल्यैश्च संवृताम् । माकालीभिश्च गणपैर्वीरभद्रैश्च वटुकैः क्षेत्रपालकैः ॥ ६५॥ सुकुमारैः कुमारैश्च तथा हरिहरात्मजैः । अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिः ॥ ६६॥ सनकाद्यैश्च योगीन्द्रैः सप्तर्षीणाञ्च कोटिभिः । नारदादिसुरर्षीणां कोटिभिः परिसेविताम् ॥ ६७॥ अप्सरोयक्षगन्धर्वकिन्नराणाञ्च कोटिभिः । कोटिभिर्गुह्यकानाञ्च सविद्याधरकोटिभिः ॥ ६८॥ शङ्खपद्मनिधीनाञ्च कोटिभिः परिसेविताम् । भैरवीभैरवानेककोटिकोटिभिरावृताम् ॥ ६९॥ सुरासुराणां कोटीनां कोटिभिः परिसेविताम् । सर्वमन्त्रमयीं देवीं सच्चिदानन्दरूपिणीम् ॥ ७०॥ इच्छाज्ञानक्रियारूपामिच्छाकलितविग्रहाम् । परादिवैखरीरूपां महामायां परात्पराम् ॥ ७१॥ महालक्ष्मीं महादेवीं महात्रिपुरसुन्दरीम् । जगदाह्लादजननीं जगत्सङ्कल्पविग्रहाम् ॥ ७२॥ जगदुज्जीवनोद्युक्तां जगद्रञ्जनकारिणीम् । राजराजेश्वराङ्कस्थां राजराजेश्वरीं शिवाम् ॥ ७३॥ एवं ध्यायेत्पराशक्तिं हृदि श्रीचक्ररूपके । पूर्वोक्तन्यासशुद्धात्मा सात्माभेदेन भावयेत् ॥ ७४॥ अन्तर्याग्रक्रमेणैव सिद्धदैवसमन्वितः । रक्ताम्बरस्रगालेपो रक्तभूषणभूषितः ॥ ७५॥ लाक्षारुणगृहे स्थित्वा पूजां कुर्यात् समाहितः । आवाहनादिभेदैश्च दशमुद्राः प्रदर्शयेत् ॥ ७६॥ सौभाग्यदण्डिनीमुद्रां रिपुजिह्वाग्रयन्त्रिणीम् । शक्तिसञ्चलनं कुर्यन्मुखवेष्टनमाचरेत् ॥ ७७॥ यथाशक्ति जपेद्विद्वान् श्रीविद्यां सर्वसिद्धिदाम् । शाक्तञ्च तिलकं कुर्यात् शक्तिलक्षणचिह्नितम् ॥ ७८॥ पुनः सौवर्णया चैव गलोर्ध्वं विन्यसेद्बुधः । व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाभिवादयेत् ॥ ७९॥ संहारञ्च ततः सृष्टिं स्थितिन्यासं समाचरेत् । ऋष्यादिकन्यासजालं षडङ्गन्यासमाचरेत् ॥ ८०॥ ब्रह्मरन्ध्रे न्यसेत्पूर्वं मणिबन्धद्वये तथा । ललटेऽनामिकां कृत्वा त्रैलोक्यस्याप्यहं प्रभुः ॥ ८१॥ गुरूपदिष्टमार्गेण प्राणायामं समाचरेत् । क्रमपूजापरो मन्त्री श्रीचक्रार्चनपूर्वकम् ॥ ८२॥ बिन्दुबिन्दुद्वयारूढं हार्दयोनिस्वरूपकम् । महाकामकलारूपमात्मानं भावयेत्सुधीः ॥ ८३॥ सम्पूर्णाञ्चिन्तयेद्विद्वान् ब्रह्मरन्ध्रारुणप्रभाम् । द्रवत्सुताषोडशार्णां सर्वसौभाग्यदां स्मरेत् ॥ ८४॥ षोडशार्णमहामन्त्रं मन्त्रराजोत्तमोत्तमम् । सकृत्स्मरणमात्रेण कोटिजन्माघनाशनम् ॥ ८५॥ महापातककोटीनां मार्जनं स्मृतिमात्रतः । उपवातकदौर्भाग्यशमनं भुक्तिमुक्तिदम् ॥ ८६॥ विषरोगादिदारिद्र्यमृत्युसंहारकारकम् । सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ८७॥ चतुःसमुद्रपर्यन्तभूदानफलदं शिवे!। सहस्रकोटिगोदानफलदं स्मृतिमात्रतः ॥ ८८॥ कोट्यश्वमेधफलदं जरामृत्युनिवारणम् । किं पुनर्बहुनोक्तेन शिवसायुज्यदायकम् ॥ ८९॥ घुटिका पादुका सिद्धिः खेचरत्वादिदायकम् । ब्रह्मविष्णुमहेशाद्यैर्जप्यं तत्पदसिद्धये ॥ ९०॥ तद्रूपाद्देशिकाल्लब्धं षोडशार्णं महामनुम् । सहस्रं प्रजपेद्विद्वान् त्रिशतं शतमेव वा ॥ ९१॥ स जीवन्मुक्त एव स्यात्सर्वसौभाग्यसुन्दरः । चतुःषष्टिकलापूर्णहृदयः सदयोदयः ॥ ९२॥ श्रीगुरोः पादुकां मूर्ध्नि श्रीचक्रं हृदि देवता । श्रीविद्या यस्य जिह्वाग्रे स साक्षात्परमः शिवः ॥ ९३॥ सहस्रारसुधाक्षिप्तषडम्बुरुहमण्डलः । आचन्द्रतारकस्थायि निजवंशयशोज्ज्वलः ॥ ९४॥ श्रीचक्रदेवी श्रीनाथस्वात्मानमैक्यमादिशेत् । त्रैलोक्यमरुणं ध्यात्वा श्रीविद्यां यो जपेत्सुधीः ॥ ९५॥ स योगी कृतकृत्यश्च चराचरगुरुर्भवेत् । सिद्धचारणगन्धर्वयक्षरक्षोगणैः स्तुतः ॥ ९६॥ समस्तभूतप्रेतादिकृत्याकृत्यविभञ्जनः । जङ्गमस्थावरोद्भूतविषविद्रावकोविदः ॥ ९७॥ दिव्यमङ्गलकल्याणगुणरत्नैरलङ्कृतः । मृतसञ्जीवको योगी महाद्भुतचरित्रभूः ॥ ९८॥ विचरत्सकलान् लोकान् निग्रहानुग्रहक्षमः । महालक्ष्मीमयो भूत्वा लक्ष्मीवृन्दैश्च सेवितः ॥ ९९॥ भुञ्जानो विविधान् भोगान् मूर्तिमानिव मन्मथः । चराचरगुरुर्योगी साक्षाच्छिव इवापरः ॥ १००॥ राजराजेश्वरीरूपो राजराजादिवन्दितः । कुलकोटिं समृद्धृत्य देवीसायुज्यमाप्नुयात् ॥ १०१॥ ॥ इत्युमामहेश्वरसंवादे राजराजेश्वरीतन्त्रे मोक्षप्रदे दिव्यमङ्गलाध्यानं सम्पूर्णम् ॥ लं पृथिव्यात्मिकायै श्रीराजराजेश्वर्यै गन्धं कल्पयामि । नमः । हं आकाशात्मिकायै श्रीराजराजेश्वर्यै पुष्पं समर्पयामि । नमः । यं वायव्यात्मिकायै श्रीराजराजेश्वर्यै धूपमाघ्रापयामि । नमः । रं वह्न्यात्मिकायै श्रीराजराजेश्वर्यै दीपं दर्शयामि । नमः । वं अमृतात्मिकायै श्रीराजराजेश्वर्यै नैवेद्यं निवेदयामि । नमः । सं सर्वात्मिकायै श्रीराजराजेश्वर्यै ताम्बूलं निवेदयामि । नमः । The text differ in other prints. The referenced text has 113 verses and titled differently. Encoded by Adwaith Menon adwaithmenon at gmail.com Proofread by Adwaith Menon, PSA Easwaran
% Text title            : Divya Mangala Dhyanam
% File name             : divyamangalAdhyAnam.itx
% itxtitle              : divyamaNgalAdhyAnam athavA shrIsarvamaNgalamaNgalA shrImahArAjnI rAjarAjeshvarIstotradhyAnam
% engtitle              : Divya Mangala Dhyanam
% Category              : devii, dhyAnam, dashamahAvidyA, devI, mangala, shataka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Adwaith Menon adwaithmenon at gmail.com
% Proofread by          : Adwaith Menon, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : October 22, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org