श्रीगङ्गासहस्रम्
ॐ
श्रीः
मागङ्गार्पणम्
एतत्स्तोत्रसहस्रकं सद्गुरुस्वामिश्रीत्यागब्रह्मानुग्रहोद्भवं
गङ्गास्फुरितं गङ्गापुत्रीपुष्पया गङ्गामातरि समर्पितम् ।
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
नमः श्रीत्यागराजाय स्तोत्रारम्भनुताय च ।
स्तोत्रगीतादिमूलाय गुरुदेवाय ते नमः ॥
ॐ
मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि ।
तन्नो गङ्गा प्रचोदयात् ॥
श्रीगङ्गास्तोत्रम् १
ध्यानम्
मङ्गलानन्दचिद्रूपे देवपेयजलावरे ।
कल्याणि सुनवानव्ये गङ्गामातर्नमोस्तुते ॥
स्तोत्रम्
विष्णुपादविनिर्मुक्ता मानवोद्धारसाधना ।
नरनारायणानूता पूतापा सुरनिम्नगा ॥ १॥
रजताद्रिशिरोभूषा रजताभा घनस्वरा ।
रागपुष्पार्चिता गङ्गा रागद्वेषोपमार्जना ॥ २॥
रागगोमुखसम्भावा गङ्गोत्तरीसुचारुता ।
रोगघ्नी जाह्नवी गङ्गा त्वरितप्रवहाशुभा ॥ ३॥
हरिशीलशिलालासा काशीक्षेत्रमहायशा ।
हृषीकेशहरिद्वारदेवप्रयागवैभवा ॥ ४॥
सरस्वत्यलकानन्दा धौलीनन्दाकिनीसुधा ।
पिण्डर्मन्दाकिनीनाम्नी समायुक्तपयोवहा ॥ ५॥
भागीरथीसमाश्लिष्टा दिव्यप्रयागसङ्गमा ।
अवरूढाजनोद्धारा गङ्गामाता ममावनी ॥ ६॥
हिमानन्दालकानन्दा भागीरथी शिवंकरी ।
सङ्गमाश्लिष्टसत्पादा गङ्गानाम्नी सरिद्वरा ॥ ७॥
योगनिष्ठासुसंवर्धा योगिनीहृत्सुनादगा ।
योगक्षेमावहा गङ्गा योगयोगसुरागदा ॥ ८॥
हिमोद्भूता हिमाह्लादा हिमरागा हिमालया ।
हिमांशुस्मेरक्षीरौघा हिममेघतडिल्लता ॥ ९॥
हैमहर्षसुकीलाला हिमारामा मनोरमा ।
ममारामा सुधीरामा चिन्ताविरामकारणा ॥ १०॥
हिमरागलया गङ्गा कवितोद्भासलासका ।
हिमानन्दपयःपूरा मनःकायसुपावका ॥ ११॥
पापौघधावना गङ्गा नादौघपरिधावना ।
क्लान्तिसंवाहदिव्यौघा वागौघपरिपूजिता ॥ १२॥
स्नानात्मानुभवानन्दा पाननामरुचीददा ।
ध्यानलीनप्रशान्तिश्च प्रसादाच्छप्रसादका ॥ १३॥
गानीयस्वरसौन्दर्या समुल्लासतरङ्गभा ।
मृदुला प्रबला शक्तिरङ्केदंशिशुलालना ॥ १४॥
उषःकूहावृतश्वेता दिवापूषाविकस्फुरा ।
सायंसन्ध्यासुवर्णाभा क्षपातारेन्दुविद्युता ॥ १५॥
चारुस्वरातिलालित्या चेतोवाक्परिपावनी ।
नित्यानन्दपदानीता नित्ययौवनभासुरा ॥ १६॥
रामनामसुमारामा रामकृष्णमहीकृता ।
रागतालास्पदा गङ्गा ओंकारश्रुतिसुस्वरा ॥ १७॥
नादब्रह्मलया गङ्गा नादानन्दालयाश्रया ।
त्यागराजगुरुस्वामिशिष्यापुष्पानुतावरा ॥ १८॥
प्रकृत्यद्भुतसौन्दर्या मागङ्गा ममताहरा ।
गर्वभङ्गसुधीधात्री गङ्गामाता सुमङ्गला ॥ १९॥
ममाह्लादे महाभद्रे एतत्स्तोत्रं तवार्पणम् ।
गङ्गामातर्नमस्तुभ्यम् आगताहं तवाश्रयम् ॥ २०॥
गङ्गास्तोत्रं गुरोरुक्तं सर्वपापनिवारणम् ।
पठनं श्रावणं भक्त्या गङ्गास्नानफलावहम् ॥
ॐ शुभमस्तु
श्रीगङ्गास्तोत्रम् २
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ध्यानम्
अखण्डानन्दसंवाहे देवकुल्ये सुदर्शने ।
प्रसीद मे नमस्तुभ्यं गङ्गे मङ्गलदायिनि ॥
त्यागराजगुरुस्वामिसत्स्वरूपे हिमे शिवे ।
इदंस्तोत्रावहे देवि वाग्वर्षवरिवस्यिते ॥
स्तोत्रम्
ज्ञानव्योमोत्पता गङ्गा नादानन्दप्रवाहिणी ।
अज्ञानाघहरा देवी ज्ञानमार्गसुसाधना ॥ १॥
ध्यानस्थान्तर्वहा गङ्गा ध्यायमानासमानगा ।
सङ्गीतानन्दसन्नूता सत्सङ्गीतरसायिनी ॥ २॥
स्वर्गावरूढमाहात्म्या तौषाराचलनिर्झरी ।
लोकातीतातिशान्तिश्च अपारानन्दसान्त्वदा ॥ ३॥
जलरूपापराशक्तिः परंप्रत्यक्षदर्शिनी ।
सद्धृदानन्दसंवाहा सानन्दवाक्स्वरूपिणी ॥ ४॥
गौरीपतिजटारामा वागीश्वरीकृपावहा ।
वागौघप्रावहा गङ्गा वागर्चितासुपूजिता ॥ ५॥
कमलाकमलाप्ताभा कमलारिसुशोभका ।
कमलापस्तुता माता कमलासनसन्नुता ॥ ६॥
सांसारधावना गङ्गा सारसारसुसारका ।
कंजातलोचनाप्लावा कंसारिख्यातमाहिना ॥ ७॥
हंसस्सोहँल्लया गङ्गा हंसिनी परहंसिनी ।
सच्चिदानन्दसौभाग्या सौमङ्गलस्वरूपिणी ॥ ८॥
हिमवत्प्रभवा गङ्गा हिमक्रोडसुक्रीडिका ।
हिमपर्वतशोभादा शोभमाननदीवरा ॥ ९॥
गम्भीरातिगभीरा च महावेगा मनोहरा ।
सुजला शिशिरा पुण्या सुज्ञानसुफलावहा ॥ १०॥
हिमगह्वरनिर्मुक्ता दर्शनातिप्रहर्षदा ।
हिमपर्यायपायौघा स्पर्शनातिसुकौशिकी ॥ ११॥
हिमालयालया गङ्गा तरङ्गरङ्गशोभना ।
हिमातिशुभ्रपानीया लोकोपाध्युपमार्जना ॥ १२॥
कोलाहलोत्पतानन्दा हिमातिप्रियपुत्रिका ।
तुहिनाचलव्यत्यस्ता कूलंकषातिसत्वरा ॥ १३॥
हिमकन्या हिमाप्लावा प्लाविकातिसुखावहा ।
अमृताम्ब्वक्षयतृष्णा तृष्णाक्षयजलावरा ॥ १४॥
प्रतिषेधनहैमापा छान्दसी प्रियकारिणी ।
छिन्नमानससंवाहा मानसानन्दलासिनी ॥ १५॥
सन्मार्गपथका गङ्गा सङ्गीताभा लयावहा ।
सङ्गीतातिसुखामोदा सान्त्वस्वरोपशान्त्विनी ॥ १६॥
अहंकारहरा गङ्गा इहलोकमुदाददा ।
परमानन्दसौहर्षा परब्रह्मस्वरूपिणी ॥ १७॥
ब्रह्मसाक्षात्कृतामोदा ब्रह्मानन्दालयावहा ।
गङ्गामाता ममामोदा अद्वैतानन्दसिद्धिदा ॥ १८॥
अद्वैतानुभवावाहा अद्वैतानन्दकारिणी ।
अद्वैततोयमाधुर्या अद्वैततीव्रवाहिनी ॥ १९॥
अद्वैतसारसारा च अद्वैतज्ञानमार्गिणी ।
अद्वैतात्मलयानीया अद्वैतसिद्धिसाधना ॥ २०॥
ज्ञानानन्दपयःपूरा पूर्णानन्दसुवाहिनी ।
अपूर्णपूर्णकारापा पूर्णापूर्णसुबोधिनी ॥ २१॥
मनःपूरपयःपूरा पूर्णत्वव्यक्तरूपिणी ।
माङ्गल्यवर्धिनी गङ्गा माङ्गल्यानन्दगोमुखी ॥ २२॥
वाचामगोचरा गङ्गा वाग्विलाससुलासिनी ।
अद्भुतानन्दसौन्दर्या हीरमुत्यविलासिनी ॥ २३॥
भर्मचेलावृता गङ्गा वाक्पेत्वप्रवहाशुभा ।
विष्णुपादाभिषिक्तोदा गौरीकुण्डप्रहर्षिणी ॥ २४॥
हैमघारपयोधारा सुरायुधसुवर्णभा ।
सप्तस्वरातिमाधुर्या प्रणवाह्लादनादिनी ॥ २५॥
घूर्णापोघोरगौरा च चन्दनासारचन्दना ।
सारचन्दनसंवाहा सलिलानन्दसारता ॥ २६॥
गौरीकुण्डशिलाखण्डदिव्यविग्रहतक्षका ।
त्रिविक्रमबृहत्पादहस्त्याननहसाकृति-
-संतक्षितशिलाखण्डा काभिषिक्तशिवा शिवा ।
नामपुष्पार्चिता गङ्गा नामानन्दस्वरूपिणी ॥ २७-२८॥
सङ्कटासूर्यपश्या च समसागरविस्तृता ।
तरङ्गोत्तुङ्गलास्यौघा शृङ्गारानन्दभण्डिनी ॥ २९॥
दूरदर्शनसाधूदा निकटातिभयानका ।
भीमा पालितभीष्मा च इदंपुत्रीस्तुतिप्रिया ॥ ३०॥
शोकापहा शिवा गङ्गा सर्वरोगनिवारिणी ।
मनःकायपवित्रस्था पवित्रानन्दरूपिणी ॥ ३१॥
मनस्तापहरा गङ्गा मनोवाक्परिपूजिता ।
इदम्पुत्रीशिरावाहा तन्मानससमिश्रिता ॥ ३२॥
तदन्तरात्मसँल्लीना आत्मानन्दप्रदायिनी ।
व्यक्तानन्तात्मशक्तिश्च अव्यक्तानन्दरूपिणी ॥ ३३॥
अन्तारागलया गङ्गा नानारागसुरागिणी ।
सङ्गीतानन्दसंवाहा सङ्गीतार्चनसन्नुता ॥ ३४॥
तापघ्नी तापनीया च तापत्रयनिघातिनी ।
वर्षरूपदृश्यमाना वाग्वर्षप्रवहावरा ॥ ३५॥
वासनाधाववर्षा च आनन्दामृतवर्षिणी ।
अमृतावर्षवाग्रूपा वर्षानन्दसुवाहिनी ॥ ३६॥
त्रितापार्तिहरे देवि शुभ्रे त्रिपथगामिनि ।
मातर्गङ्गे नमस्तुभ्यं मदन्तःपरिवाहिणि
सत्सङ्गे गीतसानन्दे गङ्गे सद्बुद्धिदायिनि ।
स्तोत्रमेतत्सुमाङ्गल्ये त्वत्पादपरिचारणम् ॥ ३७-३८॥
त्यागराजगुरुस्वामिसङ्गीतामोदसाधना-
-शिष्यापुष्पाकृतं स्तोत्रं गङ्गामोदं गुरुप्रियम् ।
द्व्यष्टादशदलामोदपुष्पार्चनं सुपूजनम् ।
ये गायन्ति नरास्तेषां सर्वाघनाशनं शुभम् ॥ ३९-४०॥
मङ्गलं मङ्गलाधात्र्यै महापुण्यसुवाक्श्रियै ।
मनःपावननाम्न्यै च गङ्गामात्रे सुमङ्गलम् ॥
ॐ
शुभमस्तु
श्रीगङ्गासहस्रम्
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ध्यानम्
ओंकाररूपिणि देवि नादानन्दलयस्थिते ।
गङ्गे पावित्र्यपर्याये नमस्तुभ्यं प्रसीद मे ॥
त्वत्पुत्रीहृदयानन्दे स्मरामित्वां दिने दिने ।
तप्ताहमिहसंसारात् शीकुरुष्व तवस्पृशात् ॥
मातः स्मरामि त्वद्रूपं प्रातः स्मरामि त्वज्जलम् ।
सायं स्मरामि त्वच्छान्तिं स्वीकुरुष्व मदर्पणम् ॥
गङ्गा मङ्गलसंयुक्ता ओंकारनादवाहिनी ।
मूलाधारोत्थनादौघा सहस्रारसुसङ्गमा ॥ १॥
इडापिङ्गलमध्यस्था सुषुम्णासूक्ष्मवाहिनी ।
अनाहतोन्नदानादा अध्यात्मज्ञानदायिनी ॥ २॥
कुण्डलीशक्तिरूपा च सुनदीस्थूलरूपिणी ।
नाभीहृत्कण्ठजिह्वोत्थनादोंकारप्रवाहिणी ॥ ३॥
नादब्रह्मलयानीया नादब्रह्ममयी सुधी ।
त्यागब्रह्मगुरुप्रेष्ठपुष्पानुता सुमङ्गला ॥ ४॥
गुरुदेवापरा गङ्गा गुरुदेवलयावहा ।
गुरुदेवपराविद्या गुरुवन्दनवन्दिता ॥ ५॥
गुरुवागमृतावाहा गुरुसङ्गीतसंस्थिता ।
गुर्वाशीर्वादसङ्गीता शिष्यापुष्पानुतिस्थिता ॥ ६॥
गुरुपेयूषवाग्वर्षा गुरुपूतगुणस्थिता ।
गुरुकृपावहा गङ्गा गुरुकृपासुदर्शिता ॥ ७॥
गुरुगीतलसज्ज्ञाना गुरुगानलयालया ।
गुरुसामोदवागर्था त्यागराजकृतिस्थिरा ॥ ८॥
गुरुस्मरसहस्नाता गुरुप्रेरणसंस्तुता ।
गुरुपादोदकाशीदा गुरुदर्शनहेतुका ॥ ९॥
त्यागगङ्गासुलास्या च गुरुगङ्गासुरूपिणी ।
नादगङ्गा मदाह्लादा नादसौमङ्गलावहा ॥ १०॥
नादोंकारगनाम्नी च नादध्यानमनःस्थिता ।
नादोपासिकहृन्नादा नादपेयूषनिर्झरी ॥ ११॥
नादासक्तिसुवागर्था नादवाक्परिपूजिता ।
नादोपासनचित्तस्था नादसुस्वरपूजिता ॥ १२॥
नादोंकारलया गङ्गा नादोपासनमार्गिणी ।
नादब्रह्मनदाकारा नादराज्ञी नदीवरा ॥ १३॥
नादप्रणवनाम्नी च नादोंकारगगालया ।
नादप्रशान्तिसंस्था मा नादोंकारस्वरूपिणी ॥ १४॥
नादान्तःप्रशमावाहा प्रशान्तमृदुलस्वरा ।
नादोपासनसुप्रीता नादमाधुर्यवासिनी ॥ १५॥
नादार्थिहृत्स्थवाग्देवी नादार्थिनीमनोवहा ।
लयप्रशान्तिसंवाहा ओंकारलयलासिनी ॥ १६॥
शब्दोंकारसुसँल्लीना शब्दोंकाराथमङ्गला ।
शब्दब्रह्मशरीरा च शब्दालीनमनोहरा ॥ १७॥
शब्दातिमृदुमाधुर्या शब्दादिप्रणवाकृतिः ।
शब्दातीता सुशब्दा च दुःशब्ददैत्यसन्दमा ॥ १८॥
परुषासुरशब्दघ्नी एकोंकारातिसुस्वरा ।
सुस्वराभाससम्भासा सुस्वरानन्ददायिनी ॥ १९॥
साहित्याकृतिसङ्गीता सङ्गीतासक्तिवाग्लसा ।
कवितोल्लाससँल्लासा सङ्गीतकवितावहा ॥ २०॥
सहस्रनामसङ्गीता सङ्गीतनामरागिणी ।
गङ्गानामसुरागा मा नामगानसुमार्गिणी ॥ २१॥
दैवलोकनिपाता च दैवामृतकवर्षिणी ।
ओंकारश्रुतिसत्सारा ओंकारध्वनिघांषिणी ॥ २२॥
ओंकारद्रवरूपा च ओंकारनादनादिनी ।
ओंकारप्रशमा गङ्गा ओंकारलयवाहिनी ॥ २३॥
ओंकारबिन्दुमध्यस्था ओंकारनादरूपिणी ।
ओंकारशब्दमाधुर्या ओंकाररावसान्त्विनी ॥ २४॥
ओंकाराकारशब्दा च निराकारैकरूपिणी ।
निराकृतस्पृहानीरा नीरवोंकारनादिनी ॥ २५॥
सत्त्वश्वेतस्वरूपा मा सत्त्वशब्दोपशामनी ।
सत्त्वाकाशसुनीला च शुद्धसत्त्वप्रकाशिनी ॥ २६॥
सत्त्वचित्ते सदास्था मा सत्त्वैतच्चित्तगामिनी ।
सत्यवाक्पूजिता सत्या तथ्योपचारवन्दिता ॥ २७॥
नामरूपनदीश्रेष्ठा नामरूपविवर्जिता ।
नामसारा नदीसारा नामगानाभिपूजिता ॥ २८॥
सारसारा महासारा जलासारा सुरासरा ।
स्वरसारा स्वरासारा सारसत्सारवाहिनी ॥ २९॥
सारासारा सुसत्सारा सारातिसारसारता ।
सारापातसुवाग्धारासारप्रसन्नसारता ॥ ३०॥
गङ्गा सुरापगा देवी मुक्तिदा प्रियदर्शिनी ।
अजस्रधारसंवाहा सहस्रनामलासिनी ॥ ३१॥
स्वाभाविकपवित्रापा स्वभावमानसार्चिता ।
स्वभावाभावभावा च स्वभावभावभाविता ॥ ३२॥
भावस्था स्तुतिरूपा च भावानन्दप्रवाहिणी ।
भावभावसुभावा च भावातीतसुमाहिना ॥ ३३॥
भावनावा भवातीता भावातीतप्रहर्षदा ।
भावाभावा भवाभावा भावमानससम्भवा ॥ ३४॥
भवभावनभावा च भवशीर्षप्रवाहिणी ।
भववेगापहावेगा भवरोगनिवारिणी ॥ ३५॥
भवशोकविनाशा मा भवतारणमार्गिणी ।
भवभावप्रभावा च भवाभावसुभावना ॥ ३६॥
भवप्रिया भवावाहा भवपाशविनाशिनी ।
भवप्रियप्रिया माता भवसन्नुतसन्नुता ॥ ३७॥
भवाभवा भवाभावा भवभावप्रभावका ।
भवसागरपारा च पारावारपरावरा ॥ ३८॥
भावगम्भीरसङ्गीता भावस्था भावसंस्तुता ।
भावसङ्गीतसंवाहा भावसंस्तुतिसंस्थिता ॥ ३९॥
भावहैमाद्रिसम्भावा भावसागरसङ्गमा ।
भावपुष्पालया गङ्गा भावामोदसुमार्चिता ॥ ४०॥
महादेवशिरोवाहा महादेवी मनस्विनी ।
महायशस्विनी माता महायशस्करी मही ॥ ४१॥
महाभाग्या महाभोग्या महोन्नतहिमालया ।
महाश्रेष्ठा महाप्रेष्ठा महापर्वतहिम्यका ॥ ४२॥
महागङ्गा महापुण्या महालयहिमालया ।
महावाक्यप्रवाहा च महालया महालया ॥ ४३॥
महानन्दा मदानन्दा महाशोभा शुभोदका ।
महाचारुमती गङ्गा महामनोगतासुधा ॥ ४४॥
गङ्गा हिमापगा हिम्या कुलहिम्याचलावहा ।
हिमोत्तुङ्गनगावाहा हिमगाढदरीवहा ॥ ४५॥
गङ्गा भागीरथी माता गोमुखी सत्सुदर्शिनी ।
भगीरथतपःपूर्णा गिरीशशीर्षवाहिनी ॥ ४६॥
गङ्गानामसमाह्लादा नामपावनवाक्स्थिता ।
रागताललयानन्दा ध्यानगोमुखसम्भवा ॥ ४७॥
नगराजसुता गङ्गा नगजानन्दवर्धिनी ।
अघनाशप्रभावा च अगधारिकृपावहा ॥ ४८॥
सर्वतीर्थमहातीर्था सर्वधा सर्वधावनी ।
सर्वमङ्गलसम्पूर्णा पूर्णत्वहेतुकावनी ॥ ४९॥
प्राणधात्री मदाहर्षा प्राणगङ्गा मदम्बिका ।
प्राणस्फूर्त्यश्रुबिन्दुश्च प्राणपुष्पार्चिताभगा ॥ ५०॥
प्राणदा प्राणसँल्लीना गङ्गामाता सुगोमुखी ।
सन्दर्शविस्मृतक्लान्तिः सन्दर्शस्फुटवाग्वहा ॥ ५१॥
तूष्णींस्थानोत्थनादौघा तुषारालयगालया ।
तृषितार्था तृषापोहा तोषदामोदकारया ॥ ५२॥
घर्घरी घांषिणी गङ्गा नुतिहारातिहारिणी ।
द्युतिश्वेता मयाधीता मन्दहासविलासिनी ॥ ५३॥
अपाराद्भुतसौन्दर्या मनोगलनचारुता ।
अत्यन्तात्मानुभूतिश्च अविस्मृतव्यमञ्जिमा ॥ ५४॥
मनोविलीयना गङ्गा अप्रयत्नमनोलया ।
विलीनहैमवाहा च विलीनमानसार्चिता ॥ ५५॥
अभिरोरुदसद्ध्याना ध्यानज्ञानफलावहा ।
ब्रह्मलीनत्वतत्त्वा च अहंहरा अहँल्लया ॥ ५६॥
ब्रह्मविद्यार्थिसंश्राया ब्रह्मजिज्ञासुपूर्णता ।
ब्रह्मज्ञानप्रसादा च ब्रह्मत्वतत्त्वबोधिनी ॥ ५७॥
ब्रह्मप्रत्यक्षरूपा च ब्रह्मज्ञानप्रवर्धिनी ।
ब्रह्मानन्दप्रकाशा मा ब्रह्मानन्दरसावहा ॥ ५८॥
निर्गुणब्रह्मतत्त्वा च सगुणब्रह्मरूपिणी ।
नादब्रह्मगुरुस्वामिव्यक्तरूपा सुधाजला ॥ ५९॥
वेदोपनिषदासारा वेदसारसुसारका ।
गीतामृतपरीवाहा गीताचार्यस्तुतापरा ॥ ६०॥
घनाघघनसन्धावा घनगानस्मिता सिता ।
घननीलघनागाना घनाघनघनस्वना ॥ ६१॥
ओंकारसुस्वरा गङ्गा नामातिहर्षदर्शना ।
स्वानुभूतिपरीवाहा स्वानुभूतपरीवहा ॥ ६२॥
आनन्दामृतपायौघा कविताभासकारिणी ।
अघौघापोहतीर्थौघा निर्दोषा दोषहारिणी ॥ ६३॥
द्रवशीलाघविद्रावा हिमपाषाणखण्डिनी ।
मौनध्यानमनोलीना मातृगङ्गा मनोमयी ॥ ६४॥
हिमोत्सङ्गोद्भवा गङ्गा हिमसंहतिघांषिणी ।
हिममाला हिमाभासा हिमालयगुहावहा ॥ ६५॥
ज्योत्स्नाभासजलादुग्धा ज्योत्स्नास्मेरमनोहरी ।
त्यक्तसङ्गैकसङ्गा च असङ्गासङ्गरङ्गभा ॥ ६६॥
महासूक्ष्माङ्गणा गङ्गा सूक्ष्मानवायुवर्त्मना ।
केणिकान्तःश्रुतोंकारा हिमनीरवगारवा ॥ ६७॥
बालूकद्युतिविस्तीर्णा चान्द्रलोकाष्ट्रराजता ।
विराजराजराजाभा तारागणस्फुरत्प्रभा ॥ ६८॥
स्मेरवक्त्रा तरङ्गाभा सितरश्मिस्मितप्रभा ।
तौषारपरिवाहा च पाषाणखण्डखेलना ॥ ६९॥
गोमुखाद्भुतसौन्दर्या कल्पनातीतमुग्धता ।
गमनानन्दगाना च व्योमातिनीलस्वच्छता ॥ ७०॥
विद्युत्प्रभाविलासा च विदुसाधुसुवन्दिता ।
हिमगोत्रावृतावर्ता हैमहारविलासिनी ॥ ७१॥
अज्ञातादिप्रभावा च ज्ञाताज्ञाताघघातिनी ।
अनन्तानादिशक्तिश्च अद्वैततत्त्वबोधिनी ॥ ७२॥
एकब्रह्मस्वरूपा मा एकोंकारातिसुस्वरा ।
एकपूर्णैकसत्या च एकवस्तुप्रभावका ॥ ७३॥
एकमानससम्पूर्णा एकभक्तिमनोवहा ।
एकशान्तिहिमद्रोणिः एकानुभवसारता ॥ ७४॥
एकसत्त्वैकतत्त्वा च एकतत्त्वविशिष्टता ।
एकौघा एकलक्षण्या एकचित्तस्तुतिस्फुरा ॥ ७५॥
एका एकाकिसुश्राया एकान्तशान्तिमार्गिणी ।
एकान्तध्यानसम्पादा एकान्तध्यानगोचरा ॥ ७६॥
एकान्तासङ्गिनिध्याता एकान्तध्यानवर्धिनी ।
एकान्तध्यातृसन्नूता एकान्तानन्ददायिनी ॥ ७७॥
एकनिष्ठासमाराध्या एकान्तचित्तगामिनी ।
एकान्तभावसङ्गीता एकान्तिनीवरप्रदा ॥ ७८॥
एकनिष्ठापरानन्दा एकनिष्ठाप्रवर्धिनी ।
एकान्तचित्तरम्या च एकान्तसत्सुखावनी ॥ ७९॥
एकमानससन्तुष्टिः एकनिष्ठापरानुता ।
एकान्तचित्तवैराग्या एकानुरागवर्धिनी ॥ ८०॥
एकरागातिरागा च एकभक्तैकरागिणी ।
एकाग्रचित्तनिध्याता एकमानसपूजिता ॥ ८१॥
पावित्र्यदृश्यरूपा च परिवारणहैमदा ।
परादिवाक्स्वरूपा मा परापरसुव्यापिनी ॥ ८२॥
अखण्डधारसंवाहा चिन्तनाधाररोधका ।
चिन्तनाधारधारा च चिन्तनापारदर्शिनी ॥ ८३॥
गोमुखासारसत्सारा चारुसारप्रसारिणी ।
मानसाह्लादलास्या च पूर्णा सन्ततपावनी ॥ ८४॥
प्रालेयमयपायौघा प्रालेयाचलप्राङ्गणी ।
अतिशीता घनीकर्त्री स्नानपानविमोचनी ॥ ८५॥
स्नानापूर्वानुभूतिश्च स्पर्शतौषारशीतला ।
शीतातिशीतवाता च दृढचित्तपरीक्षणा ॥ ८६॥
घनीकृतशरीरा च रोमाञ्चनातिहर्षदा ।
गोमुखस्नानदीक्षा मा गुरुरूपातिपावनी ॥ ८७॥
नाममिश्रितसत्सारा पापसङ्कुलधावनी ।
ज्ञानसन्मार्गसन्नेत्री गानसंस्फूर्तिपूरणी ॥ ८८॥
नान्यचित्तातिवैराग्या न्यूनतापोहना शिवा ।
काव्यलालित्यसंस्रावा काव्यसन्नुतिदेवता ॥ ८९॥
मनस्तपोवनस्था मा शिवलिङ्गसुदर्पणा ।
शिवरामा शिवारामा शिवरामसुनामगा ॥ ९०॥
मनोलीनतपस्तीर्था मनोभावनिदर्शिता ।
मनोनैर्मल्यसम्प्राप्तिर्मनआकाशनिर्मला ॥ ९१॥
मनआकाशमार्गा च मनोनैर्मल्यसंस्तुता ।
मनोनैश्चल्यरंहा च मनोधारसुगामिनी ॥ ९२॥
मानसाह्लादसन्नाम्नी नामवैशिष्ट्यपावनी ।
मानसानन्दसम्पूर्णा नामसत्सारधावनी ॥ ९३॥
हैमपर्वतसम्भावा हिमद्रोणिप्रसर्पिणी ।
हिमा हैमा सुदृश्या च नेत्रानन्दविलासिनी ॥ ९४॥
नीरवश्रुतिसङ्गीता नित्यनीरवसुस्वरा ।
नीरवारवमाधुर्या नीरनीरवसौख्यदा ॥ ९५॥
गोमुखावतरानृत्या तरलालकरङ्गभा ।
श्वेतलास्योर्मिरीतिश्च भासमानसुनिम्नगा ॥ ९६॥
भोज्वासाश्वासना गङ्गा ध्वनिदर्शनजीवना ।
भोजजङ्गलनिम्नस्था कलस्वागतसुस्वरा ॥ ९७॥
मृदुशब्दकलास्वागतानन्दपक्षिगीतिका-
-माधुर्योपचयाद्रिप्रशान्तिमध्यैकझर्झरा ॥ ९८॥
चीड्वासवनसँल्लासा सायङ्कान्तिप्रसान्त्विनी ।
यात्रामध्यैकरात्रीविरामविश्रामनादिनी ॥ ९९॥
गोमुखीहैमसंवाहा गङ्गोत्तरीसुपूजिता ।
भगीरथतपस्तीर्था भागीरथी स्वरापगा ॥ १००॥
गङ्गोत्तरीतपस्तीर्था भगीरथतपस्स्थला ।
नित्यपूजार्चितागीता पुराणालयवैभवा ॥ १०१॥
मनस्तपोगुहावाहा तीर्थीकृतमनस्स्थला ।
मनःक्षेत्रावहा गङ्गा मनआलयपूजिता ॥ १०२॥
सन्ध्यारतिसुदीपाभा सन्ध्यारागसुराजदा ।
वन्या धन्या मनोरम्या पिङ्गलातारहेमदा ॥ १०३॥
व्योममापनशैलस्था शैलोत्तुङ्गोपरक्षणा ।
गाढप्रशान्तिसङ्गीता गाढकन्दरगर्जना ॥ १०४॥
हिमोपान्तप्रवाहा मा बहुपाषाणखण्डिनी ।
भगीरथशिलाङ्का च गङ्गाकेदारसङ्गमा ॥ १०५॥
शिलोच्चयावहा गङ्गा शिलापारातिघूर्णिका ।
शिलारूपार्चिता माता शिलाश्लक्ष्णपरीवहा ॥ १०६॥
कीकसाशीतकीलाला अविस्मृतव्यमज्जना ।
नवसङ्ख्यावगाहा च क्षणमात्रैकमज्जना ॥ १०७॥
मग्नमात्रनवाजीवा नव्यप्रशान्तिदायिनी ।
क्षुद्रक्लान्तमनःपेत्वा प्राणसंस्फूर्तिहेतुका ॥ १०८॥
हिमानिलासुखप्रातिकूल्येषदुष्णभास्कर-
-द्युतिस्नातास्तुतागीता गङ्गास्नानातिहर्षदा ॥ १०९॥
बृहच्छिलासनध्याता क्षणस्फूर्तिस्तुतानुता ।
बृहच्छविवशीकर्त्री महन्नीलकहिम्यदा ॥ ११०॥
श्रेष्ठोत्कृष्टहिमाप्लावा श्रैष्ठ्यदैवत्यदायिनी ।
श्वेताचलप्रभावा च श्वेता श्वेतोर्मिवस्त्रभा ॥ १११॥
रजस्तमोमलापोहा शुद्धसत्त्वा सुराजता ।
रजताद्रिसुबिम्बा च शुद्धशुक्लाभभासुरा ॥ ११२॥
सीमन्तहैमरेखाभा सीमारहितसौभगा ।
अगश्रेष्ठसरिच्छ्रेष्ठा अघघ्नी वसुदायिनी ॥ ११३॥
रजताद्रिसुपुत्री च रजताचलरागिणी ।
मनोवेगापहावेगा रागमानसरागिणी ॥ ११४॥
अतिकोलाहला गङ्गा आदिकालाभिपूजिता ।
अत्यूषरमणीया च सायंसन्ध्यासुरागिणी ॥ ११५॥
राजशेखरसुप्रीता राजशेखरशेखरी ।
राजराजविराजाभा राजप्रवाहभासुरा ॥ ११६॥
वर्णनातीतसौन्दर्या प्राचीरप्रांशुहैमदा ।
मतितारागणाभा च अलौकिकाद्भुतालया ॥ ११७॥
मनोगतातिनीलाब्भ्रा मनःस्थितातिमञ्जिमा ।
मनोवशीकरा गङ्गा मञ्जुला मञ्जुगामिनी ॥ ११८॥
मनोगुप्तमहार्था च व्यक्तरूपप्रवाहिणी ।
पूर्णप्रकृतिसौन्दर्या पूतका पूतमण्डला ॥ ११९॥
मनःपूर्णा सदापूर्णा पूर्णपूर्णातिशायिनी ।
तपःपूर्णा सुधापूर्णा तूर्णघूर्णातिहारिणी ॥ १२०॥
गङ्गोत्तरी सुकौमारी गौरीकुण्डझरीसरी ।
गौरीकुण्डमहोल्लासा शतरागातिरागिणी ॥ १२१॥
गौरीकुण्डशिलोत्पातनर्तनाह्लादवर्धिनी ।
बृहत्पृथुझरासारा झङ्कारनादझर्झरी ॥ १२२॥
चिन्तनादूरदूर्णिश्च चिन्तितामानसार्चिता ।
मनस्स्तम्भनघूर्णिश्च घूर्णमानससान्त्विनी ॥ १२३॥
चारुसारजलासारा चारुगीतातिसुस्वरा ।
चारुकल्लोललास्या च चारुरागनुतिस्थिरा ॥ १२४॥
धारानिपातवाग्धारा वाग्धारवसुवर्षिणी ।
धारापातसुसद्धारा धारामृतसुवाहिनी ॥ १२५॥
शैलजा शैलसौन्दर्या शैलसंशीतवाहिनी ।
शैलधारा प्लवोत्पाता शैलसत्सारवाहिनी ॥ १२६॥
प्राणदाह्लादनीरा च प्राणसंस्फूर्तिवासिनी ।
स्वरोंकारप्रशान्तिश्च हिम्यप्रशान्तिवर्धिनी ॥ १२७॥
गौरीकुण्डनगोत्सङ्गदर्शिता बहुकीर्तिता ।
स्फूर्तिबीजातिसौन्दर्या स्फुटश्लोकाभिवन्दिता ॥ १२८॥
चित्तपूर्णाभिरूपा च श्रोत्रपूरणसुध्वनिः ।
नादोंकारघनागाना मनोलीनघनस्वना ॥ १२९॥
गौरी गैरी गरिष्ठा मा गैरिकद्युतिशोभना ।
गौरीनाथाभिषेक्त्री च गौरीकुण्डप्रभासिनी ॥ १३०॥
हैमाभा हैमसम्पन्ना हैमाचलोद्भवा हिमा ।
हैमकौसुम्भपिञ्जारखर्जूरनिर्झरीझरी ॥ १३१॥
गङ्गा कनकशृङ्गाभा कनकाम्बरधारिणी ।
हीरवत्स्फुरनीराभा हैमालयहिरण्मयी ॥ १३२॥
अरुणोदयपिञ्जारा कौसुम्भधरबिम्बिता ।
तरुणारुणसौवर्णा सौवर्णार्चितभासुरा ॥ १३३॥
ओंकारावर्तझागङ्गा ओंकाररवझर्झरा ।
ओंकारशब्दसत्सारा ओंकारलिपिलेखका ॥ १३४॥
शिवा शिवशिरोवाहा शिवंकरी शिवप्रिया ।
शिवरामनुतारामा शिवरामसुनामगा ॥ १३५॥
वनमाला वनारम्या मनोहिमवनारमा ।
हिमालयवनारामा अभिरामा हिमारमा ॥ १३६॥
भूरिप्रचुरतीर्थौघा भूरिसन्तोषकारिणी ।
भूयिष्ठस्तोत्रविख्याता भूरितैजसभामिनी ॥ १३७॥
महानीलमहीजीवा महान्यासप्रबोधिनी ।
महाशक्तिपरीवाहा महोन्नतासुमानसा ॥ १३८॥
महाधरप्रवाहा च महार्णवप्रयाणिनी ।
महाधरीप्रभावा मा महाज्ञानप्रदायिनी ॥ १३९॥
श्वेताचलमहासाला नीलाकाशच्छदिच्छविः ।
लुठितोपलजाला च देवदारुवनेचरी ॥ १४०॥
दिव्यनव्यसमीरा च दिव्यौषध्यसुसारका ।
दिव्यक्षेत्रप्रभावा मा दिव्यसौगन्ध्यहिम्यका ॥ १४१॥
हिमजा हिमजाह्लादा हिमजाशीतवर्णसिः ।
हिमप्रशान्तिसङ्गीता हिमगोत्रप्रवाहिणी ॥ १४२॥
चिन्तनातिव्यथाशाम्या चिन्तनापूरपावनी ।
चित्रवैचित्र्यसञ्चारा वैचित्र्यचारुगोत्रिणी ॥ १४३॥
देवदारुवनोत्सङ्गा नव्यमिष्टसमीरणा ।
क्षेत्रगङ्गोत्तरीरम्या पाण्डवाङ्गनचत्वरा ॥ १४४॥
तपोरन्ध्रमुखस्रावा रुद्रगङ्गासमागता ।
शैलसारजलासारा जाह्नवी कुलशैलिनी ॥ १४५॥
कैरवीरागलास्या च कैरवद्युतिशोभना ।
भैरवीरागलासस्था भैरवारामकामिनी ॥ १४६॥
भैरवी कालवेगा च भैरवीनाथशीर्षगा ।
भैषज्यपूततीर्था च बहुमान्यसुतीर्थका ॥ १४७॥
गङ्गाभागीरथीयुक्ता जाह्नवी नगमध्यगा ।
द्विकरैकपथानेत्री बहुरम्यदरीवहा ॥ १४८॥
नीरवाढ्यनगोत्सङ्गा देवदारुवनारमा ।
उपान्ताविस्मृतव्या च भावितैकानुभूतिमा ॥ १४९॥
पारसञ्चारसामोदा श्वासभग्नातिनीरवा ।
अन्तःश्वासानुभूता च श्रोत्रनेत्रोत्सवारवा ॥ १५०॥
पीतनीरवपेत्वा च पर्याप्तायतलाघवा ।
शमनस्वरसंवृद्धगाढप्रशान्तिगालया ॥ १५१॥
यात्राप्रवृत्तिसारम्या यात्रिणीसहचारिणी ।
शैलोत्तुङ्गावृता गङ्गा शीलिनी हरिशीलिनी ॥ १५२॥
बहुरूपा बृहद्भासा बहुरागातिमोहिनी ।
अविस्तीर्णातिविस्तीर्णा बहुरङ्गसुहासिनी ॥ १५३॥
मोहना मोहनाकारा मोहनालास्यगामिनी ।
मोहदारसुसन्मोहा मोहदारिघृणाकरी ॥ १५४॥
मोहितामानसावाहा मोहापोहा मुदावहा ।
अमोहमोहमोहा च अमोहमोहमोहिता ॥ १५५॥
मोहसंवाहसंवाहा संवाहरम्यमोहिनी ।
मोहनानन्दरागा च रागमोहासुरागिणी ॥ १५६॥
मोहनाधारधारा च धारणायोगसाधना ।
योगाधारपयोधारा धारापातातिझल्लरा ॥ १५७॥
हरितारण्यशुक्ला च हरिता हर्यतिप्रिया ।
कुलशैलशिलाधारा शिलाखण्डसुशिल्पका ॥ १५८॥
देवदारुघनारण्या हिमशृङ्गपरीवृता ।
नानाप्रस्तररङ्गा च रूपलक्षणविस्मया ॥ १५९॥
बहुवर्पवहा गङ्गा दरीपृथुपरीवहा ।
बहुरङ्गसुलास्या च बृहच्छविलसत्प्रभा ॥ १६०॥
चित्रवैचित्र्यपाषाणा शिलाखण्डाभिमण्डिता ।
चारुप्रस्तरप्राचुर्या रागरूपविलक्षणा ॥ १६१॥
देवदारुवनामोदा देवभूमिप्रसन्नता ।
पाषाणहरिकेदारलिङ्गसेचनपावनी ॥ १६२॥
सन्ध्यावेलप्रशान्तिश्च पक्षिसुस्वरचारुगा ।
ध्यानवर्धनरम्याष्ट्रा लक्ष्मीनारायणार्चना ॥ १६३॥
आरण्यद्रोणिमध्यस्था पक्षिजालरवारवा ।
चारुपक्षिविहारा च चारुसारसुखस्वरा ॥ १६४॥
धरस्मेरसुलावण्या कौमारी कौशलप्रदा ।
परा देवी सुजल्पा मा कल्याणी नित्यमङ्गला ॥ १६५॥
विस्वरार्तिव्यथाश्राया सुस्वरप्रशमावहा ।
विश्रान्तिसौख्यसम्मूला मूलस्थानातिदेवता ॥ १६६॥
सप्ततालनगोत्सङ्गदृष्टिप्रसादमोदिनी ।
महासूक्ष्माबहुग्रावनानारूपप्रसर्पिणी ॥ १६७॥
सौम्यकाशीतपोभूमिरम्यानन्दाभिवर्धिनी ।
सौम्या सौमानसाराध्या ध्याननामनमस्कृता ॥ १६८॥
काश्युत्तरसुशोभा च शैलमध्यप्रकाशिनी ।
विश्वेश्वराभिषेका च विश्वगा विश्वमोदिनी ॥ १६९॥
हिमाद्रिवलया गङ्गा शैलमालासुभूषणा ।
तापसावरदात्री च तापसारण्यशैलभूः ॥ १७०॥
पञ्चमीतिथिसङ्गीतगुरुकीर्तनलासिनी ।
दिव्यनामकृतिस्था मा दिव्यानुभूतिपूरणी ॥ १७१॥
गङ्गा पञ्चाननप्रीता पञ्चाननजटास्रवा ।
पञ्चाननसुवक्त्रादिसप्तस्वररसासरा ॥ १७२॥
सत्यज्ञानमयी देवी वशङ्करी सुशङ्करी ।
विश्वेश्वरप्रिया माता विश्वेश्वरी विमोचनी ॥ १७३॥
ईश्वरानुग्रहावाहा ईश्वरानुग्रहावहा ।
ईश्वराशीकरस्पर्शा ईश्वरी ईश्वरप्रिया ॥ १७४॥
ईश्वरप्रियसङ्गीता ईश्वरानन्दसस्मिता ।
ईश्वराभाससाभासा ईश्वरारक्षणावहा ॥ १७५॥
बिलङ्गनास्वयुक्ता च कुलपर्वतसर्पिणी ।
स्वाश्लिष्टालकनन्दा च स्वसृसामोदसङ्गमा ॥ १७६॥
अविस्मृतातिसंशीता अरोधा रोधभञ्जिका ।
अभिस्मृताभिवन्द्या मा शुभदेवप्रयागगा ॥ १७७॥
अपर्याप्तानुभूतिश्च सुपर्याप्तसुमङ्गला ।
अनाद्यन्ता अभोक्त्र्याह्वा अशोषा शोषहाशुगा ॥ १७८॥
तापनातङ्कहाशीता विष्णुगङ्गा वियत्सरित् ।
शिवगङ्गा शिवा शुभ्रा शिलाघनघनोल्लसा ॥ १७९॥
रघुनायकपादाङ्का रघुनायकगायका ।
देवप्रयागदिव्याभा दिव्यक्षेत्रप्रयागभा ॥ १८०॥
भागीरथ्यलकानन्दासङ्गमानन्दगङ्गिका ।
देवप्रयागतीर्थौघा सर्वमङ्गलदायिका ॥ १८१॥
गङ्गोत्तरीहिमोद्भावा भागीरथीसुगोमुखी ।
अलकापुरिनन्दा च सतोपान्तहिमोद्भवा ॥ १८२॥
स्वर्गारोहणमार्गा च अलकापुरिसंहता ।
स्वर्गावरोहसौन्दर्या शुभाङ्का शुभलक्षणा ॥ १८३॥
शुभ्रचन्द्रद्युतिश्वेता शुभाकारा शुभाकरा ।
सौमेरुपर्वतोत्तीर्णा सौमेरुकलसद्रसा ॥ १८४॥
कुबेरपट्टणानन्दा धारापातसुनृत्यभा ।
कुबेरपट्टणोद्घोषा स्वर्गापगा सुरा सुभा ॥ १८५॥
कुभृत्कुमारिका गङ्गा कलकल्लोलशब्दिनी ।
अलकापुरिसङ्गीता कलगानसुनर्तिनी ॥ १८६॥
पुलकंदालकानन्दा हैमसंहतिसंवहा ।
पूरितानन्दसारा च अलौकिकाद्भुतद्युतिः ॥ १८७॥
दिव्यनन्दा सुवाङ्नन्दा वागर्थनृत्यलासिनी ।
भूरिशोभालकानन्दा भूतभव्यभवच्छविः ॥ १८८॥
भूरिधारा बृहद्धारा वसुधारा सुवाग्रसा ।
व्योमदघ्नाचलावाहा चारुहासा शशाङ्कभा ॥ १८९॥
वसुधारा सुवाग्धारा वाग्वेगवेगवाहिनी ।
अवाच्याद्भुतधारा च वाग्वर्णवर्णलासिनी ॥ १९०॥
कविस्फूर्तिसुसंभासा कवितामञ्जुघोषिणी ।
अतिरम्यालकानन्दा अवाच्यानन्दकारिणी ॥ १९१॥
देवभूतिः सुधाधौती दिव्यकाझर्झरावती ।
देवभूमिमुदावाहा दिव्याष्ट्रप्रावणावहा ॥ १९२॥
तपोलयसुदिव्याष्ट्रा लयप्रशममानसा ।
मत्तलोकातिदूरा च मच्चित्तभक्तिलालसा ॥ १९३॥
ध्यानतत्परसंयुक्ता ध्यानवर्धनमण्डला ।
तापसाश्रयशान्तिश्च साधुयोगितपस्स्थला ॥ १९४॥
नित्यनिश्चलशान्तिश्च तपोयुक्तसमाश्रया ।
नित्यनीरवसुस्रावा नित्यप्रणवनादिनी ॥ १९५॥
तूष्णींस्थानातिसान्त्वा च नीरवप्रणवारवा ।
तुहिनालयसन्नादा तूष्णींस्थानोत्थगारवा ॥ १९६॥
तौषारमध्यराजोदा रजताद्र्यवरोहिणी ।
धौतजाम्बूनदाभा च रजताद्र्यतिशोभना ॥ १९७॥
शुभशीघ्रगपानीया अक्षोभाक्षुब्धघूर्णिका ।
शुभशीघ्रसुगानीया शुभा शुभ्रा शुभप्रदा ॥ १९८॥
शतकुम्भदसंवृत्ता शतरागवरानना ।
चारुकल्लोलकानन्दा नन्दायुक्तसरस्वती ॥ १९९॥
सरस्वती सुवाणीदा भीमप्रवाहभीषणा ।
भीष्ममाता मदम्बा च प्रयागकेशवस्तुता ॥ २००॥
वेदव्यासगुहादृश्या गणेश्वरगुहेक्षिता ।
व्यासाचार्यसुनिध्याता महाभारतसाक्षिणी ॥ २०१॥
श्रीकृष्णकीर्तितानन्दा शिष्योद्धवतपस्स्थला ।
बदरीकाश्रमावाहा बदरीवनमोहिनी ॥ २०२॥
नरनारायणोत्सङ्गा नरनारायणस्तुता ।
बदरीधामतीर्थौघा बदरीनाथमज्जना ॥ २०३॥
बदरीधामसालास्या बदरीकाश्रमालया ।
तपोभूम्यात्मजा गङ्गा भूमिजारमणालया ॥ २०४॥
अतिशोभालकानन्दा अतिवेगातिहिम्यका ।
पर्याप्तस्वानुभूतिश्च अपर्याप्तात्मधीतिका ॥ २०५॥
चण्डवेगातिसन्दिग्धा अगाधातिभयानका ।
हैमोदकालकानन्दा जडीकृतजडस्पृशा ॥ २०६॥
शीघ्रातिशीघ्रमग्ना च शीघ्रातिशीघ्रधावनी ।
नीरपारसुनिध्याता ध्यानमानसपूजिता ॥ २०७॥
प्रतियात्रासुमग्ना च सायंसंशीतमज्जना ।
अतिपुण्यातिधन्या च विलक्षणसुलक्षणा ॥ २०८॥
प्रशान्तबदरीक्षेत्रा नरनारायणाश्रमा ।
तपोलयावहावाहा तपोमानससन्नुता ॥ २०९॥
लक्ष्मणाग्रजसम्पूजा गङ्गा लक्षणलक्ष्मणा ।
लक्ष्मण्गङ्गालकानन्दा सङ्गमारामवीक्षणा ॥ २१०॥
पुष्पोत्सङ्गप्रवाहा च हैमकुण्डातिभासुरा ।
उत्तुङ्गशृङ्गबिम्बा च हैमाद्रिरुचिबिम्बभा ॥ २११॥
विष्णुपादोदका गङ्गा विष्णुप्रिया विशिष्टभा ।
धवलाधौलिगङ्गा च विष्णुपादाभिषेचना ॥ २१२॥
धौलीगङ्गालकानन्दा विष्णुप्रयागसङ्गमा ।
नगमध्यातिमुग्धा च विष्णुनामनिनादिनी ॥ २१३॥
सायंसन्ध्यासुनिध्याता सङ्गमातीतकान्तिभा ।
प्रवाहदारुणास्नाता एकाविस्मृतिरञ्जना ॥ २१४॥
ज्योतिर्मया तपःपूर्णा ज्योत्स्नाभाससुलासिनी ।
गाढकन्दरसंवाहा ज्योतिर्मठविलासिनी ॥ २१५॥
लक्ष्मीनृसिंहसम्प्रीता प्रीतिस्निग्धसुधारसा ।
प्रीतिस्निग्धातिमाधुर्यवाणीदैविकगायिनी ॥ २१६॥
नन्दनन्दननन्दा च नन्दाकिनीसुसङ्गमा ।
नन्दप्रयागरम्याष्ट्रा कुलाचलसुनिम्नगा ॥ २१७॥
नन्दाकिनी अचण्डाभा नन्दाप्रचण्डभासुरा ।
नलिनी नलिनाक्षी च नलिनाक्षसुनामगा ॥ २१८॥
आस्नातसङ्गमानन्दा दृपदास्तारपूरिता ।
विस्तीर्णनिम्नभूरम्या हरितागपरीवृता ॥ २१९॥
कर्णप्रयागगा गङ्गा पिण्डर्गङ्गासयुक्तभा ।
पिण्डर्गङ्गालकानन्दा कर्णप्रयागसङ्गमा ॥ २२०॥
सलिलाशीतसुस्पर्शा सविकल्पविगाहिता ।
स्नानातिहर्षदा गङ्गा अविकल्पावगाहिता ॥ २२१॥
शैत्यसौख्यप्रदा गङ्गा यात्रासन्तापहारिणी ।
शैथिल्यप्रतिहर्त्री च मनस्कायसुजीवनी ॥ २२२॥
हरिदासविमोक्त्री च हरिसङ्कीर्तनप्रिया ।
गिरिगूढातिगाढा च गिरिश्रेष्ठतपस्स्थला ॥ २२३॥
गिरिप्रावण्यलावण्या गिरिणद्धा गिराणदा ।
गिरिगह्वरसन्दृश्या गिरिकुल्या गिरिप्रिया ॥ २२४॥
रुद्राणी रुद्रसम्प्रीता रुद्रप्रयागभासुरा ।
मन्दाकिन्यलकानन्दा सङ्गमोल्लासखेलना ॥ २२५॥
मन्दाकिनी सुकेदारी मन्दहासमृदुप्रभा ।
नन्दालकापुरीजाता द्युतिश्वेतातिचण्डभा ॥ २२६॥
मन्दाकिन्यतिवैचित्र्या चित्ररूपा सुगामिनी ।
फेनद्युत्यलकानन्दा पाषाणखण्डगर्जना ॥ २२७॥
सितप्रभालकानन्दा मन्दाकिनी हरीन्द्रभा ।
विष्णुगङ्गा सुरालास्या शिवगङ्गासुसङ्गमा ॥ २२८॥
असङ्गतानुभूतिश्च सङ्गमाहर्षमज्जना ।
बहुशक्तिग्रहावेगा सन्दिग्धसन्निमज्जना ॥ २२९॥
बृहत्प्रमाणतीर्थौघा तूर्णिघूर्णिभयानका ।
शीतोदकातिशीघ्रा च शीघ्रातिशीघ्रगाहिता ॥ २३०॥
अष्टोत्तरशतामग्ना अष्टोत्तरशतार्चिता ।
इष्टेष्टिमानसेन्वा च इष्टेष्टसिद्धिदावरा ॥ २३१॥
श्रीनारदशिलोपान्ता गङ्गास्तोत्रसुपूजिता ।
त्यागराजगुरुस्वामिसत्कीर्तनौघसंस्तुता ॥ २३२॥
श्रीनारदगुरुस्वामिवीणागानलयस्थिता ।
नारदानन्दगेया च रागताललयस्तुता ॥ २३३॥
शारदा शरसम्पूर्णा शरदिन्दुरुचिस्फुरा ।
क्षपानाथस्मितोर्मिश्च क्षीरसागरसन्निभा ॥ २३४॥
वरानन्दस्वरानन्दा वारिवर्षणहर्षणा ।
गुरुकीर्तनसङ्गीता कविमानससंस्तुता ॥ २३५॥
शङ्करालयसङ्गीता शिवशङ्करमज्जना ।
ओंकारश्रुतिसन्नादा नादोंकारलयालया ॥ २३६॥
सङ्गमातीतसौन्दर्या रविराजलसत्प्रभा ।
व्यस्तद्विरङ्गसंयोगा रङ्गरङ्गणसत्प्रभा ॥ २३७॥
मन्दाकिनी महागङ्गा महादेवकृपावहा ।
पिण्डर्नन्दाकिनीधौलीसङ्गतालकनन्दभा ॥ २३८॥
शिवा विष्णुपदोद्भावा भद्रंकरी भयङ्करी ।
सुस्वरा सुस्वरानन्दा सुस्वराह्लादकारिणी ॥ २३९॥
विष्णुगङ्गा शिवानन्दा रुद्रप्रयागसङ्गमा ।
सत्यकामप्रसादा मा सदाशिववरप्रदा ॥ २४०॥
भग्नीभागीरथीतीर्थासन्धितालकनन्दभा ।
देवप्रयागपुण्यौघा गङ्गानामनदीवरा ॥ २४१॥
शिख्युत्तुङ्गहिमोद्भावा गाढकन्दरसङ्गमा ।
लोककल्याणमार्गा च नरोद्धारणधावनी ॥ २४२॥
रघुनाथपदावाहा रघुनाथदयावहा ।
पुराणी पूरणी गङ्गा बहुगीततपस्स्थला ॥ २४३॥
अतिचण्डालकानन्दा भागीरथी भयङ्करी ।
समाश्लिष्टसलावाहा गङ्गानाम्न्यतिसुन्दरी ॥ २४४॥
दरीवाहपयःपूरा नेत्रपूरणवीक्षणा ।
लक्षणाङ्कितनीरा च शुभलक्षणलक्षिता ॥ २४५॥
तरङ्गकरतुङ्गा च आशीकरी वशीकरी ।
अतिक्षिप्रगरीतिश्च लोकयानसुतत्त्वनी ॥ २४६॥
दारुणा दारिताज्ञाना द्राविताघानुबन्धना ।
वारिवर्षितकारुण्या द्रवरूपापरावरा ॥ २४७॥
सदया सुबला माता अबलापोहनाजरा ।
जराद्यपोहना गङ्गा आधिव्याधिविनाशिनी ॥ २४८॥
बहुस्नातोपभुक्ता च बहुवेलनिमज्जना ।
प्रभातोद्दिनसन्ध्यादिनान्तस्नानसुभावना ॥ २४९॥
जीवसंरक्षणार्थालगनीयलोहशृङ्खल-
-ग्राहणावेगभीष्मप्रवाहदेवप्रयागखा ॥ २५०॥
अविस्मृतव्यभुक्तिश्च विस्मृतव्येतरागता ।
रजनीक्षीरगङ्गा च दिवाद्युतिवरारका ॥ २५१॥
नैत्यदा नित्यमाङ्गल्या नित्यप्रेरणहेतुका ।
सौदामनीयसम्भासा सौमङ्गलोदकासुका ॥ २५२॥
संसारतापमध्याह्नमनोगह्वरदर्शिता ।
पारसम्पठितस्तोत्रा स्तोत्रगीतसमर्चिता ॥ २५३॥
रोधखण्डनवेगार्णश्चित्तवृत्त्यवरोधका ।
रोदसीवाहदिव्या मा नित्यकृत्याभिवन्दिता ॥ २५४॥
सतोपान्तालकानन्दा भागीरथी सुगोमुखी ।
उत्तुङ्गोर्मिसुनृत्या च स्वागताह्लादसङ्गमा ॥ २५५॥
शमवाहालकानन्दा अट्टहासभगीरथी ।
करोर्म्याश्लिष्टसत्पुत्री सम्मृष्टानन्दकारिणी ॥ २५६॥
आशीकरोर्मिवाहा मा सुधाप्लावसुमज्जना ।
सत्त्वपानीयसंवर्षा सत्त्वश्रीरामसेचना ॥ २५७॥
शीतापा सुहिता गङ्गा आशीकरोर्मिनन्दिनी ।
शीताम्बुस्पर्शनानन्दा आनन्दकन्दयोगिनी ॥ २५८॥
अरोधचिन्तनारोधा अरोधकवितासरी ।
अरोधवारिवेगा च अरोधोंकारनादिनी ॥ २५९॥
दयापयोवहा गङ्गा दशाननरिपुस्तुता ।
दिननक्तस्मृता माता दिव्यलावण्यसस्फुरा ॥ २६०॥
दिव्या मरकतश्यामा दिव्यप्रयागदर्शना ।
दिव्यानुभवसङ्गीता दिव्यनाम्नी सुगङ्गिका ॥ २६१॥
सत्स्तोत्रगीतसंतोषा संतुष्टिदायिनी जनी ।
संतुष्टिपाठसद्बोधा विनयस्तुतमङ्गला ॥ २६२॥
गङ्गा गमनगाम्भीर्या गानमाधुर्यवाक्स्थिता ।
मङ्गलानन्दमार्गा च अशोषा शोषिताशया ॥ २६३॥
अशोष्यकविताधारा अनत्युक्तिस्तुतिस्फुरा ।
अविश्रान्तसुवाग्वर्षा विश्रान्तकवितासुखा ॥ २६४॥
बहुलप्रस्तुता देवी बहुरागनिरञ्जनी ।
बहुरासतरङ्गा च बहुमान्या बहुस्रुतिः ॥ २६५॥
तृपतद्युतिसंधौता तारसानसिशोभिनी ।
घृणिराजविराजाभा घृणिनी सुघृणीवती ॥ २६६॥
रात्रीरजतराजी च दिवारौप्यसुपत्रिका ।
यात्रायासापहा गङ्गा दिव्यनव्यसुजीवना ॥ २६७॥
सुगृहीतसुनाम्नी मा सुवाक्सरणिधावनी ।
सत्त्वासक्तिस्तुता गङ्गा सत्त्वसंस्फूर्तिदायिनी ॥ २६८॥
नित्या सुयौवना गङ्गा नित्ययौवनदायिका ।
सत्या सलक्षणा माता सुदामगसुदामगा ॥ २६९॥
सुमना सुमखा सुस्था सुवेगा च सुभेषजा ।
सुस्नाना सुस्वना सूक्ता सुस्रवन्ती सुभोगदा ॥ २७०॥
कविताभासभासन्ता भासमानसरिद्वरा ।
गङ्गा गमनविश्रामा विश्रान्तिदायिनी वनी ॥ २७१॥
अनश्वरप्रकीर्तिश्च अनश्वरा वनेचरा ।
नश्वरासक्तिविद्रावा नष्टशोकाघमण्डला ॥ २७२॥
कावरा गावरा गङ्गा भावरा नादमोदिनी ।
खावरा सुस्रवा गङ्गा सुस्वरामोददायिनी ॥ २७३॥
लयलास्यसुगाम्भीर्या स्वरातिमृदुमाधुरी ।
मृद्वङ्का मृदुभाषा मा मधुगङ्गा मतिप्रदा ॥ २७४॥
गङ्गात्यद्भुतसौन्दर्या अतिलावण्यवाहिनी ।
अतिस्वादुजला गङ्गा स्वादिष्ठफलदायिनी ॥ २७५॥
आभोगा भोगतृष्णाहा भोगदा भोग्यभक्तजा ।
भक्ताजीवनजीवा च भक्ताजीवनजीवना ॥ २७६॥
घनारण्योद्वहा गङ्गा वनोत्सङ्गातिमुग्धता ।
श्वेतबालूकपारा च हरिकीलालशोभना ॥ २७७॥
सबलिस्नानसम्मग्ना कौषेयपेयतोषिणी ।
स्नानानन्तरनिध्याता स्नानपाननिरन्तरा ॥ २७८॥
कौशेयतलगाम्भीर्या कौशल्यासुतसंस्तुता ।
कौशेयगेयगेयस्था त्यागराजसुतावनी ॥ २७९॥
शुद्धस्फटिककाचारा काचकाञ्चनकावरा ।
दौकूलस्पर्शनानन्दा स्नानात्यद्भुतशीकरी ॥ २८०॥
हरितारण्यकंबिम्बा शुद्धनीलप्रकाशिनी ।
हरिवर्णसुकान्तिश्च स्तिमितप्रवहा सुगा ॥ २८१॥
हैमाचलचला गङ्गा हैमाभास्फुरभामिनी ।
मङ्कुरादर्शकाभासा मनोमङ्कुरलासिनी ॥ २८२॥
पूतप्रसन्नकीलाला तलनिम्नशिलागुणा ।
प्राकृतच्छविभासा च अप्राकृतयशोमयी ॥ २८३॥
आधारब्रह्मनैर्गुण्या शुद्धचैतन्यसुप्रभा ।
आस्तारतलगुण्या च सगुणब्रह्मसत्प्रभा ॥ २८४॥
अधोब्रह्मस्वभावा च ब्रह्मत्वतत्त्वकाशिनी ।
तलप्रकृतिबिम्बा च ब्रह्मानन्दप्रकाशिनी ॥ २८५॥
अज्ञानमलिनाधावा प्रज्ञानपुष्टिवर्धिनी ।
अज्ञानावस्थिताश्राया ज्ञानसूर्यप्रकाशका ॥ २८६॥
पारबालूकसंध्याता सन्ध्याच्छविमनश्शमा ।
परानन्दगभीरा च मनोगभीरसान्त्विनी ॥ २८७॥
पक्षिसुस्वरसन्नादा नादमूलप्रशान्तिका ।
प्रशान्तरीतिकावाहा तत्त्वार्थबोधनापगा ॥ २८८॥
शर्करी रुचिरा गङ्गा शोकवाहा सुखावहा ।
अचलप्रशमावाहा मौनमध्यसुखस्वरा ॥ २८९॥
प्रदोषापाररम्या च प्रदोषशमसालया ।
प्रणवाधस्थशान्तिश्च प्रणवप्रशमालया ॥ २९०॥
नादादिप्रणवाकारा प्रणवामूलनीरवा ।
नीरवोद्भावनादा च प्रणवाकारसुस्वरा ॥ २९१॥
घनगानघनारामा घननीरवसुस्वरा ।
नीरवानीरसंगाढा नीरवामृदुगारवा ॥ २९२॥
घनपालाशवर्णाभा बालुकानीरवावहा ।
घनपाषाणरासा च घनान्धकाररोहिणी ॥ २९३॥
नीरस्मितोदयादित्या नीरसौमेरुकस्फुरा ।
नीरस्मेरस्तुतिस्तोत्री नीरपारप्रवाहिणी ॥ २९४॥
ऋतुपर्यायवैचित्र्या सन्दृष्टप्रकृतिक्रमा ।
स्वभावाविकृता गङ्गा विश्वप्रकृतिकर्फरा ॥ २९५॥
ग्रीष्मपीनपयोधारा हैमन्तशमितावहा ।
स्वच्छप्रशान्तिसम्भासा वर्षाम्बुवर्णमृत्तिका ॥ २९६॥
हैमन्तहरिनीलाभा शरदिन्दुखबिम्बका ।
नीरकेलाससाभासा बिम्बप्रकृतिमङ्कुरा ॥ २९७॥
इन्दुसौन्दर्यकंबिम्बा इन्दुशेखरशेखरी ।
बिम्बेन्दुपूरदुग्धौघा विद्युत्स्फूर्तिप्रभासिनी ॥ २९८॥
फेनद्युतिहरिश्वेता फणिशायिपदोदका ।
नीलाकृतिघनश्यामा नीलनिर्मलनीरभा ॥ २९९॥
शिशिरावर्णसौवर्णा तप्तमानसशीतला ।
शैशिरोदकसौख्या च तपोयुक्तमनश्शमा ॥ ३००॥
कोलाहलाचला गङ्गा आक्रोशोपलवाहिनी ।
बालूकशान्तरीतिश्च शमशामितवाहिनी ॥ ३०१॥
गिरिमध्यावहा गङ्गा गिरिजालप्रसर्पिणी ।
हृषीकेशप्रतीतिश्च बहुलास्यतरङ्गिणी ॥ ३०२॥
हृषीकेशस्मिता गङ्गा हृषीकेशस्थलस्तुता ।
हृषीकेशपदाङ्का च हृषीकेशपदोद्भवा ॥ ३०३॥
हृषीकेशातिवैशाल्या हृषीकेशदमालिका ।
हृषीकेशकविस्फूर्तिर्हृषीकेशस्फुटस्तुतिः ॥ ३०४॥
धीशक्त्युत्तेजना गङ्गा धीमती श्रीमती सती ।
चिच्छक्त्युद्बोधकारा मा चिन्तितार्चितश्रीधरी ॥ ३०५॥
विरक्तचित्तसुज्ञाना ज्ञानानन्दफलावहा ।
योगलीनत्वसंवर्धा तपस्साधनसुस्थला ॥ ३०६॥
श्रीकरी शीकरी माता शीकरस्पर्शलालिनी ।
कोपतापहरा गङ्गा पापापहसुदर्शिनी ॥ ३०७॥
गङ्गा गाम्भीर्यपर्याया मीरपारप्रवाहिणी ।
कमनीया मनोरम्या कामारिसुखशीतला ॥ ३०८॥
नगजा नगसंवाहा अनघा अचलप्रभा ।
नगजाह्लादगायस्था अचलार्गललास्यगा ॥ ३०९॥
कुङ्कुमाङ्कितशोभा च कुसुमार्चनभासुरा ।
मङ्गलाङ्का शुभोत्तुङ्गा माधुर्यतमसुस्वरा ॥ ३१०॥
कविताप्रेरणा गङ्गा कवितार्षलयस्थिता ।
स्फूर्तिस्मेरसुवाक्श्रीश्च स्फूर्तिमूलमदम्बिका ॥ ३११॥
कविताभाससम्भासा भासमानसुगङ्गिका ।
भास्करद्युतिशोभा च प्रालेयरश्मिमोहिनी ॥ ३१२॥
प्रत्यक्षकविताहर्षा कविताह्लादनादिनी ।
कविमानससंहर्षा काव्यामोदातिमोदिनी ॥ ३१३॥
यात्रापरमुदादर्शा क्लान्तिसंवाहमज्जना ।
रात्रीशीलालना गङ्गा प्रातर्दृष्टिप्रसादिनी ॥ ३१४॥
अरुणोदयसुस्नाता सन्ध्यास्नानप्रशान्तिदा ।
ऊषप्रशान्तिसँल्लीना सायंसन्ध्याप्रशान्तभा ॥ ३१५॥
प्रागुषःस्नानसाह्लादा दीपावलिसुपूजिता ।
दीपज्योतिस्स्फुरा गङ्गा दौकूलाम्बरभामिनी ॥ ३१६॥
प्राक्सन्ध्यारागरागाभा कलधौतमयस्फुरा ।
ऊषावाच्यातिरम्याष्ट्रा नित्यमङ्गलसुस्वरा ॥ ३१७॥
स्नानपानपरागीता ध्यानतत्परसन्नुता ।
प्रवाहान्तरकाठस्थतथ्योपचारिणीनुता ॥ ३१८॥
उषोगानश्रुतिर्गङ्गा पक्ष्यनुस्वरमोदिनी ।
उषोगाराधिता गङ्गा ज्ञानेनोदयनादिनी ॥ ३१९॥
उषस्सङ्गीतरागा च अरुणोदयसस्मिता ।
भातशान्तिप्रसादा मा गानाञ्जलिप्रसादिनी ॥ ३२०॥
श्रीत्यागब्रह्मसङ्गीतसत्कीर्तनौघवाहिनी ।
शिष्यापुष्पामुखश्रोत्री गुरुकीर्तननन्दिनी ॥ ३२१॥
दीक्षितानूतसङ्गीतमीनाक्षी अन्नपूरणी ।
दीपावलिदिनामुक्तसिद्धदीक्षितसंस्तुता ॥ ३२२॥
श्रीदीक्षितकृतिश्रोत्री श्रीचक्रमध्यदैविका ।
सिद्धिप्रसादवीणादा काशीक्षेत्रसुसम्भवा ॥ ३२३॥
दीक्षिताञ्जलिहस्तोदा सिद्धिपूर्णप्रसादिनी ।
हस्तोदकसुवीणा च वीणानादप्रमोदिनी ॥ ३२४॥
गङ्गा गिरीशशीर्षस्था गम्भीरगायगामिनी ।
तीर्थमूला कृपालुश्च खेलगा जह्नुबालिका ॥ ३२५॥
ध्यानस्था वरपानस्था गानस्था नुतिगीतिका ।
ज्ञानदीपप्रदीपा मा नुतिदीपावलिस्फुरा ॥ ३२६॥
अरुणोदयपिञ्जारा सहस्रार्चिस्स्फुरत्प्रभा ।
तारतावीषतेजस्का द्युतिलासविलासिनी ॥ ३२७॥
सलिलात्यूषसंहर्षा नेमदीपावलिस्मिता ।
शिशिराशिरसंशोभा हेमदीपस्फुरज्जला ॥ ३२८॥
मेघदीपाभमेघा च गीतदीपावलीसुभा ।
रागदीपाभरागा च धीदीपस्फुरदीपिका ॥ ३२९॥
गीतमाता नदीमाता लोकमाता सुरूपिणी ।
श्रीमाता प्रेष्ठधीमाता मातृगङ्गा नमस्कृता ॥ ३३०॥
पूर्णसूर्यग्रहास्नाता शतवर्षैकसम्भवै-
-तदसाधारणावृत्तित्रिकालस्नातपावनी ॥ ३३१॥
अविस्मृतमहास्नाना सर्वपापविमोचनी ।
बहुजन्मकृताघौघसंविमोचनकारिणी ॥ ३३२॥
भविष्योद्धारिणी गङ्गा विश्वासाकम्पिताश्रया ।
एकभक्तैकसंश्राया मदम्बा मम तारिणी ॥ ३३३॥
अज्ञानतिमिराहन्त्री सुज्ञानसुरदीपिका ।
सज्ज्ञानमार्गसन्नेत्री पुनरावृत्तिवारणी ॥ ३३४॥
लोककर्दमसामीपा अलौकिकैकमोददा ।
संसारदुःखसंवाहा संसाररावसान्त्विनी ॥ ३३५॥
तापसान्ता तपोभान्ता मानसान्तःसुवासिनी ।
सत्त्वासक्तिसुसम्प्राप्तिः सत्त्वातीतप्रशान्तिदा ॥ ३३६॥
नित्यनूतननव्या च आरोग्ययौवनावहा ।
सन्तप्तमतिशीता च तप्तचामीकरावरा ॥ ३३७॥
नित्यस्नानमनोवाहा नित्यानुभूतिसंस्तुता ।
नित्यनिष्ठापरागीता नित्यानन्दप्रवाहिणी ॥ ३३८॥
धनिनी विपुला गङ्गा अशिरा प्रचुरा चिरा ।
सदायाना महायाना शुभयाना चिरस्थिरा ॥ ३३९॥
उषानन्दशुभस्नाता माध्याह्नसंस्कृतस्तुतिः ।
उषःप्रशान्तिनिध्याता सन्ध्यास्नानपरानुता ॥ ३४०॥
उषःकान्त्यतिशोभा च दिवादिनमणिद्युतिः ।
ऊषकोंकारनादा च उषसीरागभालया ॥ ३४१॥
उषःकोकिलसङ्गीता गीतामोदप्रसादिनी ।
ऊषेन्द्रनीलजालाभा सायंस्वर्णाभभामिनी ॥ ३४२॥
प्रातःशान्तिमया गङ्गा सन्ध्यारागलसत्प्रभा ।
सौन्दर्यदेवता गङ्गा नेत्रोत्सवलसच्छविः ॥ ३४३॥
झल्लिकाच्छायपर्याया पञ्चमोभागभासुरा ।
पञ्चमस्वरसुश्राव्या पक्षिजालकलस्वरा ॥ ३४४॥
सन्ध्यारश्म्यतिशोभा च सन्धिप्रशान्तिसुस्वरा ।
चिदाकाशसुनीलाभा नीलखाब्भ्रबलक्षका ॥ ३४५॥
अष्टोत्तरशतामग्ना शतिनामजपस्फुरा ।
नामसङ्कीर्तनानूता नामगानलयस्थिरा ॥ ३४६॥
नादस्वररसारासा नादप्रशान्तिसान्त्वदा ।
नादार्थिहृन्नदानादा नादसात्मत्वसाधना ॥ ३४७॥
नामप्रभावसन्नादा नादानन्दसुनादिनी ।
नुतिनामसमष्टिस्था नामपुष्पासवस्रवा ॥ ३४८॥
पाषाणखण्डसन्नादमृदङ्गमृदुलध्वनिः ।
पक्षिसप्तस्वरोड्डीनाकाशमार्गसुगामिनी ॥ ३४९॥
आदर्शतलसंदर्शा ईश्वरादर्शदर्शना ।
नीरवारवगाम्भीर्या सन्ध्यानीरवमाधुरी ॥ ३५०॥
सन्ध्यास्वर्णमया गङ्गा सूर्यरश्मिस्फुरज्जला ।
सन्ध्यास्नानस्तुतागीता सन्ध्यादीपाभिपूजिता ॥ ३५१॥
बहुवर्णलसत्तोया सन्ध्यारागसुरागिणी ।
तरलोर्मिसुरङ्गा च चारुसौवर्णलासिनी ॥ ३५२॥
नीलस्वर्णस्फुरत्कान्तिर्विद्युत्प्रभाविलासिनी ।
सन्ध्यारम्यसमुल्लासा सन्ध्यारूपमनोहरी ॥ ३५३॥
चिन्तितादर्शिता गङ्गा स्नाता पीता सुकीर्तिता ।
सदाध्याता मदामोदा मनस्कूटा मयस्करी ॥ ३५४॥
तापितात्मश्रया गङ्गा तपोमानसजीवनी ।
जलजानन्दसानन्दा जलस्फूर्तिसुहेतुका ॥ ३५५॥
विषयासक्तिकूपाद्विदूरात्मसुखदायिनी ।
दुर्गपाषाणपारा च अपारात्मलयावनी ॥ ३५६॥
संसाररावमध्यैकज्ञानकोकिलसुस्वरा ।
सारहीनैहिकप्रातिकूल्यातिसारसारका ॥ ३५७॥
जीवशक्तिस्फुरन्नीरा नीरस्फुरणभास्करा ।
जीवस्फुरणपारा च स्फूर्तिप्रेरणजीवना ॥ ३५८॥
जीवनाधारधारा च जीवनी नतजीवनी ।
जीवाधारसुनाडी च जीवधारसुजीवना ॥ ३५९॥
स्नानध्यानशमाधारा पाननामलयावहा ।
ध्यानज्ञानफलाधात्री गानतत्परसत्फला ॥ ३६०॥
सलिलात्यूषनैर्मल्या सतताश्वेतनिर्मला ।
हिमाद्र्यमृतसंवाहा वासुराहिमभासुरा ॥ ३६१॥
पर्जन्यश्याववार्यौघा पारोत्कूलप्रवाहिणी ।
वर्षश्वेतकुहेली च वार्षिलास्फटिकायुता ॥ ३६२॥
अतिवृष्ट्यतिवेगा च अतिचारुभयङ्करी ।
अतिचण्डमरुद्घूर्णा गङ्गा साष्टाङ्गवन्दिता ॥ ३६३॥
नानावैचित्र्यसौन्दर्या उड्डीनगुत्सशीकरी ।
धाराधवलगुत्सा च वायुवेगसुनृत्यका ॥ ३६४॥
वायुवेगा मनोवेगा कविवेगप्रवाहिणी ।
मनोवेगस्थिता गङ्गा मनोलालसपूजिता ॥ ३६५॥
नित्यनूतनवेला च नित्ययौवनशीतला ।
नित्यनूतनवाक्चेला नित्यनूतनवाङ्मयी ॥ ३६६॥
नित्यारम्यातिभव्या च सुभद्रा भद्रवाङ्मयी ।
काव्यानन्दातिसौवर्णा कविश्रेष्ठसुवर्णिता ॥ ३६७॥
वर्णनीया सुवाग्वर्णा वाग्वर्णपरिपूर्णका ।
वर्णवाग्वर्षवर्णा च वाग्वर्षपरितोषिता ॥ ३६८॥
वर्णनातीतसौवर्णा वर्णवाग्वर्षवर्णिनी ।
वर्णकावर्णरूपा च वर्णवाग्लासलासिनी ॥ ३६९॥
बहुवर्णलसद्भासा बहुरागतरङ्गिणी ।
ऋतुरङ्गविधारङ्गा विविधारङ्गरङ्गिणी ॥ ३७०॥
वसन्तग्रीष्मवर्षालुशरद्धैमन्तशैशिर-
-ऋतुपर्यायपर्याप्तरङ्गच्छवितरङ्गिता ॥ ३७१॥
ग्रीष्महैमक्षरासारा क्षरिद्गैरप्रवाहिणी ।
हैमन्ताच्छबलाहा च शरच्चन्द्रद्युतिस्फुरा ॥ ३७२॥
पिकानन्दवसन्ताघोषमिष्टस्वरपूरिता ।
गङ्गा रङ्गणसौरङ्गा मतितारागणस्फुरा ॥ ३७३॥
ग्रीष्मगौरप्रवाहा च वर्षपङ्किलवर्णिनी ।
हिमर्तुस्वच्छनीलाभा शुक्लपिञ्जारवाहिनी ॥ ३७४॥
प्रातर्धूसरखर्जूरा सीरगोगौरगैरिका ।
प्रदोषश्वेतनीला च नीलजीमूतसन्निभा ॥ ३७५॥
श्वेतनीला हरिच्छाया श्यामसुन्दरवर्णभा ।
कनकाङ्कलसद्रङ्गा सायम्प्रशान्तिदीपिनी ॥ ३७६॥
सन्ध्यानीलप्रशान्तिश्च शुद्धनीला घनाघना ।
पिञ्जारकौशवस्त्राभा श्येता श्यामा सुरागभा ॥ ३७७॥
चित्ररङ्गतरङ्गा च गङ्गा रङ्गतरङ्गिणी ।
रयमध्यशिलारूढश्लक्ष्णपक्षिस्वरानुता ॥ ३७८॥
चन्द्रोदयातिरम्या च चन्द्रचन्द्रस्फुरच्छुभा ।
क्षीरोदसन्निभाशुक्ला तारासान्द्रस्मितप्रभा ॥ ३७९॥
सौवर्णा वर्णवाग्रासा सौवर्णवर्णलासिनी ।
रामा कृष्णा सुमेघा च घनाघनघनस्वना ॥ ३८०॥
वर्णस्फुटसुगाच्छाया कविवर्णनवर्णभा ।
वर्णवर्णनवर्णा च वर्णावर्णसुवर्णका ॥ ३८१॥
चेतोहरा सुहीरा च चारुगाचारुगामिनी ।
सलिलाद्भुतमाधुर्या स्मितस्मेरतरङ्गिणी ॥ ३८२॥
वर्णसम्पूजिता माता वर्णापर्णावरावरा ।
वर्णजालसुहृद्धारा वर्णवर्णसुवर्णभा ॥ ३८३॥
रजताश्वेतमुत्या च शुद्धश्वेतसुशोभना ।
पिङ्गकौसुम्भवर्णाभा हिरण्याभतडित्प्रभा ॥ ३८४॥
हरीन्द्रनीलकान्तिश्च स्वच्छस्फटिककाहरा ।
हरितापिङ्गलाशोभा तप्तचामीकराकरा ॥ ३८५॥
इन्द्रचापच्युतावर्णा चन्द्रबिम्बलसत्प्रभा ।
वन्द्रशापविमोक्त्री च वन्द्रचित्ताब्जचन्द्रिका ॥ ३८६॥
श्वेताश्वेताचलानन्दा श्वेतमुत्यसुभूषिणी ।
श्वेताम्बराम्बराश्वेता सत्त्वश्वेतसुदिव्यभा ॥ ३८७॥
सौवर्णवर्णकोल्लासा शुक्लपिङ्गाशशोभना ।
अतिनीला हराभासा कंदर्पणप्रसन्नता ॥ ३८८॥
लोकसन्तापसंवाहा तप्तजाम्बूनदानदा ।
रूपवर्णातिरिक्ता च वर्णप्रवाहवाहिनी ॥ ३८९॥
नीरस्फुरन्निशाराज्ञा उषोनिर्माल्यदर्शना ।
निर्माल्यदर्शनाभासा निष्कामपूजिकोद्धरा ॥ ३९०॥
कौशाम्बरधरा देवी कौशेयस्पर्शलालिनी ।
कौशेयाभातिदौकूला कौशेयहरिवर्णिनी ॥ ३९१॥
रजता मा रजोपोहा तमआवृतपाटिनी ।
रजस्तमोघविद्रावा रजतस्फुरभामिनी ॥ ३९२॥
शुद्धसत्त्वसुशोभा च सत्त्वानन्दप्रकाशका ।
हैमकौशेयसम्भासा हैमदाहैमसज्जला ॥ ३९३॥
नीलश्यामघनाभासा श्वेतवर्णा हरिप्रभा ।
शोभामरकताभा च कौसुम्भपिञ्जराजरा ॥ ३९४॥
विविधारङ्गरङ्गाभा नीलाकाशसुदर्पणा ।
सलिलाकाशसौवर्णा नीलवर्णहरिप्रिया ॥ ३९५॥
रङ्गवैचित्र्यरम्या च अत्यूषमृदुरङ्गिणी ।
तपनागमभाच्छाया दिनान्तबहुरङ्गिणी ॥ ३९६॥
वासराशिरभासा च वासुराशशिभासुरा ।
असमानबृहद्भासा कविमानसवासना ॥ ३९७॥
तापनातापशीता च तप्तमानसशीकरी ।
तापसार्चितवाग्देवी तपस्स्फूर्तिनिवेदना ॥ ३९८॥
गङ्गा दिव्यापगा देवी सदास्मृतवरानना ।
नानारूपा सुनाम्नी च नामतारकपावनी ॥ ३९९॥
चिद्रूपा रूपसानन्दा शुद्धका शुचिरूपिणी ।
हृद्गता मम त्रात्री मा गुण्या गुणौघवाहिनी ॥ ४००॥
द्रुतगाङ्गेयका गङ्गा सौमेरुकोदकावनी ।
दान्तसंरक्षणा गङ्गा ज्ञानज्योतिःप्रदीपनी ॥ ४०१॥
तलदर्पणसम्भासा तरुणारुणरश्मिभा ।
कलस्वरा स्वराभासा कलस्वरार्चितासुदा ॥ ४०२॥
तरङ्गावलिनीराभा निस्तरङ्गप्रशान्तिदा ।
तरङ्गरङ्गरङ्गाभा रङ्गशायिसुरागगा ॥ ४०३॥
नीररङ्गसुरागा च नीरस्मेरसुलक्षणा ।
