॥ गायत्र्यथर्वशीर्षम् ॥

श्रीगणेशाय नमः ॥ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः सरस्वती भवति सरस्वत्या वेदा भवन्ति वेदेभ्यो ब्रह्मा भवति ब्रह्मणो लोका भवन्ति तस्माल्लोकाः प्रवर्तन्ते चत्वारो वेदाः साङ्गाः सोपनिषदः सेतिहासास्ते सर्वे गायत्र्याः प्रवर्तन्ते यथाऽग्निर्देवानां ब्राह्मणो मनुष्याणां मेरुः शिखरिणां गङ्गा नदीनां वसन्त ऋतूनां ब्रह्मा प्रजापतीनामेवासौ मुख्यो गायत्र्या गायत्री छन्दो भवति ॥ ३॥ किं भूः किं भुवः किं स्वः किं महः किं जनः किं तपः किं सत्यं किं तत् किं सवितुः किं वरेण्यं किं भर्गः किं देवस्य किं धीमहि किं धियः किं यः किं नः किं प्रचोदयात् ॥ ४॥ भूरिति भूर्लोकः भुव इत्यन्तरिक्षलोकः । स्वरिति स्वर्लोको मह इति महर्लोको जन इति जनो लोकस्तप इति तपोलोकः सत्यमिति सत्यलोकः । भूर्भुवःस्वरोमिति त्रैलोक्यम् ॥ ५॥ तदसौ तेजो यत्तेजसोऽग्निर्देवता सवितुरित्यादित्यस्य वरेण्यमित्यन्नम् । अन्नमेव प्रजापतिर्भर्ग इत्यापः । आपो वै भर्ग एतावत्सर्वा देवता देवस्येन्द्रो वै देवयद्दिवं तदिन्द्रस्तस्मात्सर्वकृत् पुरुषो नाम विष्णुः ॥ ६॥ धीमहि किमध्यात्मं तत्परमं पदमित्यध्यात्मं यो न इति पृथिवी वै यो नः प्रचोदयात् काम इमाँल्लोकान् प्रच्यावयन् यो नृशंस्योऽस्तो- ष्यस्तत्परमो धर्म इत्येषा गायत्री किङ्गोत्रा कत्यक्षरा कतिपदा कतिकुक्षिः कतिशीर्षा च ॥ ७॥ साङ्ख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः सावित्री कशास्त्रयः पादा भवन्ति ॥ ८॥ काऽस्याः कुक्षिः कानि पञ्च शीर्षाणि । ऋग्वेदोऽस्याः प्रथमः पादो भवति यजुर्वेदो द्वितीयः सामवेदस्तृतीयः पूर्वा दिक् प्रथमा कुक्षिर्भवति दक्षिणा द्वितीया पश्चिमा तृतीया उदीची चतुर्था ऊर्ध्वा पञ्चमी अधरा षष्ठी कुक्षिः । व्याकरणमस्याः प्रथमं शीर्षं भवति शिक्षा द्वितीयं कल्पस्तृतीयं निरुक्तः ज्योतिषामयनं पञ्चमम् ॥ ९॥ किं लक्षणं किमु चेष्टितं किमुदाहृतं किमक्षरं दैवत्यम् ॥ १०॥ लक्षणं मीमांसा अथर्ववेदो विचेष्टितम् । छन्दोविधिरित्युदाहृतम् ॥ ११॥ को वर्णः कः स्वरः । श्वेतो वर्णः षट् स्वराणि इमान्यक्षराणि दैवतानि भवन्ति पूर्वा भवति गायत्री मध्यमा सावित्री पश्चिमा सन्ध्या सरस्वती ॥ १२॥ प्रातः सन्ध्या रक्ता रक्तपद्मासनस्था रक्ताम्बरधरा रक्तवर्णा रक्तगन्धानुलेपना चतुर्मुखा अष्टभुजा द्विनेत्रा दण्डाक्षमालाकमण्डलुस्रुक्स्रुवधारिणी सर्वाभरणभूषिता कौमारी ब्राह्मी हंसवाहिनी ऋग्वेदसंहिता ब्रह्मदैवत्या त्रिपदा गायत्री षट्क्रुक्षिः पञ्चशीर्षा अग्निमुखा रुद्रशिवविष्णुहृदया ब्रह्मकवचा साङ्ख्यायनसगोत्रा भूर्लोकव्यापिनी अग्निस्तत्त्वं उदात्तानुदात्तस्वरितस्वरमकार आत्मज्ञाने विनियोगः । इत्येषा गायत्री ॥ १३॥ मध्याह्नसन्ध्या श्वेता श्वेतपद्मासनस्था श्वेताम्बरधरा श्वेतगन्धानुलेपना पञ्चमुखी दशभुजा त्रिनेत्रा शूलाक्षमाला कमण्डलुकपालधारिणी सर्वाभरणभूषिता सावित्री युवती माहेश्वरी वृषभवाहिनी यजुर्वेदसंहिता रुद्रदैवत्या त्रिपदा सावित्री षट्कुक्षिः पञ्चशीर्षा अग्निमुखा रुद्रशिखा ब्रह्मकवचा भारद्वाजसगोत्रा भुवर्लोकव्यापिनी वायुस्तत्त्वं उदात्तानुदात्तस्वरितस्वरमकारः श्वेतवर्ण आत्मज्ञाने विनियोगः । इत्येषा सावित्री ॥ १४॥ सायंसन्ध्या कृष्णा कृष्णपद्मासनस्था कृष्णाम्बरधरा कृष्णवर्णा कृष्णगन्धानुलेपना कृष्णमाल्याम्बरधरा एकमुखी चतुर्भुजा द्विनेत्रा शङ्खचक्रगदापद्मधारिणी सर्वाभरणभूषिता सरस्वती वृद्धा वैष्णवी गरुडवाहिनी सामवेदसंहिता विष्णुदैवत्या त्रिपदा षट्कुक्षिः पञ्चशीर्षा अग्निमुखा विष्णुहृदया रुद्रशिखा ब्रह्मकवचा काश्यपसगोत्रा स्वर्लोकव्यापिनी सूर्यस्तत्त्वमुदात्तानुदात्तस्वरितमकारः कृष्णवर्णो मोक्षज्ञाने विनियोगः । इत्येषा सरस्वती ॥ १५॥ रक्ता गायत्री श्वेता सावित्री कृष्णवर्णा सरस्वती । प्रणवो नित्ययुक्तश्च व्याहृतीषु च सप्तसु ॥ १६॥ सर्वेषामेव पापानां सङ्करे समुपस्थिते । दश शतं समभ्यर्च्य गायत्री पावनी महत् ॥ १७॥ प्रह्रादोऽत्रिर्वसिष्ठश्च शुकः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १८॥ याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः । गौतमो मुद्गलः श्रेष्ठो वेदव्यासश्च लोमशः ॥ १९॥ अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा । दुर्वासास्तपसा श्रेष्ठो नारदः कश्यपस्तथा ॥ २०॥ उक्तात्युक्ता तथा मध्या प्रतिष्ठान्यासु पूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ २१॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शक्वरी सातिपूर्वा यादष्ट्यत्यष्टी तथैव च । धृतिश्चातिधृतिश्चैव प्रकृतिः कृतिराकृतिः ॥ २२॥ विकृतिः सङ्कृतिश्चैव तथातिकृतिरुत्कृतिः । इत्येताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्प्रतम् ॥ २३॥ भूरिति छेन्दो भुव इति छन्दः स्वरिति छन्दो भूर्भुवःस्वरोमिति देवी गायत्री इत्येतानि छन्दांसि प्रथममाग्नेयं द्वितीयं प्राजापत्यं तृतीयं सौम्यं चतुर्थमैशानं पञ्चममादित्यं षष्ठं बार्हस्पत्यं सप्तमं पितृदैवत्यमष्टमं भगदैवत्यं नवममार्यमं दशमं सावित्रमेकादशं त्वाष्ट्रं द्वादशं पौष्णं त्रयोदशमैन्द्राग्नं चतुर्दशं वायव्यं पञ्चदशं वामदैवत्यं षोडशं मैत्रावरुणं सप्तदशमाङ्गिरसमष्टादशं वैश्वदेव्यमेकोनविंशं वैष्णवं विंशं वासवमेकविंशं रौद्रं द्वाविंशमाश्विनं त्रयोविंशं ब्राह्मं चतुर्विशं सावित्रम् ॥ २४॥ दीर्घान्स्वरेण संयुक्तान् बिन्दुनादसमन्वितान् । व्यापकान्विन्यसेत्पश्चाद्दशपङ्क्त्यक्षराणि च । द्रवुपुंस इति प्रत्यक्षबीजानि । प्रह्लादिनी प्रभा सत्या विश्वा भद्रा विलासिनी । प्रभावती जया कान्ता शान्ता पद्मा सरस्वती ॥ २५॥ विद्रुमस्फटिकाकारं पद्मरागसमप्रभम् । इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् ॥ २६॥ अञ्जनाभं च गाङ्गेयं वैडूर्यं चन्द्रसन्निभम् । हारिद्रं कृष्णदुग्धाभं रविकान्तिसमं भवम् ॥ २७॥ शुकपिच्छसमाकारं क्रमेण परिकल्पयेत् । पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ २८॥ गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च ॥ २९॥ घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं च तथापरम् । उपस्थपायुपादादि पाणिर्वागपि च क्रमात् ॥ ३०॥ मनो बुद्धिरहङ्कारमव्यक्तं च यथाक्रमम् । सुमुखं सम्पुटं चैव विततं विस्तृतं तथा । एकमुखं च द्विमुखं त्रिमुखं च चतुर्मुखम् ॥ ३१॥ पञ्चमुखं षण्मुखं चाधोमुखं चैव व्यापकम् । अञ्जलीकं ततः प्रोक्तं मुद्रितं तु त्रयोदशम् ॥ ३२॥ शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् । प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ॥ ३३॥ सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा । एता मुद्राश्चतुर्विशद्गायत्र्याः सुप्रतिष्ठिताः ॥ ३४॥ ॐ मूर्घ्नि सङ्घाते ब्रह्मा विष्णुर्ललाटे रुद्रो भ्रूमध्ये चक्षुश्चन्द्रादित्यौ कर्णयोः शुक्रबृहस्पती नासिके वायुदैवत्यं प्रभातं दोषा उभे सन्ध्ये मुखमग्निर्जिह्वा सरस्वती ग्रीवा स्वाध्यायाः स्तनयोर्वसवो बाह्वोर्मरुतः हृदयं पर्जन्यमाकाशमपरं नाभिरन्तरिक्षं कटिरिन्द्रियाणि जघनं प्राजापत्यं कैलासमलयौ ऊरू विश्वेदेवा जानुभ्यां जान्वोः कुशिकौ जङ्घयोरयनद्वयं सुराः पितरः पादौ पृथिवी वनस्पतिर्गुल्फौ रोमाणि मुहूर्तास्ते विग्रहाः केतुमासा ऋतवः सन्ध्याकालत्रयमाच्छादनं संवत्सरो निमिषः अहोरात्रावादित्यचन्द्रमसौ सहस्रपरमां देवीं शतमध्यां दशापराम् । सहस्रनेत्रीं देवीं गायत्रीं शरणमहं प्रपद्ये ॥ ३५॥ तत्सवितुर्वरदाय नमः तत्प्रातरादित्याय नमः । सायमधीयानो रात्रिकृतं पापं नाशयति ॥ ३६॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति । तत्सायम्प्रातः प्रयुञ्जानोऽपापो भवति । य इदं गायत्र्यथर्वशीर्षं ब्राह्मणः प्रयतः पठेत् । चत्वारो वेदा अधीता भवन्ति । सर्वेषु तीर्थेषु स्नातो भवति सर्वैदेवैर्ज्ञातो भवति । सर्वप्रत्यूहात्पूतो भवति ॥ ३७॥ अपेयपानात्पूतो भवति ॥ ३८॥ अभक्ष्यभक्षणात्पूतो भवति । अलेह्यलेहनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति । सुरापानात्पूतो भवति ॥ ३९॥ सुवर्णस्तेयात्पूतो भवति । पङ्क्तिभेदनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति । अनृतवचनात्पूतो भवति । गुरुतल्पगमनात्पूतो भवति । अगम्यागमनात्पूतो भवति । वृषलीगमनात्पूतो भवति ॥ ४०॥ ब्रह्महत्यायाः पूतो भवति । भ्रूणहत्यायाः पूतो भवति । वीरहत्यायाः पूतो भवति । अब्रह्मचारी सुब्रह्मचारी भवति ॥ ४१॥ अनेनाथर्वर्शार्षेणाधीतेन क्रतुशतेनेष्टं भवति । षष्टिसहस्रं गायत्री जप्ता भवति । अष्टौ ब्राह्मणान् ग्राहयेदर्थसिद्धिर्भवति । य इदं गायत्र्यथर्वशीर्षं ब्राह्मणः प्रयतः पठेत् । स सर्वपापैः प्रमुच्यते ब्रह्मलोके महीयते ब्रह्मलोके महीयते ॥ ४२॥ इति गायत्र्यथर्वशीर्षं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : gAyatryatharvashIrSham
% File name             : gAyatryatharvashIrSham.itx
% itxtitle              : gAyatryatharvashIrSham
% engtitle              : gAyatryatharvashIrSham
% Category              : atharvashIrSha, devii, gAyatrI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 24, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP