गायत्री रामायण

गायत्री रामायण

(गायत्रीमन्त्र अक्षराणां(वर्णानां) श्रीमद् वाल्मीकिरामायणे प्रदर्शिताः) तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ बालकाण्ड १.०१.००१॥ १॥ स हत्वा राक्षसान्सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा ॥ बालकाण्ड १.०३०.०२४॥ २॥ विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ बालकाण्ड १.०६७.०१२॥ ३॥ तुष्टावास्य तदा वंशं प्रविश्य च विशाम्पतेः । शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ अयोध्याकाण्ड २.०१५.०२०॥ ४॥ वनवासं हि सङ्ख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ अयोध्याकाण्ड २.०४०.०१४॥ ५॥ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥ अयोध्याकाण्ड २.०६७.०३४॥ ६॥ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ॥ अयोध्याकाण्ड २.०९९.०२५॥ ७॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महामते ॥ अरण्यकाण्ड ३.०११.०४३॥ ८॥ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ अरण्यकाण्ड ३.०४३.०१८॥ ९॥ गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव ॥ अरण्यकाण्ड ३.०७२.०१७॥ १०॥ देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव ॥ किष्किन्धाकाण्ड ४.०२२.०२०॥ ११॥ वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ किष्किन्धाकाण्ड ४.०४३.०३३॥ १२॥ स निर्जित्य पुरीं लङ्कां श्रेष्ठां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान् कपिसत्तमः ॥ सुन्दरकाण्ड ५.०४.००१॥ १३॥ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । मम पश्यन्ति ये वीरं रामं राजीवलोचनम् ॥ सुन्दरकाण्ड ५.०२६.०४१॥ १४॥ मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः । उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ सुन्दरकाण्ड ५.०५३.०२६॥ १५॥ हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ ६.०१०.०२७॥ १६॥ धर्मात्मा रक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यमिदं श्रीमान्श्रुवं प्राप्नोत्यकण्टकम् ॥ युद्धकाण्ड ६.०४१.०६८॥ १७॥ यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ युद्धकाण्ड ६.०५९.१३९॥ १८॥ यस्य विक्रममासाद्य राक्षसा निधनं गताः । तं मन्ये राघवं वीरं नारायणमनामयम् ॥ युद्धकाण्ड ६.०७२.०११॥ १९॥ न ते ददृशिरे रामं दहन्तमपिवाहिनीम् । मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥ युद्धकाण्ड ६.०९३.०२६॥ २०॥ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ युद्धकाण्ड ६.११६.०२४॥ २१॥ चलनात्पर्वतस्यैव गणा देवाश्च कम्पिताः । चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ उत्तरकाण्ड ७.०१६.०२६॥ २२॥ दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ उत्तरकाण्ड ७.०३४.०४१॥ २३॥ यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ उत्तरकाण्ड ७.०६६.००१॥ २४॥ इदं रामायणं कृत्स्नं गयत्रीबीजसंयुतम् । त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ इति गायत्रीरामायणं सम्पूर्णम् । The numbers correspond to sarga.adhyAya.shloka. This is referenced from Valmiki Ramayana. There is another one referred to Sankshepa Ramayanam by Vidyaranya in rAmAyaNarahasyam. Encoded and proofread by Sunder Hattangadi
% Text title            : Gayatri Ramayana
% File name             : gAyatrI_raamAyaNa.itx
% itxtitle              : gAyatrI rAmAyaNam
% engtitle              : Gayatri Ramayana
% Category              : devii, gAyatrI, stotra, devI, raama
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Source                : Gayatri Mahavijnana -Pandit
% Indexextra            : (text with meaning, Hindi AWGP)
% Latest update         : February 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org