नीरजानन्दवाग्धारा नीरजाह्लादगायना ॥ ४०४॥
क्लान्तिच्छिद्घनगाना च श्रान्तमानससान्त्विनी ।
श्रितानन्यैकसौख्या च श्रुतोंकारसुनादिनी ॥ ४०५॥
जीवनाजीवनागम्या जीवजीवनजीवनी ।
जीवनानन्दजीवा च जीवनामग्ननन्दिनी ॥ ४०६॥
जीवनासक्तिजीवा च आजीवनार्ह्यवत्सला ।
आजीवजीवनास्नानलालसापूरसत्सला ॥ ४०७॥
चारुका चारुपर्याया चारुहाससुलासिनी ।
चारुवैचित्र्यलावण्या चारुगोत्रसुगोत्रिणी ॥ ४०८॥
सहस्रार्चननामाभा नामसारातिसारका ।
सहस्रश्लोकवाग्वर्षा सहस्रायुतवाचिका ॥ ४०९॥
हरिदश्वस्फुरा गङ्गा सहस्रार्चिसुतेजसा ।
सहस्रायुतदोषघ्नी सहस्रश्लोकभासुरा ॥ ४१०॥
हरिनामसहस्राभा हरिभक्तिसुमार्गिणी ।
हरिपादोदका गङ्गा हरिद्वारविलासिनी ॥ ४११॥
हरिद्वारमहोत्साहा हरिनामसुलासिनी ।
हरिभक्त्यावहा गङ्गा हरिसात्मीकराधरा ॥ ४१२॥
हरिनामसहस्नाता हरिद्राकुङ्कुमार्चिता ।
हरिकारुण्यवेगौघा हरिपूजनपूजिता ॥ ४१३॥
हरिनामसुमप्रीता हरिमाधवनामगा ।
हरिकेशवगोविन्दनामसङ्कीर्तनावहा ॥ ४१४॥
नेत्रपूरणपूरौघा नेत्रानन्दसुरूपिणी ।
मनःपूरणपूर्णौघा मानसस्थिरगामिनी ॥ ४१५॥
उषस्स्नाता सुसङ्गीता सायन्दीपसुमार्चिता ।
दीपाभारुग्मसम्भासा सन्ध्यारतिसुवैभवा ॥ ४१६॥
सन्ध्याभाराधिता गङ्गा सन्ध्यादीपस्फुरावरा ।
सन्ध्यासुरागसङ्गीता सन्ध्यारागातिदेवता ॥ ४१७॥
भक्तिदीपस्फुरत्स्वर्णा सन्ध्यारागातिरागिणी ।
हरिद्वारसुवैशाल्या क्षिप्रातिसुखदायिनी ॥ ४१८॥
चलदीपावलीदीप्रा नित्यदीपावलिस्फुरा ।
सलदीपावलीरागा रागदीपालयस्तुता ॥ ४१९॥
दीपाभाशोभिता गङ्गा ज्ञानाकाशप्रदीपिनी ।
बहुरागलसद्भासा दृष्टमात्रप्रहर्षदा ॥ ४२०॥
हरिनामसुमस्यूमा नामपुष्पाभिपूजिता ।
परिप्लाव्यसुधाप्लावा तमोमलिनधावनी ॥ ४२१॥
हरिरश्मिमुदास्नाता अतिवेगाभिनन्दिनी ।
हर्षाविस्मृतभूतिश्च रात्रीस्नानातिमोदिनी ॥ ४२२॥
राजभाराजराजौघा राजमानशुचिस्स्फुरा ।
राजाधिराजसंपूज्या भूजापूजितसुप्रभा ॥ ४२३॥
हरिनामस्मरास्नाता हरिकारुण्यवाग्वहा ।
हरिसङ्कीर्तनावाहा हरिदासनुतिस्फुरा ॥ ४२४॥
हरिनामस्वरागीता हरिनामसुमाधुरी ।
हरिहारिगुरुप्रीता त्यागब्रह्मसुवाग्वहा ॥ ४२५॥
नादानन्दपयोवाहा नादोपशमकारिणी ।
नादाहृतहरिद्वारा नादवैशाल्यवाहिनी ॥ ४२६॥
नित्यानधिकमाहात्म्या नित्यनिःसीमवैभवा ।
भुक्तिमुक्तिप्रदा गङ्गा भक्तिदा भक्तिसेविता ॥ ४२७॥
यात्रासन्तापिताह्वाना पांशुपटलधावनी ।
कर्मानुबन्धधावा च मोक्षमार्गप्रदर्शिनी ॥ ४२८॥
मलिनैहिकनिर्णेका मनोम्लान्युपमार्जना ।
माता गङ्गा मदाश्राया प्रसत्त्यच्छपरीवहा ॥ ४२९॥
वाक्पुष्पावलिसंशोभा वाक्सुमाराधिता सिता ।
वागर्था वाक्सुजालस्था वागौघा वरिवस्यिता ॥ ४३०॥
उषोदीपावलिस्नाता सन्ध्यादीपावलिस्फुरा ।
नित्यस्नानोत्सवा गङ्गा नित्यसन्ध्यासुदीपभा ॥ ४३१॥
महामकरसङ्क्रान्तिप्रागुषस्स्नानवैभवा ।
सूर्यचन्द्रग्रहास्नाता सर्वकालनिमज्जना ॥ ४३२॥
प्रतिद्वादशवर्षैककुम्भमेलामहोत्सवा ।
सहस्रायुतसन्न्यासिगणसेवितसुस्थला ॥ ४३३॥
यात्रासार्थायुतस्नाता बृहदुत्सवतीर्थखा ।
आचारजीवनाडी च बहुमानितखापगा ॥ ४३४॥
सर्वकालजनास्नाता सर्वकालपयोभरा ।
सर्वकालाविकल्पा च सर्वकालरुचिस्फुरा ॥ ४३५॥
वेगावरोधवेगा च मनोवेगावरोधका ।
विक्षेपमलिनाधावा स्पर्शनाशीतगङ्गिका ॥ ४३६॥
निस्तरङ्गमनोरङ्गा तरङ्गाभामनोहरी ।
पुण्या पुलकदा गङ्गा सर्वलोकमुदाददा ॥ ४३७॥
सुबला दुर्बलापोहा दुःखनिर्वृत्तिकारिणी ।
मनोबला निरामर्षा देहारोग्यप्रवर्धिनी ॥ ४३८॥
लोकनाटकसंदर्शा अलौकिकैकसाक्षिणी ।
अलौकिकाद्भुतानन्दा लोककर्दमधावनी ॥ ४३९॥
अक्षीणामृतवारिश्च शाश्वतीयाभिनव्यता ।
स्वानुभूतातिपूतिश्च शाश्वतीवहशाश्वती ॥ ४४०॥
नवनव्यप्रवाहा च नवनव्यसुकाव्यगा ।
सुलभावर्षसुश्लोका कविमानससौष्ठवा ॥ ४४१॥
अशोषकविरीतिश्च शोषमानसतोषिणी ।
कवितालास्यसँल्लासा तोषोल्लाससुपोषिणी ॥ ४४२॥
नित्यस्तोत्राभिगीता मा नित्यानुरागसन्नुता ।
नित्यनव्यसुकाव्यश्रीर्नित्यनव्या निरोधहा ॥ ४४३॥
नित्यकोलाहला गङ्गा नित्यत्वव्यक्तरूपिणी ।
नित्यदर्शनसम्प्राप्तिर्नित्यानित्यत्वबोधिनी ॥ ४४४॥
नित्या निरामया देवी सत्यानन्दचिदात्मनी ।
मिथ्यामध्यैकसत्या च तथ्यवाक्स्तुतमातृका ॥ ४४५॥
सत्त्वार्थिहृत्स्थिरा गङ्गा सत्त्वसंस्फूर्तिदायिनी ।
सत्त्वसङ्गा नगोत्सङ्गा त्यक्तसङ्गैकसङ्गिनी ॥ ४४६॥
शैलोत्सङ्गप्रवाहा च शैलावतीर्णसुन्दरी ।
सर्वलोककृपावाहा समभूमिप्रवाहिणी ॥ ४४७॥
भद्रसोमा अपांश्रेष्ठा लोकोद्धारावतारिणी ।
लोकसन्तुष्टिदात्री च पावनी पापधावनी ॥ ४४८॥
स्वादुपर्यायपायौघा स्वादुनादौघवाहिनी ।
स्वोवसीयसमागङ्गा स्वीकृतस्वादुगानगा ॥ ४४९॥
भद्रवाग्वर्षसंसिक्ता संसिक्तानन्दमिष्टता ।
मानसापूजसन्तुष्टा सङ्गीतभक्तिवाक्स्थिता ॥ ४५०॥
चित्तपूर्णपयःपूरा चिन्तनावाहवाहिनी ।
चिन्तनावाहवाहा च चिन्तनाबाधशामनी ॥ ४५१॥
चित्तरन्ध्रस्फुरद्दीपा चिच्छक्त्युत्तेजना शिवा ।
चित्तदीपस्फुरन्नीरा चिदानन्दा चिरस्थिता ॥ ४५२॥
तापनीयातिकान्तिश्च तापापोहनतामरा ।
तापसान्तस्सुसञ्चारा तपस्तेजोभिवर्धिनी ॥ ४५३॥
पौनःपुन्यनुतास्नाता सुखावहसुखावहा ।
वाक्सला वत्सला गङ्गा सलसम्भाससद्रसा ॥ ४५४॥
चलाचलाचला गङ्गा चलचित्तस्थिरकरा ।
जलरूपा जलावाहा जलजानन्दकारका ॥ ४५५॥
यमुनासङ्गता गङ्गा अधोयुक्तसरस्वती ।
त्रिवेणीसङ्गमाहात्म्या तीर्थराजप्रयागभा ॥ ४५६॥
यमुनागाढनीला च मृत्तिकावर्णगङ्गिका ।
समविस्तीर्णसंवाहा प्रयागोपमसागरा ॥ ४५७॥
गङ्गा स्वभावसंशीता चण्डप्रचण्डवेगिनी ।
यमुनानुष्णशान्ता च गङ्गीभूतहरिप्रिया ॥ ४५८॥
त्रिवेणीसङ्गमागङ्गा त्रिलोकानन्ददायिनी ।
त्रिगुणातीतसत्या च त्रितापार्तिप्रशामनी ॥ ४५९॥
दर्शनानन्दपुण्या च देवदर्शनतुष्टिदा ।
देवतासार्वभौमी मा गङ्गा दर्शनमुक्तिदा ॥ ४६०॥
पुण्यस्नानसुपाना च बहुलस्नातसुस्थला ।
पारातिदूरसङ्गा च नौकाप्राप्यनिमज्जना ॥ ४६१॥
सूर्यास्तवर्णसम्भासा द्रवसौवर्णरङ्गिणी
कौसुम्भारुणपिञ्जारा वर्णजालस्फुरत्सला ॥ ४६२॥
सायंसन्ध्याप्रशान्तिश्च चारुलास्यतरङ्गिणी ।
सन्ध्यास्नानकृपावाहा सन्ध्याध्यानलयावहा ॥ ४६३॥
अतिविश्वाससस्नाता अतिप्रेमसहानुता ।
अतिप्रेष्ठवराधात्री अतिसौमङ्गलावहा ॥ ४६४॥
नवनव्यकविस्फूर्तिनवनव्यरुचिस्फुरा ।
नवनव्यसुपानीया नवरात्रीसुपूजिता ॥ ४६५॥
शुष्कमानससम्पूर्णा पूर्णेन्दुवक्त्रभामिनी ।
शूद्रा स्वर्गोदका गङ्गा सूकरावतरस्तुता ॥ ४६६॥
सङ्क्रान्तिकुम्भमेलासुमहोत्सवकुतूहला ।
सन्न्यासिजनसङ्घातस्नानकोलाहलस्तुता ॥ ४६७॥
पौर्णमावास्यसङ्गाढा सूर्यचन्द्रग्रहाप्लुता ।
सदायात्रिगणस्नाना विशेषदिनवैभवा ॥ ४६८॥
गङ्गा गमनलावण्या श्रमापोहपरीवहा ।
सर्वकालमनोरम्या शरतारभवायना ॥ ४६९॥
प्रयागबहुविस्तीर्णा दूरमार्गप्रवर्तनी ।
काशीपुरपुराणी च बहुलोद्धारपावनी ॥ ४७०॥
पुण्यकाशीमहाक्षेत्रा दक्षिणोत्तरवाहिनी ।
वरुणासीसुमध्यस्था महास्नानविमोचनी ॥ ४७१॥
दशाश्वमेधयागानां समष्टिफलदायिनी ।
विश्वनाथाभिषेकाम्बा काशीक्षेत्रयशस्विनी ॥ ४७२॥
विश्वेश्वरप्रिया गङ्गा विश्वेश्वरस्तुतिप्रिया ।
विश्वरूपा विशालाक्षी विश्वसंरक्षणावनी ॥ ४७३॥
अन्नपूर्णा जगन्माता सुसान्निध्यसनातनी ।
काशीपुरमहापुण्या जीवोद्धारणपूरणी ॥ ४७४॥
काशीक्षेत्रशिवानन्दा शिवरामसुनामगा ।
मोक्षानन्दप्रसादा मा गङ्गा परमपावनी ॥ ४७५॥
शिवारामा शिवारामा शिवराममनस्विनी ।
उमारामशिवारामा रमारामरमाप्लवा ॥ ४७६॥
मावरोमावरामोदा मा वरा मानसार्चिता ।
नुत्यारामा नुतारामा रामनामसुमार्चिता ॥ ४७७॥
रामनामरसाप्लावा नामतारकतारिणी ।
श्रीरामनामसम्मिश्रा नारायणकृपावहा ॥ ४७८॥
केदारेश्वरसान्निध्या गौरीकुण्डातिपावनी ।
शिवाभिषेकतीर्था च त्रिकालस्नानमोचनी ॥ ४७९॥
मनोजवैरिलिङ्गार्चारूपाभिषेचना शिवा ।
मनोजपूजिता माता मनोजापूजनप्रिया ॥ ४८०॥
मनोजरूपसंवाहा मनोजपुत्रपादका ।
मनोजपुष्पमालाङ्का मनोजामोदमण्डिता ॥ ४८१॥
मनोजावस्थिता माता मनोजावस्थशामनी ।
मनोजवेगवेगा च मनोजवेदनौषधी ॥ ४८२॥
मनःश्रान्त्यपवाहा च क्लान्तिच्छेदनसुस्पृशा ।
मनःशान्त्यभिवाहा च मनःपुष्पार्चनस्तुता ॥ ४८३॥
मनःक्लेशार्चिता गङ्गा क्लेशितैकान्तमानसा ।
मनोगता निरातङ्का मनआतङ्कपूजिता ॥ ४८४॥
शून्यमानससम्पूरा निराकाङ्क्षातिकाङ्क्षिता ।
नैराश्यापोहना गङ्गा नैश्चिन्त्यसुफलप्रदा ॥ ४८५॥
दैविका दैवसम्प्रीता दैवत्यफलदायिनी ।
वेदवाक्यमहत्सारा वेदवेद्याभिवादिनी ॥ ४८६॥
गङ्गा सततनैर्मल्या मनोनैर्मल्यसङ्गता ।
त्रैलोक्यातीतसौरूपा त्रिगुणातीतसौख्यदा ॥ ४८७॥
कलिकल्मषनाशा च कल्यार्तिशमनावहा ।
कलिपुण्यकरा गङ्गा कलिशोकनिवारिणी ॥ ४८८॥
कलिमानवसुश्राया कारुण्यौघपरीवहा ।
कलिदोषनिवारा च कलिप्रत्यक्षदेवता ॥ ४८९॥
कलाधरा कलाधारा कलिकालुष्यहारिणी ।
कलहंसा कलाभासा कलाधरमहाद्युतिः ॥ ४९०॥
कालभीत्यपहा गङ्गा कालान्तकप्रिया कला ।
काली कनकधारा च कालकालाभिषेकका ॥ ४९१॥
हिमशृङ्गोद्भवा गङ्गा हिमोत्सङ्गप्रवाहिणी ।
हिमोपशल्यवाहा च समभूबहुदूरगा ॥ ४९२॥
हरिद्वारा प्रयागा च काशीकलुषहारिणी ।
प्राच्यवङ्गागता गङ्गा समुद्रप्रतिगामिनी ॥ ४९३॥
लोककूपनिमग्नानां चित्तागोचरज्ञानिनी ।
विरक्तासक्तभक्तानां चित्तगोचरज्ञानिनी ॥ ४९४॥
पराह्लादा परंहंसा श्रीरामकृष्णसेविता ।
ब्रह्मनिष्ठातितुष्टिश्च तुष्टिवृंहणमावरा ॥ ४९५॥
श्रीरामकृष्णसद्ध्यानपारा गङ्गा परावरा ।
परब्रह्मपयोरूपा पारावारपरायणा ॥ ४९६॥
श्रीरामकृष्णनिध्यातकाली गङ्गा कलारवा ।
श्रीरामकृष्णसान्निध्यपरायणपरापरा ॥ ४९७॥
सुकुमारी प्रवृद्धा च प्रवृद्धश्रीमती धनी ।
सौलभ्या दुर्लभा दिव्या दुर्गा दुर्गनिवारिणी ॥ ४९८॥
सागरापारवैशाल्या गङ्गासागरसङ्गमा ।
बहुस्रोतःप्रवाहा च धाससी सागरायुता ॥ ४९९॥
बह्वासरजलादुग्धा भयानकहिमापगा ।
गङ्गा भङ्गनया माता भयापोहा भवापहा ॥ ५००॥
आह्लादकारिणी गौरी काली घोरा सुरूपिणी ।
हूग्ली पद्मा सुनाम्नी च मेघना सागरायुता ॥ ५०१॥
सिन्धुपर्यायपायौघा सिन्धुवैशाल्यलासिनी ।
सिन्धुजाह्लादभङ्गी च ह्लादिनी सिन्धुगामिनी ॥ ५०२॥
गङ्गा गगनसिन्धुश्च रसवाहा रसार्णवा ।
अगनागगलासारा वगलाभरणापगा ॥ ५०३॥
अगवाहा अधोवाहा समवाहा समुद्रगा ।
आघूर्णा अतिचण्डा च शमवाहा तरङ्गिणी ॥ ५०४॥
महीधरमहाप्लावा समभूमिपरीवहा ।
महोदधिसमाश्लिष्टा गङ्गासागरसंयुता ॥ ५०५॥
सागराभेदमागङ्गा रागलास्यतरङ्गिणी ।
सागराश्लिष्टसन्तोषा गङ्गा सागरसँल्लया ॥ ५०६॥
गोमुखावतरा गङ्गा गङ्गासागरसङ्गमा ।
गोमुखीव्यक्तरूपा च सागराव्यक्तरूपिणी ॥ ५०७॥
धरणीधरसम्भावा धरणीप्लवसङ्गमा ।
धरीभूतसुधाप्लावा लवणाब्धिसमिश्रिता ॥ ५०८॥
कूवाराभिन्नसम्मिश्रा कूवारभिन्नसज्जला ।
कूवारवारिभावा च विलावण्यातिमाधुरी ॥ ५०९॥
सागरालक्ष्यरूपा च सागरापररूपिणी ।
श्वेतद्वीपमनोरम्या वार्षिक्यमेलविश्रुता ॥ ५१०॥
अब्ध्यैकीभूतकंश्रेष्ठा श्रेष्ठैकतत्त्वदर्शिनी ।
एकवस्तुप्रमाणा च एकतथ्यप्रबोधिनी ॥ ५११॥
अभिध्यानचिदाभासा एकतत्त्वप्रकाशिनी ।
अभिध्यानमनोलीना व्यक्तैकवस्तुरूपिणी ॥ ५१२॥
एकवस्तुनदीरूपा एकवस्तुजलाशया ।
एकवस्तुस्फुराभासा एकवस्त्वपरालया ॥ ५१३॥
व्यक्ताव्यक्तैकसद्वस्तुतत्त्वातिसूक्ष्मदर्शिनी ।
परावरविबोभुवत्परब्रह्मस्वरूपिणी ॥ ५१४॥
अद्वैततत्त्ववाक्यार्था द्वैताद्वैतविशिष्टता ।
जीवब्रह्मैक्यसद्बोधा सज्ज्ञानस्फूर्तिदीपिनी ॥ ५१५॥
समुद्रराजसंयुक्ता गङ्गा मनस्समुद्रगा ।
समुद्ररूपसान्निध्या समुद्रालयदैविका ॥ ५१६॥
समुद्राभा पयःपूरा अब्धिवैशाल्यगामिनी ।
समुद्राधोगतोद्धारा गङ्गानघाघनाशिनी ॥ ५१७॥
अवाच्यानन्दसम्पूर्णा वाग्वासिता सुवासिनी ।
सर्वकालसमुल्लासा सर्वदा सर्वतोमुखी ॥ ५१८॥
भवसागरपारा च भावानन्दप्रकाशिनी ।
भवभावसुभावा मा भावाभाववरप्रदा ॥ ५१९॥
इहसागरतारा च परानन्दसुमार्गिणी ।
भावसागररागा च रागानुरागसागरा ॥ ५२०॥
स्वरसागरसङ्गा च स्वरसानुविलीनता ।
स्वरसागरगारागा स्वरपुष्पार्चनस्तुता ॥ ५२१॥
हिमाद्रिभाविता गङ्गा हिमगा सागरालया ।
विशालसागरागुप्ता सागरश्रुतिसँल्लया ॥ ५२२॥
हिमाद्रिव्यक्तरूपा च अब्धिगुप्तसुरूपिणी ।
समुद्रतीरनिध्याता स्नानपानातिसत्फला ॥ ५२३॥
समुद्ररूपसामीपा नदीरूपविदूरगा ।
नदीनादातिदूरा च समुद्रस्वरनर्दना ॥ ५२४॥
हिमशैलोद्भवा गङ्गा समसागरसालया ।
हिमोद्भूतस्तुतिस्तोमसहस्रार्पितसागरा ॥ ५२५॥
बहुदूरहिमाप्लावा बहुसामीप्यसागरा ।
बह्वीप्सितजला गङ्गा बहुशीघ्रप्रसादिनी ॥ ५२६॥
ब्रह्मैक्यलीनतत्त्वा च ब्रह्मानन्दमयालया ।
ब्रह्मलीनतपस्तीर्था ब्रह्मस्थूलशरीरका ॥ ५२७॥
अद्वितीयापरानन्दा अद्वितीयापमाहिना ।
अधस्था हिमशीर्षस्था समस्था सर्वगामिनी ॥ ५२८॥
आर्द्रोपनिषदासारा आर्द्रहृत्सागरालया ।
अदृश्यादृश्यरूपा च दृश्यादृश्या स्तुतिस्फुरा ॥ ५२९॥
वेदसारासुधीसारा हृत्स्थिरा मा वरालया ।
मोदसारानदासारा तत्त्वरूपा समुद्रगा ॥ ५३०॥
बोधसारातिसत्सारा रागरूपा स्वरालया ।
नादसारा सुधासारा भद्ररूपा लयालया ॥ ५३१॥
योगसारा महासारा सत्त्वरूपा चिरस्थिरा ।
रागसारा जलासारा सत्यरूपा शुचिस्स्फुरा ॥ ५३२॥
घोररूपा सुलावण्या शान्तिरूपा शमावहा ।
सत्सुरूपाविरूपा च ज्ञानरूपा सुदर्शना ॥ ५३३॥
मायासागरतारा च मायाभ्रान्तसुमार्गिणी ।
मायापाटनिपाटा मा मायातीतस्वरूपिणी ॥ ५३४॥
मायातीतप्रशान्तिश्च मायादारिघृणाकरी ।
मायामध्यैकतथ्या मा तथ्योपचारकीर्तिता ॥ ५३५॥
मायास्वप्नविनाशा च मायाविकरुणावहा ।
मायारहितपुण्योदा मायातत्त्वप्रकाशिनी ॥ ५३६॥
सत्यवाक्संस्थिता माता सत्यासत्यविभेदिनी ।
सत्या सत्यसुरूपा च सत्त्वासत्त्वप्रबोधिनी ॥ ५३७॥
सत्यज्ञानमयी देवी मिथ्याज्ञानावघट्टना ।
मिथ्यापारैकतथ्या मा तथ्यानुरागसंस्कृता ॥ ५३८॥
स्वीकृतस्तुतितथ्या च तथ्यमानसपूरणी ।
सत्यवाक्स्तुतिसत्या मा सच्चिदानन्दरूपिणी ॥ ५३९॥
भक्तिवागर्थसत्सारा संयताञ्जलिसन्नुता ।
संस्कृत्याधारनाडी च भावनारागसम्मुदा ॥ ५४०॥
शक्तिरूपा सुसत्त्वा च शक्तिदा शक्तिशालिनी ।
ज्ञानार्थिध्यानगम्या च गानाञ्जल्यतिमोदिनी ॥ ५४१॥
निष्कामकर्मसन्तोषा कर्मबन्धनभेदिनी ।
धर्मार्थकाममोक्षा च नैष्कर्म्यसिद्धिदायिनी ॥ ५४२॥
काममोहापहा गङ्गा सत्कामकामपूरणी ।
अकामकामिसत्कामा काव्यहृत्कामकामिनी ॥ ५४३॥
भारताचारसम्मिश्रा कलाधारसुजीवनी ।
भारतामोदगर्वा च भारती भारलाघवा ॥ ५४४॥
नर्मदासिन्धुकावेरीसर्वतीर्थस्वरूपिणी ।
सर्वोत्कृष्टशुचिस्सर्वा सर्वानन्दसमन्विता ॥ ५४५॥
नेत्रानन्दसुदृश्या मा दर्शनाह्लादगामिनी ।
श्रोत्रानन्दसुगाया च पूर्णा पूर्णत्वदायिनी ॥ ५४६॥
क्षरान्तस्थाक्षरा गङ्गा क्षीरधारमनोहरी ।
क्षाराब्धिसंयुतक्षीरा क्षीरसागरसान्निधा ॥ ५४७॥
गङ्गामाता नभस्तीर्था कालगत्यैकसाक्षिणी ।
वायुरूपापरूपा च सर्वरूपा मदाहरा ॥ ५४८॥
एकानेकसुरूपा च जलरूपधराझरा ।
अनेकरूपसर्वस्था जलरूपसुहृत्स्थिरा ॥ ५४९॥
अपर्याप्तानुभूतिश्च पर्याप्तात्मसुखावहा ।
सृष्टिपर्यायव्यक्तिश्च सृष्टितत्त्वप्रदर्शिनी ॥ ५५०॥
संसारसागरारावमध्यैकक्षणनीरवा ।
नीरवारामरामा च नीरवोद्भवगारवा ॥ ५५१॥
गोमुखारम्भरीतिश्च हिमजा सागरायणा ।
गङ्गासागरविश्रामा इहमोक्षपरायणा ॥ ५५२॥
गङ्गा मय्येप्सिता माता मल्लालसामनःस्थिता ।
मन्दस्मितसमुल्लासा मनस्तोयालयालया ॥ ५५३॥
मदालम्बा मदम्बा च मच्चित्तपरिपूरणी ।
मनोलयावहा गङ्गा मनआलयदैविका ॥ ५५४॥
श्रवणाद्भुतनाम्नी च मननाहूतमातृका ।
स्वानुभूतिसुसङ्गीता स्वानुभूतमदम्बिका ॥ ५५५॥
बहुदूरस्थिता गङ्गा लघुदर्शनभाग्यदा ।
मृदुलस्वरगीतस्था मद्भावपरिपूजिता ॥ ५५६॥
वागर्थजालचेला च वागर्थधारवाहिनी ।
वाक्पुष्टिनृत्यसङ्गीता वाक्तुष्टिवरदायिनी ॥ ५५७॥
ज्ञानवाग्जालवर्षा च गानवाग्वर्षवाहिनी ।
मानसोल्लाससद्दर्शा मानसा मानसस्तुता ॥ ५५८॥
शब्दसुस्वरमाधुर्या शब्दातिमधुरावहा ।
शब्दब्रह्ममयी देवी सुशब्दस्तोममातृका ॥ ५५९॥
शब्दाक्षरविलीना मा शब्दसुस्वरसँल्लया ।
शब्दाक्षरप्रवाहा च सुशब्दस्वरसार्चिता ॥ ५६०॥
शब्दसन्तापसंहारा शब्दव्यथोपशामनी ।
शब्दावृत्तिबहिष्कारा शब्दजालविमोचनी ॥ ५६१॥
दुःशब्दतापविद्रावा प्रत्यहाध्यार्तिहारिणी ।
सुषुप्तिरोधशब्दार्तिशामनी प्रशमावनी ॥ ५६२॥
विरक्तिदायिनी नेत्री विरक्तासक्तिपूजिता ।
विरक्तासक्तिसुश्लोका विरक्तासक्तिमानसा ॥ ५६३॥
रक्तानुरागसन्नूता रक्तमानससुस्वरा ।
निःसङ्गानुतसत्सङ्गा निशान्तात्मसुखावनी ॥ ५६४॥
नम्या नमस्कृता गङ्गा नतमानसतोषिणी ।
सुधागानसुधाप्लावा मातृगङ्गा मनस्विनी ॥ ५६५॥
सर्वाधिनाशिनी देवी सद्गुर्वाशीकरावनी ।
निःसंशयस्तुता गङ्गा सर्वसंशयभेदिनी ॥ ५६६॥
सदानन्दा मुदावाहा मदाह्लादप्रवाहिणी ।
सदास्मरमनोजस्था चिदानन्दशुभप्रदा ॥ ५६७॥
जीवैकलक्ष्यसद्बोधा जीवशक्त्यैक्यकारिणी ।
जीवतत्त्वानुभूतिश्च जीवसन्नुतिजीवनी ॥ ५६८॥
शोषमानससंतोषा शोषितैकाकिमानसा ।
मनःप्रसत्तिदात्री मा प्रसन्नमनआलया ॥ ५६९॥
अभीक्ष्णतत्त्वसंदृश्या अभीष्टवरदायिनी ।
अभिक्षणस्मृतादृष्टा अभीतित्वप्रदायिनी ॥ ५७०॥
तमोनिद्रारिसत्त्वोदा सत्त्वाभासविकासिनी ।
मनोनैश्चिन्त्यभावा च भावनैश्चल्यपूजिता ॥ ५७१॥
साध्वीमनःस्थिता गङ्गा साध्वीमनःस्थलावहा ।
स्वादुपेयपयःपूरा साध्वीस्वादुफलप्रदा ॥ ५७२॥
स्वतन्त्रा स्वच्छरूपा च स्वतन्त्रत्वप्रदायिनी ।
परतन्त्रनिवारा च परत्वज्ञानमार्गिणी ॥ ५७३॥
विषादौषधपानीया रोगशोकनिवारिणी ।
स्नानपानस्मृता गङ्गा शिशिरा तापहारिणी ॥ ५७४॥
न्यूनधीपूर्णकारा च ज्ञानदा राद्धिवृद्धिदा ।
नूनं गोप्त्री सुरक्षा मा निष्ठापराभिरक्षणा ॥ ५७५॥
भक्तिवैराग्यनिर्माल्यमानसोत्सङ्गवाहिनी ।
भगवन्नामसद्गानमानसोल्लासवाहिनी ॥ ५७६॥
आकाङ्क्षितहिमस्पर्शा अतिकाङ्क्षितकासुखा ।
सदान्तःचक्षुआदृश्या बहिर्दर्शनसत्सुखा ॥ ५७७॥
ममकारनकारा मा अहंकारविदारिणी ।
सर्वोत्कृष्टप्रशान्तिश्च शुद्धचैतन्यलीनता ॥ ५७८॥
भ्रान्तिसंहारिणी गङ्गा भ्रान्ताश्रितातिसौभगा ।
श्रान्तचित्तस्तुता माता श्रान्तिसंवाहनापगा ॥ ५७९॥
कामक्रोधहरा गङ्गा लोभमोहविनाशिनी ।
मदमात्सर्यहा माता षट्शत्रुसूदनी दनी ॥ ५८०॥
सुमनोलयवाग्वाहा मनोमौनाचलस्थिता ।
मौनात्मलयसङ्गीता आत्मविश्वाससन्नुता ॥ ५८१॥
माता गङ्गा महापूता महापापप्रणाशिनी ।
महाविद्याप्रवाहा च महाप्रणवनादिनी ॥ ५८२॥
ज्ञानमौनलया गङ्गा ज्ञानानन्दप्रवाहिणी ।
गानसौमङ्गलाधात्री ध्यानसत्स्नानकावनी ॥ ५८३॥
अज्ञानापोहना गङ्गा शुद्धज्ञानप्रकाशका ।
सज्ज्ञानतेजना माता अद्वैतसिद्धिदापरा ॥ ५८४॥
प्रातःस्मृता दिनस्मृता सन्ध्यास्मृता सदास्मृता ।
मनःस्नातेहितस्नाना स्नानातिपूतचिन्तना ॥ ५८५॥
ध्यातव्याधिकपावित्र्या ध्यानस्नानफलावहा ।
ख्यातव्या महिमानीया ख्यातिदा ज्ञानवर्धिनी ॥ ५८६॥
भवायनार्तिसंतापहारिणी सहचारिणी ।
सदासहचरी माता अतिकाङ्क्षासुपूरणी ॥ ५८७॥
इहजीवनसंत्राणा परलोकभयापहा ।
निर्वाणनिजसौख्या मा नैजस्तोत्रसमर्पिता ॥ ५८८॥
बहुदूरप्रवाहा च अविदूरा मनश्चरा ।
बहुरागलयालासा अतिदूराभिवन्दिता ॥ ५८९॥
युक्तमानससन्नूता मानसायुक्तमावरा ।
तृप्तसुज्ञानसत्कामा नीतसुज्ञानतत्परा ॥ ५९०॥
सन्मार्गगामिका गङ्गा सत्सुखावहमातृका ।
सौभाग्यदायिनी देवी दिव्यानुभवगीतिका ॥ ५९१॥
मानसाभासलासा च भासमानजलस्मिता ।
प्रकृत्यखण्डविस्तीर्णा तीर्णसंसारसागरा ॥ ५९२॥
रामभक्तगुरुस्वामिसाक्षात्कारप्रसादिनी ।
गुरुसत्कीर्तनावाहा गुरुसत्त्वगुणप्रिया ॥ ५९३॥
गुरुगानसमाह्लादा गुरुकीर्तनसंयुता ।
गुरुगानसुवागर्था गुरुदर्शनसंवरा ॥ ५९४॥
पञ्चमीबहुलागीतदिव्यनामकृतिप्रिया ।
गुरुपूजास्थलापूता गुर्वभिषेकसज्जला ॥ ५९५॥
रामनामसुमाधुर्या वाक्शैलीशब्दनादिनी ।
नामाविरामगाना च नादान्तर्लयवाहिनी ॥ ५९६॥
रामाभिरामरामा च गानाभिरामरामका ।
रामनामरमारामा रामारामावरापगा ॥ ५९७॥
सुनादारामरारामा रामनामसुगानका ।
सुगानारामरामा मा नामलासतरङ्गिणी ॥ ५९८॥
विश्रामरामगाया च नामविश्रामगामिनी ।
गायविश्रामगम्भीरा नामगानविलासिनी ॥ ५९९॥
रामनामस्थिरा गङ्गा नामध्यानसुमार्चिता ।
हरिनारायणानादनामपुष्पार्चनप्रिया ॥ ६००॥
सुवाग्रामा सुखारामा भवारामा भवायना ।
सुवागर्था सुनादार्था गानारामा मनोयना ॥ ६०१॥
मारमारमरामा च रामाविरामरामका ।
मारवैरिरमारामा रामारामाविरामका ॥ ६०२॥
नतारामा नदारामा नामाभिरामरागिणी ।
रामनामरसावाहा नामपेयूषतोषिणी ॥ ६०३॥
सदात्मारामनिध्याता ध्यानतत्परगोचरा ।
सदानन्दपरीवाहा सत्कामिचित्तहृत्स्थिरा ॥ ६०४॥
गेयराजस्तवावर्षा धान्तथान्तमयालया ।
यान्तभान्तनुता गङ्गा गुरुवाग्वर्षसालया ॥ ६०५॥
नादासक्तिमनोजीवा जीवशक्त्यैकजीवना ।
आधारश्रुतिजीवा च जीवनाधारसुस्वरा ॥ ६०६॥
सत्यवागर्चिता गङ्गा तथ्यानुरागवन्दिता ।
नित्यैकनियमागीता गीतनामातिसारगा ॥ ६०७॥
नित्यानुष्ठानसुस्नानध्यानगानसुपूजिता ।
नित्यमानसपुष्पार्चा स्वीकृतान्तर्लयार्चना ॥ ६०८॥
ब्राह्ममुहूर्तसङ्गीतश्रुतिरागलयावहा ।
प्राक्सन्ध्यास्मरणास्नाता प्रातःकालद्युतिस्फुरा ॥ ६०९॥
नुतिगीतसमष्टिस्था नुतानूता नुतिप्रिया ।
नित्यनूतनसत्स्तोमा नित्यनूतनवाग्वरा ॥ ६१०॥
सत्यानुभूतिवाक्सत्त्वा सत्त्वानुभवसारता ।
स्वोवशीयस्तुतिप्लावा स्वप्रभासस्तुतिप्लवा ॥ ६११॥
जाताजातापरा गङ्गा परानन्दप्रदायिनी ।
अजातानन्दजाता च अजातत्वप्रदायिनी ॥ ६१२॥
मयेतिकीर्तिते गङ्गे अजातत्वं प्रदेहि मे ।
नाहमन्योपयुक्ताम्ब त्वद्भक्तिकीर्तनं विना ॥ ६१३॥
त्वत्पुत्रीकर्मसञ्चायमोचनं श्रेयसीगतिः ।
त्वत्कर्तव्यं हि मन्मातः त्वां विना नास्ति मे गतिः ॥ ६१४॥
मदन्तःस्फुरणे देवि मज्जीवनसुजीवनि ।
मज्जीवनाढ्यकर्त्र्यम्ब मदन्तरङ्गदेवते ॥ ६१५॥
मच्चित्तगोमुखारामे मन्मनोहैमवाहिनि ।
मद्धृत्सागरसत्सङ्गे मत्प्रेमाम्बुधिसङ्गमे ॥ ६१६॥
श्रीगङ्गाक्षरपुष्पावली ॥
अगहैमोद्भवा गङ्गा अब्ध्युक्ता मा अधोवहा ।
अन्तारामा अतिस्तुत्या अक्षरावलिसन्नुता ॥ ६१७॥
अम्बा गङ्गा अतिप्रेष्ठा अक्षरारम्भपूजिता ।
अक्षरा अक्षराभासा अक्षय्या अचलोद्भवा ॥ ६१८॥
अन्तर्मुखी बहिर्वाहा अन्तरात्मसमिश्रिता ।
अन्तःस्फूर्तिकरा गङ्गा अन्तर्ज्योतिःप्रकाशिनी ॥ ६१९॥
अखण्डैकरसापूर्णा असमानप्रभावखा ।
अप्रमेया अजाजर्णा अक्षरावलिमण्डिता ॥ ६२०॥
अखण्डाध्यातसद्रूपा अखण्डानन्दनादिनी ।
अखण्डनामसङ्गीता अखण्डानन्दकारिणी ॥ ६२१॥
अखण्डास्रावलावण्या अखण्डागीतसुस्वरा ।
अखण्डनादसद्धारा अखण्डचण्डरंहणा ॥ ६२२॥
अखण्डदीपसम्भासा अखण्डासारगास्मिता ।
अखण्डमङ्गलाशीदा अखण्डमानसस्तुता ॥ ६२३॥
अखण्डधारसानन्दा अखण्डस्फूर्तिवाहिनी ।
अखण्डज्ञानशिक्षा मा अखण्डज्ञानदीपिनी ॥ ६२४॥
अत्यूषस्नानसानन्दा अत्यूषमृदुगालया ।
अत्यूषजपवर्णा च अत्यूषसुस्वरार्चिता ॥ ६२५॥
अशोषकवितावाहा अशोष्याह्लादकाव्यझा ।
अनश्वराशुगा गङ्गा अत्याशुकविसिद्धिदा ॥ ६२६॥
अन्तर्लीना मनोरङ्गा अन्तर्ह्रींकारदेवता ।
अन्तःसूक्ष्मप्रवाहा च अन्तरोंकारनादिनी ॥ ६२७॥
अविरामकविस्तुत्या अविरामसुनामगा ।
अविरामरयारामा अविरामा मनोरमा ॥ ६२८॥
अक्षरान्तस्थसत्त्वा मा अक्षिता अक्षितामृता ।
अन्तरात्मलया गङ्गा अन्तरालयदैविका ॥ ६२९॥
आत्मारामारमारामा आत्मानन्दप्रवाहिणी ।
आत्मानुभूतिसारा च आत्मविश्वासपूरणी ॥ ६३०॥
आत्मज्ञानावबोधा मा आसुरीगुणधावनी ।
आपःस्वच्छमनोगम्या आत्मीभावसुभावना ॥ ६३१॥
आनन्दकन्दमूला च आद्यन्तरहिताहिता ।
आशापाशविनाशा मा आशंसिता सुशंसिता ॥ ६३२॥
आयुरारोग्यदात्री मा आमयार्तिनिवारिणी ।
आदिशक्तिजलासारा आदिशब्दप्रणादिनी ॥ ६३३॥
आह्लादनादवाहा च आत्मसँल्लीनसुस्वरा ।
आधारश्रुतिसत्सारा आपःस्वरूपविग्रहा ॥ ६३४॥
इष्टेष्टिपूरणा गङ्गा इहभोग्यैकभोग्यदा ।
इलावाहा सुवर्गोदा इहप्रत्यक्षदेवता ॥ ६३५॥
इक्षुस्रावकविस्तुत्या इक्षुसारातिमाधुरी ।
इहसौख्यपरानन्दा इहसिद्धिप्रदायिनी ॥ ६३६॥
ईक्षणातिमुदावाहा ईशशीर्षप्रवाहिणी ।
ईडाप्रीता च ईडेशी ईशसन्नुतमोहिनी ॥ ६३७॥
ईडाधारसुधाप्लावा ईहितानन्ददायिनी ।
ईहितश्लोकसञ्चाया ईहितश्लोकपूरणी ॥ ६३८॥
ईहासम्परिपूरा मा ईहितारोग्यतुष्टिदा ।
ईहितासारदृष्टिश्च ईहिताप्लावमज्जना ॥ ६३९॥
उत्पावनहिमासारा उन्मादनहिमाप्लवा ।
उन्मत्तगर्जनासारा उन्मत्तासक्तचित्तगा ॥ ६४०॥
उत्तमश्लोकसङ्गीता उत्तमासक्तिदायिनी ।
उत्तमोत्तमसत्तीर्था उत्तमानुभवस्तुता ॥ ६४१॥
ऊर्ध्वमूला अधोवाहा ऊर्ध्वलोकावतारिणी ।
ऊर्ध्वोड्डीनोर्मिमाला च ऊर्ध्वदृष्टिप्रसादिनी ॥ ६४२॥
ऊषातिरमणीया च ऊषकस्नाननन्दिनी ।
ऊषकाध्यातसङ्गीता ऊषकस्तवसेविता ॥ ६४३॥
ऋषिसन्नुतमाहात्म्या ऋषिजह्नुसुपुत्रिका ।
ऋषिसंवासपारा च ऋषिसङ्कुलशङ्करी ॥ ६४४॥
ऋषभारूढमूर्धन्या ऋणानुबन्धमोचनी ।
ऋद्धिदा ऋद्धिवाहा च ऋतधाम्नी ऋदूदका ॥ ६४५॥
एका एकगुणासारा एकवाक्स्तुतिसस्मिता ।
एकवस्तुस्वरूपा मा एकतत्त्वप्रकाशिनी ॥ ६४६॥
एकनिष्ठापरास्नाता एकानुभवहर्षिणी ।
एकनिष्ठापराध्याता एकानुभवसन्नुता ॥ ६४७॥
एकान्तसुस्वरा गङ्गा एकान्तमौनवाहिनी ।
एकान्तमौनसङ्गीता एकान्तध्यानगोचरा ॥ ६४८॥
एकभक्तिस्तुता गङ्गा एकपुत्रीमनोलया ।
एकान्तसत्सुसङ्गा च एकान्तमानसालया ॥ ६४९॥
एकाकिन्यैकसन्तोषा एकसन्तोषवाहिनी ।
एकसन्तोषवाक्स्फूर्तिः एकसन्तोषवाग्वहा ॥ ६५०॥
ऐकाग्र्यसंस्तुता देवी ऐक्यचित्तस्तुतिस्थिरा ।
ऐक्यमानससम्पूर्णा ऐक्यहृत्सन्निवासिनी ॥ ६५१॥
ओंकारघोषणा गङ्गा ओंकारश्रुतिगीतिका ।
ओंकारस्रवमाधुर्या ओंकारब्रह्मरूपिणी ॥ ६५२॥
औषधीरसवाहा च औत्तरावाहिनी जनी ।
औपसर्गिकपाठा च औपश्लेषिकमोदिनी ॥ ६५३॥
औजस्यवारिसत्सारा औडवादिसुरागिणी ।
औषस्यरागसङ्गीता औषसीमृदुरागिणी ॥ ६५४॥
कल्याणगुणमाहात्म्या कल्याणाद्भुतसच्छविः ।
कल्याणकवना गङ्गा कल्याणकवितावरा ॥ ६५५॥
कलिकाकाव्यसंफुल्लिः कविमानससस्मिता ।
कलालापतरङ्गा च कलालापनुतिस्तुता ॥ ६५६॥
कलिक्लेशितसुश्राया कलिक्रूरत्ववारणी ।
कलिरावप्रशाम्या मा कलितामोदगीतिका ॥ ६५७॥
कर्मकौशलसम्पादा कर्मसिद्धिप्रसादिनी ।
कर्मबन्धनविच्छिन्ना कर्मनिर्वृत्तिकारिणी ॥ ६५८॥
काव्यालापनिनादा च काव्यालङ्कारमण्डिता ।
काव्योल्लासविलासा मा काव्यालापाभिवन्दिता ॥ ६५९॥
किरातिकिरणाभा च किरणावलिशोभिता ।
किङ्किरातसुगापारा किलाकिलजटोदका ॥ ६६०॥
किशोरी कीर्तिता गङ्गा कीर्तनाधारसुश्रुतिः ।
कीलालपावना पुण्या कीलाललाससद्युतिः ॥ ६६१॥
कुटिलालककल्लोला कुन्दस्मिततरङ्गिणी ।
कुञ्चिताद्रिदरीवाहा कुङ्कुमाङ्कितरङ्गिणी ॥ ६६२॥
कूहावृता उषोरम्या कूलंधयगृहस्पृहा ।
कूलंकषप्रवाहा च कूपस्नातातिकाङ्क्षिता ॥ ६६३॥
कृतिराजगुरुस्तोमकृतिवाहप्रवाहिणी ।
कृत्यौघानुदिनागीता कृत्यौघगुरुवाक्स्थिरा ॥ ६६४॥
कृत्याकृत्योपदेशा मा कृच्छ्रवाहा कृपावहा ।
कृपणोद्धारणा गङ्गा कृतापराधधावनी ॥ ६६५॥
कृशनाभतरङ्गा च कृष्णागकृशनस्मिता ।
कृष्णवागमृता गङ्गा कृष्णा कृष्णस्वरूपिणी ॥ ६६६॥
केदारनाथमौलिस्था केदारोत्तुङ्गवाहिनी ।
केदारलिङ्गसंसेका केवलज्ञानदायिनी ॥ ६६७॥
कैरवीरविभासा च कैवल्यसिद्धिदायिनी ।
कैटभारिनुता गङ्गा कैलासनाथमोदिनी ॥ ६६८॥
कोपतापातिदूरा च कोकिलाकूजकूलभूः ।
कोलाहलहला गङ्गा कोमलाङ्कितकोमला ॥ ६६९॥
कौवेरीमोदशुक्लाभा कौशलावहगङ्गिका ।
कौमुदीकौशसम्भासा कौशेयोल्लोललोटना ॥ ६७०॥
कौशल्यासुतसन्नूता कौशेयगेयसंस्थिता ।
कौस्तुभाङ्कितपादोदा कौतुकाङ्कितसत्स्तवा ॥ ६७१॥
क्रतुदात्री क्रतुप्रीता क्रान्तिगा मा क्रमावहा ।
क्रियायोगस्थितानूता क्रीडास्थलहिमालया ॥ ६७२॥
क्रूरसंसारपारा च क्रोधाद्यारातिसूदनी ।
क्रोडीकृतैकपुत्री मा क्लान्तिसंवाहसंवरा ॥ ६७३॥
क्लिष्टसाध्यलघूत्थाना क्लेशक्लोशप्रणाशिनी ।
क्वणद्वीणासुवाणी च क्षणायापि न विस्मृता ॥ ६७४॥
क्षणिनीक्षणिकाभासा क्षराक्षरा क्षितिक्षरा ।
क्षणक्षिप्रस्रवा गङ्गा क्षमा क्षमान्यरूपिणी ॥ ६७५॥
क्षालिताश्रितपापा च क्षाम्यभक्ताश्रितावनी ।
क्षारक्षरसुरूपा च क्षामसञ्जीवनी वनी ॥ ६७६॥
क्षितिजापूजिता क्षिप्रा क्षिप्रप्रवाहमोहिनी ।
क्षित्यागतसुराप्लावा क्षिप्रोद्धारणमाहिना ॥ ६७७॥
क्षीणभक्ताघकार्त्स्न्या च क्षीणजन्मौघवारणी ।
क्षीराब्धिकन्यकानूता क्षीरोर्मिस्वागतस्मिता ॥ ६७८॥
क्षुद्रतापोहना गङ्गा क्षुब्धमानसशामनी ।
क्षुब्धार्णवप्रवाहा च क्षुभितोल्लोलधावनी ॥ ६७९॥
क्षेम्या क्षेमंकरा माता क्षेत्रेशी क्षेत्रपावनी ।
क्षौणिभृत्सम्भवा गङ्गा क्षौणिप्राचीरसङ्गमा ॥ ६८०॥
क्षौमसम्मृदुवाचा मा क्षौमवाक्सम्प्रदायिनी ।
क्षौमवाक्सम्प्रवाहा च क्षौमसम्भासवार्दरा ॥ ६८१॥
खंददा खापगा गङ्गा खाण्डवस्वादुखावरा ।
खिन्नमानसशाम्या मा खेदहा ख्यातिदायिनी ॥ ६८२॥
गगनावतरा गङ्गा गम्भीरस्वरघांषिणी ।
गतितालसुगाप्लावा गमनाद्भुतगालया ॥ ६८३॥
गङ्गा हिमापगा दिव्या गमनारम्भगोमुखी ।
गङ्गोत्तरी तपस्तीर्था गभीरदरिवाहिनी ॥ ६८४॥
गङ्गाहरिशिलारूपा गहनान्तरघर्घरा ।
गमनोत्तरकाशी च गतिनिम्नसुसङ्गमा ॥ ६८५॥
गङ्गाभागीरथीयुक्तगम्भीरालकनन्दभा ।
गङ्गा देवप्रयागा मा गभीरार्चितराघवा ॥ ६८६॥
गतनिम्नहृषीकेशा गङ्गाहरिपदोदका ।
गङ्गागतहरिद्वारा गगनागसमागता ॥ ६८७॥
गतिप्रयागसुक्षेत्रा गङ्गार्कतनयायुता ।
गतमानवपापा च गङ्गा काशीपुरागता ॥ ६८८॥
गहनाघविनाशा च गत्युत्तमसुखावनी ।
गतिकालीनिवासा च गङ्गासागरसङ्गता ॥ ६८९॥
गङ्गा हिमसमावाहा गम्भीरनिधिसालया ।
गद्यपद्यनुतागीता गद्यपद्यप्रवाहिणी ॥ ६९०॥
गानपुष्पार्चिता गङ्गा गाहितागह्वगह्वरा ।
गायगाम्भीर्यमाधुर्या गायमाधुर्यवाग्वरा ॥ ६९१॥
गिरीशकटकावाहा गिरिजा गिरिनन्दिनी ।
गिरीशच्छविवाहा च गिरिदर्शितगान्दिनी ॥ ६९२॥
गीताचार्यस्वरूपा च गीतासारसरिद्वरा ।
गीतवाद्यस्तुता गङ्गा गीतवाद्यश्रुतिस्रवा ॥ ६९३॥
गुणसत्त्वप्रकाशा मा गुणातीतस्वरूपिणी ।
गुणसत्त्वप्रसादाम्बा गुणातीतप्रसान्त्विनी ॥ ६९४॥
गुप्तप्रवाहमूला च गूढोत्मतीर्थरूपिणी ।
गृहपूजनगेयस्था गैरिकी गोमुखोद्भवा ॥ ६९५॥
गौरीगुरुझरासारा गौरीगुरुझटासरा ।
गौरीगुरुगुहाध्याता गौरा गौरांशुगौरभा ॥ ६९६॥
ग्रन्थमूला च सुप्राणा ग्रन्थिताक्षरमालिनी ।
ग्रन्थार्थभावपुष्टिश्च ग्रन्थश्च ग्रन्थदेवता ॥ ६९७॥
ग्रहदोषनिवारा च ग्रहणाद्यन्तगाहिता ।
ग्रावधावालुटन्ती च ग्रावहैमप्रवाहिणी ॥ ६९८॥
ग्रीष्मस्नानातिसौख्या च ग्रीष्मतापप्रशामनी ।
ग्रीष्मक्षरातिशीता च ग्लानिक्षालनजीवना ॥ ६९९॥
घटनापरिपूर्णा च घनाघनौघवाहिनी ।
घनवृष्ट्युत्प्लवोर्मिश्च घनौघमध्यघर्घरी ॥ ७००॥
घारशीतोर्मिघूर्णिश्च घृतदीपस्फुरद्घृता ।
घोरसंसारनिस्तारा घोराघघनघातिनी ॥ ७०१॥
चण्डवेलाप्लवा गङ्गा चण्डमारुतडीनका ।
चण्डभास्करतापघ्नी चन्द्रिमाचारुलासका ॥ ७०२॥
चापल्याङ्कितवेला च चापल्यनिग्रहधृतिः ।
चारुचित्रप्रवाहा च चारुसारातिसुस्वरा ॥ ७०३॥
चिन्तितार्चितपूर्णा मा चिन्तनापरिपूरणी ।
चिरस्थायिसुतीर्था च चिरस्थायिसुखावनी ॥ ७०४॥
चिन्तनापूरसाकल्या चिन्तनार्चनपूजना ।
चिन्तनादूरवैशिष्ट्या चित्तशुद्धिप्रसादिनी ॥ ७०५॥
चिन्तनापारदूरा च चित्तातिदूरवाञ्छिता ।
चिन्तनासारगङ्गाका चित्ताविदूरमातृका ॥ ७०६॥
चीर्णनामावलीपूज्या चोदितश्लोकपूजिता ।
चैतन्यब्रह्मकंरूपा चौक्षालापकविस्तुता ॥ ७०७॥
छप्रवाहच्छविच्छन्द्रा छन्द्रान्तश्छन्द्रसच्छविः ।
छन्दस्कृतकविस्तुत्या छन्दस्यकवितालया ॥ ७०८॥
छायामण्डलसंवृत्ता छायार्कसंलसत्प्रभा ।
छायाच्छायालसद्वीचिश्छायासूनुव्यथापहा ॥ ७०९॥
छिद्रहृच्छामना गङ्गा छिद्रान्वितस्तुतिस्तुता ।
छुरिताक्षरमाला च छुरितासक्तिमानसा ॥ ७१०॥
जलेशशायिपादौघा जलेशगजलाषका ।
जगदुद्धारणा गङ्गा जगदानन्दकारका ॥ ७११॥
जलदैविकपुण्या च जन्ममृत्युनिवारिणी ।
जलौषध्यमृतासारा जलचोदितमज्जपा ॥ ७१२॥
जप्तनामातिसारा च जपयोगसुसाधना ।
जल्पेशी जवनी गङ्गा जह्नुकन्या च जाह्नवी ॥ ७१३॥
जाग्रत्स्वप्नप्रसत्तिश्च जाड्यापोहनजाङ्गली ।
जापसारजलासारा जालसंसारमोचनी ॥ ७१४॥
जितमानसवासा च जिज्ञासुश्रायगङ्गिका ।
जिह्वराजितसन्नाम्नी जिह्वपावनतीर्थका ॥ ७१५॥
जीवस्फूर्तिसमाख्याता जीवस्फूर्तिसुजीवना ।
जीवस्फुरत्स्तुतिस्फूर्तिस्फुरज्जीवस्फुरद्रसा ॥ ७१६॥
जीवश्लोकसुजीवा च जीवन्मुक्तिकरावनी ।
जीवन्मुक्तपनुस्तोत्रजीवतत्त्वार्थरूपिणी ॥ ७१७॥
जुष्या जूर्णिमती गङ्गा जूर्णिप्रवाहमोहिनी ।
जूर्णिभक्तवरादात्री जूर्णिश्लोकवरालया ॥ ७१८॥
जोटिङ्गाहूतगङ्गाका जोटिङ्गव्रतपूरणी ।
जोटिङ्गजूटवाहा च जोषिकाश्लोकपूजिता ॥ ७१९॥
ज्वरवेगजलाषा च ज्वरसंसाररोगहा ।
ज्वालसज्ज्ञानतेजस्कयोगिवृन्दाभिवन्दिता ॥ ७२०॥
ज्ञातव्या ज्ञप्तिकीर्तव्या ज्ञानदा ज्ञानिकीर्तिता ।
ज्ञानज्योतिःप्रकाशाम्बा ज्ञानमोक्षप्रदायिनी ॥ ७२०॥ (extended)
झङ्कारश्रुतिगम्भीरा झङ्कारिणी झरी धरी ।
झाङ्कृतापातवेगा च झञ्झानिलातिघूर्णना ॥ ७२१॥
टङ्कात्यद्भुतरीतिश्च ठक्कुराकृतिपूजिता ।
डमर्वानादशीर्षस्था ढौकनश्लोकवन्दिता ॥ ७२२॥
तक्षितोपलशिल्पा च तक्षितश्लोकविग्रहा ।
तटिनीतन्तुरूपा च तन्त्रीस्वरलयानुता ॥ ७२३॥
तपस्तीर्था तपोपान्ता तपोवर्धनवर्त्मना ।
तपोलीनमनोलीना तपःपुण्यफलावहा ॥ ७२४॥
तत्त्वोपदेशसारा च तद्वस्तुव्यक्तरूपिणी ।
तत्त्वार्थबोधकारा मा तत्त्वज्ञानस्वरूपिणी ॥ ७२५॥
तापत्रयाग्निशाम्या च तापसाश्रयतामरा ।
तापितैकाशया गङ्गा तापसार्तिनिवारिणी ॥ ७२६॥
तितीर्ष्वाश्रितसत्तीर्था तीर्थतीर्णभवार्णवा ।
तुङ्गहैमाद्रिगङ्गाका तुङ्गकोलाहलोर्मिका ॥ ७२७॥
तूष्णींकारतुषारौघा तूष्णीकतुहिनालया ।
तूर्णिरीतिरसाप्लावा तूर्णिगङ्गोत्तरीप्लवा ॥ ७२८॥
तृषितात्यूषगाहा च तृषिताद्भुतताविषी ।
तृषालुमानसाहूता तृषालुमनआगता ॥ ७२९॥
तेजस्करी सुतेजा च तैर्थिकस्थलशोभना ।
तोयरूपा च तौषारा तौषाराद्रिविहारिणी ॥ ७३०॥
त्यक्तषड्दोषवाग्वाहा त्यागराजकृतिस्थिरा ।
त्यागराजगुरुस्वामिसत्कीर्तनप्रवाहिणी ॥ ७३१॥
त्रसनोपशमा गङ्गा त्रासापोहजलौषधी ।
त्रात्री त्रिलोकपूज्या मा त्रिगुणातीतरूपिणी ॥ ७३१॥ (extended)
त्रिविद्यासारधारा च त्रुटिमपि न मन्दगा ।
त्रैकाल्यस्नानपुण्या च त्रैलोक्यातीतमाहिना ॥ ७३२॥
दशरात्र्योत्सवा गङ्गा दशाशुभकरी हरी ।
दहराकाशनिध्याता दहराकाशदीपिनी ॥ ७३३॥
दारुणाचारुधारा च दार्दुरस्वादुभोग्यता ।
दान्ताहंकारदर्पा च दान्तमानसवासिनी ॥ ७३४॥
दिव्या दिव्याम्बुसत्सौख्या दिव्यानुभवहर्षदा ।
दिव्यवाक्सौष्ठवादात्री दिव्यानुभवसंस्तुता ॥ ७३५॥
दिव्यकीलालसौम्या च दिव्यनामातिमोदिनी ।
दिव्यसङ्कीर्तनावाहा दिव्यदृष्टिप्रदासुदा ॥ ७३६॥
दिनरात्रिस्मृता गङ्गा दिनाद्यन्तावगाहिता ।
दिनराड्रश्मिहीराभा दीनार्तिभञ्जनी जनी ॥ ७३७॥
दीपावलिशुभस्नाता दीपज्योतिर्लसत्सला ।
दीपसङ्कुलसम्भासा दीपारतिसुपूजिता ॥ ७३८॥
दुःखशोकपरित्राणा दुग्धौघदृष्टिपूरणी ।
दूरीकृताघसङ्घाता दृष्टिप्रसादमोचनी ॥ ७३९॥
दृढनिश्चयसंगाहा दृढभक्तिप्रसादिनी ।
दृढशक्तिप्रदा गङ्गा दृष्टमात्रप्रहर्षिणी ॥ ७४०॥
देवलोकावतारा मा देवभूमिहिमालया ।
देहारोग्यमनस्तुष्टिधीतिदा दैवगङ्गिका ॥ ७४१॥
दोषक्लेशादिधावा च दौर्बल्यापहमावरा ।
द्युनदी द्युतिरूपा च द्योतितासक्तमानसा ॥ ७४२॥
द्रवरूपपरैका च द्राविताश्रितकल्मषा ।
द्रुतप्रवाहरीतिश्च द्रोणीसाधुप्रसर्पिणी ॥ ७४३॥
द्वन्द्वातीतसुखावाहा द्वन्द्वातीतसुखावहा ।
द्वारिकापनदीरूपा द्विकरेहपरार्थदा ॥ ७४४॥
द्वीपैकान्तसुखावाहा द्वैताद्वैतप्रबोधिनी ।
द्वैधीभावापनेत्री च द्वैपप्रशान्तिदायिनी ॥ ७४५॥
धरणीधरधारा च धरणीप्लवसंयुता ।
धरुणी धवलासारा धवाणकगतिप्लवा ॥ ७४६॥
धिषणावसना गङ्गा धिष्ण्या च धीतिवर्धिनी ।
धीशक्तिसुप्रसादा च धीरतावर्धिनी धुनी ॥ ७४७॥
धीरसुस्वरगाम्भीर्या धूपदीपादिपूजिता ।
धूपिताश्रितमागङ्गा धूमावृतविभातभा ॥ ७४८॥
धृतात्ममानसाध्याता धृत्यवश्यकरप्लवा ।
धेयेदंश्लोकसम्पूर्णा धैर्यधैवत्यकारिणी ॥ ७४९॥
धोरणीश्लोकसङ्गीता धौतसद्भक्तमानसा ।
धौतप्रवाहधौती च धौतभक्ताघमण्डला ॥ ७५०॥
ध्यातव्या ध्यानगम्या मा ध्याता ध्यानाभिवर्धिनी ।
ध्यानारिध्वंसना गङ्गा ध्यानमानसगोचरा ॥ ७५१॥
ध्यातप्रवाहरीतिश्च ध्यातप्रशान्तिसंवरा ।
ध्यानवर्धनशान्तिश्च ध्यानसँल्लीनसालया ॥ ७५२॥
ध्रुवसिद्धिप्रदा गङ्गा ध्वस्तराजसतामसा ।
ध्वनितोंकारवाहा च ध्वान्तमानसदीपिका ॥ ७५३॥
नदिश्लोका नदीश्रेष्ठा नदत्प्रणवसारगा ।
नताघनाशना गङ्गा नतानूता नदाश्रिता ॥ ७५४॥
नमस्युनमसा गङ्गा नरकप्रतिकारखा ।
नवनव्यसुखा गङ्गा नवग्रहकृतापहा ॥ ७५५॥
नवनव्यसुरीतिश्च नवनव्यसुजीवना ।
नवनव्यकृतिस्तुत्या नवजीवनजीवनी ॥ ७५६॥
नष्टशोका नवादृश्या नश्वरातीतसौख्यदा ।
नष्टलोभादिदोषा च नश्वरान्तरनश्वरा ॥ ७५७॥
नाकापगा नदीपुण्या नागशायिपदोदका ।
नागरोज्जीवनालोका नागरीदिव्यविग्रहा ॥ ७५८॥
नानारसनटोल्लोला नानाध्वनिनदत्सला ।
नानार्थवाग्रसावाहा नानाभावनमस्कृता ॥ ७५९॥
नाभीहृत्कण्ठजिह्वोत्थनादप्रवाहघांषिणी ।
नामगाननदासारा नादसाररसाप्लवा ॥ ७६०॥
नादसुस्वरनाम्नी च नादितोंकारविग्रहा ।
नारदासङ्गसङ्गीता नादोपासनवन्दिता ॥ ७६१॥
नितरां भाविता गङ्गा नित्यनूतनलक्षणा ।
नित्यनिर्मलनीरा च नित्यसौमङ्गलावहा ॥ ७६२॥
नित्यानित्यबुधाना मा नित्यत्वराजमार्गिणी ।
निर्वाणफलमाहात्म्या निर्वाणज्ञानमार्गिणी ॥ ७६३॥
निरन्तरसुखावाहा निरन्तरसुखावहा ।
निरन्तरत्वसद्रूपा निरन्तररसास्पदा ॥ ७६४॥
निरस्तकर्मबन्धा च निर्यापिताश्रितामया ।
निर्घातशब्दसाद्रावा निर्वातगह्वरालया ॥ ७६५॥
निर्मला निर्मलाकारा निर्मलाकारमानसा ।
निर्मलानन्दसत्सारा निर्मलानन्दमानसा ॥ ७६६॥
निर्मलाकाशशोभा च निर्मलाकाशनीलका ।
नीलनिर्मलकाचाभा नीराभासचिदात्मिका ॥ ७६७॥
नीरपूतसुवैशिष्ट्या नीरपूतासुवाक्स्थिरा ।
नीरनैर्मल्यरूपा च नित्यनैर्मल्यसाङ्किता ॥ ७६८॥
नीरनीलप्रदोषाभा नीरनीराजनप्रभा ।
नीहारवास्तवारम्या नीहारमयगोमुखी ॥ ७६९॥
नुतिश्लोकस्थिता गङ्गा नूतनश्लोकवन्दिता ।
नृत्यगेयतरङ्गा च नेत्री नेत्रोत्सवोत्प्लवा ॥ ७७०॥
नैगमागमसारा च नैभत्यश्लोकवन्दिता ।
नैसर्गिकातिनैर्मल्या नैःश्रेयसी च नैष्ठ्यदा ॥ ७७१॥
परानन्दापरार्था मा परलोकभयापहा ।
पद्यगद्यपदार्था च पद्यगद्यपदासरा ॥ ७७२॥
पात्रपूजितपावित्र्या पायौघालयहृत्स्थला ।
पार्वतद्युतिमाला च पारमार्थिकसौख्यदा ॥ ७७३॥
पिण्डलाह्लादसंदर्शा पीनप्रवाहहर्षिणी ।
पुष्पार्चितातिपुण्या च पूतमानसपूजिता ॥ ७७४॥
पूतवाङ्मानसापूता पूतवाग्धारधावनी ।
पूतोपान्ताप्लवापूता पूतपूतप्लवाप्लुता ॥ ७७५॥
पृथुकीर्तिप्रदा गङ्गा पेयूषतोयवाहिनी ।
पोतना पौर्णमीभासा प्यायिताप्लावभासुरा ॥ ७७६॥
प्यायिताप्लाविका गङ्गा प्रचोदितनुतिप्लवा ।
प्रणवाप्लावसारा च प्रणतिस्तुतिनन्दिनी ॥ ७७७॥
प्रसादसलिलाह्लादा प्रसादप्रशमालया ।
प्रसादस्फूर्तिसच्छ्लोका प्रसादशुभसत्फला ॥ ७७८॥
प्रसन्नचित्तसद्धारा प्रसत्तिस्फूर्तिचेतसा ।
प्रसन्ना प्रशमा गङ्गा प्रसक्त्यासक्तिपूजिता ॥ ७७९॥
प्राक्सन्ध्याप्रशमापूरा प्राणपूरितसज्जला ।
प्राणदात्री कविप्राणा प्राशुगा प्रांशुशैलभा ॥ ७८०॥
प्राणबीजहिमासारा प्रासादहैमशेखरा ।
प्रासानुप्राससंभासा प्रासादश्लोकसञ्चया ॥ ७८१॥
प्रियमानसपूजार्चा प्रीणनस्वादुतीर्थका ।
प्रेङ्खोलोल्लोललावण्या प्रेरितश्लोकगीतिका ॥ ७८२॥
प्रोन्मीलश्लोकपुष्पा च प्रोन्मूलिताघभूरुहा ।
प्रोल्लाघितदृढीकर्त्री प्रौढीभूतकविप्लवा ॥ ७८३॥
प्लवारामा प्लुतारामा प्लाविकाशीतसौख्यदा ।
प्लुतीक्षणक्षणा गङ्गा प्लुतोर्मिकान्त्यतीतभा ॥ ७८४॥
फलितेप्सितसिद्धिश्च फुल्लनामसुमार्चिता ।
फुप्फुसाफुल्लनास्नाना फेनिलद्युतिसस्मिता ॥ ७८५॥
बंहिष्ठापःप्रमोदा च बंहिष्ठासक्तिवन्दिता ।
बदरीनाथपादौघा बदरीधाममेखला ॥ ७८६॥
बद्धचित्तनिवासा च बन्धपाशविमोचनी ।
बलवाहबलाहा च बलिष्ठा बलदायिनी ॥ ७८७॥
बहुस्नाता बहुध्याता बहुलस्तुतिचोदना ।
बहुलार्तिहरा गङ्गा बह्वीप्सितमदम्बिका ॥ ७८८॥
बहुदूरप्रभावा च बहुवेगनदीवरा ।
बहुधाराप्रवाहा च बहुबा बहुकीर्तिता ॥ ७८९॥
बहुदूरेप्सिता गङ्गा बहुदूरस्मृतास्तुता ।
बहुदूरमनस्स्नाता बहुदूरमनःस्थिता ॥ ७९०॥
बहुजन्मकृताघौघबहिष्करणपावनी ।
बहुकर्मविनिर्मुक्तिज्ञानमोक्षसुखावनी ॥ ७९१॥
बालाप्लावविनोदाम्बा बालालापविनोदिनी ।
बालार्कस्फुरबा गङ्गा बाहुलच्छविमोदिनी ॥ ७९२॥
बिभीषणप्रवाहा च बिलहृत्स्थलवासिनी ।
बीजबुद्धिप्रसादा मा बीजाक्षरनिवासिनी ॥ ७९३॥
बुद्ध्यतीतस्वरूपा मा बुधसज्जनतोषिणी ।
बृहत्पुण्यावहा गङ्गा बृहत्कीर्तिप्रदायिनी ॥ ७९४॥
बोधनातीतवाक्शौर्या बोधितस्वसुकीर्तना ।
बोद्धव्या बोधरूपा च बोधातीतसुबोधना ॥ ७९५॥
ब्रह्मानन्दस्वरूपा मा ब्रह्मविद्याप्रबोधिनी ।
ब्रह्मानन्दप्रसादस्था ब्रह्मैक्यतत्त्वबोधिनी ॥ ७९६॥
ब्रह्मानुभूतिसारा च ब्रह्मनिष्ठाभिवर्धिनी ।
ब्रह्मानन्दसुखा गङ्गा ब्रह्मतेजस्सुवर्धिनी ॥ ७९७॥
ब्राह्ममुहूर्तनिध्याता ब्राह्ममुहूर्तमग्नता ।
ब्राह्ममुहूर्तसङ्गीता ब्राह्ममुहूर्तशान्तता ॥ ७९८॥
भक्तावनी भगावाहा भक्तिश्लोकाभिवन्दिता ।
भङ्गापनयना गङ्गा भजनानन्दवाहिनी ॥ ७९९॥
भद्रवाग्वसुदा गङ्गा भण्डिमण्डितभण्डिला ।
भद्रवाग्वर्षवाहा च भद्रवागर्थसारता ॥ ८००॥
भरिताद्भुतपानीया भर्मराजितपुष्करा ।
भवरोगव्यथापोहभैषज्यसलपुष्कला ॥ ८०१॥
भावातीतस्वभावा मा भावप्रभावभाविता ।
भावनातीतभावा च भावनाभावभावना ॥ ८०२॥
भावानुगनुतिश्लोका भावभावगभावनी ।
भासमानासमाना च भावभासनभास्वती ॥ ८०३॥
भिन्नहृत्भेषजा गङ्गा भीष्मतृष्णाशमागता ।
भीषणासारभीष्मा च भीतेहबन्दिमोचनी ॥ ८०४॥
भुवनाद्भुतपावित्र्या भुवनत्रयपावनी ।
भूमण्डलागता दिव्या भूयो भूयो नमस्कृता ॥ ८०५॥
भृगुसानुहिमोपान्ता भृतहेमभगीरथी ।
भृतशीतोत्तरी गङ्गा भृशोद्वेगप्रशामनी ॥ ८०६॥
भेदिताध्यादिमूला च भेरुण्डचारुनिर्झरी ।
भैषज्यदिव्यकीलाला भैरवालयकन्दरी ॥ ८०७॥
भोगभोजिसुवाहौघा भौवनाभौवनावना ।
भ्रान्तचित्तैक्यकारा च भ्रूमध्यैक्यमनस्स्फुरा ॥ ८०८॥
मङ्गल्यसुप्रवाहा च मङ्गल्यवाक्प्रवाहिणी ।
मङ्गलायनमग्ना च मङ्गलानन्दमार्गिणी ॥ ८०९॥
मन्युमात्सर्यशाम्या मा मदादीतरदोषहा ।
मधुगानवरा गङ्गा मदाधिव्याधिनाशिनी ॥ ८१०॥
मनोवेगप्रशाम्या च मनउद्वेगवाहिनी ।
मनःक्षुद्रापहा गङ्गा मनःपक्वकरावनी ॥ ८११॥
मन्दाकिनी मदानन्दा मन्दभाग्यबहिष्करा ।
मनश्शान्तिप्रदा गङ्गा मनोमन्दिरदैविका ॥ ८१२॥
महत्प्रत्यूषनिध्याता महच्छान्तिप्रणादिनी ।
महत्प्रत्यूषकस्नानध्यानगानवरप्रदा ॥ ८१३॥
महद्दूरप्रवाहा च मनोनिकटसंस्थिता ।
मनोवागर्चिता माता मनोमण्डलपावनी ॥ ८१४॥
मनआवृत्तिरोधा च मनआकाशपूरणी ।
मनोमौनप्रसत्तिश्च मनोहैमप्रवाहिणी ॥ ८१५॥
मनोमन्त्रध्वनिर्गङ्गा मनोमन्त्रस्वरूपिणी ।
मनोनादलया गङ्गा मनस्सुस्वरदेवता ॥ ८१६॥
मनस्साक्षात्कृता गङ्गा मनःप्रत्यक्षदेवता ।
मनोऽनुभववागर्था मनऐकाग्र्यदायिनी ॥ ८१७॥
मनआकाशगङ्गामा मनोगोमुखघांषिणी ।
मनोगङ्गोत्तरीलास्या मनआलयपावनी ॥ ८१८॥
मनआकाशगाङ्गाभा मनोनादझरासरा ।
मनःप्रसादना गङ्गा प्रसादितमनस्स्फुरा ॥ ८१९॥
मनस्ककुभसद्धारा मनोजवाक्स्वरूपिणी ।
मनोजस्तुतमन्माता मनोवाक्स्थिरगामिनी ॥ ८२०॥
मनःस्फूर्तिस्तुता गङ्गा मनोमयमदम्बिका ।
मनःप्रणवनादा च मनआलीनगङ्गिका ॥ ८२१॥
मनोगोत्रपरीवाहा मनःपुण्यस्थलस्थिरा ।
मनोरुहप्रवाहा च मनस्सङ्गमसुस्थला ॥ ८२२॥
मनस्सागरसङ्गा च मनःपारप्रशंसिता ।
मनोगभीरनिध्याता मनोमिश्रितमावरा ॥ ८२३॥
मनोगुहावहा गङ्गा मनोरङ्गस्फुरत्स्मिता ।
मनोधीरबहुस्नाता मनश्शान्तिलयालया ॥ ८२४॥
मनःप्रशान्त्युषोभासा मनस्सन्ध्याप्रसान्त्विनी ।
मनस्सारमया गङ्गा मनआनन्दवाहिनी ॥ ८२५॥
मनःपुष्पासनासन्ना मनःपुष्पासवासुधा ।
मनःपुष्पार्चिता गङ्गा मनःपुष्पालयस्मिता ॥ ८२६॥
मनःपुष्पातिमोदा च मन्मनोमण्डलालया ।
मनःपुष्पार्चनप्रीता मनःपुष्पाभिवर्षिता ॥ ८२७॥
मनस्सन्दर्शिता गङ्गा मनोमौननिनादिनी ।
मनस्सङ्कल्पिता माता मनोलयसुखावनी ॥ ८२८॥
मनोरागा मनोगाना मदारामा मनोजगा ।
मदासक्तिस्तुता गङ्गा मुदाशक्तिप्रदायिनी ॥ ८२९॥
मानसाराधिता गङ्गा मानसप्रवहानदा ।
मानसासारवाग्वर्षा मानसारामरामका ॥ ८३०॥
मानसादर्शबिम्बा च माहेन्द्रीमायुमङ्कुरा ।
मानसोल्लासलासा च मानसाभाससद्रसा ॥ ८३१॥
मित्रोदयप्रभासा च मिथ्यातथ्यप्रबोधिनी ।
मित्रोदयपरिप्लाव्या मिहिकामयपावना ॥ ८३२॥
मुमुक्षुश्रायसत्तीर्था मुक्तिसद्गतिसम्प्रदा ।
मुनिसज्जनसन्नूता मुनिवाक्चित्तगामिनी ॥ ८३३॥
मूकवाक्संस्तुता गङ्गा मूकवाक्सम्प्रदायिनी ।
मूलाधारस्थिता देवी मूलाधारप्रणादिनी ॥ ८३४॥
मृदुसुस्वरसङ्गीता मृदुसङ्गीतसुस्वरा ।
मृदुस्पर्शातिहर्षा च मृदुलस्वरमोदिनी ॥ ८३५॥
मेघश्यामतलाभासा मेघगाम्भीर्यनादिनी ।
मेघदीपस्फुरद्भासा मेधाविलासवर्धिनी ॥ ८३६॥
मैत्रावरुणसन्नूता मोक्षसन्मार्गगामिका ।
मौक्तिकावलिकल्लोला मौनमानसवासना ॥ ८३७॥
मौनध्याननुता गङ्गा मौनहिम्याचलानदा ।
मौनध्यानमनोगेया मौनीकृतमनोनदा ॥ ८३८॥
मौनाधारश्रुतिर्गङ्गा मौनात्मलयवाहिनी ।
मौनहैमनदासारा मौननादघनाघना ॥ ८३९॥
यतमानससम्पूज्या यतिश्रेष्ठनुतापरा ।
यातसज्जनकालुष्या यात्रासम्परिपूरणी ॥ ८४०॥
यागङ्गा यानलावण्या युक्तमानससालया ।
येष्ठपेयूषवाक्स्रावा योगिनीवाग्लयालया ॥ ८४१॥
योगसारनदासारा योगसङ्गीतगालया ।
योगनी योगतत्त्वार्था योगिनी योगिनीलया ॥ ८४२॥
रससङ्गीतवाग्धारा रससङ्गतिवाग्गतिः ।
रसवाग्रससंवाहा रसिका रसिकावनी ॥ ८४३॥
रागाचलसुवाग्धारा रागवाक्सत्स्वरूपिणी ।
रागाद्रिरसकूटस्था रागगङ्गा सुरागिणी ॥ ८४४॥
रिक्थधर्मार्थमोक्षा च रिप्रवाहप्रवाहिणी ।
रीतिरागातिरागा च रीणवाग्धारवाहिनी ॥ ८४५॥
रुक्मस्फुरा रुचा गङ्गा रुचिस्फूर्तिप्रवाहिणी ।
रुजाकररुजा माता रुद्रमूर्धन्यशीतला ॥ ८४६॥
रूपसद्गुणवैशेष्या रूढानुरागपूजिता ।
रेखारूप्यसुरीतिश्च रैवताचलपुत्रिका ॥ ८४७॥
रोचिःपूरा मनोरोचा रोधोवती च रोगहा ।
रोमाञ्चनकराप्लावा रौद्रादिरिपुसूदनी ॥ ८४८॥
लवणालवणाप्लावा ललत्तरङ्गरङ्गभा ।
लक्ष्यनीरवनीरा च लयावहलयावहा ॥ ८४९॥
लालिताह्लादितास्नाता लाघवश्लोकलाञ्चिता ।
लालसापरिपूर्णा च लाघवाप्लावलाञ्चिता ॥ ८५०॥
लिप्यतीतप्रभावा च लिखितश्लोकदेवता ।
लीनमानससँल्लीना लीलाकल्लोलपूरिता ॥ ८५१॥
लुटितोपलसंवाहा लुलितार्तिप्रशामनी ।
लुलितोल्लोलसौम्या च लूनभावसुमार्चिता ॥ ८५२॥
लेखनातीतसौरूपा लेखाक्षरस्वरूपिणी ।
लेख्या लेख्यप्रवाहा च लेश्यालासमनोहरी ॥ ८५३॥
लोकत्राणागता गङ्गा लोक्या मा लोकपावनी ।
लौकिकातीतभावा च लौकिकातीतसौख्यदा ॥ ८५४॥
वनारामा वनोधाम्नी वनिनी वनिनीप्रिया ।
वप्रहैमाचला गङ्गा वरिष्ठा वसुमातृका ॥ ८५५॥
वाक्सम्पत्तिप्रसादा च वाक्स्वप्रसादभासिनी ।
वाक्पुष्पार्चितवाग्देवी वाग्दीपावलिलासिनी ॥ ८५६॥
वाग्वर्षाराधिता गङ्गा वाग्वर्षवर्णलासिका ।
वाक्सौष्ठवावहा देवी वाक्सम्प्रीणितवत्सला ॥ ८५७॥
वागर्थभावपुष्टिश्च वाग्भावभावभाविता ।
वाङ्मण्डलावृता गङ्गा वाङ्मयी वाक्सुजीवनी ॥ ८५८॥
वानप्रस्थाश्रिता गङ्गा वासनापरिधावनी ।
वागपर्याप्तवाहा च वाक्पर्याप्तप्रवाहिणी ॥ ८५९॥
विक्षेपक्षालना गङ्गा वितीर्णभवकानना ।
विद्राविताघसङ्घाता विस्तीर्णवारिवारिधिः ॥ ८६०॥
वीचिप्लवनवीचिश्च वीतिप्रवाहवीतिका ।
वीतरागमनोरागा वीणारागलयालया ॥ ८६१॥
वृन्दारकसमाश्राया वृन्दारगणवन्दिता ।
वृन्दारगणसंत्रात्री वृन्दारिका हिमाङ्गणा ॥ ८६२॥
वेदवेदान्तसत्सारा वेदसन्नुतसन्नुता ।
वेदवेद्यसुसज्ज्ञाना वेदान्तगोचरालया ॥ ८६३॥
वैचिन्त्यापोहना गङ्गा वैचित्र्यचित्ररूपिणी ।
वैकालिकप्रशान्ताभा वैकल्याढ्यनुतिस्तुता ॥ ८६४॥
व्यक्तपूर्णत्वरूपा च व्याप्तश्लोकसहस्रभा ।
व्योमगङ्गा स्तवासारा व्यासक्तालोकनस्फुरा ॥ ८६५॥
शतभास्करभासा च शतेन्दुकरशीकरी ।
शतमेघधनुर्वर्णा शतकोटितडित्प्रभा ॥ ८६६॥
शतानना शतस्तोमा शतरागसुमालिका ।
शतश्लोकरया गङ्गा शतरत्ननिभस्फुरा ॥ ८६७॥
शतरागसुसङ्गीता शतिश्लोकसुरागिणी ।
शतनामप्रभावा मा शतरागविलासिनी ॥ ८६८॥
शतश्लोकसुरागा च शतरागकृतिस्फुरा ।
शतकोटिनमस्कारा शतायुर्मङ्गलप्रदा ॥ ८६९॥
शतकोटिनुतिस्तुत्या शक्तिदा स्वशचीस्तुता ।
शम्भुशेखरमाला च शक्तिस्वरूपिणी सरित् ॥ ८७०॥
शक्तितेजास्पदा गङ्गा शक्तिकूटनिवासिनी ।
शक्तिज्ञानतपोवर्धा शक्तित्रयविलासिनी ॥ ८७१॥
शातकुम्भनिभाभासा शान्तमानससन्नुता ।
शारीरोर्जावहा गङ्गा शाश्वतीयसुखावहा ॥ ८७२॥
शिवा शिवशिरोवाहा शिवरूपा शिवावहा ।
शिवावाहशिवा गङ्गा शिवाराधनशंवरा ॥ ८७३॥
शीघ्रगा शीतबा गङ्गा शीतांशुस्फुरदङ्कुरा ।
शीघ्रियप्रवहादिव्या शीलिताशीतनिम्नगा ॥ ८७४॥
शुक्तिकल्लोलशुक्रा च शुभाङ्कितशुचिप्लवा ।
शुचिस्स्फूर्तिश्शुभस्पर्शा शून्यमानसपूरणी ॥ ८७५॥
शून्यतापोहना गङ्गा शृङ्गोत्तुङ्गहिमापगा ।
शेखराहैमवाहा च शैलेन्द्रहिम्यसत्स्रवा ॥ ८७६॥
शोकार्तिभयसंत्राणा शोधिताश्रितमानसा ।
शोभनस्वरसङ्गीता शोभिनी स्वररूपिणी ॥ ८७७॥
श्च्युतामृतप्रवाहा च श्यामकृष्णपदोदका ।
श्यामाभासतलश्यामा श्यामायुक्तप्रयागभा ॥ ८७८॥
श्रद्धान्विताश्रया गङ्गा श्रन्थिताश्रितकर्मजा ।
श्रन्थितश्लोकपुष्पालीस्रजिष्ठा चारुरूपिणी ॥ ८७९॥
श्रान्तसंवाहनातुल्या श्रावणश्रुतिसौख्यदा ।
श्रितानन्दावहा गङ्गा श्रितसंरक्षणावनी ॥ ८८०॥
श्रीचक्रवासिनी देवी श्रीमाता श्रीप्रदायिनी ।
श्रीचक्रस्तुतवागीशी श्रीमन्त्रसत्स्वरूपिणी ॥ ८८१॥
श्रीषोडशाक्षरीविद्या श्रीरूपानेकरूपिणी ।
श्रीकरी श्रीधरी श्रीला श्रीशसानन्दवाक्स्थिता ॥ ८८२॥
श्रुत्योंकारस्वरानन्दा श्रुतनामप्रहर्षिणी ।
श्रुतितालप्रवाहा च श्रुतिशुद्धस्तुतिप्रिया ॥ ८८३॥
श्रेयस्करी सुखश्रैष्ठ्या श्रोत्रसौख्यसुगालया ।
श्रौत्रपेयूषसन्नाम्नी श्लक्ष्णश्लाघ्यप्रवाहिणी ॥ ८८४॥
श्लोक्या श्लोकगतिश्लोक्या श्लोकितागीतवैभवा ।
श्लोकसारांशसेव्या मा श्लोकसत्सारवाहिनी ॥ ८८५॥
श्वासाहरपुनाना च श्वान्तनिश्चलमानसा ।
श्वेताद्रिसुप्रभाना च श्वेतमुत्यस्मितानना ॥ ८८६॥
श्वेतकूहावृता गङ्गा श्वेतवस्त्रप्रभासिनी ।
श्वेतमुत्यप्रवाहा च श्वेतमानसवासिनी ॥ ८८७॥
श्वेताचलमनोवाहा श्वेताचलसुदर्शना ।
श्वेतपुष्पार्चिता गङ्गा श्वेतसौमानसार्चिता ॥ ८८८॥
षड्जाधारश्रुतिर्गङ्गा षाडवौडवरागिणी ।
षोडशीसारसद्धारा षोडशीमन्त्ररूपिणी ॥ ८८९॥
सङ्गीतोपासिता गङ्गा सङ्गीतवाद्यमोदिनी ।
सङ्गीतागीतसानन्दा सङ्गीतवाक्स्वरूपिणी ॥ ८९०॥
सत्सङ्गा सत्यसङ्गा च सत्यतथ्यस्वरूपिणी ।
सद्गङ्गा मत्प्रसङ्गा मा सत्सुनिष्ठाप्रवर्धिनी ॥ ८९१॥
संसारतारिणी गङ्गा संसारजालदारिणी ।
संसारघोरकान्तारभयघ्नी सहचारिणी ॥ ८९२॥
सदामानससंवासा सदानन्दस्वरूपिणी ।
सदाशिवमयी गङ्गा सदात्मानुभवानुता ॥ ८९३॥
सदाचला चिरा गङ्गा सदाचलमनोऽचला ।
सदापूर्णा मनःपूर्णा सदात्मानन्दपूर्णता ॥ ८९४॥
सदानादलयावाहा सदान्तःशुभनादिनी ।
सदात्मलयसंवाहा सदान्तर्लयसंवहा ॥ ८९५॥
सांसिद्धिकस्तुतिश्लोका सागरोपान्तसंस्तुता ।
साहित्यस्वरसँल्लीना सात्त्विकी साधुमानसा ॥ ८९६॥
सितांशुस्मितपीयूषा सिताचलसितप्रभा ।
सितशैलसुकौमारी सिन्दूरपूजिताजिता ॥ ८९७॥
सीतापूजितपूर्णा च सीतारामपदाप्लवा ।
सीतारामसुगेयश्रीत्यागब्रह्मकृतिस्रवा ॥ ८९८॥
सुन्दरी सुप्रदा गङ्गा सुव्रतापूजितानुता ।
सुस्वागतसुनाम्नी मा सुस्वरामोदसारता ॥ ८९९॥
सुखास्पदसुराप्लावा सुनादप्रणवासवा ।
सुमाङ्गल्यप्रदा गङ्गा सुनादप्रशमावहा ॥ ९००॥
सुधासारसुगासारा सुमाधुर्यप्रवाहिणी ।
सुवासिनीवराधात्री सुवासितहिमालया ॥ ९०१॥
सूक्तश्लोकस्तुता गङ्गा सूक्ष्मरूपमनश्चरा ।
सूक्ष्ममानसपुष्पार्चा सूक्ष्मभावमनस्स्मृता ॥ ९०२॥
सूर्योदयाग्रनिध्याता सूर्योदयमृदुन्नका ।
सूर्योदयशुभस्नाता सूर्योदयसुगालया ॥ ९०३॥
सूर्यतापापहस्नाना सूर्यास्तप्रशमालया ।
सूर्यरश्मिस्फुरद्भासा सूर्यास्तबहुरागिणी ॥ ९०४॥
सूर्यार्चिःकलधौताभा सूर्यभातिस्फुरद्रसा ।
सूर्यास्ताग्रलसच्छाया सुर्यास्तनीलहैमभा ॥ ९०५॥
सृप्रोदयलसद्गाङ्गा सृत्वरी वरमातृका ।
सेव्या मा सेविकारामा सेवितश्लोकसेविता ॥ ९०६॥
सैकतीनिश्चलावाहा सैकतप्रशमास्पदा ।
सैकताध्यातशान्तिश्च सैकतीतलमङ्कुरा ॥ ९०७॥
सोहंस्वभावनिध्याता सोहंसात्मलयावहा ।
सोहंभावलयागीता सोहंनादप्रवाहिणी ॥ ९०८॥
सौमङ्गलावहा गङ्गा सौभाग्यदैवतापरा ।
सौम्या सौम्यगुणा गङ्गा सौमेरुकी पराम्बिका ॥ ९०९॥
स्तुतिस्तोमा स्तुतिस्फूर्तिः स्तुत्यतीतद्युतिस्फुरा ।
स्थलपुण्यातिमाहात्म्या स्फुटश्लोकसुमार्चिता ॥ ९१०॥
स्थिरभक्तिचिरावासा स्थिरविश्वासवन्दिता ।
स्थिरचित्तस्थिरा गङ्गा स्थिरसत्सुखमार्गिणी ॥ ९११॥
स्नानपानातिपुण्यार्णस्स्वस्तिहस्ततरङ्गिणी ।
स्वाश्लिष्टस्नानमग्ना मा स्वादिष्ठहेमहर्षिणी ॥ ९१२॥
स्वर्गङ्गा स्वरगङ्गा च स्रोतस्सन्नादसारता ।
स्वादुसङ्गीतसाहित्या स्वादुस्वरफलप्रदा ॥ ९१३॥
स्वश्लोकितस्वमाहात्म्या स्वादुसप्तस्वरालया ।
स्वश्लोकस्वीकरी माता स्वामिनी स्वस्तिवाचिका ॥ ९१४॥
हंसा हंसलयावाहा हंसगुह्यप्रबोधिनी ।
हरिनामरसाप्लावा हरिशङ्करदर्शिनी ॥ ९१५॥
हसितोल्लोलसंहर्षा हाटकाद्रिप्रवाहिणी ।
हारितासक्तहार्दा च हारिणी कविहारिणी ॥ ९१६॥
हिमसंहतिसम्भावा हिमोत्सङ्गप्रवाहिणी ।
हिमप्रवाहपुण्यार्णा हिमालयनभोनदी ॥ ९१७॥
हिमक्ष्माधरधारा च हिमपाषाणपूरिता ।
हिमशीतलशीतापा हिमश्रन्थप्रवाहिणी ॥ ९१८॥
हिताम्बुप्रवहा हिम्या हितोपदेशमातृका ।
हिमालयस्थला दिव्या हिमालयकुमारिका ॥ ९१९॥
हिमागमालिका गङ्गा हिल्लोलरागपूरिता ।
हिमगा हिमगाश्लोका हिमशान्तिसुगाप्लवा ॥ ९२०॥
हिम्याचलाक्षरा गङ्गा हिमाक्षरविभूषिता ।
हिमपुष्पावलीवासा हिमरश्मिस्फुरद्रसा ॥ ९२१॥
हीरोर्मिमालिका गङ्गा हीरोल्लोलविलासिनी ।
हीरा हीरस्फुरा माता हीरभास्वद्विधुद्युतिः ॥ ९२२॥
हूतमाता च हृद्या मा हृद्गता हृन्निवासिनी ।
हृदन्तरङ्गसद्धारा हृदन्तरङ्गदेवता ॥ ९२३॥
हृद्ग्रन्थिभेदना गङ्गा हृद्दौर्बल्यापहारिणी ।
हृदन्तःस्फोटश्लोकस्था हृत्स्थसुस्वरदेवता ॥ ९२४॥
हृद्गभीरसुसङ्गीता हृद्गभीरसुनादिनी ।
हृन्नादप्रणवाकारा हृद्यसद्गुरुरूपिणी ॥ ९२५॥
हृन्मन्त्रबोधना गङ्गा हृन्मन्त्रसत्स्वरूपिणी ।
हृन्मन्त्रोंकारनादा च हृत्प्रत्यक्षपराम्बिका ॥ ९२६॥
हृष्टिकारहिमाप्लावा हृष्टरोमहिमाप्लुता ।
हृष्टिस्फुटस्तुतिश्लोका हृष्टिगाश्लोकसालया ॥ ९२७॥
हेमाद्रिसुप्रभावा च हेमस्नानप्रमोदिनी ।
हेमाचलतडिल्लेखा हेमकूटप्रभासिनी ॥ ९२८॥
हैमा हैमवती गङ्गा हैमनी हैमशेखरी ।
हैमसानुनुतागीता हैममेरुविकासिनी ॥ ९२९॥
ह्रींकारनिलया माता ह्लादितैकान्तपूजिका ।
ह्लादुकोंकारनादा च ह्लादिताक्षरमालिका ॥ ९३०॥
अक्षरश्लोकमालाभा अक्षराद्यन्तपूजिता ।
वर्णपुष्पावलीमोदा मातृकास्तुतमातृका ॥ ९३१॥
श्रीगङ्गामानसपूजा ॥
मानसाराधिता गङ्गा मानसागीतमातृका ।
मनोमन्त्राक्षरा माता मनोमेरुरसालया ॥ ९३२॥
हृत्पीठसंस्थिता माता हृन्मेरुसन्निवासिनी ।
हृत्स्फूर्तिमन्त्रबीजाम्बा हृन्नादसंविकासिनी ॥ ९३३॥
ह्रींकारमन्त्ररूपा मा ह्रींकारमन्त्रपूजिता ।
ह्रींकारमन्त्रसत्सारा मन्त्रोपदेशिनी सुनी ॥ ९३४॥
श्रीविद्यासत्त्वरूपा मा हैमकूटविलासिनी ।
मन्त्रशक्तिप्रवाहा च महापर्वतलासिनी ॥ ९३५॥
षोडशस्तुतवाग्देवी श्रीविद्या षोडशाक्षरी ।
षोडशीजपवर्णा च महामेरुनिवासिनी ॥ ९३६॥
रसमेरुविकासाम्बा रसमेरुसुपूजिता ।
रसानन्दस्वरूपा मा रसारसरसारसा ॥ ९३७॥
रसवाक्प्रदमागङ्गा रसवर्जरसापहा ।
रसरागलसद्रासा अतिरागा विरागिणी ॥ ९३८॥
गुरुवन्दनसङ्गीता गुर्वाशीर्वचआनुता ।
गुरुसङ्गीतसद्धारा गुरुकीर्तनसँल्लया ॥ ९३९॥
नादबिन्दुकलापूर्णा नादोपासनसन्नुता ।
नादसद्गुरुसद्रूपा नादोंकाररसालया ॥ ९४०॥
नादविद्यार्थिसङ्गीता नादोपासितसुस्वरा ।
नादहृल्लालसापूर्णा नादार्थिहृल्लसत्प्रभा ॥ ९४१॥
ब्राह्ममुहूर्तसुस्नाता ध्याता गीतसुमार्चिता ।
गङ्गा सम्पूजिता माता मदात्मानन्ददेवता ॥ ९४२॥
सर्वानन्दमयी देवी सर्वानन्दलयस्थिता ।
सर्वानन्दसुखावाहा सर्वानन्दसुखावहा ॥ ९४३॥
सरस्वती महालक्ष्मी पार्वती भद्ररूपिणी ।
देवी गङ्गा मदम्बा श्रीः पूजामन्दिरदैविका ॥ ९४४॥
अत्यूषध्यानसुस्नाना ध्यानप्रशान्तिगालया ।
वीणानादस्वरामोदा वीणागानस्थरागिणी ॥ ९४५॥
वीणागानलया गङ्गा तुम्बरश्रुतिवाहिनी ।
नादाजस्रप्रवाहा मा अन्तःप्रशान्तिवर्धिनी ॥ ९४६॥
तुम्बरस्वरसङ्गीता एकधारप्रवाहिणी ।
एकनादौघवाहा मा भक्तिसङ्गीतवाक्स्फुरा ॥ ९४७॥
एकोंकारगसुश्राव्या एकसङ्गीतसुस्रवा ।
एकशब्दातिमाधुर्या एकप्रशान्तिवाहिनी ॥ ९४८॥
ओंकारनादसद्धारा लयरागार्चितानुता ।
लयलीनसुगाधारा नादप्रवाहरूपिणी ॥ ९४९॥
श्रुतिरागसुसङ्गीता ओंकारश्रुतितुम्बरा ।
कृतिसारप्रवाहा च नामगानसुधावहा ॥ ९५०॥
स्तुतिसाहित्यसंवेगा स्तुतिश्रुतिनिनादिनी ।
स्तुतिरीतिसुकीर्तिश्च स्तुतिद्युतिविलासिनी ॥ ९५१॥
स्तुतिस्तोमसुसङ्कीर्तिः स्तुतिस्तोत्रीसुगायिका ।
स्तुत्यतीतातिसत्कीर्तिः स्तुतिरीतिसुवाग्वहा ॥ ९५२॥
गातव्या गीतरागा च श्रोतव्योंकारनादिनी ।
ज्ञातव्यतत्त्ववागर्था श्लोकवागर्थरूपिणी ॥ ९५३॥
गायत्री गायसंत्रात्री गायवाक्स्थिरगामिनी ।
गानाधारप्रशान्तिश्च गायाधारप्रवाहिणी ॥ ९५४॥
गीताधारस्वरोंकारा गीतधाराप्रसान्त्विनी ।
गीताचार्यनदीरूपा गीतानन्दप्रसादिनी ॥ ९५५॥
सद्गुर्वद्भुतसङ्गीता गुरुगानलयावहा ।
गुरुदेवोक्तिसत्त्वोदा पावित्र्यनामगानगा ॥ ९५६॥
दिव्यसन्नामसङ्गीता दिव्यानुभवमोदिनी ।
दिव्यसत्स्फूर्तिसाध्या मा स्फूर्तिश्लोकितरागिणी ॥ ९५७॥
सत्साहित्यमृदूदा च सङ्गीतातिमृदुस्वरा ।
रामानन्दसुरीतिश्च गुरुसङ्कीर्तनावहा ॥ ९५८॥
सङ्गीतसङ्गतिक्रीडा सङ्गीतसत्तरङ्गिणी ।
सङ्गीतागीतसम्मोदा सङ्गीतसद्गतिप्रदा ॥ ९५९॥
सङ्गीतस्तुतिगाम्भीर्या साहित्यवाग्विलासिनी ।
रागगङ्गा रभोदा मा मानसानन्दगायिनी ॥ ९६०॥
गेयमाना सुगेया मा तोयरागलयालया ।
तोयजाह्लादसङ्गीता त्यागराजसुवाग्लया ॥ ९६१॥
गुरुसाहित्यपावित्र्या गीतानन्दकदम्बका ।
कृतिरागसुलास्या च दिव्यनामशुभोदका ॥ ९६२॥
सत्सुखावहसङ्गीता मत्सुखावहमातृका ।
सङ्गीतसत्सुखावाहा मज्जल्पश्लोकगीतिका ॥ ९६३॥
आत्मानुभूतिसाहित्या स्वानुभूतिप्रसादिका ।
स्वानुभूतिस्तुतागीता स्वानुभूतमदम्बिका ॥ ९६४॥
सान्त्वस्वरावरा गङ्गा शान्तसौख्यप्रदायिनी ।
सामगानप्रिया देवी नामगानप्रसादिनी ॥ ९६५॥
गङ्गा गम्भीरगाया च गायगाम्भीर्यगामिनी ।
मनोगभीरगेया मा गभीरनादसान्त्विनी ॥ ९६६॥
सङ्गीतागीतमाधुर्या वाणीमाधुर्यवाक्स्थिता ।
सङ्गीतारामसानन्दा वाणीमाधुर्यवासिता ॥ ९६७॥
सुस्वरामोदसंवासा सुस्वरा सुस्वरार्चिता ।
सुस्वरान्तःप्रशान्तिश्च सुस्वरानन्दसंवरा ॥ ९६८॥
सौवर्णार्चितसौवर्णा कविताभातिशोभना ।
छविलासस्तुतिस्यूमा कविसत्कृतिवन्दिता ॥ ९६९॥
रागालास्यसुरागा च तालविश्रामगामिनी ।
विश्रामरामगायस्था सदाशिवमुदामयी ॥ ९७०॥
सत्सङ्गीतनुतिप्रीता रागपुष्पासवोदका ।
रागमाधुर्यवाक्सारा रागपुष्पासुपूजिता ॥ ९७१॥
गानसन्नुतिरागा च सत्कीर्तनस्वरालया ।
मनस्स्वच्छलयारागा गङ्गा गम्भीरगायनी ॥ ९७२॥
सुधागानसुमाधुर्या सुधामयी सुवाङ्मयी ।
स्तुतिस्तोमस्वरागीता स्तुतिसङ्गीतरागिणी ॥ ९७३॥
नुतिगीतस्तुता माता सुनादस्वरपूजिता ।
रागवाक्सुस्वरा गङ्गा नादसत्सारवाहिनी ॥ ९७४॥
नादाकृतिनदीस्वर्ग्या नादसुधारसाप्लवा ।
त्यागब्रह्मसुवाग्धारा त्यागगङ्गापराप्लवा ॥ ९७५॥
सुरा सुमानसाराध्या सुधापानकमाधुरी ।
सुरानन्दा स्वरानन्दा स्वरविद्यापरीवहा ॥ ९७६॥
वरानन्दस्वरानन्दा वरसप्तस्वरालया ।
वरवीणास्वरालीना स्वरमालासुशोभिता ॥ ९७७॥
वररागरसासारा वरसत्कीर्तनावहा ।
स्वररागलयाह्लादा स्वरसप्तकशोभना ॥ ९७८॥
लयरागसुधाप्लावा लयलीनवरप्रदा ।
लासरागसमुल्लासा गागङ्गात्मलयावहा ॥ ९७९॥
रागस्थिरकरा गङ्गा रागास्थिरकरावनी ।
स्थिररागमनोरागा रागान्ता रागलालिनी ॥ ९८०॥
रागानुरागरागा च रागरागसुरागगा ।
रागातिरागसङ्गीता रागताललयालया ॥ ९८१॥
रागोपासनसम्प्रीता रागलाससुलासिनी ।
रागानुरागसंवर्धा रागतालसुवासिनी ॥ ९८२॥
रागघ्नी रागिणी गङ्गा रागानन्दप्रवाहिणी ।
रागानुरागसंयोगा लयरागतरङ्गिणी ॥ ९८३॥
रागा रागाङ्किता गङ्गा रागभा रागसुस्मिता ।
रागाङ्कितमनोवाहा रागदा रागसंस्थिता ॥ ९८४॥
रागविद्यार्थिसङ्गीता रागस्वरघनाघना ।
रागानुरागरागा च लयरागवरप्रदा ॥ ९८५॥
रागरागसुरागा मा रागरासलयस्मिता ।
रागलास्यलयावाहा रागतालतरङ्गभा ॥ ९८६॥
रागानुरागरङ्गा च रागरागसुरङ्गिणी ।
रागौघवाहरागौघा वाणीगाम्भीर्यरागिणी ॥ ९८७॥
रागसँल्लीनसङ्गीता रागरीतिप्रवाहिणी ।
रागसङ्गीतसत्सारा रागसारप्रणादिनी ॥ ९८८॥
रागसारस्वरासारा सारानन्दशुभोदका ।
सारनामनदाप्लावा नादसारप्रवाहिणी ॥ ९८९॥
देवकुल्या धरावाहा रागिणी रागमालिका ।
दिव्यनादलसद्रागा रागालयालयास्पदा ॥ ९९०॥
वागपर्याप्तमाहात्म्या सुलभावर्षवाग्वरा ।
वाग्रागातीतमाधुर्या वाग्रागलयसद्रसा ॥ ९९१॥
सरागश्लोकिता माता सुरागमयवाहिनी ।
विरागमनआवाहा अरागत्वप्रदायिनी ॥ ९९२॥
गङ्गा सततसम्पूर्णा सम्पूर्णरागरूपिणी ।
सम्पूर्णज्ञानदात्री मा सम्पूर्णश्लोकमण्डला ॥ ९९३॥
सत्यवाक्स्थितसत्या मा सत्यवाक्पूर्णवाहिनी ।
वाक्सत्यपरिपूर्णा च वाग्वर्णपरिवाहिणी ॥ ९९४॥
नुतिनामसहस्राभा नामपुष्पालयस्तुता ।
पुष्पासवसुसङ्गीता गङ्गा कलमृदुस्वरा ॥ ९९५॥
पुष्पात्मानन्दसङ्गीता पुष्कला ज्ञानपुष्कला ।
सुस्वरामोदवाक्पुष्पा सुलभानन्दसिद्धिदा ॥ ९९६॥
मानसाह्लादवाहा मा मानसा मानसप्रिया ।
गानगङ्गा रयावेगा नामवाग्धारवाहिनी ॥ ९९७॥
श्रीपञ्चनदनादार्कत्यागब्रह्मकृतिस्फुरा ।
शिष्यापुष्पासुरागेण प्रातःसन्ध्यासुपूजिता ॥ ९९८॥
शिशुजल्पनिभस्तोत्रपुष्पावलिसुमण्डिता ।
बालालापस्तुतिस्तोमा बालालापप्रमोदिता ॥ ९९९॥
मागङ्गा सुप्रसन्ना च बालालापस्तुतिस्फुरा ।
पर्यन्तवाक्स्तुता गङ्गा अपर्यन्ताद्भुतालया ॥ १०००॥
सहस्रश्लोकगायस्था अतिरागसुमार्चिता ।
अजस्रधारसच्छ्लोका अशुष्कप्रचुरावहा ॥ १००१॥
सहस्रश्लोकिता गङ्गा सहस्रायुतमाहिना ।
सहस्रायुतपापघ्नी सहस्रायुतनामभा ॥ १००२॥
सहस्रश्लोकसङ्गीता श्लोकामोदातिमोदिनी ।
सहस्रायुतनामार्चा सहस्रभासुरा सुरा ॥ १००३॥
मनस्सङ्कल्पहेतुश्च मनस्सङ्कल्पपूरणी ।
सहस्रश्लोकसंस्फूर्तिः सहस्रश्लोकमालिनी ॥ १००४॥
गङ्गाश्लोकसहस्रस्था भावजस्तोत्रमालिका ।
न कापि स्तुतिरत्युक्तिर्गङ्गापरमदेवता ॥ १००५॥
स्तुत्यामोदा स्वरामोदा भक्त्यामोदा मदम्बिका ।
पुष्पामोदा तदुद्धारा मोक्षसौभाग्यदायिका ॥ १००६॥
नित्यश्लोकनुतागीता नित्यमङ्गलगङ्गिका ।
नित्यस्नानातिपुण्या मा नित्यवैभवमङ्गला ॥ १००७॥
सर्वमङ्गलसंयुक्ता सर्वमङ्गलदायिनी ।
सर्वा सुमङ्गला देवी मागङ्गा सर्वमङ्गला ॥ १००८॥
गङ्गातीरस्फुटस्तोत्रं गङ्गास्तवसहस्रकम् ।
अपर्याप्तं स्तुतिस्तोमं पर्याप्तशुभमङ्गलम् ॥
गङ्गादेवीपराशक्तिस्फूर्तिश्लोकसहस्रकम् ।
पुष्पागीतं गुरुप्रीतं गङ्गार्पणं सुमङ्गलम् ॥
गङ्गापुत्रीगुरुस्तोत्रीपुष्पवल्लीसुलेखनी ।
स्वयंगङ्गाकृतं स्तोत्रं भगभव्यसुमङ्गलम् ॥
ॐ
शुभमस्तु
श्रीगङ्गारागपुष्पावली
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
रागदेव्यै च विद्महे । सुरागिण्यै च धीमहि ।
तन्नो गङ्गा प्रचोदयात् ॥
रागातिदेवता गङ्गा रागवाक्स्फुटमातृका ।
रागमानससञ्चारा रागताललयावहा ॥ १॥
रागस्वरलया गङ्गा रागमन्दिरदैविका ।
रागतालस्तुता माता रागातिरागवन्दिता ॥ २॥
रागरागसुमाराध्या रागानुरागसंस्तुता ।
रागानुरागवेगा च रागपुष्पावलिस्मिता ॥ ३॥
रागवाक्स्तुतमागङ्गा रागच्छविलसत्प्रभा ।
नानारागलसद्रागा रागप्रपञ्चसच्छविः ॥ ४॥
रागहैमाद्रिरागा च रागाचलरसाप्लवा ।
रागसागररागा च रागसुधारसायना ॥ ५॥
पानरञ्जनभोग्या च यागयोगफलावहा ।
त्यागब्रह्मनुतागीतनादोंकारस्वरालया ॥ ६॥
सदाशिवमयी गङ्गा जीवन्मुक्तविदुस्तुता ।
हिमाद्र्यान्दोलिका गङ्गा हिमरागसुधारसा ॥ ७॥
मयूरकण्ठसौवर्णा ध्वनिरागसुधारसा ।
सप्तस्वरसुरङ्गा च शोभनस्वरसप्तका ॥ ८॥
वररागलया गङ्गा वरदा वरदप्रिया ।
स्वरसाररसाप्लावा सुरमानवपूजिता ॥ ९॥
शङ्कराभरणा गङ्गा स्वररागसुधारसा ।
स्वर्गापवर्गसिद्धिश्च परमानन्दमोक्षदा ॥ १०॥
मूलाधारजनादा च मृदुतालगतिस्रवा ।
कोलाहलस्वरासारा सप्तस्वररसासरा ॥ ११॥
रजताद्रिलयारागा नगजा नादयोगिनी ।
स्वरार्णवगभीरा च सहजज्ञानभक्तिदा ॥ १२॥
हिमहिन्दोलना गङ्गा हिन्दोलोल्लोललासिनी ।
हिममोहननाटा च हिमगङ्गातरङ्गिणी ॥ १३॥
काम्भोजचरणाप्लावा हरिकाम्भोजपादभा ।
हिमगोत्रजटाजूटभैरवानटभैरवी ॥ १४॥
आनन्दभैरवी गङ्गा तोडीरागतरङ्गभा ।
धन्यासीरागरागा च गौरी खरहरप्रिया ॥ १५॥
भौलीरागोषकागीता कल्याणी स्वरभूषणी ।
गम्भीरवाणिसन्नादा कुसुमाकरसेचिता ॥ १६॥
सुधातरङ्गिणी गङ्गा भूषावलिसुमद्युतिः ।
मनोबिलहरिध्यानगानवारिधिसङ्गमा ॥ १७॥
मोहनालास्यरागा च मोहनद्युतिशोभना ।
मोहनस्वरमाधुर्या मोहनावर्णमालिका ॥ १८॥
फेनद्युतिरभोजूर्णिः फणिशायिपदद्युतिः ।
झङ्कारध्वनिगम्भीरा गम्भीरनाटलासिनी ॥ १९॥
नटनारायणी गङ्गा रञ्जनी शिवरञ्जनी ।
मन्मनोरञ्जनी माता श्रीरञ्जनी निरञ्जनी ॥ २०॥
दीपकारतिशोभा च सुरतिःश्रुतिरञ्जनी ।
दीपकान्तिमती गङ्गा सुरुचिश्चित्तरञ्जनी ॥ २१॥
सूर्यकान्तद्युतिस्मेरा धौतपञ्चमरञ्जनी ।
छायातरङ्गिणी गङ्गा श्रीमती जनरञ्जनी ॥ २२॥
उमाभरणहैमाभा मालवी स्वररञ्जनी ।
कमास्फोटसुकाव्या च कामादिमाररञ्जनी ॥ २३॥
वलजुष्यवरानन्दा वरगायकरञ्जनी ।
वरुणप्रियगानन्दा वनोरसिकरञ्जनी ॥ २४॥
सुधाम्बोधिसुराप्लावा भाग्यश्रीः स्मररञ्जनी ।
जीवसञ्जीवनी गङ्गा सुधालहरिजीवनी ॥ २५॥
आरभीश्रितमन्दारी अभीष्टवरमञ्जरी ।
हरिकेदारगोला च सुज्ञानफलमञ्जरी ॥ २६॥
सुरागमञ्जरी गङ्गा मधुरस्वरवर्धनी ।
त्यागयागप्रिया गङ्गा रागानुरागवर्धनी ॥ २७॥
नादविनोदिनी गङ्गा नादिनीधातुवर्धनी ।
नाटकप्रियसन्नूता हरिणी हाटकामबरी ॥ २८॥
षण्मुखप्रियमाता च ऋषभप्रियमोदिनी ।
रुद्रप्रिया मुखारी च नरदेवमनोहरी ॥ २९॥
जयन्तश्रीविलासा च गङ्गा गाङ्गेयभूषणी ।
झञ्जूतिप्रवहा गङ्गा चन्द्रज्योतिर्मनोहरी ॥ ३०॥
सम्पूर्णललितारागा अठाणातीव्रवाहिनी ।
पाटिताज्ञानबन्धा च रसाली रसिकप्रिया ॥ ३१॥
हंसध्वनिसुनादा च हंसनादप्रसान्त्विनी ।
नादचिन्तामणिर्गङ्गा आनन्दामृतवर्षिणी ॥ ३२॥
सारा सारमती गङ्गा मार्गदेशीयसौभगा ।
सारङ्गस्वरसङ्गीता कोकिलारवसैकता ॥ ३३॥
विजयश्रीवरानन्दा बलहंसा सुकेसरी ।
जयनारायणी गङ्गा मनोमलहरीश्वरी ॥ ३४॥
त्वरानलिनकान्तिश्च वसन्तभैरवीच्छविः ।
वरालीललिताराध्या वाचस्पतिनुतावरा ॥ ३५॥
सौराष्ट्रदेवता गङ्गा नारायणी गुरुप्रिया ।
शुद्धभङ्गालकानन्दा हंसानन्दियतिस्तुता ॥ ३६॥
भद्रानन्दालकानन्दा नरसिंहेन्द्रमध्यमा ।
मल्लारम्यस्मितोल्लोला बदरीतुङ्गनागगा ॥ ३७॥
ओंकारी सुचरित्रा मा भागीरथी सुगोमुखी ।
नादस्वरूपिणी गङ्गा चारुनादतरङ्गिणी ॥ ३८॥
देवीसिंहारवा गङ्गा स्वसृसालकभैरवी ।
सदारामकलिस्नाना चलनाटकुरञ्जिता ॥ ३९॥
गौरीवेलावली पूर्वी देवक्रिया रघुप्रिया ।
देवगान्धारिणी गङ्गा स्तवराजकृतिस्थिरा ॥ ४०॥
तीरजङ्गलझङ्कारभ्रमरीरवपूरिता ।
तारदिव्यमणिच्छायानाटत्विड्बिन्दुमालिनी ॥ ४१॥
नवरत्नविलासा च नभोमणिविभात्विषा ।
मणिरङ्गविभूषा च किरणावलिमण्डिता ॥ ४२॥
कलानिधिलसोल्लासा श्रीमाधवमनोहरी ।
मार्गहिन्दोलवेला च श्रीमणिःकन्नटद्युतिः ॥ ४३॥
ज्योतिर्ज्ञानप्रदीपा मा आत्मज्ञानप्रवर्धनी ।
ज्योतिस्स्वरूपिणी माता आत्मज्योतिःप्रदर्शिनी ॥ ४४॥
शैलदेशाक्षिता गङ्गा देवी मलयमारुता ।
रीतिगोलातिरागा च गौलरागकृतिस्तुता ॥ ४५॥
नादवराङ्गिणी गङ्गा ऊर्मिकाचारुकेशिनी ।
नादनामक्रियायोगा वनस्पतिपदोदका ॥ ४६॥
धेनुकाश्लोकपूज्याम्बा नायकी वरदायकी ।
धर्मवती द्विजावन्ती नवनीतस्वरावली ॥ ४७॥
गङ्गा हेमवती सामा नागाभरणहिम्यका ।
भवानी चलनाटा च गङ्गा जयमनोहरी ॥ ४८॥
काचकन्नटगोलाभा कीरवाणीसुखस्वरा ।
केदारसुप्रदीपा च कोकिलध्वनिपारगा ॥ ४९॥
जगन्मोहनकल्याणी सरस्वतीमनोहरी ।
शुद्धसीमन्तिनी गङ्गा आभोगिकनकाङ्गिनी ॥ ५०॥
गमनाश्रमवाहा च शुक्रभापूर्णचन्द्रिका ।
चक्रवाकसुमाला च गङ्गा अमृतवाहिनी ॥ ५१॥
गुर्झरीप्रवहा गङ्गा कुकर्मबहुदारिणी ।
सत्कामवर्धनी गङ्गा सत्सुज्ञानविवर्धनी ॥ ५२॥
सुप्रतापवरालीना सिद्धसेनातरङ्गिणी ।
हंसभ्रमरिकावेला बृन्दावनी कलावती ॥ ५३॥
हंससेनावती गङ्गा चन्द्रश्रीरागवाहिनी ।
हंसगीर्वाणिमाधुर्या चिन्मयानन्दवाहिनी ॥ ५४॥
हरिनारायणी धात्री शुद्धदेशीयखापगा ।
काशीरामक्रिया गङ्गा नामदेशी रविक्रिया ॥ ५५॥
संयुक्तयमुनाकल्याणीगङ्गामहिमास्पदा ।
प्रस्थानसागरा गङ्गा सैन्धवी सिन्धुभैरवी ॥ ५६॥
सद्ध्यानतत्परस्फूर्तिर्गङ्गा षड्विधमार्गिणी ।
सिन्धुरामक्रियायोगा बङ्गालदेशसिन्धुगा ॥ ५७॥
भद्रश्रीःसुरसिन्धुश्च सरित्सिन्धुतरङ्गिणी ।
नागरीनागवल्लीगङ्गाभूपालतरङ्गिणी ॥ ५८॥
वेदघोषप्रिया गङ्गा वेदवल्ली भुजङ्गिणी ।
नादप्रियगवाम्भोधिसँल्लयोंकारघोषिणी ॥ ५९॥
मानिनी देवगीर्वाणी पालिनी सुप्रवाहिणी ।
गङ्गा हमीरकल्याणी रागदिव्यतरङ्गिणी ॥ ६०॥
गङ्गा मन्दाकिनी स्वर्ग्या अधोभोगवतीसरी ।
सुरागकेसरी गङ्गा भद्रा भुवनमोहिनी ॥ ६१॥
सन्ध्यारतिप्रियागीता गीतप्रिया सुपोषिणी ।
भङ्गालास्यमुदासारा कोलाहलजलार्णवा ॥ ६२॥
श्रीयदुकुलकाम्भोजवदनामुक्तगीतिका ।
सहाना मालवश्रीश्च मायामालवगोलका ॥ ६३॥
सावेरी शुद्धसावेरी असावेरी लताङ्गिनी ।
नामनारायणी शौभा जीवन्तिनी शुभाङ्गिनी ॥ ६४॥
नागस्वरावलीभूषा रागरूपवती लया ।
रागपञ्जरगुप्ता च कान्तामणिसुपूजिता ॥ ६५॥
नागगान्धारिणी गङ्गा नामगानागनन्दिनी ।
सुपुन्नागवरालीगा भैरवी सिंहवाहिनी ॥ ६६॥
रमामनोहरी रामा श्रीकमलामनोहरी ।
शुभपन्थुवरालीना गङ्गा ईशमनोहरी ॥ ६७॥
मुकुन्तलवराली च मुकुन्दप्रियरागिणी ।
मूकवाग्रागरागाम्बा मूकवाग्रागवर्धनी ॥ ६८॥
आहिरी कलकण्ठी च कल्गडश्यामलाङ्गिनी ।
आपोजयन्तसेनार्का स्वर्णाङ्गिचतुरङ्गिणी ॥ ६९॥
सरस्वतीसुवाणी च कवितावेगवाहिनी ।
गाकोकिलवराली च गौलीपन्थुश्च जिङ्गला ॥ ७०॥
रागचूडामणिर्गङ्गा देवामृतकवर्षिणी ।
रामप्रियाप्रियारामा चिन्तामणिश्च शूलिनी ॥ ७१॥
माञ्जिष्ठोषकहैमाग्रा भूपालरागसन्नुता ।
पूर्णषड्जादिरागा च सङ्गीतस्वरसार्चिता ॥ ७२॥
रत्नाङ्गितलशोभा च रसभारविचन्द्रिका ।
सुवागधीश्वरी गङ्गा वाग्गदनकुतूहला ॥ ७३॥
सुहिन्दोलवसन्तार्का नटाभरणझल्लिका ।
हुसेनीबेगडारागगुरुस्वामिकृतिस्मिता ॥ ७४॥
सौवीररघुवीरातिप्रशस्तमहिमास्पदा ।
श्रीकृष्णगोपिकावसन्तारासरासरङ्गभा ॥ ७५॥
सुकल्याणवसन्तश्रीर्वसन्तोत्सववैभवा ।
आभेरीदुन्दुभीढक्काघण्टारवसुपूजिता ॥ ७६॥
वीरवसन्तकासारा गङ्गा मालवपञ्चमा ।
पूर्वपञ्चमसङ्गीतपूरपारशरावती ॥ ७७॥
कोकिलप्रियसङ्गीतप्रियगागायकप्रिया ।
गीतनीतिमती माता सङ्गीततानरूपिणी ॥ ७८॥
चित्राम्बरी वसन्ताभा ग्रीष्मगौरीमनोहरी ।
शरद्भानुमती गङ्गा वर्षाभामेघरञ्जनी ॥ ७९॥
हेमनीलाम्बरी हैमा सन्ध्याभाकनकाम्बरी ।
जगन्मोहनरागा च छायागौरी च भार्गवी ॥ ८०॥
छाया छायावती गङ्गा भोगच्छायानटापगा ।
सुपुष्पलतिकाच्छाया छायागोलसुपल्लवा ॥ ८१॥
शुद्धवेलावली गङ्गा मुक्ताम्बरी हिमाङ्गिनी ।
सुरागचन्द्रिकाकान्ती रसरागमनोहरी ॥ ८२॥
पूर्णपञ्चमकल्लोला धवला धवलाम्बरी ।
श्यामचिन्तामणिर्गङ्गा शतरागविनोदिनी ॥ ८३॥
सुकानडहहालास्या पञ्चमानवभासुरा ।
सारङ्गनाटसङ्गीता इन्दुसारङ्गनाटका ॥ ८४॥
गानागपञ्चमासारा गानप्रिया सुभाषिणी ।
सुलावण्यवती गङ्गा हंसदीपकशोभिनी ॥ ८५॥
ज्ञानस्वरूपिणी गङ्गा छायानारायणी सरित् ।
कूलंकषस्रवन्ती च वरधर्मप्रकाशिनी ॥ ८६॥
कोसलापतिसन्नूता स्तुतिमेघा स्तुतिप्रिया ।
हिमदेवमुखारी च रङ्गलीलातरङ्गिणी ॥ ८७॥
रागसालगनीया मा महती तापसप्रिया ।
स्तुतिजालवरालीश्रीर्गौडमल्लारतिस्तुतिः ॥ ८८॥
विश्वम्भरी जुजाहूली सरसाङ्गीकृतस्तुतिः ।
वकुलाभरणान्धाली गरुडध्वनिसुसृतिः ॥ ८९॥
गङ्गा कैकवशीकर्त्री कुरञ्जितकुतूहला ।
नवरोचशरच्छाया धवलाङ्का भवप्रिया ॥ ९०॥
दर्भारिन्दमपादोदा देवरञ्जितगुञ्जरी ।
गाननागध्वनिर्गङ्गा रेवगुप्तिप्रवाहिणी ॥ ९१॥
हंसप्रभावलीशोभा हंसनारायणी शुभा ।
हंसनीलाम्बरी गङ्गा रागहंसगिरीश्वरी ॥ ९२॥
मानवतीर्थिका गङ्गा गानमूर्तिर्लयालया ।
गानसामवरालीना वीणागागमकक्रिया ॥ ९३॥
श्लोकभूषावती गङ्गा सत्काव्यरसमञ्जरी ।
श्रुतिगानलया माता गानसन्तानमञ्जरी ॥ ९४॥
रागपुष्पावलीसार्चा सुरागशतमालिका ।
सङ्गीतरागसामोदा श्लोकालीस्वरदैविका ॥ ९५॥
परन्धामवती गङ्गा निषदश्लोकमण्डला ।
श्रीनारायणगोलापः सौगन्धिनीसुमार्चिता ॥ ९६॥
सच्चित्स्वरूपिणी गङ्गा सत्त्वसुज्ञानबोधिनी ।
आनन्दानन्तधारा च सज्ज्ञानमुक्तिदायिनी ॥ ९७॥
कापि पूततरा नास्ति गङ्गा परमपावनी ।
न चास्ति कापि नारायणीगङ्गातीतमाहिना ॥ ९८॥
नादरूपिगुरुस्वामितारवल्गुस्वरालया ।
रागानुरागसामोदपुष्पालीनवमालिका ॥ ९९॥
त्रिजगन्मोहिनी गङ्गा पूजाकुटीरकुम्भिनी ।
सुमध्यमावती देवी गङ्गा मङ्गलकैशिकी ॥ १००॥
त्यागराजगुरुस्वामिगारागायै सुमङ्गलम् ।
शिष्यापुष्पासुरागेण सङ्गीतायै सुमङ्गलम् ॥ १०१॥
सङ्गीतश्रुतिधारायै रागस्फुर्त्यै सुमङ्गलम् ।
आधारश्रुतिषड्जायै ओंकारिण्यै सुमङ्गलम् ॥ १०२॥
ऋषभारूढशेखर्यै सरीगायै सुमङ्गलम् ।
रीतिरागस्वरावल्यै गागङ्गायै सुमङ्गलम् ॥ १०३॥
गान्धारप्लवधारायै गामालिन्यै सुमङ्गलम् ।
गानवीणाप्रसारिण्यै मध्यमायै सुमङ्गलम् ॥ १०४॥
पञ्चमस्वरगीतायै धनिकायै सुमङ्गलम् ।
निषादश्लोकसर्यै च सानन्दायै सुमङ्गलम् ॥ १०५॥
रागरागसुरागायै रागधात्र्यै सुमङ्गलम् ।
रागताललयायै च रागदेव्यै सुमङ्गलम् ॥ १०६॥
मङ्गलं रागहिम्यायै रागगायै सुमङ्गलम् ।
मङ्गलं रागकंनिध्यै गङ्गादेव्यै सुमङ्गलम् ॥ १०७॥
मङ्गलं रागमालिन्यै रागिण्यै शुभमङ्गलम् ।
मङ्गलं मोक्षकारिण्यै गङ्गादेव्यै सुमङ्गलम् ॥ १०८॥
ॐ
शुभमस्तु
श्रीगङ्गाप्रमाणिकास्तुतिः
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
हिमालयस्य पुत्रिका हिमाहिमासराप्लवा ।
हिमातिशुभ्रसारका हिमापगा सुगङ्गिका ॥ १॥
हिमालयस्थदैविका प्रमाणितातिपूतका ।
हिमप्रपातकाव्यझा सुकाव्यझाप्रसादिका ॥ २॥
रमापपादरासका उमापशेखरोदका ।
रमारमारमाप्लवा उमारमाभिरामका ॥ ३॥
सनादसारसारगा निनादसुस्वराशुगा ।
सुनादसार्चिताभगा ननादगास्वरापगा ॥ ४॥
सरीगमापधानिसास्वरार्चनातिमोदिता ।
गगाममाधनीसरी स्वरासरा सुरापगा ॥ ५॥
स्वराक्षरा क्षराक्षरा क्षराक्षरा सुवाक्क्षरा ।
सुभाक्षरा शुभाक्षरा सुकाक्षरा सुखाक्षरा ॥ ६॥
सुरागरागरागगा सदाशिवाशिरोदका ।
सुधाप्लवातिमोदका सुराप्लवा शुभोदका ॥ ७॥
भवाभवा भवप्रिया वरप्रदाभगापगा ।
सदामुदाकराम्बिका सदार्चिता पराम्बिका ॥ ८॥
सरागगीतमातृका सुरागपुष्पमालिका ।
वरागरक्तिलास्यका विरागमुक्तिदायिका ॥ ९॥
कुकर्मदारिणीश्वरी विमुक्तिदायिनी जनी ।
सुवासिनीसुपूजिता सुकौशला सुमङ्गला ॥ १०॥
गुरुप्रसादकीर्तिता गुरुप्रमोदगीतिका ।
गुरुप्रचोदनार्चिता गुरुस्वयंकृतार्चना ॥ ११॥
सुमङ्गलं सुगङ्गिके प्रमाणिकास्तुतिस्फुरे ।
सुरागताललास्यके सुवाणि ते सुमङ्गलम् ॥ १२॥
ॐ शुभमस्तु
श्रीगङ्गारोगनिवारणस्तोत्रम्
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
सर्वरोगहरे गङ्गे सर्वपीडाविनाशिनि ।
सर्वगे कुरु मे माता रोगशोकनिवारणम् ॥ १॥
मदम्ब बहुतप्ताहं कुरु रोगापसारणम् ।
त्वां विना न गतिर्मातः कुरु शोकापहारणम् ॥ २॥
कर्तव्यं तव मातस्त्वत्पुत्रीखेदप्रशामनम् ।
श्रोतव्यं मम सन्तापगदक्लेशप्रलापनम् ॥ ३॥
बहुदूरोस्म्यहं मात आमयाध्यतितापिता ।
अग्रयागच्छ मन्मातः पूरयेयं सुलालसा ॥ ४॥
मातर्गङ्गे समागच्छ शीतं तव स्पृशं कुरु ।
वसमत्सदने मातर्देहि मे तव दर्शनम् ॥ ५॥
वह मत्प्राङ्गणे मातर्बह्वीप्सितजलावरे ।
देहि मग्नं तवौषध्यशीते नित्यं स्पृहां मम ॥ ६॥
मातः क्व तव माहात्म्यम् अस्मिन्क्षणे सुरक्ष माम् ।
कुरु कर्मनिवृत्तिं मे न कर्तव्यं विलम्बनम् ॥ ७॥
शब्दराक्षसपीडाविनाशनं कुरु शाश्वतम् ।
शब्दासुरगणं भङ्ग्धि भङ्ग्धि मच्छत्रुमण्डलम् ॥ ८॥
नमो गङ्गे मदम्ब त्वं त्राहि मां भवपीडिताम् ।
कुरु स्वस्त्ययनं गङ्गे कुरु शीघ्रविमोचनम् ॥ ९॥
आरोग्यं कुरु मे देवि निरामयं प्रयच्छ मे ।
मातर्गङ्गे नमस्तुभ्यं त्वत्पारवसनं कुरु ॥ १०॥
प्रत्यक्षं कुरु मे देवि मदन्तःसततालये ।
कुतोन्यत्र गमिष्यामि ब्रूहि त्वं भवतारिणि ॥ ११॥
त्वत्परं नास्ति मे किञ्चित् कुरु जन्मनिवारणम् ।
त्वयि स्नानं तव ध्यानमिदं जन्म तवार्पणम् ॥ १२॥
गङ्गातीरसुवासं च गायत्रीसारमङ्गलम् ।
गीतां गुरुप्रसादं च गोविन्दं प्राप्नवान्यहम् ॥
ॐ शुभमस्तु
खगङ्गाभुजङ्गप्रयातम्
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
भुजङ्गप्रयातोर्मिवाहप्रवाहां
भुजङ्गप्रशान्तप्रसादप्रसाराम् ।
भुजङ्गाधराजस्रधाराभिषेकां
भजे स्वर्गगङ्गां सुवर्गापवर्गाम् ॥ १॥
सदादर्शनास्फोटकाव्याभिनव्यां
स्वसौन्दर्यसंस्फूर्तिशैलीगभीराम् ।
सतालस्वरोंकारसानन्दलास्यां भजे
नादगङ्गां स्वरामोददर्शाम् ॥ २॥
खगङ्गां गगङ्गां मुमुक्षुत्वधेयां
वरस्नानसत्पानसज्ज्ञानबोधाम् ।
जलापूतपुण्यां महापूतनाम्नीं
भजे रागगङ्गां लयावेगवाहाम् ॥ ३॥
वरानन्दकन्दां स्वरानन्दसारां
चिदानन्दसद्भां चिरानन्दगाङ्गाम् ।
मदानन्दगेयां सदानन्दगेहां
भजे ज्ञानगङ्गामनन्तादिशक्तिम् ॥ ४॥
हिमांशुप्रभासप्रवाहप्रहर्षां
सुरौप्यातिशोभाम्बुशुभ्रप्रवाहाम् ।
हिमागप्रभावातिसत्त्वप्रकाशां
भजे सत्यगङ्गां परब्रह्मकाशाम् ॥ ५॥
हिमाह्लादगङ्गां नमाम्यापवर्यां
क्षपानाथसंस्मेरचारुस्वरूपाम् ।
सलालित्यवैचित्र्यचित्राभिलेखां
भजे हिम्यगङ्गां मनश्शान्तिसौख्याम् ॥ ६॥
सुकाव्यार्पणानन्दसम्प्राप्तिभव्यां
सुमाङ्गल्यसद्भाग्यसम्पत्तिभोग्याम् ।
सुगानप्रसन्नां हृदब्जे निषण्णां
भजे दिव्यगङ्गां मदानुग्रहाम्बाम् ॥ ७॥
गुरुत्यागरजेन्द्रसङ्गीतगङ्गां
सुपुष्पाभिषेकप्रमोदप्रसादाम् ।
इहानन्दभद्रां परज्ञानमोक्षां
भजे नित्यगङ्गां वरां मङ्गलाभाम् ॥ ८॥
खगङ्गे भुजङ्गप्रयाते सुभद्रं
कविप्राणसंस्फूर्तिपूते सुभद्रम् ।
सुरागस्फुरद्रागयाते सुभद्रं
सुभद्रं सुमाङ्गल्यदे ते सुभद्रम् ॥ ९॥
ॐ शुभमस्तु
श्रीगङ्गामङ्गलस्तोत्रम्
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
गोमुखादृश्यपुण्यायै गङ्गोत्तर्यै सुमङ्गलम् ।
भगीरथतपस्खायै भागीरथ्यै सुमङ्गलम् ॥ १॥
जाह्नवीशुभनाम्न्यै च शुभ्रायै शुभमङ्गलम् ।
हरिशीलसुशीलायै हिमगायै सुमङ्गलम् ॥ २॥
सौम्यकाश्युत्तरायै च विश्वेश्वर्यै सुमङ्गलम् ।
बिलङ्गनासयुक्तायै भद्रायै शुभमङ्गलम् ॥ ३॥
देवप्रयागतीर्थायै देवभूत्यै सुमङ्गलम् ।
सङ्गतालकनन्दायै गङ्गादेव्यै सुमङ्गलम् ॥ ४॥
अलकापुरिनन्दायै स्वर्णद्यै शुभमङ्गलम् ।
वसुधाराझरीसर्यै सरस्वत्यै सुमङ्गलम् ॥ ५॥
बदरीधामभासिन्यै नारायण्यै सुमङ्गलम् ।
सुवर्णालकनन्दायै विष्णुपद्यै सुमङ्गलम् ॥ ६॥
लक्ष्मणायै सुधौल्यै च ज्योतिर्मत्यै सुमङ्गलम् ।
नन्दाकिन्यै च पिण्डार्यै मन्दाकिन्यै सुमङ्गलम् ॥ ७॥
अलकानन्दभव्यायै भागीरथ्यै सुमङ्गलम् ।
देवप्रयागसङ्गायै गङ्गादेव्यै सुमङ्गलम् ॥ ८॥
लोकोद्धारणपावन्यै निम्नगायै सुमङ्गलम् ।
हृषीकेशापगायै च गङ्गिकायै सुमङ्गलम् ॥ ९॥
हरिद्वारविलासिन्यै गिरिणद्यै सुमङ्गलम् ।
दीपकारतिशोभायै गङ्गाकायै सुमङ्गलम् ॥ १०॥
समभूमिप्रवाहायै प्रयागायै सुमङ्गलम् ।
यमुनासहयुक्तायै त्रिवेण्यै शुभमङ्गलम् ॥ ११॥
अधोयुक्तसरस्वत्यै गङ्गायै शुभमङ्गलम् ।
सरिद्वरासुनाम्न्यै च सुरनद्यै सुमङ्गलम् ॥ १२॥
काशीक्षेत्रातिपुण्यायै गङ्गादेव्यै सुमङ्गलम् ।
विशालाक्ष्यन्नपूर्णायै क्षेत्रेशिन्यै सुमङ्गलम् ॥ १३॥
सागरायणसारायै शैलजायै सुमङ्गलम् ।
बङ्गभङ्गप्रभूतायै गङ्गायै शुभमङ्गलम् ॥ १४॥
सगरान्वयमोक्त्र्यै च सागरायै सुमङ्गलम् ।
गङ्गासागरसङ्गायै हिमनद्यै सुमङ्गलम् ॥ १५॥
गङ्गात्रिपथगायै च पूज्यायै शुभमङ्गलम् ।
कलिप्रत्यक्षदेव्यै च गङ्गामात्रे सुमङ्गलम् ॥ १६॥
अक्षरागुप्तमात्रे च आदिदेव्यै सुमङ्गलम् ।
मानसालयदिव्यायै मानितायै सुमङ्गलम् ॥ १७॥
श्रीविद्याशक्तिरूपायै मन्त्रशक्त्यै सुमङ्गलम् ।
कादिहादिरसायै च रागिण्यै शुभमङ्गलम् ॥ १८॥
प्रमाणितातिपूत्यै च पद्यस्फूर्त्यै सुमङ्गलम् ।
छन्दोवृत्तसुलास्यायै छन्दकायै सुमङ्गलम् ॥ १९॥
सहस्रायुतकीर्त्यै च सप्रीत्यै शुभमङ्गलम् ।
सहस्रश्लोकभात्यै च गङ्गादेव्यै सुमङ्गलम् ॥ २०॥
रोगशोकनिवारिण्यै मागङ्गायै सुमङ्गलम् ।
निरामयप्रदायिन्यै नित्यायै शुभमङ्गलम् ॥ २१॥
पुष्पावर्षाभिषिक्तायै वाग्देव्यै शुभमङ्गलम् ।
ज्ञानमोक्षप्रदायिन्यै मागङ्गायै सुमङ्गलम् ॥ २२॥
मङ्गलं मङ्गलाधात्र्यै महापुण्यसुवाक्श्रियै ।
मनःपावननाम्न्यै च गङ्गामात्रे सुमङ्गलम् ॥ २३॥
मङ्गलं ते शुभे गङ्गे मङ्गलं मातृदेवते ।
मङ्गलं मम सर्वस्वे मङ्गलं मङ्गलायने ॥ २४॥
मङ्गलं त्यागराजाय मदाचार्यवराय च ।
मङ्गलं ज्ञानगङ्गाय मङ्गलं मोक्षसिद्धये ॥
ॐ तत्सदिति मातृगङ्गाप्रेष्ठापुष्पानामलेखनीरूपेण
स्वयंगङ्गाकृतं स्तोत्रं गङ्गास्तवसहस्रकं सम्पूर्णम् ।
ॐ
शुभमस्तु
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan