॥ इन्द्राणीसप्तशती ॥

॥ प्रथमं गायत्रं शतकम् ॥ ॥ प्रथमः शशिवदनापादः ॥ हरिललने मे पथि तिमिराणि । हरदरहासद्युतिभिरिमानि ॥ १॥ अगतिमवीर्यामपगतधैर्याम् । अवतु शची मे जनिभुवमार्याम् ॥ २॥ शृणु करुणावत्यलघुमखर्वे । स्तवमहमार्यस्तव शचि कुर्वे ॥ ३॥ त्रिजगदतीतो विलसति नित्यः । अणुरणुतो यो भगवति सत्यः ॥ ४॥ त्वमखिलकार्येष्वयि धृतसक्तिः । उरुगतिरस्य प्रभुतमशक्तिः ॥ ५॥ विदुरिममेके जगति महेन्द्रम् । जगुरयि केचिज्जननि महेशम् ॥ ६॥ अवगतवेदो वदति महेन्द्रम् । परिचिततन्त्रो भणति महेशम् ॥ ७॥ जननि शचि त्वं प्रथमदलस्य । भगवति दुर्गास्यपरदलस्य ॥ ८॥ न शचि शिवातस्त्वमितरदैवम् । बहुमुनिवाणीसमरसतैवम् ॥ ९॥ दिवि च सिताद्रौ शचिवपुषोर्वाम् । पृथगुपलम्भादयि भिदयोक्तिः ॥ १०॥ तनुयुगमूलं वपुरतिमायम् । करचरणाद्यैर्वियुतममेयम् ॥ ११॥ त्वमुदरवर्तित्रिभुवनजीवा । भवसि शची सा जननि शिवा वा ॥ १२॥ विभुशुचिकीलाततिरयि धूमम् । त्वममरमार्गं बत वमसीमम् ॥ १३॥ जयसि नभस्थो जननि परस्तात् । नभसि च भान्ती भवसि पुरस्तात् ॥ १४॥ त्वमतनुरम्ब ज्वलसि परस्तात् । इह खशरीरा लससि पुरस्तात् ॥ १५॥ जननि परस्तान्मतिरसि भर्तुः । असि खशरीरा पृथगवगन्त्री ॥ १६॥ अणुचयरूपं भगवति शान्तम् । न भवति शून्यं तदिदमनन्तम् ॥ १७॥ दिवि दधतीशे पुरुषशरीरम् । जननि पुरन्ध्री तनुरभवस्त्वम् ॥ १८॥ दृशि विलसन्तं प्रभुमुपयान्ती । भवसि विराट् त्वं नृतनुषु भान्ती ॥ १९॥ तव गुणगानं जननि विधातुम् । भवति पटुः को वियदिव मातुम् ॥ २०॥ भगवति तृप्तिर्भवतु न वा ते । अभिलषिताप्तिर्भवतु न वा मे ॥ २१॥ भजति तवाङ्घ्रिं मम खलु भाषा । पति मनुरागात् प्रियमिव योषा ॥ २२॥ अघमपहर्तुं शुभमपि कर्तुम् । अलमजरे ते गुणगणगानम् ॥ २३॥ अवसि जगत्त्वं कुलिशिभुजस्था । अव मुनिभूमिं गणपतिधीस्था ॥ २४॥ शशिवदनाभिर्गणपतिजाभिः । शशिवदनाद्या परिचरिताऽस्तु ॥ २५॥ ॥ द्वितीयस्तनुमध्यापादः ॥ ध्वान्तं परिहर्तुं तेजांस्यपि भर्तुम् । अन्तर्जगदम्बा हासं कुरुतान्मे ॥ २६॥ भीतामरिधूतामार्यावनिमेताम् । सम्राज्ञि बुधानां दूनामव दीनाम् ॥ २७॥ ईशस्य सहायां विश्वस्य विधाने । आकाशशरीरामम्बां प्रणमामः ॥ २८॥ कर्तुर्भुवनानां मायासि शचि त्वम् । सत्यस्य तपोऽसि ज्ञस्यासि मनीषा ॥ २९॥ आज्ञासि विनेतुस्तेजोऽसि विभातः । निर्यत्नसमाधेरानन्दरसोऽसि ॥ ३०॥ तस्य त्वमनन्याऽप्यन्येव खकाया । अत्यद्भुतमाया जायाऽसि सहाया ॥ ३१॥ आकाशशरीरां जायामशरीरः । आलिङ्ग्य विभुस्त्वां नन्दत्ययि चित्रम् ॥ ३२॥ वज्रेश्वरि घस्रे यद्वन्मुकुटेन । दीप्तेन सवित्र मूर्धा तव भाति ॥ ३३॥ नक्षत्रसहस्रैश्शुभ्रद्युतिभिस्ते । पुष्पायितमेतैर्मातर्निशिमस्ते ॥ ३४॥ घस्रः खलु कालो राज्यं ननु कर्तुम् । रात्रिः खलु कालो रन्तुं रमणेन ॥ ३५॥ निःशब्दतरङ्गास्वग्लौषु निशासु । नूनं खशरीरे कान्तं रमयन्ती ॥ ३६॥ सान्द्रोडुसुमस्रग्विभ्राजितकेशा । ध्वान्तासितचेला शान्ताऽप्यसि भीमा ॥ ३७॥ राजन्मिततारामन्दारवतंसाम् । मातस्सितभासा स्मेरां हसितेन ॥ ३८॥ ज्योत्स्ना घनसारद्रावैरनुलिप्ताम् । त्वां वीक्ष्य न शान्तिः कस्य क्षणदासु ॥ ३९॥ बालारुणरोचिः काश्मीररजोभिः । आलिप्तमुखीं त्वां प्रातः प्रणमामि ॥ ४०॥ सायं समयश्री लाक्षारसरक्तम् । प्रत्यक् प्रसृतं ते वन्दे वरदेऽङ्घ्रिम् ॥ ४१॥ दीप्तार्ककिरीटां सर्वान् विनयन्तीम् । वन्दे भुवनानां राज्ञीमसमानाम् ॥ ४२॥ धूताखिलरोगाः श्वासास्तव वाताः । मातर्वितरन्तु प्राणस्य बलं नः ॥ ४३॥ प्राञ्चस्तव वाताः स्वासाः शमुशन्तु । प्रत्यञ्च एमे नः पापं शमयन्तु ॥ ४४॥ मन्मातरवाञ्चो वीर्यं वितरन्तु । सन्तापमुदञ्चः सर्वं च हरन्तु ॥ ४५॥ अस्या इव भूमेर्भूतप्रसवायाः । एकैकश आहुर्येषां महिमानम् ॥ ४६॥ अद्रेरुपलानां नद्याः सिकतानाम् । येषां च न कध्च्छिक्तो गणनायाम् ॥ ४७॥ रोमायितमेतैर्गोलैस्तव काये । व्याख्यातमनेन श्लाघ्यं तव भाग्यम् ॥ ४८॥ विश्वं वहसीदं जम्भारिभुजस्था । आर्यान्वहमातर्वासिष्ठमतिस्था ॥ ४९॥ आद्यां भुवनानां भर्तुस्तनुमध्याम् । भक्त्स्य भजन्तामेतास्तनुमध्याः ॥ ५०॥ ॥ तृतीयो मुकुलपादः ॥ हासाः शक्रगृहेश्वर्याश्चन्द्ररुचः । भूयासुर्विमलप्रज्ञायै हृदि मे ॥ ५१॥ इन्द्राण्याः करुणा लोकाश्शोकहृतः । भूयासुर्भरतक्ष्मायै क्षेमकृतः ॥ ५२॥ व्यक्तिर्व्योमतनुः शक्तित्वाद्वनिता । ज्ञातृत्वात्पुरुषः केषाञ्चिद्विदुषाम् ॥ ५३॥ व्यक्तिं व्योमतनुं ये प्राहुः पुरुषम् । तेषां तत्त्वविदां कल्पस्स्यात् त्रिविधः ॥ ५४॥ रुद्रं केऽपि जगुः शक्रं केऽपि विदुः । भाषन्ते भुवनप्राणं केऽपि विदः ॥ ५५॥ व्यक्तिं व्योमतनुं प्राहुर्ये वनिताम् । तेषां च त्रिविधः कल्पश्शास्त्रविदाम् ॥ ५६॥ दुर्गा सूरिवरैः कैश्चित्सा गदिता । शच्यन्यैर्विबुधैर्ज्ञैरन्यैरदितिः ॥ ५७॥ एकेषां विदुषां व्यक्तिर्व्योमतनुः । न स्त्री नो पुरुषो ब्रह्मैतत्सगुणम् ॥ ५८॥ त्वं विश्वस्य महान् प्राणः कः परमे । त्वं रुद्रः प्रणवस्त्वं शक्रोऽभ्रशिखी ॥ ५९॥ त्वं कस्यास्यदितिस्त्वं रुद्रस्य शिवा । त्वं शक्रस्य शची शक्तिर्देवनुते ॥ ६०॥ प्राणश्च प्रणवो ज्योतिश्चाम्बरगम् । वस्त्वेकं त्रिगुणं नो वस्तु त्रितयम् ॥ ६१॥ शक्तेरम्बपरे शक्त्स्यापि भिदा । ज्वाला पावकवद्भाषा भेदकृता ॥ ६२॥ सर्वं दृश्यमिदं भुञ्जाने परमे । पुंनामस्तुतयो युज्यन्ते खलु ते ॥ ६३॥ कुर्वाणेम्बसतस्सन्तोषं सततम् । स्त्रीनामस्तुतयः शोभां ते दधते ॥ ६४॥ सद्ब्रह्म ब्रुवते विद्वांसो विगुणम् । त्वं मातस्सगुणं ब्रह्मासि प्रथिते ॥ ६५॥ शब्दाद्यैर्वियुतं सद्ब्रह्मामलिनम् । शब्दाद्यैः सहिता त्वं देव्यच्छहिता ॥ ६६॥ साक्षि ब्रह्म परं त्वं मातः कुरुषे । सर्वेषां जगतां कार्यं सर्वविधम् ॥ ६७॥ द्यौर्माता जगतो द्यौरेवास्य पिता । व्याप्तं भाति जगद्द्यावा सर्वमिदम् ॥ ६८॥ आकाशाद्रजसो द्यौरन्या विरजाः । आकाशेऽस्ति पुनस्तत्पारे च परा ॥ ६९॥ द्यावं तां जगतो रङ्गे व्योमतनुम् । पारे शुद्धतमां विद्मस्त्वां परमे ॥ ७०॥ त्वां पूर्णामदितिं शक्तिं देवि शचीम् । नित्यं शब्दवतीं गौरीं प्रब्रुवते ॥ ७१॥ पुंनामा भवतु स्त्रीनामास्त्वथवा । व्यक्तिर्व्योमतनुर्लोकं पात्यखिलम् ॥ ७२॥ नाके सा किल भात्यैन्द्री राज्यरमा । विभ्राणा ललितं स्त्रीरूपं परमा ॥ ७३॥ शक्तां देवि विधेह्यार्तानामवने । इन्द्रस्येव भुजां वासिष्ठस्य मतिम् ॥ ७४॥ पूजाशक्रतरुण्यैतैस्सिध्यतु ते । गातृणां वरदे गायत्रौर्मुकुलैः ॥ ७५॥ ॥ चतुर्थो वसुमतीपादः ॥ मोहं परिहरन् योगं वितनुताम् । देवेन्द्रदयिता हासो मम हृदि ॥ ७६॥ आभातु करुणा सा भारतभुवि । सुत्रामसुदृशो यद्वन्निजदिवि ॥ ७७॥ वन्दारुजनतामन्दारलतिकाम् । वन्दे हरिहयप्राणप्रियतमाम् ॥ ७८॥ शोकस्य दमनीं लोकस्य जननीम् । गायामि ललितां शक्रस्य दयिताम् ॥ ७९॥ रम्या सुमनसां भूपस्य महिषी । सौम्या जनिमतां माता विजयते ॥ ८०॥ वीर्यस्य च धियस्त्रैलोक्यभरणे । दात्री मघवते देवी विजयते ॥ ८१॥ व्याप्ता जगदिदं गुप्ता हृदि नृणाम् । आप्ता सुकृतिनां दैवं मम शची ॥ ८२॥ खे शक्तिरतुला पारे चिदमला । स्वश्चारुमहिला दैवं मम शची ॥ ८३॥ शस्त्रं मघवतः शास्त्रं यमवताम् । वस्त्रं त्रिजगतो दैवं मम शची ॥ ८४॥ युक्त्स्य भजतः शर्मान्तरतुलम् । वर्मापि च बहिर्दैवं मम शची ॥ ८५॥ वीर्यं बलवतां बुद्धिर्मतिमताम् । तेजो द्युतिमतां दैवं मम शची ॥ ८६॥ एकैव जनयन्त्येकैव दधती । एकैव लयकृद्दैवं मम शची ॥ ८७॥ शक्तीरवितथाः क्षेत्रोषु दधती । बीजेषु च परा दैवं मम शची ॥ ८८॥ चिन्वन्त्यपि पचन्त्येका पशुगणम् । खादन्त्यपि भवे दैवं मम शची ॥ ८९॥ दृष्टौ धृतचितिर्दृश्ये ततगुणा । विश्वात्ममहिषी दैवं मम शची ॥ ९०॥ राकाशशिमुखी राजीवनयना । स्वः कापि ललना दैवं मम शची ॥ ९१॥ स्थाणावपि चरे सर्वत्र वितता । साक्षाद्भवतु मे स्वर्नाथदयिता ॥ ९२॥ यन्मातरनृतं ध्यातं च गदितम् । जुष्टं च हर मे तद्देवि दुरितम् ॥ ९३॥ मां मोचय ऋणादिन्द्राणि सुभुजे । मामल्पमतयो मा निन्दिषुरजे ॥ ९४॥ शत्रुश्च शचि मे सख्याय यतताम् । दृप्तश्च इमनुजो मामम्ब भजताम् ॥ ९५॥ कष्टं शचि विधूयेष्टं विदधती । आनन्दय जनं प्रेयांसमयि मे ॥ ९६॥ अस्त्रं मम भव ध्वंसाय रटताम् । सुत्रामरमणि श्रीमातरसताम् ॥ ९७॥ सम्पूरयतु मे सर्वं सुरनुता । स्वर्गक्षितिपतेश्शुद्धान्तवनिता ॥ ९८॥ संवर्धय शचि स्वं देशमवितुम् । बाहोरिव हरेर्बुद्धेर्मम बलम् ॥ ९९॥ एतैर्वसुमतीवृत्तैर्नवसुमैः । भूयाच्चरणयोः पूजा जननि ते ॥ १००॥ ॥ प्रथमं गायत्रं शतकं समाप्तम् ॥
॥ अथ द्वितीयमौष्णिहं शतकम् ॥ ॥ प्रथमः कुमारललितापादः ॥ सुरेश्वरमहिष्याः स्मितं शशिसितं मे । तनोतु मतिमच्छां करोतु बलमग्रय्म् ॥ १०१॥ विधाय रिपुधूतिं निधाय सुदशायाम् । पुलोमतनुजाता धिनोतु भरतक्ष्माम् ॥ १०२॥ पदप्रणतरक्षा विधानधृतदीक्षा । जगद्भरणदक्षा परा जयति शक्तिः ॥ १०३॥ स्वरत्यविरतं सा शनैर्नभसि रङ्गे । ज्वलत्यधिकसूक्ष्मं जगत्प्रभवशक्तिः ॥ १०४॥ महस्तव सुसूक्ष्मं निदानमखिलानाम् । भवत्यखिलमातर्जगत्यनुभवानाम् ॥ १०५॥ जनन्यनुभवानां मतित्वपरिणामे । स्वरो भवति मूलं तवाभ्रहयरामे ॥ १०६॥ य ईश्वरि निदानं समस्तमतिभाने । स्वरो गतिविशेषात्स एव खलु कालः ॥ १०७॥ ज्वलन्त्यभिहिता त्वं विहायसि विशाले । प्रचण्डपदपूर्वा प्रपञ्चकरिचण्डी ॥ १०८॥ स्वरन्त्यखिलबुद्धिप्रदा भवसि गौरी । त्रिकालतनुरम्ब स्मृता त्वमिह काली ॥ १०९॥ महस्स्वर इतीदं द्वयं तदतिसूक्ष्मम् । महेश्वरि तवांशद्वयं परममुक्तम् ॥ ११०॥ महोऽतिशयमाप्तं त्वयि त्रिदिवगायाम् । स्वरोऽतिशयमाप्तः सिताद्रिनिलयायाम् ॥ १११॥ दिवं नयति पूर्वा भुवं युवतिरन्या । द्वयोः प्रकृतिरभ्रं विशालमतिमान्या ॥ ११२॥ न ते दिवि लसन्त्याः पिता तनुभृदन्यः । स्वयं भुवमिमां त्वां सतामवनि विद्मः ॥ ११३॥ सुरारिकुलजन्मा तवेश्वरि पुलोमा । पितेति कविभाषा परोक्षगतिरेषा ॥ ११४॥ वदन्त्यसुरशब्दैर्घनं सजलमेतम् । पुलोमपदमेकं पुराणसतितेषु ॥ ११५॥ प्रकृष्टतरदीप्तिर्गभीरतरनादा । इतो हि भवसि त्वं तटित्तनुरमेये ॥ ११६॥ अरातिरसुरोऽयं विभोर्निगदितस्ते । हयश्च बतगीतः पिता तव पयोदः ॥ ११७॥ प्रियैः किल परे वां परोक्षवचनौघैः । प्रतारितमिवेला जगन्मुनिगणेन ॥ ११८॥ निकृष्टमपि रम्यं यदि त्रिदिवलोके । तवाम्ब किमु वाच्या रुचिस्त्रिदिवनाथे ॥ ११९॥ त्वमम्ब रमणीया वधूस्त्वमिव नाके । त्वया क इव तुल्यां मृदो वदतु लोके ॥ १२०॥ विनीलमिव खांशं विदुस्त्रिदिवमेके । परस्तु वदसि स्वः कविः कमलबन्धुम् ॥ १२१॥ अमुत्रगतशोके महामहसि नाके । नमाम्यधिकृतां तां पुराणकुलकान्ताम् ॥ १२२॥ यदा ममुतपक्वं मदीयमघमुग्रम् । तदिन्द्रकुलकान्ते निवारय समग्रम् ॥ १२३॥ ददातु भरतक्ष्माविषादहरणाय । अलं बलमुदारा जयन्तजननी मे ॥ १२४॥ अतीव ललिताभिः कुमारललिताभिः । इमाभिरमरेशप्रिया भजतु मोदम् ॥ १२५॥ ॥ द्वितीयो मदलेखापादः ॥ पौलोम्याः परिशुभ्रज्योत्स्नादृश्यरुचो मे । श्रीमन्तो दरहासाः कल्पन्तां कुशलाय ॥ १२६॥ कारुण्यामृतसिक्ता शक्ता शक्रमहिष्याः । प्रेक्षा भारतभूमेर्दौर्बल्यं विधुनोतु ॥ १२७॥ वन्दे निर्जरराज्ञीं सङ्क्ल्पे सति यस्याः । साध्यासाध्यविचारो नैव स्यादणुकोऽपि ॥ १२८॥ सङ्क्ल्पस्तव कश्च्चिचत्ते चेद्दिव ईशे । स्यादुल्लङ्घ्य निसर्गं सिद्धिर्निष्फलता च ॥ १२९॥ मूढोऽप्युत्तमरीत्या सिध्येदध्ययनेषु । मेधावी च नितान्तं नैव स्यात्कृतकृत्यः ॥ १३०॥ उत्पद्येत महेश्वर्यप्राज्ञादपि शास्त्रम् । यायान्मातरकस्माद्विभ्रान्तिं विबुधोऽपि ॥ १३१॥ अल्पानामबलानां सङ्ग्रामे विजयः स्यात् । शक्तानां बहुलानां घोरा स्यात्परिभूतिः ॥ १३२॥ राजेरन्नृपपीठेष्वख्यातानि कुलानि । स्याद्दुर्धर्षबलानां पातो राजकुलानाम् ॥ १३३॥ निर्यत्नोऽपि समाधेर्विन्देद्देवि समृद्धिम् । योगस्याम्ब न पश्येदभ्यस्यन्नपि सिद्धिम् ॥ १३४॥ अत्यन्तं यदसाध्यं नेदिष्ठं भवतीदम् । साध्यं सर्वविधाभिः स्यादिन्द्राणि दविष्ठम् ॥ १३५॥ गायामो मुनिसङ्घैर्गेयां कामपि मायाम् । इन्द्रस्यापि विनेत्रीं त्रैलोक्यस्य च धात्रीम् ॥ १३६॥ विद्यानामधिनाथे कां विद्यां श्रयसे त्वम् । इन्द्रं कर्तुमधीनं विश्वस्मादधिकं तम् ॥ १३७॥ नित्यालिर्मिनीषे स्त्रीमोहो न वितर्क्यः । भ्रूचेष्टानुचरत्वादन्या स्यादनुकम्पा ॥ १३८॥ सौन्दर्यं परमन्यद्वजेरद्दर्यथवा ते । हर्तुं यत्सुखमीष्टे तादृक्तस्य च चित्तम् ॥ १३९॥ चक्षुर्दर्शनमात्रन्निस्तेजो विदधानम् । चित्तं चोज्झितधैर्यं मत्तानां दनुजानाम् ॥ १४०॥ गर्ते दुर्जनदेहे मग्नान् पङ्क्विलग्नान् । प्राणानात्मसजातीनुद्धर्तुं धृतदीक्षम् ॥ १४१॥ वज्रं निर्जरराजो यद्धत्ते समरेषु । त्वच्छक्तेः कलयैतन्मन्मातर्निरमायि ॥ १४२॥ राज्ञीत्वात्परमेते राजत्वं शतमन्योः । निश्शक्तिस्स विना त्वां कामाज्ञां कुरुतां नः ॥ १४३॥ सर्वं शक्रनिशान्तस्येशाने तव हस्ते । अस्माकं तु धियेदं स्तोत्रं सङ्ग्रहतस्ते ॥ १४४॥ गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम् । बिभ्राणा नयसि त्वं मार्जालीव किशोरम् ॥ १४५॥ गृह्ण्न्नम्बरनाथामम्बामश्लथमन्धः । कीशस्येव किशोरो योगी गच्छति गम्यम् ॥ १४६॥ पूर्णात्मार्पणहीनोऽप्यज्ञाताऽपि समाधेः । नित्यं यो जगदम्ब त्वां सेवेत जपाद्यैः ॥ १४७॥ तं चाचञ्चलभक्तिं कृत्वा पूरितकामम् । निष्ठां दास्यसि तस्मै पौलोमि क्रमशस्त्वम् ॥ १४८॥ भिन्नां सङ्घसहस्रैः खिन्नां शत्रुभरेण । पातुं भारतभूमिं मातर्देहि बलं मे ॥ १४९॥ त्र्यैलोक्यावनभारश्रान्तां वासवकान्ताम् । हैरम्ब्यो मदलेखाः सम्यक् सम्मदयन्तु ॥ १५०॥ ॥ तृतीयो हंसमालापादः ॥ सुरुचिर्वज्रपाणेस्सुदृशो मन्दहासः । हरतान्मोहमूलं हृदयस्थं तमो मे ॥ १५१॥ अमृतं सङ्किरन्त्या प्रसरन्त्येह दृष्ट्या । सुरराज्ञी बलाढ्यां भरतक्ष्मां करोतु ॥ १५२॥ अमृताम्भः किरन्ती करुणाम्भो वहन्ती । नतरक्षात्तदीक्षा शचि मातस्तवेक्षा ॥ १५३॥ कृतपीयूषवृष्टिस्ततकल्याणसृष्टिः । विहितैनोविनष्टिर्धृतविज्ञानपुष्टिः ॥ १५४॥ भृतदेवेन्द्रतुष्टिर्यमिनां देवगृष्टिः । मम काम्यानि देयात्तव विश्वाम्ब दृष्टिः ॥ १५५॥ जगतां चक्रवर्तिन्यसितस्ते कटाक्षः । जलदो भक्तिभाजां शिखिनां नर्तनाय ॥ १५६॥ सुकृती कोऽपि नाट्ये बहुले तत्र मातः । जगते सारभूतानुपदेशान्करोति ॥ १५७॥ अपरो नव्यकाव्यान्यनवद्यानि धन्यः । विदधात्यप्रयत्नाद्बुधभोगक्षमाणि ॥ १५८॥ इतरो भाग्यशाली रमणीयैः प्रसङ्गैः । वितनोति स्वजातिं जगति श्रेष्ठनीतिम् ॥ १५९॥ जगतां मातरेको महसा पुण्यशाली । विधुतारिः स्वदेशं कुरुते वीतपाशम् ॥ १६०॥ पर इन्द्राणि साधुर्बत विस्मृत्य विश्वम् । रमते सिक्तगण्डः प्रमदाश्रुप्रदानैः ॥ १६१॥ तव रागार्द्रदृष्ट्या दिवि शक्रस्य नाट्यम् । करुणासिक्तदृष्टया भुवि भक्त्स्य नाट्यम् ॥ १६२॥ तव सप्रेमदृष्टिर्बलमिन्द्रे दधाति । तव कारुण्यदृष्टिर्बलमस्मासु धत्ताम् ॥ १६३॥ तव वामाः कटाक्षाः प्रभुमानन्दयन्तु । उचितो दक्षिणानामयमस्त्वीक्षणानाम् ॥ १६४॥ सुकृतानां प्रपोषं दुरितानां विशोषम् । करुणार्द्रा विभान्ती तव दृष्टिः क्रियान्नः ॥ १६५॥ कुरु पादाब्जबन्धोः सरणिं निस्तमस्काम् । शचि विज्ञानतेजः किरतावीक्षितेन ॥ १६६॥ क्रिययाराधयन्तो भुवने ते विभूतीः । इह केचिल्लभन्ते तव मातः कटाक्षान् ॥ १६७॥ स्फुटविज्ञानपूर्वं प्रभजेरन् यदि त्वाम् । स्थिरया देवि भक्त्या किमु वक्तव्यमीशे ॥ १६८॥ कुविधेर्विस्मरन्ती भरतक्ष्मा शचि त्वाम् । बहुकालादभाग्ये पतिता देव्ययोग्ये ॥ १६९॥ अभिषिक्त्स्य माता तव तेजोंशभूता । सुदशां सेवमानामनयत्पश्चिमाशाम् ॥ १७०॥ अयि कालं कियन्तं दयसे पश्चिमस्याम् । इत इन्द्राणि पूर्वामवलोकस्व दीनाम् ॥ १७१ ॥ न वयं पश्चिमस्याश्शचि याचामनाशम् । कृपयैतां च पूर्वां निहताशामवाशाम् ॥ १७२॥ सकलं व्यर्थमासीदयि दीनेषु दृष्टा । तव विश्वस्य मातः करुणैकावशिष्टा ॥ १७३॥ सुरराजस्य कान्ते नरसिंहस्य सूनुम् । बलवन्तं कुरु त्वं भरतक्ष्मावनाय ॥ १७४॥ रुचिराभिर्निजाभिर्गतिभिर्हर्षयन्तु । मरुतां भर्तुरेतास्तरुणीं हंसमालाः ॥ १७५॥ ॥ चतुर्थो मधुमतीपादः ॥ दिशि दिशि प्रसरद्रुचितमोदमनम् । हरतु मे दुरितं हरिवधूहसितम् ॥ १७६॥ हरतु दुःखभरप्रसृतमश्रुजलम् । भरतभूसुदृशो बलजितो रमणी ॥ १७७॥ अतितरां महिता सुरपतेर्वनिता । करुणया कलिता मम शची शरणम् ॥ १७८॥ त्रिभुवनक्षितिराड्भुवनभूषणभा । अखिलभासकभा मम शची शरणम् ॥ १७९॥ सततयुक्तसुधीहृदयदीपकभा । निखिलपाचकभा मम शची शरणम् ॥ १८०॥ रविविरोचकभा शशिविराजकभा । भगणशोभकभा मम शची शरणम् ॥ १८१॥ गगनखेलकभा सकलचालकभा । अभयदाऽतिशुभा मम शची शरणम् ॥ १८२॥ रुचिलवङ्गतया यदनघांशुनिधेः । हृततमोभवनं भवति दीपिकया ॥ १८३॥ स्फुरति चारु यतः किरणमेकमिता । जलदसौधतले मुहुरियं चपला ॥ १८४॥ भवति यद्द्युतितः कमपि भागमितः । पविररातिहरः प्रहरणेशपदम् ॥ १८५॥ भवति यत्सुरुचेरणुतमांशमिता । युवमनोमदनी सुवदनास्मितभा ॥ १८६॥ विततसूक्ष्मतनुर्महति सा गगने । परमपूरुषभा मम शची शरणम् ॥ १८७॥ अमरनाथसखी रुचिनिधानमुखी । अमृतवर्षकदृङ् मम शची शरणम् ॥ १८८॥ अविधवा सततं युवतिरेव सदा । अनघवीरसुता मम शची शरणम् ॥ १८९॥ अमृतवत्यधरे सुरधरापतये । चरणयोर्भजते मम शची शरणम् ॥ १९०॥ स्मितलवेषु सिता शिरसिजेष्वसिता । चरणयोररुणा बहिरपि त्रिगुणा ॥ १९१ ॥ कपटचन्द्रमुखी प्रकृतिरिन्द्रसखी । मृतिजरारहिता मम शची शरणम् ॥ १९२ ॥ कृशतमेप्युदरे त्रिभुवनं दधती । जनिमतां जननी मम शची शरणम् ॥ १९३ ॥ स्थिरतरा मनसि स्थिरतमा वचसि । नयनयोस्तरला मम शची शरणम् ॥ १९४॥ मृदुतरा करयोर्मृदुतमा वचसि । भुजबले कठिना मम शची शरणम् ॥ १९५॥ मृदुलबाहुलताऽप्यमितभीमबला । असुरदर्पहरी मम शची शरणम् ॥ १९६॥ अबलयाऽपि यया न सदृशोऽस्ति बले । जगति कश्चिदसौ मम शची शरणम् ॥ १९७॥ अतितरां सदया पदरते मनुजे । खलजने परुषा मम शची शरणम् ॥ १९८॥ गणपतिं कुरुताद्भरतभूम्यवने । अमरभूमिपतेः प्रियतमा सबलम् ॥ १९९॥ मधुरशब्दततीर्मधुमतीरजरा । गणपतेश्शृणुयात्सुरपतेस्तरुणी ॥ २००॥ ॥ द्वितीयमौष्णिहं शतकं समाप्तम् ॥
॥ अथ तृतीयमानुष्टुभं शतकम् ॥ ॥ प्रथमः पथ्यावक्त्रपादः ॥ हसितं तन्महाशक्तेरस्माकं हरतु भ्रमम् । यत एव महच्चित्रं विश्वमेतद्विजृम्भते ॥ २०१॥ राजन्ती सर्वभूतेषु सर्वावस्थासु सर्वदा । माता सर्गस्य चित्पायात् पौलोमी भारतक्षितिम् ॥ २०२॥ धर्मिज्ञानं विभोस्तत्त्वं धर्मो ज्ञानं सवित्रि ते । व्यवहृत्यै विभागोऽयं वस्त्वेकं तत्त्वतो युवाम् ॥ २०३॥ इन्द्रेशवासुदेवाद्यैः पदैः सङ्कीत्र्यते विभुः । शची शिवा महालक्ष्मीप्रमुखैर्भवती पदैः ॥ २०४॥ अन्तरं वस्तुनो ज्ञातृ तच्छक्तं परिचक्षते । शाखाः समन्ततो ज्ञानं शक्तिं सङ्कीर्तयन्ति ताम् ॥ २०५॥ अन्तरस्य च शाखानामैक्यं निर्विषयस्थितौ । विषयग्रहणेष्वेव सविभागः प्रदृश्यते ॥ २०६॥ स्यादेवं विषयापेक्षी शाखानामन्तरस्य च । अविभक्तैकरूपाणां विभागो हरितामिव ॥ २०७॥ लक्ष्यमन्तर्वयं चक्रे ध्यायामो यत्र निष्ठिताः । अन्तरीभावतस्तस्य नान्तरं तु विलक्षणम् ॥ २०८॥ अहङ्कृतेर्वयं नान्ये यत्राहङ्कृतिसम्भवः । सम्पद्येतान्तरं तत्र ज्ञानस्य ज्ञातृतावहम् ॥ २०९॥ अन्तरावर्तभूयस्त्वादेकस्मिन् बोधसागरे । बोद्धारो बहवोऽभूवन् वस्तु नैव तु भिद्यते ॥ २१०॥ चिद्रूपे मातरेवं त्वं परस्माद्ब्रह्मणो यथा । न देवि देवतात्मभ्यो जीवात्मभ्यश्च भिद्यसे ॥ २११॥ समस्तभूतबीजानां गूढानामन्तरात्मनि । तवोद्गारोऽयमाकाशो मातस्सूक्ष्मरजोमयः ॥ २१२॥ न सर्वभूतबीजानि वस्तूनि स्युः पृथक् पृथक् । त्वयि प्रागविभक्तानि बभूवुरिति विश्रुतिः ॥ २१३॥ यथाम्बस्मृतिबीजानां प्रज्ञायामविशेषतः । तथा स्याद्भूतबीजानामविभक्त्स्थितिस्त्वयि ॥ २१४॥ नाणूनि भूतबीजानि प्राक्सर्गात्त्वयि संस्थितौ । चितिशक्त्यात्मकान्येव निराकाराणि सर्वथा ॥ २१५॥ अनादि चेदिदं विश्वं स्मरण्णात्तव सर्जनम् । सादि चेदादिमः सर्गो वक्त्व्यस्तव कल्पनात् ॥ २१६॥ विधातुं शक्नुयात्संविदभूतस्यापि कल्पनम् । कल्पितस्यैकदा भूयः सर्जनावसरे स्मृतिः ॥ २१७॥ चितेरस्मादृशां वीर्यं स्वप्ने चेद्विश्वकारणम् । चितेस्समष्टिभूतायाः प्रभावे संशयः कुतः ॥ २१८॥ मातस्समष्टिचिद्रूपे विभूतिर्भुवनं तव । इह व्यष्टि शरीरेषु भान्ती तदनुपश्यसि ॥ २१९॥ त्वं बह्म त्वं पराशक्तिस्त्वं सर्वा अपि देवताः । त्वं जीवास्त्वं जगत्सर्वं त्वदन्यन्नास्ति किञ्चन ॥ २२०॥ सती चिदम्ब नैव त्वं भावाभावविलक्षणा । शक्तिशक्तिमतोर्भेददर्शनादेष विभ्रमः ॥ २२१॥ तवाम्ब जगतधास्य मृत्तिकाघटयोरेव । सम्बन्धो वेदितव्यः स्यान्न रज्जौफणिनोरिव ॥ २२२॥ त्वं शक्तिरस्यविच्छिन्ना भावैरात्मविभूतिभिः । अन्तरास्तु महेन्द्रस्य शक्त्स्य प्रतिबिम्बवत् ॥ २२३॥ शक्तिर्गणपतेः काये प्रवहन्ती सनातनी । भारतस्य क्रियादस्य बाध्यमानस्य रक्षणम् ॥ २२४॥ इमानि तत्त्ववादीनि वासिष्ठस्य महामुनेः । पथ्यावक्त्रणि सेवन्तामनन्तामभवां चितिम् ॥ २२५॥ ॥ द्वितीयो माणवकपादः ॥ शक्त्तमा शक्रवधू हासविभा मे हरतु । मानसमार्गावरकं जेतुमशक्यं तिमिरम् ॥ २२६॥ भारतभूपद्मदृशो दुर्दशया क्षीणतनोः । बाष्पमजस्रं विगलद्वासवभामा हरतु ॥ २२७॥ दण्डितरक्षोजनता पण्डितगीतावनिता । मण्डितमाहेन्द्रगृहा खण्डितपापा जयति ॥ २२८॥ सद्गुणसम्पत्कलितं सर्वशरीरे ललितम् । देवपतेः पुण्यफलं पुष्यतु मे बुद्धिबलम् ॥ २२९॥ हासविशेषैरलसैर्दिक्षु किरन्त्यच्छसुधाम् । इन्द्रदृगानन्दकरी चन्द्रमुखी मामवतु ॥ २३०॥ प्रेमतरङ्गप्रतिमैः शीतलदृष्टिप्रकरैः । शक्रमनोमोहकरी वक्रकचा मामवतु ॥ २३१॥ गाढरसैश्चारुपदैर्गूढतरार्थैर्वचनैः । कामकरी वृत्रजितो हेमतनुर्मामवतु ॥ २३२॥ मृत्युतनुः कालतनोर्विश्वपतेः पार्श्वचरी । प्रेतजगद्रक्षति या सा तरुणी मामवतु ॥ २३३॥ प्रेतजगत्केचिदधो लोकमपुण्यं ब्रुवते । शीतरुचेर्देवि परो नेतरदेतद् वदति ॥ २३४॥ भूरियमुर्वी वसुधा वारिजवैर्येषभुवः । स्वर्महसां राशिरसौ येषु नरप्रेतसुराः ॥ २३५॥ राजतशैलं शशिनः केचिदभिन्नं ब्रुवते । मृत्युयमावेव शिवावीश्वरि तेषां तु मते ॥ २३६॥ राजतशैलः पितृभूरोषधिराडेष यदि । काञ्चनशैलः सुरभूर्बन्धुरसौ वारिरुहाम् ॥ २३७॥ पावय भूमिं दधतः पावककायस्य विभोः । भामिनि भावानुगुणे सेवकमग्नायि तव ॥ २३८॥ यस्य यमो भूतपतिर्बुद्धिमतस्तस्य मते । आग्निरुपेन्द्रो मघवा काञ्चनगर्भो भगवान् ॥ २३९॥ यस्य महाकालवधूर्मृत्युरपि द्वे न विदः । त्वं शचि मेधाऽस्यमते पावकशक्तिः कमला ॥ २४०॥ नामसु भेदोऽस्तु धियामीश्वरि निष्कृष्टमिदम् । सूर्यधरेन्दुष्वजरे त्वं त्रितनुर्भासि परे ॥ २४१॥ सात्त्विकशक्तिः सवितर्यादिमरामे भवसि । राजसशक्तिर्भुवि नस्तामसशक्तिः शशिनि ॥ २४२॥ सर्वगुणा सर्वविभा सर्वबला सर्वरसा । सर्वमिदं व्याप्य जगत्कापि विभान्ती परमा ॥ २४३॥ व्योमतनुर्निर्वपुषो देवि सतस्त्वं दयिता । अस्यभियुक्तैर्विबुधैरम्ब महेश्वर्युदिता ॥ २४४॥ सा खलु माया परमा कारणमीशं वदताम् । सा प्रकृतिः साङ्ख्यविदां सा यमिनां कुण्डलिनी ॥ २४५॥ सा ललिता पञ्चदशीमुत्तमविद्यां जपताम् । सा खलु चण्डी जननी साधुनवार्णं भजताम् ॥ २४६॥ सा मम शच्याः परमं कारणरूपं भवति । कार्यतनुर्दिवि शक्रं सम्मदयन्ती लसति ॥ २४७॥ व्योमतनोः सर्वजगच्चालनसूत्रं तु वशे । निर्वहणे तस्य पुनर्दिव्यतनुस्त्रीत्रितयम् ॥ २४८॥ पातुमिमं स्वं विषयं हन्त चिरान्निर्विजयम् । किङ्क्रमीशे विभयं मां कुरु पर्यार्शियम् ॥ २४९॥ चारुपदक्रीडनकैर्मातरिमैर्माणवकैः । चेतसि ते देवनुते प्रीतिरमोघा भवतु ॥ २५०॥ ॥ तृतीयश्चित्रपदापादः ॥ अप्यलसो हरिदन्तध्वान्तततेरपि हर्ता । अस्तु ममेन्द्रपुरन्ध्री हासलवः शुभकर्ता ॥ २५१॥ पाहि परैर्हृतसारां नेत्रगलज्जलधाराम् । भारतभूमिमनाथां देवि विधाय सनाथाम् ॥ २५२॥ चालयता सुरराजं पालयता भुवनानि । शीलयता नतरक्षां कालयता वृजिनानि ॥ २५३॥ लालयता मुनिसङ्घं कीलयता दिवि भद्रम् । पावय मां सकृदीशे भासुरदृक्प्रसरेण ॥ २५४॥ सर्वरुचामापि शालां त्वां शचि मङ्गललीलाम् । कालकचामुत कालीं पद्ममुखीमुत पद्माम् ॥ २५५॥ यः स्मरति प्रतिकल्यं भक्तिभरेण परेण । तस्य सुरेश्वरि साधोरस्मि पदाब्जभुजिष्यः ॥ २५६॥ यस्तव नामपवित्रं कीर्तयते सुकृती ना । वासवसुन्दरि दासस्तच्चरणस्य सदाऽहम् ॥ २५७॥ पावकसागरकोणं यस्तव पावनयन्त्रम् । पूजयति प्रतिघस्रं देवि भजामि तदङ्ध्रिम् ॥ २५८॥ यस्तव मन्त्रमुदारप्राभवमागमसारम् । पावनि कूर्चमुपास्ते तस्य नमध्रणाय ॥ २५९॥ शान्तधियेतरचिन्तासन्ततिमम्ब विधूय । चिन्तयतां तव पादावस्मि सतामनुयायी ॥ २६०॥ शोधयतां निजतत्त्वं साधयतां महिमानम् । भावयतां चरणं ते देवि पदानुचरोऽहम् ॥ २६१॥ योऽनुभवेन्निजदेहे त्वामजरे प्रवहन्तीम् । सन्ततचिन्तनयोगात्तस्य नमामि पदाब्जम् ॥ २६२॥ बोधयते भवतीं यः प्राणगतागतदर्शी । कुण्डलिनीं कुलकुण्डात्तं त्रिदिवेश्वरि वन्दे ॥ २६३॥ लोचनमण्डलसौधां लोकनमूलविचारी । विन्दति यः परमे त्वां वन्दनमस्य करोमि ॥ २६४॥ मानिनि जम्भजितस्त्वां मानसमूलवितर्की । वेदहृदम्बुरुहे यः पादममुष्य नमामि ॥ २६५॥ अन्तरनादविमर्शी पश्यति यः सुकृती ते । वैभवमम्ब विशुद्धे तेन वयं परवन्तः ॥ २६६॥ इन्द्रपदस्थितचित्तश्शीर्षसुधारसमत्तः । यो भजते जननि त्वां तच्चरणं प्रणमामि ॥ २६७॥ रासनवारिणि लग्नः सम्मदवीचिषु मग्नः । ध्यायति यः परमे त्वां तस्य पदं मम वन्द्यम् ॥ २६८॥ त्वां सदहञङ्कृतिरूपां योगिनुते हतपापाम् । धारयते हृदये यस्तस्य सदाऽस्मि विधेयः ॥ २६९॥ धूतसमस्तविकल्पो यस्तव पावनलीलाम् । शोधयति स्वगुहायां तस्य भवाम्यनुजीवी ॥ २७०॥ यो भजते निजदृटिं रूपपरिग्रहणेषु । कामपि देवि कलां ते तस्य पदे निपतेयम् ॥ २७१॥ कर्मणि कर्मणि चेष्टामम्ब तवैव विभूतिम् । यः शितबुद्धिरुपास्ते तत्पदमेष उपास्ते ॥ २७२॥ वस्तुनि वस्तुनि सत्तां यो भवतीं समुपास्ते । मातरमुष्य वहेयं पादयुगं शिरसाऽहम् ॥ २७३॥ पातुमिमं निजदेशं सर्वदिशासु सपाशम् । अम्ब विधाय समर्थं मां कुरु देवि कृतार्थम् ॥ २७४॥ चित्रपदाभिरिमाभिश्चित्रविचित्रचरित्रा । सम्मदमेतु मघोनः प्राणसखी मृगनेत्र ॥ २७५॥ ॥ चतुर्थो नाराचिकापादः ॥ अन्तर्विधुन्वता तमः प्राणस्य तन्वता बलम् । मन्दस्मितेन देवताराज्ञी करोतु मे शिवम् ॥ २७६॥ उत्थाप्य पुण्यसञ्चयं सम्मद्र्य पापसंहतिम् । सा भारतस्य सम्पदे भूयाद्बलारिभामिनी ॥ २७७॥ लीलासखी बिडौजसस्स्वर्वाटिकासु खेलने । पीयुषभानुजिन्मुखी देवी शची विराजते ॥ २७८॥ पक्षः परो मरुत्वतो रक्षः प्रवीरमर्दने । भामालि भासुरानना देवी शची विराजते ॥ २७९॥ भीतिं निशाटसंहतेः प्रीतिं सुपर्वणां ततेः । ज्याटङ्कृतैर्वितन्वती देवी शची विराजते ॥ २८०॥ देवेन्द्रशक्तिधारिणी शत्रुप्रसक्तिवारिणी । मौनीन्द्रमुक्तिकारिणी देवी शची गतिर्मम ॥ २८१॥ सन्नस्वदेशदर्शनाद्भिन्नस्वजातिवीक्षणात् । खिन्नस्य संश्रितावनी देवी शची गतिर्मम ॥ २८२॥ सङ्घे सहस्रधाकृते देशे निकृष्टतां गते । शोकाकुलस्य लोकभृद्देवी शची गतिर्मम ॥ २८३॥ सा संविदोऽधिदेवता तस्यास्स्वरः परो वशे । सर्वं विधीयते तया तस्मात्परा मता शची ॥ २८४॥ सा याति सूक्ष्ममप्यलं सा भाति सर्ववस्तुषु । सा माति खं च निस्तुलं तस्मात्परा मता शची ॥ २८५॥ सा सर्वलोकनायिका सा सर्वगोलपालिका । सा सर्वदेहचालिका तस्मात्परा मता शची ॥ २८६॥ यस्याः कृतिर्जगत्त्रयं या तद्बिभर्ति लीलया । यस्यां प्रयाति तल्लयं सा विश्वनायिका शची ॥ २८७॥ धर्मे परिक्षयं गते याऽविश्य निर्मलं जनम् । तद्रक्षणाय जायते सा विश्वनायिका शची ॥ २८८॥ वेधा ऋतस्य योदिता मन्त्रेण सत्यवादिना । बाधानिवारिणी सतां सा विश्वनायिका शची ॥ २८९॥ यज्ञो यया विनीयते युद्धं तथा पृथग्विधभ् । तां देवराजमोहिनीं नारीं नुमः पुरातनीम् ॥ २९०॥ यस्यास्सुतो वृषाकपिर्देवोऽसतां प्रशासिता । तां सर्वदा सुवासिनीं नारीं नुमः पुरातनीम् ॥ २९१॥ यस्यास्समा नितम्बिनी काचिन्न विष्टपत्रये । तां नित्यचारु यौवनां नारीं नुमः पुरातनीम् ॥ २९२॥ यच्चारुता न दृश्यते मन्दारपल्लवेष्वपि । तत्सुन्दराच्चसुन्दरं शच्याः पदाम्बुजं श्रये ॥ २९३॥ यस्य प्रभा न विद्यते माणिक्यतल्ल्जेष्वपि । तद्भासुराच्च भासुरं शच्याः पदाम्बुजं श्रये ॥ २९४॥ न स्यादघैस्तिरस्कृतो यच्चिन्तको नरः कृती । तत्पावनाच्च पावनं शच्याः पदाम्बुजं श्रये ॥ २९५॥ राजन्नखेन्दुभानुभिस्सर्वं तमो विधुन्वते । बृन्दारकेन्द्रसुन्दरीपादाम्बुजाय मङ्गलम् ॥ २९६॥ गीर्वाणमौलिरीभा सङ्क्षालिताय दीप्यते । स्वर्गाधिनाथभामिनिपादाम्बुजाय मङ्गलम् ॥ २९७॥ बालार्कबिम्बरोचिषे योगीन्द्र हृद्गुहाजुषे । पाकारिजीवितेश्वरीपादाम्बुजाय मङ्गलम् ॥ २९८॥ आत्मीयदेशरक्षणे शक्तं करोतु सर्वथा । पापद्विषां प्रियङ्करी वासिष्ठमिन्द्रसुन्दरी ॥ २९९॥ वासिष्ठवाक्प्रदीप्तिर्भिनाराचिकाभिरीश्वरी । गीर्वाणचक्रवर्तिनस्सम्मोदमेतु सुन्दरी ॥ ३००॥ ॥ तृतीयमानुष्टुभं शतकं समाप्तम् ॥
॥ अथ चतुर्थं बार्हतं शतकम् ॥ ॥ प्रथमो हलमुखीपादः ॥ क्षीरवीचिपृषतसितं प्रेमधारिदरहसितम् । नाकराजनलिनदृशः शोकहारि मम भवतु ॥ ३०१॥ अध्वनो गलितचरणामध्वरक्षितिमविभवाम् । आदधातु पथि विमले वैभवे च हरितरुणी ॥ ३०२॥ ब्रह्मणश्वितिरथनभः कायभागवगतिमती । या तदा पृथगिव बभौ धर्मितां स्वयमपि गता ॥ ३०३॥ मोदबोधविभवकृतप्राकृतेतरवरतनु । सर्वसद्गुणगणयुतं या ससर्ज सुरमिथुनम् ॥ ३०४॥ पुंसि दीप्तवपुषि तयोर्ब्रह्म सोऽहमिति लसति । योषिते किल धियमदात्तस्य शक्तिरहमिति या ॥ ३०५॥ याभिमानबलवशतस्तामुदारतमविभवाम् । मन्यते स्म वरवनितां स्वाधिदैविकतनुरिति ॥ ३०६॥ आदिपुंसि गगनतनुर्या तनोति तनुजमतिम् । आदधाति युवतितनुः प्राणनायक इति रतिम् ॥ ३०७॥ तां परां भुवनजननीं सर्वपापततिशमनीम् । तन्त्रजालविनुतबलां स्तौमि सर्वमतिममलाम् ॥ ३०८॥ सा मतिर्विदितविषया सा रुचिर्विततविषया । सा रतिर्विनुतविषया सा स्थितिर्विधुतविषया ॥ ३०९॥ यत्र यत्र मम धिषणा ग्राह्यवस्तुनि गतिमती । तत्र तत्र विलसतु सा सर्वगा सकलचरिता ॥ ३१०॥ दुर्बलस्य बहुलबलैरर्दितस्य जगति खलैः । आदिदेवि तव चरणं पावनं भवति शरणम् ॥ ३११॥ पौरुषे भवति विफले त्वामयं जननि भजते । किं नुते यदि विमुखता पौरुषं कथय भजताम् ॥ ३१२॥ कर्तुरप्रतिहतगिरः पौरुषाच्छतगुणमिदम् । ध्यातुरस्खलितमनसः कार्यसिद्धिषु तव पदम् ॥ ३१३॥ पौरुषं विदितमफलं काङ्क्षिते मम सुरनुते । शक्तमीदृशि तु समये श्रद्दधामि तव चरणम् ॥ ३१४॥ पौरुषं यदि कविमतं देवि तेऽपि पदभजनम् । दैववादपटुवचसो मूकतैव मम शरणम् ॥ ३१५॥ पूर्वजन्मसुकृतफलं दैवमम्ब निगदति यः । भक्तिपौरुषविरहिणो भावितस्य रिपुदयितम् ॥ ३१६॥ उद्यतस्य तव चरणं संश्रितस्य च सुरनुते । पूर्वजन्मसुकृतबलश्रद्धयाऽलमहृदयया ॥ ३१७॥ अस्तु पूर्वभवसुकृतं मास्तु वा जननि जगताम् । साम्प्रतं तव पदयुगं संश्रितोस्म्यव विसृज वा ॥ ३१८॥ नास्ति सम्प्रति किमपि किं भूतिमाप्स्यसि किमु ततः । अन्यजन्मनि वितरणे का प्रसक्तिरमरनुते ॥ ३१९॥ नान्यजन्मनि बहुशिवं नापि नाकभुवनसुखम् । कामये फलमभिमतं देहि सम्प्रति शचि न वा ॥ ३२०॥ मेदिनी भुवनतलतो निस्तुलादुत गगनतः । भास्करादुत रुचिनिधेः काम्यमीश्वरि वितर मे ॥ ३२१॥ विष्टपे क्वचन वरदे दातुमीश्वरि कृतमतिम् । वारयेज्जननि न परस्त्वां जनस्तव पतिमिव ॥ ३२२॥ देहि वा भगवति न वा पाहि वा शशिमुखि न वा । पावनं तव पदयुगं न त्यजानि हरिदयिते ॥ ३२३॥ रक्षितुं भरतविषयं शक्तमिन्द्रहृदयसखी । चन्द्रबिम्बरुचिरमुखी सा क्रियाद्भुवि गणपतिम् ॥ ३२४॥ सम्प्रहृष्यतु हलमुखीर्भास्वतीर्गणपतिमुनेः । सा निशम्य सुरनृपतेर्मोहिनी सदयहृदया ॥ ३२५॥ ॥ द्वितीयो भुजगशिशुभृतापादः ॥ मरुदधिपमनोनाथा मधुकरचिकुरास्माकम् । वृजिनविधुतिमाधत्तां विशदहसितलेशेन ॥ ३२६॥ अखिलनिगमसिद्धान्तो बहुमुनिवरबुद्धान्तः । सुरपरिबृढशुद्धान्तो भरतवसुमतीमव्यात् ॥ ३२७॥ भगवति भवतीचेतो रतिकृदभवदिन्द्रस्य । स तव जननि सन्तानद्रुमवनमतिरम्यं वाम् ॥ ३२८॥ पतिरखिलयुवश्रेष्ठः किमपि युवतिरत्नं त्वम् । वनविहृतिषु वां चेतो हरणमभवदन्योन्यम् ॥ ३२९॥ मधुरललितगम्भीरैस्तव हृदयमुपन्यासैः । वनविहरणलीलायामहरदयि दिवो राजा ॥ ३३०॥ कलवचनविलासेन प्रगुणमुखविकासेन । भुवनमपिमनोऽहार्षीर्जननि वनविहारे त्वम् ॥ ३३१॥ कनककमलकान्तास्या धवलकिरणवक्त्रेण । असितजलजपत्राक्षी सितनलिनदलाक्षेण ॥ ३३२॥ अलिचयनिजधम्मिल्ला नवजलधरकेशेन । मृदुलतमभुजावल्ली दृढतमभुजदण्डेन ॥ ३३३॥ अमृतनिलयबिम्बोष्ठी रुचिरधवलदन्तेन । अतिमुकुरलसद्गण्डा विकचजलजहस्तेन ॥ ३३४॥ युवतिरतितरां रम्या सुललितवपुषा यूना । भगवति शचि युक्ता त्वं त्रिभुवनविभुनेन्द्रेण ॥ ३३५॥ विकचकुसुममन्दारद्रष्ठ्हमवनवरवाटीषु । विहरणमयि कुर्वाणा मनसिजमनुगृह्णासि ॥ ३३६॥ तव शचि चिकुरे राजत्कुसुमममरवृक्षस्य । नव सलिलभृतो मध्ये स्फुरदिव नवनक्षत्रम् ॥ ३३७॥ अभजततरुरौदार्यं विभवमपि महान्तं सः । विकचकुसुमसम्पत्त्या भगवति भजते यस्त्वाम् ॥ ३३८॥ अमरनृपतिना साकं कुसुमितवनवाटीषु । भगवति तव विश्रान्तेः स जयति समयः कोऽपि ॥ ३३९॥ अमरतरुवरच्छायास्वयि मुहुरुपविश्य त्वम् । शचि कृतिजनरक्षायै मनसि वितनुषु चर्चाम् ॥ ३४०॥ किमु वसु वितराण्यस्मै सुमतिमुत ददान्यस्मै । क्षमतममथवाऽमुष्मिन् बलमुरुघटयानीति ॥ ३४१॥ हरितरुणि कदा वामे विनमदवनचर्चासु । स्मरणसमय आयास्यत्यमलहृदयरङ्गे ते ॥ ३४२॥ शचि भगवति साक्षात्ते चरणकमलदासोऽहम् । इह तु वसुमतीलोके स्मर मम विषयं पूर्वम् ॥ ३४३॥ न यदि तव मनो दातुं स्वयमयि लघवे मह्यम् । उपवनतरुकर्णे वा वद मदभिमतं कर्तुम् ॥ ३४४॥ निजविषयमतिश्रेष्ठं विपदि निपतितं त्रातुम् । स्वकुलमपि सदध्वानं गमयितुमपथे श्रान्तम् ॥ ३४५॥ अखिलभुवनसम्राजः प्रियतरुणि भवत्यैव । मतिबलपरिपूर्णोएऽयं गणपतिमुनिराधेयः ॥ ३४६॥ न किमु भवति शं देशे गतवति कलुषे काले । तव भजनमघं सद्यो हरिहयललने जेतुम् ॥ ३४७॥ त्रिजगति सकलं यस्य प्रभवति पृथुले हस्ते । स बहुलमहिमा कालो मम जननि विभूतिस्ते ॥ ३४८॥ अनवरतगलद्बाष्पां भरतवसुमतीं त्रातुम् । वितरतु दयिताजिष्णोर्गणपतिमुनये शक्तिम् ॥ ३४९॥ भुजगशिशुभृता एताः कविगणपतिना गीताः । विदधतु मुदितां देवीं विबुधपतिमनोनाथाम् ॥ ३५०॥ ॥ तृतीयो मणिमध्यापादः ॥ मङ्गलधायी पुण्यवतां मन्मथधायी देवपतेः । विष्टपराज्ञीहासलवो विक्रमधायी मे भवतु ॥ ३५१॥ दृष्टिविशेषैश्शीततरैर्भूर्यनुकम्पैः पुण्यतमैः । भारतभूमेस्तापततिं वासवकान्ता सा हरतु ॥ ३५२॥ पावनदृष्टिर्योगिहिता भासुरदृष्टिर्देवहिता । शीतलदृष्टिर्भक्थिता मोहनदृष्टिश्शक्रहिता ॥ ३५३॥ उज्ज्वलवाणी विक्रमदा वत्सलवाणी सान्त्वनदा । मञ्जुलवाणी सम्मददा पन्नगवेणी सा जयति ॥ ३५४॥ शारदराकाचन्द्रमुखी तोयदमालाकारकचा । मेचकपाथोजातदलश्रीहरचक्षुर्वासिकृपा ॥ ३५५॥ चम्पकनासागण्डविभामण्डलखेलत्कुण्डलभा । उक्तिषु वीणाबिम्बफलश्रीहरदन्तप्रावरणा ॥ ३५६॥ निर्मलहासक्षालितदिग्भित्तिसमूहा मोहहरी । काञ्चनमालाशोभिगला सन्ततलीला बुद्धिकला ॥ ३५७॥ विष्टपधारि क्षीरधरस्वर्णघटश्रीहारिकुचा । कापि बिडौजो राज्यरमा चेतसि माता भातु मम ॥ ३५८॥ दिव्यसुधोर्मिर्भक्तिमतां पावककीला पापकृताम् । व्योम्नि चरन्ती शक्रसखी शक्तिरमोघा मामवतु ॥ ३५९॥ सम्मदयन्ती सर्वतनुं संशमयन्ती पापततिम् । सम्प्रथयन्ती सर्वमतीस्सङ्घटयन्ती प्राणबलम् ॥ ३६०॥ निर्जितशोकाधूततमास्संस्कृतचित्ता शुद्धतमा । वासवशक्तेर्व्योमजुषः काचन वीचिर्मां विशतु ॥ ३६१॥ उद्गतकीलं मूलमिदं भिन्नकपालं शीर्षमिदम् । उज्झित मोहं चित्तमिदं वासवशक्तिर्मां विशतु ॥ ३६२॥ दृश्यविरक्तं चक्षुरिदं भोगविरक्तं कायमिदम् । ध्येयविरक्ता बुद्धिरियं वासवशक्तिर्मां विशतु ॥ ३६३॥ चक्षुरदृश्यज्वालभृता व्यापकखेन प्रोल्लसता । विस्मृतकायं सन्दधती वासवशक्तिर्मां विशतु ॥ ३६४॥ कायमजस्रं वज्रदृढं बुद्धिमशेषे व्याप्तिमतीम् । दिव्यतरङ्गैरादधती वासवशक्तिर्मां विशतु ॥ ३६५॥ मूर्ध्नि पतन्ती व्योमतलात्सन्ततमन्तः सर्वतनौ । सम्प्रवहन्ती दिव्यझरैर्वासवशक्तिर्मां विशतु ॥ ३६६॥ भानुविभायां भासकता दिव्यसुधायां मोदकता । काऽपि सुरायां मादकता वासवशक्त्यां तत्त्रितयम् ॥ ३६७॥ भासयतान्मे सम्यगृतं मोदमुदारं पुष्यतु मे । साधुमदं मे वर्धयतान्निर्जरभर्तुः शक्तिरजा ॥ ३६८॥ कश्चन शक्तिं योगबलादात्मशरीरे वर्धयति । एषि विवृद्धिं भक्तिमतः कस्यचिदेशे त्वं वपुषि ॥ ३६९॥ साधयतां वा योगविदां कीर्तयतां वा भक्तिमताम् । वत्सलभावादिन्द्रवधूर्गर्भभुवां वा याति वशम् ॥ ३७०॥ यस्य समाधिः कोऽपि भवेदात्ममनीषा तस्य बलम् । यस्तव पादाम्भोजरतस्तस्य खलु त्वं देवि बलम् ॥ ३७१॥ द्वादशवर्षी योगबलाद्या खलु शक्तिर्युक्तमतेः । तां शचि दातुं भक्तिमते कापि घटी ते मातरलम् ॥ ३७२॥ योगबलाद्वा ध्यानकृतो भक्तिबलाद्वा कीर्तयतः । यातु विवृद्धिं विश्वहिता वासवशक्तिर्मे वपुषि ॥ ३७३॥ दुःखितमेतच्छ्रीरहितं भारतखण्डं सर्वहितम् । त्रातुमधीशा स्वर्जगतः सुक्षमबुद्धिं मां कुरुताम् ॥ ३७४॥ सन्तु कवीनां भर्तुरिमे सुन्दरबन्धाशुद्धतमाः । सन्मणिमध्याः स्वर्जगतो राजमहिष्याः कर्णसुखाः ॥ ३७५॥ ॥ चतुर्थो मात्रसमकपादः ॥ शुक्ल्ज्योतिः प्रकरैर्व्याप्तः सूक्ष्मोऽप्यन्तान् हरितां हासः । जिष्णोः पत्न्यास्तिमिरारातिर्निश्शेषं मे हरतान्मोहम् ॥ ३७६॥ शृण्वत्कर्णा सदयालोका लोकेन्द्रस्य प्रियनारी सा । नित्याक्रोशैर्विरुदद्वाणीं पायादेतां भरतक्षोणीम् ॥ ३७७॥ देवेषु स्वः परिदीप्यन्ती भूतेष्विन्दौ परिखेलन्ती । शक्तिर्जिष्णोर्द्वपदां सङ्घे हन्तैतस्यां भुवि निद्राति ॥ ३७८॥ निद्राणाया अपि ते ज्योतिर्गन्धादेते धरणीलोके । मर्त्याः किञ्चत्प्रभवन्तीशे त्वं बुद्धा चेत्किमु वक्त्व्यम् ॥ ३७९॥ मेघच्छन्नोऽप्यरुणस्तेजो दद्यादेव प्रमदे जिष्णोः । अत्रस्थानां भवतीग्रन्थिच्छन्नाप्येवं कुरुते प्रज्ञाम् ॥ ३८०॥ ध्यायामो यत्कथयामो यत्पश्यामो यच्छृणुमो यच्च । जीवामो वा तदिदं सर्वं निद्राणाया अपि ते भासा ॥ ३८१॥ नाडीबन्धादभिमानाच्च च्छन्ना मातर्भवती देहे । एकापायादितरो नश्येत्तस्माद्द्वेधा तपसः पन्थाः ॥ ३८२॥ चित्तं यस्य स्वजनिस्थाने प्रज्ञा बाह्या न भवेद्यस्य । आधत्से त्वं भुवनाधीशे बुद्धा क्रीडां हृदये तस्य ॥ ३८३॥ वाणी यस्य स्वजनिस्थाने दूरे कृत्वा मनसा सङ्गम् । मातस्तत्र प्रतिबुद्धा त्वं श्लोकैर्लोकं कुरुषे बुद्धम् ॥ ३८४॥ हित्वा दृश्यान्यतिसूक्ष्मायां चक्षुर्यस्य स्वमहो वृत्तौ । विश्वाऽलिप्ता जगतां मातर्जाग्रत्यस्मिन्नचला भासि ॥ ३८५॥ शृण्वन् कर्णो दयिते जिष्णोरन्तः शब्दं ध्रियते यस्य । बुद्धा भूत्वा वियता साधोरेकीभावं कुरुषे तस्य ॥ ३८६॥ यातायातं सततं पश्येद्यः प्राणस्य प्रयतो मर्त्यः । विश्वस्येष्टां तनुषे क्रीडां तस्मिन् बुद्धा तरुणीन्द्रस्य ॥ ३८७॥ स्वान्तं यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि निद्रासि । आत्मा यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि जागर्षि ॥ ३८८॥ यस्याऽहन्ता भवति स्वान्ते तस्य स्वान्तं प्रभवेत्कर्तुम् । यस्याऽहन्ता भवति स्वात्मन्यात्मा तस्य प्रभवेत्कर्तुम् ॥ ३८९॥ स्वान्तं यस्य प्रभवेत्कर्तुं तत्कर्माल्पं भवति व्यष्टेः । आत्मा यस्य प्रभवेत्कर्तुं तच्छ्लाध्यं ते बलजित्कान्ते ॥ ३९०॥ एतत्स्वान्तं हृदयाज्जातं शीर्षे वासं पृथगाधाय । हार्दाहन्तां स्वयमाक्रम्य भ्रान्तानस्मान् कुरुते मातः ॥ ३९१॥ अस्माकं भोः कुरुते बाधामस्मज्योतिर्जननि प्राप्य । स्वान्ते नैतत्कृतमन्याय्यं कान्ते जिष्णोः शृणु राज्ञि त्वम् ॥ ३९२॥ स्वान्ते तेजो हृदयादायाच्चन्द्रे तेजो दिनभर्तुर्वा । आश्रान्तं यो मनुते धीरस्तस्य स्वान्तं हृदि लीनं स्यात् ॥ ३९३॥ मूलान्वेषिस्फुरदावृत्तं नीचैरायात्कबलीकृत्य । जानन्त्येका हृदयस्थाने युञ्जानानां ज्वलसीशाने ॥ ३९४॥ शीर्षे चन्द्रो हृदये भानुर्नेत्रो विद्युत्कुलकुण्डेऽग्निः । सम्पद्यन्ते महसाऽशैस्ते जिष्णोः कान्ते सुतरां शस्ते ॥ ३९५॥ मन्वानां त्वां शिरसि स्थाने पश्यन्तीं वा नयनस्थाने । चेतन्तीं वा हृदयस्थाने राजन्तीं वा ज्वलनस्थाने ॥ ३९६॥ यो ना ध्यायेज्जगतां मातः कश्चिच्छ्रेयानवनौ नाऽतः । पूतं वन्द्यं चरणं तस्य श्रेष्ठं वर्ण्यं चरितं तस्य ॥ ३९७॥ दोग्ध्रीं मायां रसनां वा यो मन्त्रं मातर्जपति प्राज्ञः । सोऽयं पात्रं करुणायास्ते सर्वं काम्यं लभते हस्ते ॥ ३९८॥ छिन्नां भिन्नां सुतरां सन्नामन्नाभावादभितः खिन्नाम् । एतां पातुं भरतक्षोणीं जाये जिष्णोः कुरु मां शक्तम् ॥ ३९९॥ क्लृप्तैः सम्यग्बृहतीछन्दस्येतैर्मात्रसमकैर्वृत्तैः । कर्णाध्वानं प्रविशद्भिस्सा पौलोम्यम्बापरितृप्तास्तु ॥ ४००॥ ॥ चतुर्थं बार्हतं शतकं समाप्तम् ॥
॥ अथ पञ्चमं पाङ्क्तं शतकम् ॥ ॥ प्रथमो मयूरसारिणीपादः ॥ प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे । इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥ ४०१॥ वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती । जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥ ४०२॥ अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् । आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥ ४०३॥ एतमेव देवि लोकबन्धुं सूरयो वृषाकपिं भणन्ति । वर्षहेतुदीधितिर्वृषायं कं पिबन् करैः कपिर्निरुक्त्ः ॥ ४०४॥ केचिदिन्द्रनारि चन्द्ररेखाशेखरं वृषाकपिं गदन्ति । पण्डिताः परे तु शेषशय्याशायिनं वृषाकपिं तमाहुः ॥ ४०५॥ ब्रह्मणस्पतिं तु वैद्युताग्नेरंशजं मरुद्गणेषु मुख्यम् । विश्वराज्ञि विघ्नराजमेके विश्रुतं वृषाकपिं वदन्ति ॥ ४०६॥ भास्करश्च शङ्क्रश्च मातर्माधवश्च मन्त्रनायकश्च । आत्मजेषु ते न सन्ति नान्तर्व्यापकान्तरिक्षविग्रहायाः ॥ ४०७॥ वासवोऽपि देवि देवतात्मा वल्लभस्तव च्छलाङ्गनायाः । आत्मजात एव कीर्तनीयो देवतापथेन देहवत्याः ॥ ४०८॥ साशवस्युदीरितासि धीरैर्देहिनी विहायसेन्द्रसूस्त्वम् । लिङ्गभेदतोऽनुरूपतस्तत्कीर्तनं शवो हि शक्तिवाचि ॥ ४०९॥ नादितिर्विभिद्यते शवस्यास्सर्वदेव मातरं विदुर्याम् । सा मरुत्प्रसूरभाणि पृश्निः सापि भिद्यते ततो न देव्याः ॥ ४१०॥ शक्तिरेव सा न्यगादि पृश्निश्शक्तिरेव साऽदितिर्न्यभाणि । शक्तिरेव साऽभ्यधायि भद्रा शक्तिरेव सा शवस्यवादि ॥ ४११॥ विज्जनः प्रकृष्टशक्तिभागं शब्दमेव पृश्निमाह धेनुम् । या परैर्बुधैरभाणि गौरी मानवेष्टभाषयैव नारी ॥ ४१२॥ व्यापकत्वकल्पितं विशालं देशमेव शक्तिभागमाहुः । बुद्धिशालिनोऽदितिं सवित्रीं या परैर्विचक्षणैः स्मृता द्यौः ॥ ४१३॥ नित्यमोदरूपशक्तिभागं पण्डिताः प्रकीर्तयन्ति भद्राम् । उक्तिभेदचातुरीप्रलुब्धाः सूरयः परे शिवां जुगुर्याम् ॥ ४१४॥ वीर्यरूपभाग एव गण्यः पण्डितैः शवस्यभाणि शक्तेः । ओजसो न सोऽतिरिच्य तेंशो भिद्यते ततो न वज्रमुग्रम् ॥ ४१५॥ वज्रमेव भाषया परेषामुच्यते प्रचण्डचण्डिकेति । यद्विभूतिलेशचुम्बितात्मा जीयते न केनचित्पृथिव्याम् ॥ ४१६॥ सर्वतो गतिश्शचीति शक्तिः कीर्त्यते बुधैरुदारकीर्तिः । सर्वभागवाचकं पदं तत् पावनं पुरातनं प्रियं नः ॥ ४१७॥ यश्शचीति नामकीर्तयेन्ना पुष्करेण ते शरीरवत्याः । दिव्यसुन्दरी तनोरुताहो तं पराभवेन्न देवि पापम् ॥ ४१८॥ अम्बरं वरं तवाम्ब कायं यस्सदा विलोकयन्नौपास्ते । लोकजालचक्रवर्तिजाये तं पराभवेन्न देवि पापम् ॥ ४१९॥ पूर्णिमासुधांशुबिम्बवक्त्रं फुर्विंआरिजातपत्रनेत्रम् । शुभ्रतानिधानमन्दहासं कालमेघकल्पकेशपाशम् ॥ ४२०॥ रत्न्दर्पणाभमञ्जुगण्डं चम्पकप्रसूनचारुनासम् । कुन्दकुड्मलाभकान्तदन्तं कल्पपर्विंआभदन्तचेलम् ॥ ४२१॥ सद्वराभयप्रदायिहस्तं सर्वदेववन्द्यपादकञ्जम् । दिव्यरत्नभूषणैरनर्घैर्भूषितं कनत्सुवर्णवर्णम् ॥ ४२२॥ दिव्यशुक्ल्वस्त्रयुग्मधारि स्वर्गसार्वभोमनेत्रहारि । यः स्मरेद्वराङ्गनावपुस्ते तं पराभवेन्न देवि पापम् ॥ ४२३॥ भारतक्षितेरिदं जनन्याश्शोकजन्यबाष्पवारि हर्तुम् । देहि शक्तिमाश्रिताय मह्यं पाहि धर्ममिन्द्रचित्तनाथे ॥ ४२४॥ सद्वसिष्ठसन्ततेरिमाभिस्सत्कवेर्मयूरसारिणीभिः । सम्मदं प्रयातु शक्रचेतस्सम्प्रमोहिनीसरोजनेत्र ॥ ४२५॥ ॥ द्वितीयो मनोरमापादः ॥ हसितमाततायिपातकप्रमथनप्रसिद्धविक्रमम् । अमरभूमिपालयोषितो मम करोतु भूरिमङ्गलम् ॥ ४२६॥ करुणया प्रचोदिता क्रियाद्भरतभूमिमक्षयश्रियम् । चरणकञ्जराजदिन्दिरा सुरनरेश्वरस्य सुन्दरी ॥ ४२७॥ न भवनं न वा जगत्पृथङ्निवसनाय ते सुरार्चते । यदखिलानि विष्टपानि ते वपुषि सर्वमन्दिराणि च ॥ ४२८॥ मतिदविष्ठसीमभासुरं तव शरीरमेव पुष्करम् । परमपूरुषस्य वल्लभे भुवनमेकमुच्यते बुधैः ॥ ४२९॥ तरणयस्सुधांशवस्तथा सह भुवा ग्रहाः सहस्रशः । अयि जगन्ति विस्तृतानि ते वपुषि पुष्करे जगत्यजे ॥ ४३०॥ बहुभिरुष्णभानुभिक्र्ततात् बहुभिरिन्दुभिर्वशीकृतात् । वियति लोकजालधात्रि ते शतगुणं बलं प्रशिश्यते ॥ ४३१॥ न विभुरेककस्य भास्वतो विभवमेव ना प्रभाषितुम् । किमुत ते दधासि योदरे द्युतिमतां शतानि तादृशाम् ॥ ४३२॥ इह विहायसा शरीरिणीमतिसमीपवासिनीमपि । न खलु कोऽपि लोकितुं प्रभुर्भगवतीं परामयुक्तधीः ॥ ४३३॥ तदिदमुच्यते जनो जगद्वपुरमेयमादिदेवि ते । जनयते यतोऽखिलं दृशोर्विषयभूतमेतदाततम् ॥ ४३४॥ बहुलतारकागणैर्युतं किमपि खं तवेह वर्ष्मणि । शचि विभज्य भाषयैकया सुकवयो महोजगद्विदुः ॥ ४३५॥ इदमिनेन्दुभूविलक्षणैर्दिनकरैस्सुधाकरैर्ग्रहैः । बहुजगद्भिरन्वितं महोजगदशेषधात्रि नैककम् ॥ ४३६॥ अजरमव्ययं सनातनं मुनिजनैकवेद्यवैभवम् । न भवतीं विना तपोजगत्पृथगशेषनाथनायिके ॥ ४३७॥ सकलदृश्यमूलकारणं तव च संश्रयो निराश्रयः । जननि सत्यलोक संज्ञया परमपूरुषोऽभिधीयते ॥ ४३८॥ अयि पुरातनर्षिभाषया गगनमेतदाप ईरिताः । अथ यदासुवीर्यमुज्झितं भगवतस्त्वमेव तत्परे ॥ ४३९॥ शचि विराड्भवत्यभाषत श्रुतिरपीदमेव नाम ते । विततविश्वविग्रहात्मनि प्रथितमेतदाह्मयं परम् ॥ ४४०॥ उपनिषद्गिरा विराड्वधूः पुरुष एष भाषयान्यया । उभयथापि साधु तत्पदं भवति ते न संशयास्पदम् ॥ ४४१॥ न वनिता न वा पुमान् भवेज्जगति योऽन्तरश्शरीरिणाम् । तनुषु लिङ्गभेददर्शनात् तनुमतश्च लिङ्गमुच्यते ॥ ४४२॥ अखिलनाथवीर्यधारणान्न्गनभूमिरङ्गनामता । सकललोकबीजभृत्त्वतो गगनदेश एष पूरुषः ॥ ४४३॥ स्फुटविभक्तगात्रलक्ष्मणां नियतवादिनामदर्शनात् । न पुरुषो वियद्यथा वयं न वनिता वियद्यथैव नः ॥ ४४४॥ अभिविमानतोऽथ वा शची विबुधराजयोर्विलक्षणात् । वरविलसिनी वियत्तनुस्सदविकारमुत्तमः पुमान् ॥ ४४५॥ हृदयमल्पमप्यदो जनन्यनवमं विशालपुष्करात् । विमलदेहदुर्गमध्यगं सकलराज्ञि सौधमस्तु ते ॥ ४४६॥ विकसितं निजांशुवीचिभिक्र्तदयमालयं विशाम्ब मे । विकचमुष्णभानुभानुभिर्दशशतच्छदं यथा रमा ॥ ४४७॥ हृदयसाधुसौधशायिनीं नयनरम्यहर्म्यचारिणीम् । भुवनराजचित्तमोहिनीं नमत तां परां विलासिनीम् ॥ ४४८॥ तव परे मरीचिवीचयस्तनुगुहां प्रविश्य विश्रुते । भरतभूमिरक्षणोद्यतं गणपतिं क्रियासुरुज्ज्वलम् ॥ ४४९॥ गणपतेर्मनोरमा इमास्सुगुणवेदिनां मनोरमाः । अवहिता शृणोतु सादरं सुरमहीपतेर्मनोरमाः ॥ ४५०॥ ॥ तृतीयो मणिरागपादः ॥ ज्योतिषां नृपतिः सकलानां शान्तिमेव सदाभिदधानः । निर्मलो हरतात्सुरराज्ञीमन्दहासलवो मम पापम् ॥ ४५१॥ दुष्टलोकदविष्ठपदाब्जा शिष्टशोकनिवारणदक्षा । नाकलोकमहीपतिरामा भारतस्य धुनोत्वसुखानि ॥ ४५२॥ देवमौलिमणीकिरणेभ्यो विक्रमं स्वयमेव ददाना । देवराजवधूपदपद्मश्रीस्तनोतु सदा मम भद्रम् ॥ ४५३॥ देवि ते वदनं बहुकान्तं साक्षि तत्र पुरन्दरचेतः । अम्ब ते चरणावतिकान्तावत्र साक्षि मनः स्मरतां नः ॥ ४५४॥ भासुरं सुरसंहतिवन्द्यं सुन्दरं हरिलोचनहारि । पावनं नतपापविदारि स्वर्गराज्ञि पदं तव सेवे ॥ ४५५॥ जङ्घिके जयतस्तव मातः स४ एव रुचां यदधीनः । वासवस्य दृशां च सहस्रं यद्विलोकनलोभविनम्रम् ॥ ४५६॥ सक्थिनी तव वासवकान्ते रामणीयकसारनिशान्ते । वन्दते विनयेन ममेयं वन्दिनस्तव पावनि वाणी ॥ ४५७॥ इन्द्रनारि कटिस्तव पृथ्वीमण्डलस्यतुला महनीये । मध्यमो नभसः प्रतिमानं भोगिनां भुवनस्य च नाभिः ॥ ४५८॥ धीरतां कुरुते विगतासुं सा सुपर्वपतेर्निशिताग्रा । सा तवाम्ब मनोभवशस्त्री रोमराजिरघं मम हन्तु ॥ ४५९॥ रोमराजिभुजङ्गशिशुस्ते देवि देवपतेर्हृदयस्य । दंशनेन करोत्ययि मोहं जीविताय चिराय विचित्रम् ॥ ४६०॥ पूर्णहेमघटविव शक्रावाहितां दधतावयि शक्तिम् । विश्वपोषणकर्मणि दक्षावम्ब दुग्धधरौ जयतस्ते ॥ ४६१॥ लोकमातरुरोरुहपूर्णस्वर्णकुम्भगता तव शक्तिः । लोकपालनकर्मणि वीर्यं देवि वज्रधरस्य बिभर्ति ॥ ४६२॥ अक्षयामृतपूर्णघटौ ते शक्रपत्नि कुचै तव पीत्वा । लोकबाधकभीकररक्षो धूनने प्रबभूव जयन्तः ॥ ४६३॥ हस्तयोस्तव मार्दवमिन्द्रो भाषतां सुषमामपि देवः । दातृतामनयोर्मुनिवर्गो वर्णयत्यजरे पटुतां च ॥ ४६४॥ पुष्पमाल्यमृदोरपि बाहोः शक्तिरुग्रतमाशरनाशे । दृश्यते जगतामधिपे ते भाषतां तव कस्तनुतत्त्वम् ॥ ४६५॥ कम्बुकण्ठि तवेश्वरि कण्ठस्तारहारवितानविराजी । देवराड्भुजलोचनपथ्यो देवि मे भणताद्बहुभद्रम् ॥ ४६६॥ आननस्य गभस्तिनिधेस्ते रामणीयकमद्भुतमीष्टे । अप्यमर्त्यनुताखिलसिद्धेर्वासवस्य वशीकरणाय ॥ ४६७॥ न प्रसन्नमलं रविबिम्बिं चन्द्रबिम्बमतीव न भाति । सुप्रसन्नमहोज्ज्वलमास्यं केन पावनि ते तुलयामः ॥ ४६८॥ लोचने तव लोकसवित्रि ज्योतिषः शवसश्च निधाने । वक्तुमब्जसमे ननु लज्जे धोरणीमनुसृत्य कवीनाम् ॥ ४६९॥ आयतोज्ज्वलपक्ष्मलनेत्रा चम्पकप्रसवोपमनासा । रत्नदर्पणरम्यकपोला श्रीलिपिद्युतिसुन्दरकर्णा ॥ ४७०॥ अष्टमीशशिभासुरभाला विष्टपत्रयचालकलीला । स्मेरचारुमुखी सुरभर्तुः प्रेयसी विदधातु शिवं मे ॥ ४७१॥ मन्दहासलवेषु वलक्षा मेचका चिकुरप्रकरेषु । शोणतामधरे दधती सा रक्षतु प्रकृतिस्त्रिगुणा नः ॥ ४७२॥ सर्वलोकवधूजनमध्ये यां श्रुतिस्सुभगामभिधत्ते । या दिवो जगतो रुचिसारस्तां नमामि पुरन्दररामाम् ॥ ४७३॥ स्वर्गभूपतिलोचनभाग्यश्रीश्शरीरवती जलजाक्षी । भारतस्य करोतु समर्थं रक्षणे नरसिंहतनूजम् ॥ ४७४॥ लोकमातुरिमे रमणीयाः पाकशासनचित्तरमण्याः । अर्पिताः पदयोर्विजयन्तां सत्कवेः कृतयो मणिरागाः ॥ ४७५॥ ॥ चतुर्थो मेघवितानपादः ॥ अमरक्षितिपालकचेतो मदनं सदनं शुचितायाः । स्मितमादिवधूवदनोत्त्थं हरतादखिलं कलुषं मे ॥ ४७६॥ सुतरामधनामतिखिन्नामधुना बहुलं विलपन्तीम् । परिपातु जगत्त्रयनेत्री भरतक्षितिमिन्द्रपुरन्ध्री ॥ ४७७॥ स्थलमेतदमर्त्यनृपालप्रमदे तव मेघवितानम् । अयि यत्र परिस्फुसीशे तटिदुज्ज्वलवेषधरा त्वम् ॥ ४७८॥ तटिता तव भौतिकतन्वा जितमम्बुधरे विलसन्त्या । उपमा भुवि या ललितानां युवचित्तहृतां वनितानाम् ॥ ४७९॥ स्फुरितं तव लोचनहारि स्तनितं तव धीरगभीरम् । रमणीयतया मिलिता ते शचि भीकरता चपलायाः ॥ ४८०॥ चपले शचि विस्फुरसीन्द्रं घनजालपतिं मदयन्ती । दितिजातमवग्रहसंज्ञं जनदुःखकरं दमयन्ती ॥ ४८१॥ प्रभुमभ्रपतिं रमयन्ती दुरितं नमतां शमयन्ती । हरितां तिमिराणि हरन्ती पवमानपथे विलसन्ती ॥ ४८२॥ अलघुस्तनितं विदधाना बलमुग्रतमं च दधाना । हृदयावरकं मम मायापटलं तटिदाशु धुनोतु ॥ ४८३॥ सुरपार्थवजीवितनाथे निखिले गगने प्रवहन्त्याः । तटितस्तव वीचिषु काचिच्चपला लसतीह पयोदे ॥ ४८४॥ विबुधप्रणुते धनिकानां भवनेषु भवन्त्ययि दीपाः । पटुयन्त्रबलादुदितानां तव देवि लवाः किरणानाम् ॥ ४८५॥ व्यजनानि च चालयसि त्वं बत सर्वजगन्नऋपजाये । विबुधोऽभिदधात्वथवा को महतां चरितस्य रहस्यम् ॥ ४८६॥ इह चालित ईड्यमनीषैरयि यन्त्रविशेषविधिज्ञैः । बहुलाद्भुतकार्यकलापस्तटितस्तव मातरधीनः ॥ ४८७॥ अचरस्तरुगुल्मलतादिः सकलश्च चरो भुवि जन्तुः । अनिति प्रमदे सुरभर्तुस्तटितस्तव देवि बलेन ॥ ४८८॥ मनुते निखिलोऽपि भवत्या मनुजोऽनिति वक्तिशृणोति । अवलोकयते च भणामः किमु ते जगदम्ब विभूतिम् ॥ ४८९॥ अतिसूक्ष्मपवित्रसुषुम्णापथतस्तनुषु प्रयतानाम् । कुलकुण्डकृशानुशिखा त्वं ज्वलसि त्रिदशालयनाथे ॥ ४९०॥ इतरो न सुरक्षितिपालात्कुलकुण्डगतो ज्वलनोऽयम् । इतरेन्द्रविलासिनि न त्वत्कुलकुण्डकृशानुशिखेयम् ॥ ४९१॥ कुलकुण्डकृशानुशिखायाः किरणैः शिरसि स्थित एषः । द्रवतीन्दुरनारतमेतद्वपुरात्ममयं विदधानः ॥ ४९२॥ मदकृद्बहुलामृतधारापरिपूतमिदं मम कायम् । विदधासि भजन्मनुजाप्ते कुलकुण्डधनंजयदीप्ते ॥ ४९३॥ शिरसीह सतः सितभानोरमृतेन वपुर्मदमेति । हृदि भात इनस्य च भासा मतिमेतु परां शचि चेतः ॥ ४९४॥ मम योगमदेन न तृप्तिनिजदेशदशाव्यथितस्य । अवगन्तुमुपायममोघं शचि भासय मे हृदि भानुम् ॥ ४९५॥ विदितः प्रमदस्य विधातुः शशिनो जनयित्रि विलासः । अहमुत्सुक ईश्वरि भानोर्विभवस्य च वेत्तुमियत्ताम् ॥ ४९६॥ वरुणस्य दिशि प्रवहन्ती मदमम्ब करोषि महान्तम् । दिशि वज्रभृतः प्रवहन्ती कुरु बुद्धिमकुण्ठितसिद्धिम् ॥ ४९७॥ अमलामधिरुह्य सुषुम्णां प्रवहस्यधुनाम्ब मदाय । अमृतामधिरुह्य च किञ्चित्प्रिवहेश्वरि बुद्धिबलाय ॥ ४९८॥ भरतक्षितिक्षणकर्मण्यभिधाय मनोज्ञमुपायम् । अथ देवि विधाय च शक्तं कुरु मां कृतिनं शचि भक्तम् ॥ ४९९॥ नरसिंहसुतेन कवीनां विभुना रचितैः कमनीयैः । परितृप्यतु मेघवितानैर्मरुतामधिपस्य पुरन्ध्री ॥ ५००॥ ॥ पञ्चमं पाङ्क्तं शतकं समाप्तम् ॥
॥ अथ षष्ठं त्रैष्टुभं शतकम् ॥ ॥ प्रथम उपजातिपादः ॥ मन्दोऽपि बोधं विदधन्मुनीनां स्वच्छोऽपि रागं त्रिदशेश्वरस्य । अल्पोऽपि धुन्वन्हरितां तमांसि स्मिताङ्कुरो भातु जयन्तमातुः ॥ ५०१॥ अशेषपापौघनिवारणाय भाग्यस्य पाकाय च देवराज्ञी । शोकाकुलां भारतभूमिमेतां लोकस्य माता हृदये करोतु ॥ ५०२॥ धर्मद्विषामिन्द्रनिरादराणां संहारकर्मण्यतिजागरूकाम् । देवीं परां देवपथे ज्वलन्तीं प्रचण्डचण्डीं मनसा स्मरामि ॥ ५०३॥ व्याप्ता तटिद्वा गगने निगूढा नारी सुरेशानमनोरमा वा । शक्तिः सुषुम्णापथचारिणी वा प्रचण्डचण्डीति पदस्य भावः ॥ ५०४॥ समस्तलोकावनिनायिकायाः सुपर्वमार्गेण शरीरवत्याः । मातुर्महोंशं महनीयसारं विज्ञानवन्तस्तटितं भणन्ति ॥ ५०५॥ निगूढतेजस्तनुरम्बिकेयं प्रचण्डचण्डी परितो लसन्ती । अव्यक्त्शब्देन शरीरवत्याः काल्याः कवीनां वचनेषु भिन्ना ॥ ५०६॥ शब्दं विना नैव कदापि तेजस्तेजो विना नैव कदापि शब्दः । शक्तिद्वयं सन्ततयुक्तमेतत्कथं स्वरूपेण भवेद्विभक्तम् ॥ ५०७॥ एकैव शक्तिर्ज्वलति प्रकृष्टा स्वरत्यपि प्राभवतः समन्तात् । क्रियाविभेदादिह पण्डितानां शक्तिद्वयोक्तिस्तु समर्थनीया ॥ ५०८॥ एकक्रियायाश्च फलप्रभेदात्पुनर्विभागः क्रियते बहुज्ञैः । कालीं च तारां स्वरमग्र्यमाहुः प्रचण्डचण्डीं ललितां च तेजः ॥ ५०९॥ सम्पद्यते शब्दगतेर्हि कालः शब्दो वरेण्यस्तदभाणि काली । ध्यातेन शब्देन भवं तरेद्यद्सुधास्ततः शब्दमुशन्ति ताराम् ॥ ५१०॥ यदक्षरं वेदविदामृषीणां वेदान्तिनां यः प्रणवो मुनीनाम् । गौरी पुराणेषु विपश्चितां या सा तान्त्रिकाणां वचनेन तारा ॥ ५११॥ सम्पद्यते संहृतिरोजसा यत्प्रचण्डचण्डी तदुदीरितौजः । सिध्येदशेषोऽनुभवो यदोजस्यतो बुधास्तां ललितां वदन्ति ॥ ५१२॥ प्रचण्डचण्डीं लघुना पदेन चण्डीं विदुः केचन बुद्धिमन्तः । एके विदः श्रेष्ठमहोमयीं तां लक्ष्मीं महत्पूर्वपदां वदन्ति ॥ ५१३॥ अतीव सौम्यं ललितेति शब्दं प्रचण्डचण्डीति पदं च भीमम् । देवी दधाना सुतरां मनोज्ञा घोरा च नित्यं हृदि मे विभातु ॥ ५१४॥ प्रचण्डचण्डीं तु शरीरभाजां तनूषु योगेन विभिन्नशीर्षाम् । शक्तिं सुषुम्णासरणौ चरन्तीं तां छिन्नमस्तां मुनयो वदन्ति ॥ ५१५॥ कपालभेदो यदि योगवीर्यात्सम्पद्यते जीवत एव साधोः । तमेव सन्तः प्रवदन्ति शीर्षच्छेदं शरीरान्तरभासि शक्तेः ॥ ५१६॥ उदीर्यसे निर्जरराजपत्नि त्वं छिन्नमस्ता यमिनां तनूषु । उज्जऋम्भणे विश्वसवित्रि यस्याः कायं भवेद्वैद्युतयन्त्रतुल्यम् ॥ ५१७॥ पितुर्नियोगात्तनयेन कृत्ते मस्ते जनन्याः किल रेणुकायाः । त्वमाविशः पावनि तत्कबन्धं तद्वा त्वमुक्तासि निकृत्तमस्ता ॥ ५१८॥ छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्तधाराम् । रामाम्बिकां दुर्जनकालरात्रिं देवीं पवित्रं मनसा स्मरामि ॥ ५१९॥ ध्रुवो रमा चन्द्रधरस्य रामा वाग्वज्रवैरोचसदीर्घनिर्ये । कूर्चद्वयं शस्त्रकृशानुजाये विद्यानृपार्णा सुरराजशक्तेः ॥ ५२०॥ मायाद्विवारं यदि सैकवर्णा विद्यैकवर्णा यदि धेनुरेका । धेन्वादि सम्बोधनमस्त्रमग्नेर्विलासिनी चेति धरेन्दुवर्णा ॥ ५२१॥ चतुष्टयेत्रन्यतमं गृहीत्वा मन्त्रं महेन्द्रस्य मनोधिनाथाम् । भजेत यस्तान्त्रिकदिव्यभावमाश्रित्य सिद्वीः सकलाः स विन्देत् ॥ ५२२॥ संहोत्रमित्यद्भुतशक्तियुक्तं वृषाकपेर्दर्शनमम्ब मन्त्रम् । यो वैदिकं ते मनुजो भजेत किञ्चिन्न तस्येह जगत्यसाध्यम् ॥ ५२३॥ प्रचण्डचण्डि प्रमदे पुराणि पुराणवीरस्य मनोधिनाथे । प्रयच्छ पातुं पटुतां परां मे पुण्यामिमामार्यनिवासभूमिम् ॥ ५२४॥ प्रपञ्चराज्ञीं प्रथितप्रभावां प्रचण्डचण्डीं परिकीर्तयन्त्यः । एताः प्रमोदाय भवन्तु शक्तेरुपासकानामुपजातयो नः ॥ ५२५॥ ॥ द्वितीयो रथोद्धतापादः ॥ क्षालनाय हरितां विभूतये विष्टपस्य मदनाय वज्रिणः । तज्जयन्तजननीमुखाब्जतो निर्गतं स्मितमघं धुनोतु नः ॥ ५२६॥ अन्नलोपकृशभीरुकप्रजां भिन्नभावबलहीननेतृकाम् । वासवस्य वरवर्णिनी परैरर्दितामवतु भारतावनिम् ॥ ५२७॥ पाणिपादमनिमेषराज्ञि ते पारिजातनवपल्लवोपमम् । अक्षपाविरहमङ्गभासरिद्वासिचक्रमिथुनं कुचद्वयम् ॥ ५२८॥ पूर्णचन्द्रयशसोऽपहारकं सम्प्रसादसुषमास्पदं मुखम् । ज्ञानशक्तिरुचिशेवधीदृशौ रक्त्वर्णकसुधाघनोऽधरः ॥ ५२९॥ मर्दयत्तिमिरमुद्धतं दिशां अल्पमप्यधिकवैभवं स्मितम् । प्रावृडन्तयमुनातरङ्गवन्नत्न्लचारुरतिपावनः कचः ॥ ५३०॥ वल्लकीं च परुषध्वनिं वदन् दुःखितस्य च मुदावहः स्वरः । चारु हावशबलाऽलसा गतिः कायधामवचसां न पद्धतौ ॥ ५३१॥ योगसिद्धिमतुलां गता मतिश्चातुरी च बुधमण्डलस्तुता । विष्टपत्रितयराज्यतोऽप्यसि त्वं सुखाय महते बिडौजसः ॥ ५३२॥ त्वामुदीक्ष्य धृतदेवतातनुं दीप्तपक्ष्मलविशाललोचनाम् । आदितो जननि जन्मिनामभूद् वासवस्य रतिरादिमे रसे ॥ ५३३॥ आदिमं रसमनादिवासना वासितौ प्रथममन्वगृह्णताम् । सम्मदस्य निधिमादिदम्पती सोऽचलत्त्रिभुवने ततः क्रमः ॥ ५३४॥ ज्यायसा दिविषदां पुरातनी नीलकञ्जनयना विलासिनी । यद्विहारमतनोत्प्ररोचनं तत्सतामभवदादिमे रसे ॥ ५३५॥ न त्वदम्ब नलिनाननाऽधिका नापि नाकपतितोऽधिकः पुमान् । नाधिकं च वनमस्ति नन्दनान्नादिमादपि रसोऽधिको रसात् ॥ ५३६॥ नायिका त्वमसमानचारुता नायकः स मरुतां महीपतिः । नन्दनं च रसरङ्गभूः कथं मन्मथस्य न भवेदिहोत्सवः ॥ ५३७॥ देवि वां मृतिकथैव दूरतो जातुचिद्गलति नैव यौवनम् । काङ्क्षितः परिकरो न दुर्लभः किं रसः परिणमेदिहान्यथा ॥ ५३८॥ विष्टपस्य युवराजकेशवे त्राणभारमखिलं निधाय वाम् । क्रीडतोरमरराज्ञि नन्दने क्रीडितानि मम सन्तु भूतये ॥ ५३९॥ यद्युवाममरराज्ञि नन्दने कुर्वतो रहसि देवि मन्त्रणम् । तत्र चेन्मम कृतिर्मनागियं स्पर्शमेति भुवि को नु मत्कृती ॥ ५४०॥ क्रन्दनं यदि ममेह वन्दिनो नन्दने विहरतोः सवित्रि वाम् । अन्तरायकृदथाब्जकान्ति ते सम्प्रगृह्य चरणं क्षमापये ॥ ५४१॥ योषितामपि विमोहनाकृतिर्मोहनं तु पुरुषसंहतेरपि । इन्द्रमम्बरमयां बभूविथ त्वं रसार्द्रहृदया लसद्रसम् ॥ ५४२॥ दिव्यचन्दनरसानुलेपनैः पारिजातसुमतल्पकल्पनैः । चारुगीतकृतिभिश्च भेजिरे नाकलोकवनदेवताश्च वाम् ॥ ५४३॥ स्वर्णदीसलिलशीकरोक्षिताः पारिजातसुमगन्धधारिणः । नन्दने त्रिदशलोकराज्ञि वां केपि भेजुरलसाः समीरणाः ॥ ५४४॥ आदधासि सकलाङ्गनाधिके पद्मगन्धिनि सुधाधराधरे । मञ्जुवाणि सुकुमारि सुन्दरि त्वं सुरेन्द्रसकलेन्द्रियार्चनम् ॥ ५४५॥ आदिदेवि वदनं तवाभवत् कान्तिधाम मदनं दिवस्पतेः । आननादपि रसामृतं किरन्निष्क्रमं विलसितं कलं गिराम् ॥ ५४६॥ चारुवाग्विलसिताच्च निस्तुलप्रेमवीचिरुचिरं विलोकितम् । वीक्षितादपि विलासविश्रमस्थानमल्पमलसं शुचिस्मितम् ॥ ५४७॥ भासुरेन्द्रदृढबाहुपञ्जरे लज्जया सहजया नमन्मुखी । तद्विलोचनविकर्षकालका पातु मां त्रिदिवलोकनायिका ॥ ५४८॥ भारतक्षितिविषादवारणे तत्सुतं गणपतिं कृतोद्यमम् । आदधातु पटुमर्जुनस्मिता दुर्जनप्रमथनक्षमा शची ॥ ५४९॥ चारुशब्दकलिताः कृतीरिमाः सत्कविक्षितिभुजो रथोद्धताः । सा शृणोतु सुरमेदिनीपतेर्नेत्रचित्तमदनी विलासिनी ॥ ५५०॥ ॥ तृतीयो मौक्तिकमालापादः ॥ निर्मलभासां दिशि दिशि कर्ता पुण्यमतीनां हृदि हृदि धर्ता । पालयतान्मामनघविलासः शक्रमहिश्याः सितदरहासः ॥ ५५१॥ पुण्यचरित्रा मुनिजनगीता वासवकान्ता त्रिभुवनमाता । वत्सलभावादवतु विदूनां भारतभूमिं धनबलहीनाम् ॥ ५५२॥ कोटितटिद्वत्तव तनुकान्तिः पूर्णसमाधेस्तव हृदि शान्तिः । वासवभामे भगवति घोरः शत्रुविदारी तव भुजसारः ॥ ५५३॥ आश्रयभूतं सुमधुरताया आलयभूतं जलधिसुतायाः । वासवदृष्टेस्तवमुखमब्जं किङ्क्रदृष्टेस्तव पदमब्जम् ॥ ५५४॥ पादसरोजं वृजिनहरं ते यो भजते ना सुरपतिकान्ते । तत्र कटाक्षा अयि शतशस्ते तस्य समस्तं भगवति हस्ते ॥ ५५५॥ ज्ञापकशक्तिः प्रतिनरमस्तं कारकशक्तिः प्रतिनरहस्तम् । वासवचक्षुस्सुकृतफलश्रीर्भातु ममान्तः सुरभुवनश्रीः ॥ ५५६॥ मन्त्रपराणां वचसि वसन्ती ध्यानपराणां मनसि लसन्ती । भक्तिपराणां हृदि विहरन्ती भाति पराम्बा नभसि चरन्ती ॥ ५५७॥ सेवकपापप्रशमननामा दिक्तिमिरौघप्रमथनधामा । उज्ज्वलशस्त्रा रणभुवि भीमा पातु नतं मां हरिहयरामा ॥ ५५८॥ योगिनि शक्तिर्विलससि दान्तिः योषिति शक्तिर्विलससि कान्तिः । ज्ञानिनि शक्तिर्विलससि तुष्टिः धन्विनि शक्तिर्विलससि दृष्टिः ॥ ५५९॥ सङ्गिनि शक्तिर्विलससि निद्रा ध्यातरि शक्तिर्विलससि मुद्रा । वासवकान्ते गगननिशान्ते भाषितुमीशः क्व नु विभवं ते ॥ ५६०॥ यद्दितिजानां दमनमवक्रं केशवहस्ते विलसति चक्रम् । तत्र कला ते भगवति भद्रा काचन भारं वहति विनिद्रा ॥ ५६१॥ दुष्टनिशाटप्रशमनशीलं यत् सितभूभृत्पतिकरशूलम् । तत्र मर्महोंशस्तव जगदीशे राजति कश्चित्पटुररिनाशे ॥ ५६२॥ यन्निजरोचिक्र्ततरिपुसारं वासवहस्ते कुलिशमुदारम् । तत्र तवांशो विलसति दिव्यः कश्चन भासो भगवति भव्यः ॥ ५६३॥ अम्बरदेशे सुमहति गुप्ता पङ्क्जबन्धौ विलसति दीप्ता । राजसि मातर्हिमरुचिशीता वेदिकृशानौ क्रतुभृतिपूता ॥ ५६४॥ सूक्ष्मरजोभिर्विहितमुदारं यज्जगदेतन्न्गगनमपारम् । तत्तववेदः प्रवदति कायं पावनि भानुस्तव तनुजोऽयम् ॥ ५६५॥ ईश्वरि नैकस्तव खरतेजाः तेऽपि च सर्वे जननि तनूजाः । उज्वलखेटाः कुवदति कायाः पावनि कस्ते प्रवदतु मायाः ॥ ५६६॥ या महिमानं प्रथयति भूमिः पावनकीर्तिर्जलनिधिनेमिः । सेयमपीशे भवति सुपुत्री वासवजाये तव जनधात्री ॥ ५६७॥ अङ्ग सखायो विरमतसङ्गाश्वष्ठ्हर्विषयाणां कृतमतिभङ्गात् । ध्यायत चित्ते धुतभयबीजं वासवजायाचरणसरोजम् ॥ ५६८॥ पापमशेषं सपदि विहातुं शक्तिमनल्पामपि परिधातुम् । चेतसि साधो कुरु परिपूतं वासवजायापदजलजातम् ॥ ५६९॥ ईश्वरि वन्द्यद्युतिभृतिमेधे काङ्क्षितनीराण्यसृजति मोघे । निर्मलकीर्तेस्तव शचि गानं शक्ष्यति कर्तुं तदुदकदानम् ॥ ५७०॥ आमयवीर्याद्विगलति सारे जीवति किञ्चिद्रिसनगनीरे । रक्षति जन्तुं तव शचि नाम प्राज्ञजनैरप्यगणितधाम ॥ ५७१॥ मध्यमलोके स्यति शुचिरुग्रा राजसि नाके विभवसमग्रा । प्राणिशरीरे भवसि विचित्र वासवजाये विविधचरित्र ॥ ५७२॥ व्योम्नि वपुस्ते विनिहतपापं विश्रुतलीलं तव दिवि रूपम् । कर्मवशात्ते भवति स भोगः प्राणिशरीरे भगवति भागः ॥ ५७३॥ भारतभूमेः शुचमपहन्तुं श्रेष्ठमुपायं पुनरवगन्तुम् । वासवजाये दिश मम बुद्धिं पावनि माये कुरु कुरु सिद्धिम् ॥ ५७४॥ सम्मदयन्तीर्बुधजनमेताः स्वर्गधरित्रीपतिसतिपूताः । मौक्तिकमालाः शृणु नुतिकर्तुर्भक्तिनिबद्धाः कविकुलभर्तुः ॥ ५७५॥ ॥ चतुर्थः सुमुखीपादः ॥ अजितमिनाग्नितटिच्छशिभिः मम हृदयस्य तमः प्रबलम् । अमरपतिप्रमदाहसितं विमलघृणिप्रकरैर्हरतु ॥ ५७६॥ सुरनृपतेर्दयिता विनताहितशमनी लुलितामितरैः । वरकरुणावरुणालयदृङ्मम जननीमवतादवनिम् ॥ ५७७॥ पटुतपसो जमदग्निमुनेरिह सहधर्मचरीं भुवने । तनयनिकृत्तशिरः कमलां वरमतिमाविशदिन्द्रवधूः ॥ ५७८॥ यदुकुलकीर्तिविलोपभिया बतविनिगूह्य ऋतं कवयः । मुनिगृहिणी वधहेतुकथामितरपथेन भणन्ति मृषा ॥ ५७९॥ न सुरभिरर्जुनभूमिपतिर्भृगुतिलकस्य जहार स याम् । इयममृतांशुमनोज्ञमुखी परशुधरस्य जनन्यनघा ॥ ५८०॥ अतिरथमर्जुनभूमिपतिं सहपृतनं जमदग्निसुतः । युधि स विजित्य विशालयशाः पुनरपि मातरमाहृतवान् ॥ ५८१॥ परगृहवासकलङ्कवशान्निजगृहिणीं जमदग्निमुनिः । बतविनिहन्तुमना कलयंस्तनुभवमादिशदुग्रमनाः ॥ ५८२॥ पितृवचनादतिभक्तिमताप्यसुरवदात्मसुतेन हताम् । मुनिगृहिणीमनघेतिवदंस्तव वरदेऽविशदंश इमाम् ॥ ५८३॥ इदमविकम्प्यमतिप्रबलं प्रभवति कारणमार्यनुते । मुनिगृहिणीमनघां भणितुं शचि कलया यदि मामविशः ॥ ५८४॥ खलजनकल्पितदुष्टकथाश्रवणवशाद्व्यथितं हृदयम् । अथ चरितेऽवगते विमलस्मृतिवशतो मम याति मुदम् ॥ ५८५॥ तव महसा विशता कृपया मम शचि सूक्ष्मशरीरमिदम् । नृपरिपुमातृपवित्रकथा स्मरणपथं गमिता सपदि ॥ ५८६॥ विदधतुरासुरकृत्यमुभौ बहुलगुणामपि यद्गृहिणीम् । स मुनिरघातयदच्छकथां दशरथजश्च मुमोच वने ॥ ५८७॥ अपि विनिकृत्तशिराः शचि ते वरमहसा विशता सपदि । अलभत जीवितमम्ब पुनर्भुवनशुभाय मुनेस्तरुणी ॥ ५८८॥ यदि शिरसा रहिते वपुषि प्रकटतया विलसन्त्यसवः । यदि हृदयं सहभाति धिया किमिव विचित्रमितश्चरितम् ॥ ५८९॥ परशुधरस्य सवित्रि कला त्वयि पुरुहूतसरोजदृशः । स शिरसि काचिदभूद्रुचिरा विशिरसि भीमतमा भवति ॥ ५९०॥ परशुधरोऽर्जुनभूमिपतिं यदजयदम्ब तपोऽत्र तव । अभजत कारणतामनघे वरमुनिगेयपवित्रकथे ॥ ५९१॥ भगवति कृत्तशिरो भवती मथितवती नृपतीनशुभान् । प्रथनभुवि प्रगुणं भुजयोः परशुधराय वितीर्य बलम् ॥ ५९२॥ शुभतमकुण्डलपूर्वसतिः पदनतपातकसंशमनी । दिशतु निकृत्तशिराः कुशलं मम सुरपार्थवशक्तिकला ॥ ५९३॥ निजसुतरङ्गपतेर्निकटे कृतवसतिर्नतसिद्धिकरी । दलितशिराः प्रतनोतु मम श्रियममरेश्वरशक्तिकला ॥ ५९४॥ भुवि ततसह्यनगान्तरगे शुभतमचन्द्रगिरौ वरदा । कृतवसतिः कुरुतान्मम शं भृगूकुलरामजनन्यजरा ॥ ५९५॥ अवतु विकृत्तशिराः पदयोर्भजकमनिन्द्यविचित्रकथा । दिनकरमण्डलमध्यगृहा सुरधरणीपतिशक्तिकला ॥ ५९६॥ गगनचरार्चितपादुकया पदनतसन्मतिबोधिकया । मम सततं शुचिरेणुकया परवदिदं कुलमम्बिकया ॥ ५९७॥ शमयितुमुग्रतमं दुरितं प्रथयितुमात्मनिगूढबलम् । गमयितुमग्रय्दशां स्वकुलं तव चरणाम्बुजमम्ब भजे ॥ ५९८॥ परवशगामशिवेन वृतां भरतधरां परिपातुमिमाम् । पटुमतिवाक्क्रियमातनुताद्गणपतिमभ्रहयप्रमदा ॥ ५९९॥ गणपतिदेवमर्महोंशजुषो गणपतिनामकविप्रकवेः । सुरपतिजीवसखीशृणुयाद्दशशतपत्रमुखी सुमुखीः ॥ ६००॥ ॥ षष्ठं त्रैष्टुभं शतकं समाप्तम् ॥
॥ अथ सप्तमं जागतं शतकम् ॥ ॥ प्रथमो द्रुतविलम्बितपादः ॥ सुरमहीरमणस्य विलासिनी जलचरध्वजजीवितदायिनी । हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥ ६०१॥ नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता । परिधुनोतु शची भरतक्षितेर्वृजिनजालमजालमकम्पनम् ॥ ६०२॥ अतितरां नतपालनलोलया विबुधनाथमनोहरलीलया । किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥ ६०३॥ घनहिरण्यमदापहरोचिषा वनरुहाननयाऽवनदक्षया । गतिमदिन्द्रमनोरथनाथया भुवनमेव न मे कुलमात्रकम् ॥ ६०४॥ तनुषु वामनमूर्तिधरे विभौ तमनुयाच विराजति वामनी । शरणवाननयाम्बिकया लसत् करुणयाऽरुणया पदयोरहम् ॥ ६०५॥ सकरुणा कुशलं मम रेणुकातनुरजा तनुतादुदितो यतः । युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्रभुजामदान् ॥ ६०६॥ सुजनशत्रुरमाथि घनध्वनिः शचि सरात्रिचरस्तव तेजसा । जननि रामसहोदरसायकं प्रविशताऽविशतादधिकौजसा ॥ ६०७॥ तव महःकलयाबलमाप्तया जननि शुम्भनिशुम्भमदच्छिदा । जगदरक्ष्यत गोपकुलेशितुस्तनुजयाऽनुजयार्जुनसारथेः ॥ ६०८॥ न विनिरूपयितुं प्रबभूव यां कविजनो विविधं कथयन्नपि । मुनिहृदम्बुजसौधतलेन्दिरा जयति सा यतिसाधुजनावनी ॥ ६०९॥ इममयि त्रिदिवेश्वरि कल्किनं रुषमपोह्य सवित्रि विलोकितैः । सुरपतेर्द्विषतोऽघवतो लसन् मदनकैरवकैरवलोचने ॥ ६१०॥ स्मरदमर्त्यनृपालविलासिनीं प्रबलपातकभीतिविनाशिनीम् । प्रवणयान्तरनन्यधिया लसद्विनययानययामवतीर्मनः ॥ ६११॥ भगवतीगगनस्थलचारिणी जयति सङ्गररङ्गविहारिणी । सुकृतशत्रुमतिभ्रमकारिणी हरिहयारिहयादिविदारिणी ॥ ६१२॥ शरणवानहमर्जुनहासया भुवनभूपतिहारिविलासया । दिवि पुलोमजया धवलाचले गिरिजयाऽरिजयावितदेवया ॥ ६१३॥ चरणयोर्धृतया विजयामहे वयमशेषजगन्नृपजायया । दिवि पुलोमजया धवलाचले नगजया गजयानविलासया ॥ ६१४॥ अरिवधाय विधाय बुधाधिपं पटुभुजाबलभीषणमाजिषु । न भवती शचि गच्छति दुर्गतः क्वचन काचन कातरधीरिव ॥ ६१५॥ सपदि मानसधैर्यहृतो जगज्जननि वज्रतनोर्ज्वलितार्चिषः । अरिजने प्रथमं तव वीक्षया सुरपतेरपतेजसि वि क्रमः ॥ ६१६॥ न मननोचितमस्ति परं नृणां विबुधराजवधूपदपद्मतः । जगति दर्शनयोग्यमिहापरं न रमणी रमणीयमुखाब्जतः ॥ ६१७॥ शरणवानहमस्मि पुरातनप्रमदया मुनिगेयचरित्रया । स्वबलचालितनाकजगन्नभो वसुधया सुधया सुरराड्दृशाम् ॥ ६१८॥ अयमहं गतिमानतिशान्तया त्रिदिवभूमिपतिप्रियकान्तया । मनसि मौनिजनैरतिभक्तितो निहितया हितया सुकृतात्मनाम् ॥ ६१९॥ विनयतः स्तुतया गमयाम्यहं जनिमतां जनयित्रि निशास्त्वया । प्रसृतया कुलकुण्डधनञ्जयाद्धृततनूततनूतनवेगया ॥ ६२०॥ सकृदमोघसरस्वतिसाधुधी हृदयवेद्यपदाम्बुजसौष्ठवे । मम शिवं सुमनः पृथिवीपतेः सुवदने वद नेत्रलसद्दये ॥ ६२१॥ दुरवगाहपथे पतितं चिराज्जननि गम्यविलोकनलालसम् । स्वयममर्त्यनृपालमनोरमे सुनयने नयनेयमिमं जनम् ॥ ६२२॥ अवतु नः स्वयमेव पटून् विपद्विमथनाय विधाय बुधेश्वरी । सकलमर्मसुवीतदयैः परैर्विनिहतानिह तापवतः शची ॥ ६२३॥ सुरधरापतिजीवितनाथया स्वजननक्षितिरक्षणकर्मणि । पटुतमो जन एष विधीयतामिह तया हतया तु समूहया ॥ ६२४॥ गणपतेः शृणुयादिममुज्वलं द्रुतविलम्बितवृत्तगणं शची । सलिलराशिसुताभवनीभवद्भुवनपावनपादसरोरुहा ॥ ६२५॥ ॥ द्वितीयो जलोद्धतगतिपादः ॥ हरित्सु परितः प्रसादमधिकं दधानममलत्विषां प्रसरणैः । महेन्द्रमहिलाविलासहसितं मदन्तरतमो धुनोतु विततम् ॥ ६२६॥ प्रसूस्त्रिजगतः प्रिया मघवतः कृपाकलितया कटाक्षकलया । नितान्तमगतेर्विकुण्ठितमतेर्धुनोतु भरतक्षितेरकुशलम् ॥ ६२७॥ पुरा शचि मतिस्त्वमीशितुरथो नभस्तनुमिता पृथङ्मतिमती । अनन्तरमभूः सरोजनयना तनुः सुरपतेर्विलोचनसुधा ॥ ६२८॥ परत्र विगुणा सतोऽसि धिषणा नभस्तनुरिह प्रपञ्चमवसि । असि स्वरबला प्रिया सुरपतेरियत्तव शचि स्वरूपकथनम् ॥ ६२९॥ प्रजापतिपदे पुराणपुरुषे स्मृता त्वमदितिः सुरासुरनुते । जनार्दनपदे रमासि परमे सदाशिवपदे शिवा त्वमजरे ॥ ६३०॥ उषा इनपदे स्वधाऽनलपदे पुरन्दरपदे त्वमीश्वरि शची । यथा रुचिविदुः पदानि कवयश्चितैश्च चितिमान्युवामृजुगिरा ॥ ६३१॥ अमेयममलं पुराणपुरुषं तदीयविभवाभिधायिभिरिमे । वदन्ति कवयः पदैर्बहुविधैस्तथैव भवतीं ततो मतभिदाः ॥ ६३२॥ नभश्च पवनः स्वरश्च परमस्तटिच्च वितता पतिश्च महसाम् । सुधांशुरनलो जलं च पृथिवी सवित्रि युवयोर्विभूतिपटली ॥ ६३३॥ अपारबहुलप्रमोदलहरी सतः किलचितिः परत्र वितता । पुनर्वियदिदं परीत्य निखिलं जगन्ति दधती परा विजयते ॥ ६३४॥ न यद्यपि परात्परे नभसि ते सरोजनयना वपुः पृथगजे । तथापि नमतां मतीरनुसरन्त्यमेयविभवे दधासि च तनूः ॥ ६३५॥ सह त्रिभुवनप्रपालनकृता समस्तमरुतां गणस्य विभुना । सदा शशिमुखी शरीरभृदजा जगत्यदुरिते शची विजयते ॥ ६३६॥ कुलं बहुभिदं बलं न भुजयोः कथं नु विपदस्तरेम भरताः । समर्थमधुना विपद्विधुतये तवाम्ब चरणं व्रजामि शरणम् ॥ ६३७॥ समस्तमपि च स्वदेशविदुषां विधानपटलं बभूव विफलम् । अभाग्यदमनक्षमं तदधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३८॥ निजो मम जनो नितान्तमगतिर्न कुक्षिभरणेऽप्ययं प्रभवति । महेश्वरि कृपामरन्दमधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३९॥ अदृष्टकनकं कुलं मम चिरान्निरायुधमिदं निराशमभितः । स्वभावत इव प्रबद्धमभवत्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४०॥ अवीरचरितं विपालककथं निरार्षविभवं चिरान्मम कुलम् । इदं मम मनो निकृन्तति मुहुस्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४१॥ चिरात्स्मृतिपथादपि च्युतमजे तपोबलभवं तमार्षविभवम् । स्वदेशमधुना पुनर्गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४२॥ हतं च विहतं धुतं च विधुतं रुदन्तमभितो विशिष्टकरुणे । इमं स्वविषयं शिवं गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४३॥ क्षयाय सुकृतद्विषां विहरतां शिवाय च सतां प्रपञ्चसुहृदाम् । निजस्य मनसो बलाय च परे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४४॥ जयत्सु सुकृतं द्विषत्सु परितः सतामपि कुले बलेन रहिते । खलप्रिययुगे कलौ परिणते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४५॥ अभाति सुकृते निगूढविभवे विभाति दुरिते फलानि दिशति । विधानविकले मनस्यभयदे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४६॥ पटौ प्रतिभटे गदे प्रतिभये नतावनविधावतीव निपुणम् । सुपर्वभुवनक्षितीशदयिते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४७॥ अमर्त्यपटलीकिरीटमणिभाभुजङ्गकिरणं नितान्तमरुणम् । विपत्तिदमनं तमः प्रशमनं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४८॥ विनष्टविभवामिमां पुनरपि श्रियाविलसितां विधातुमजरे । स्वजन्मपृथिवीं स्वरीशदयिते दिशेर्गणपतेः कराय पटुताम् ॥ ६४९॥ सुपर्ववसुधाधिनाथसुदृशो जलोद्धतगतिस्तवोऽयमनघः । कृतिर्गणपतेः करोतु विधुतिं भयस्य भरतक्षमातलजुषाम् ॥ ६५०॥ ॥ तृतीयः प्रमिताक्षरपादः ॥ उदितं महेन्द्रमहिलावदने प्रसृतं करैर्दिशि दिशि प्रगुणैः । अहितं तमः प्रशमयद्यमिनां हसितं करोतु मम भूरि शिवम् ॥ ६५१॥ भरतक्षितेस्तिमिरमाशु हरत्वरिचातुरीकृतविमोहमतेः । रविलक्षतोऽप्यधिकमंशुमती पविपाणिचित्तदयिता वनिता ॥ ६५२॥ शशिलक्षशीतलकटाक्षसुधा तरुणार्ककोटिरुचिपादयुगा । हृदि मे विभातु मुनिगेयगुणा विबुधेन्द्रचित्तरमणी तरुणी ॥ ६५३॥ कमनीयदीप्तसुकुमारतनुर्मननीयपावनपदाम्बुरुहा । विदधातु मे शिवमसद्विमुखी विबुधेन्द्रजीवितसखी सुमुखी ॥ ६५४॥ अनुमानमूढपितृवाक्यवशात्तनयेन देवि विनिकृत्तशिराः । तव रेणुका विलसिता कलया गणनीयशक्तिरभवद्दशसु ॥ ६५५॥ सकलामयप्रशमनं दुरितक्षयकारिकाङ्क्षितकरं च भवेत् । सुरसुन्दरी जनसमर्चतयोर्हृदि रेणुकाचरणयोः करणम् ॥ ६५६॥ विनिहन्ति पापपटलं स्मरणाद्विधुनोति रोगनिवहं भजनात् । विदघाति वाञ्छिततफलं स्तवनान्मनुजस्य रामजननी चरणम् ॥ ६५७॥ शरणं व्रजामि नवरव्यरुणं चरणं तवाम्ब नृपजातिरिपोः । भरतक्षितेरवनतः प्रथमं मरणं ममेह न भवत्वधमम् ॥ ६५८॥ स्मरणं चिरादविरतं विदधच्चरणस्य ते तरुणभानुरुचः । अयमस्तु रामजनयित्रिपटुः सुरकार्यमार्यविनुते चरितुम् ॥ ६५९॥ अव भारतक्षितिममोघदये करणं भवत्विह तवैष जनः । निजयोः सवित्रि चरणाम्बुजयोर्न विहातुमर्हसि चिराद्भजकम् ॥ ६६०॥ अविशस्त्वमिन्द्रदयिते किलतामपि यज्ञसेनतनयां कलया । अनघव्रतासु कवयः प्रथमां प्रवदन्ति यां बहुलवन्द्यगुणाम् ॥ ६६१॥ भुवि भारतं पठति यः सुकृती कलुषं धुनोति सकलं किल सः । इयमम्ब शक्तिकुलराज्ञि तव द्रुपदस्य नन्दिनि कथामहिमा ॥ ६६२॥ अभिमन्युमातरमनल्पगुणामतिलङ्घ्य चैक्षत हरिर्भवतीम् । अतिसौहृदेन यदिहार्यनुते तव हेतुरीड्यतमशक्तिकला ॥ ६६३॥ गृहकार्यतन्त्रचतुरा गृहीणी सकलीन्द्रियामृतझरी रमणी । वरनीतिमार्गकथने सचिवोऽप्यभवस्त्वमम्ब कुरु वंशभृताम् ॥ ६६४॥ न युधिष्ठिरस्य वरघोरतपो न धनञ्जयस्य पटु बाहुबलम् । अरिसङ्क्षयं कृतवती बहुलं तव वेणिकाऽपचरिता फणिनी ॥ ६६५॥ असितापि कान्तिवसतिर्महती वनिताजनस्य च विमोहकरी । कुशलं ममाभ्रपतिशक्तिकला द्रुपदक्षितीन्द्रदुहिता दिशतु ॥ ६६६॥ शिरसा समस्तजनपापभरं वहतो भवाय भुवि यामवृणोत् । अमराधिपः पतितपावनि तां भुवि कन्यकां तव विवेश कला ॥ ६६७॥ कलया तवातिबलया कलिता पुरुषस्य योगमखिलाम्ब विना । अखिलेश्वरप्रहिततेज इयं सुतजन्मने किल दधावनघा ॥ ६६८॥ सुररक्षकस्य मदयित्रि दृशां नररक्षकस्य जनयित्रि परे । कुलरक्षणाय कृतबुद्धिमिमं कुरु दक्षमद्भुतपवित्रकथे ॥ ६६९॥ मुमुचुः कुले मम सुपर्वपतेस्तव चाभिधेयमिह मन्दधियः । अपराधमेतमतिघोरतरं जननि क्षमस्व मम वीक्ष्य मुखम् ॥ ६७०॥ इह शारदेति यतिभिर्विनुता प्रथिता सुरेश्वरमनोदयिता । भुवि भाति कीर्तिवपुषा शचि या सुकथापि सा तव सवित्रि कला ॥ ६७१॥ अरुणाचलेश्वरदरीवसतेस्तपतो मुनेर्गणपतेः कुशलम् । विविधावतारविलसच्चरिता वितनोतु सा विबुधराड्वनिता ॥ ६७२॥ अरुणाचलस्य वरकन्दरया प्रतिघोषितं कलुषहारि यशः । विबुधाधिनाथरमणी शृणुयाद्गणनाथगीतमतिचारुनिजम् ॥ ६७३॥ भरतक्षितेः शुभविधायिषु सा विबुधक्षितीशदयिता दयया । धनशक्तिबन्धुबलहीनमपि प्रथमं करोतु गणनाथमुनिम् ॥ ६७४॥ मुदितामिमा विदधतु प्रमदां त्रिदिवाधिपस्य निपुणश्रवणाम् । अमितप्रकाशगुणशक्तिमजां प्रमिताक्षराः सुकविभूमिपतेः ॥ ६७५॥ ॥ चतुर्थस्तामरसपादः ॥ दिशतु शिवं मम चन्द्रवलक्षस्तिमिरसमूहनिवारणदक्षः । कृतगतिरोधकपातकनाशः सुरधरणीशवधूस्मितलेशः ॥ ६७६॥ अविदितमार्गतयातिविषण्णां गतिमपहाय चिराय निषण्णाम् । भरतधरामनिमेषधरत्री पतिगृहिणी परिपातु सवित्री ॥ ६७७॥ भुवनमिदं भवतः किल पूर्वं यदमलरूपमनाकृतिसर्वम् । प्रकृतिरियं कुरुताददरिद्रामतिमतिशाततरां मम भद्रा ॥ ६७८॥ सृजति जगन्ति विभौ परमे या सुबहुलशक्तिरराजत माया । प्रदिशतु सा मम कञ्चन योगं झटिति निराकृतमानसरोगम् ॥ ६७९॥ प्रतिविषयं विकृतीतर सत्ता विलसति या मतिमद्भिरुपात्ता । इयमनघा परिपालितजातिं वितरतु मे विविधां च विभूतिम् ॥ ६८०॥ प्रतिविषयग्रहणं परिपूतामतिरखिलस्य जनस्य च माता । मम विदधातु शुभं शुभनामा त्रिदिवनिवासिनरेश्वररामा ॥ ६८१॥ गगनतनुर्जगतो विपुलस्य प्रभुपदमग्रय्मिता सकलस्य । प्रतिजनदेहमजा प्रवहन्ती मम हृदि नन्दतु सा विहरन्ती ॥ ६८२॥ पटुकुलकुण्डधनञ्जयकीला समुदितहार्दविभाकरलीला । द्रुतशिर इन्दुकलामृतधारा जनमवतान्निजभक्तमुदारा ॥ ६८३॥ विषयसमाकृतिरत्र पुरस्ताद्विमलतमा किल तत्र परस्तात् । भुवनमयी भुवनाच्च विभक्तामतिरनघाऽवतु मामतिशक्ता ॥ ६८४॥ विषयपरिग्रहणेष्वतिसक्ता विषयविभूतिषु कापि विविक्ता । अखिलपतेर्मयि दीव्यतु शक्तिर्विमलतमा विधुतेतरशक्तिः ॥ ६८५॥ दृशि दृशि भाति यदीयमपापं दिशि दिशि गन्तृ च वेत्तृ च रूपम् । भवतु शिवाय ममेयमनिन्द्या भुवनपतेर्गृहिणी मुनिवन्द्या ॥ ६८६॥ जडकुलकुण्डदरीषु शयाना बुधकुलवह्निषु भूरिविभाना । हरिहयशक्तिरमेयचरित्र मम कुशलं विदधातु पवित्र ॥ ६८७॥ दहरगताखिलमाकलयन्ती द्विदलगता सकलं विनयन्ती । दशशतपत्रगता मदयन्ती भवतु मयीन्द्रवधूर्विलसन्ती ॥ ६८८॥ गृहयुगलीश्रिय आश्रितगम्या पदकमलद्वितयी बहुरम्या । मम हृदि भात्वविकुण्ठितयाना हरिसुदृशस्तरुणारुणभाना ॥ ६८९॥ उपरि तता कुलकुण्डनिशान्ताज्ज्वलितधनञ्जयदीधितिकान्तात् । हरिहयशक्तिरियं मम पुष्टा द्रवयतु मस्तकचन्द्रमदुष्टा ॥ ६९०॥ नभसि विराजति या परशक्तिर्मम हृदि राजति या वरशक्तिः । उभयमिदं मिलितं बहुवीर्यं भवतु सुखं मम साधितकार्यम् ॥ ६९१॥ त्रिभुवनभूमिपतेः प्रिययोषा त्रिमलहरी सुरविष्टपभूषा । मम वितनोतु मनोरथपोषं दुरितविपत्तिततेरपि शोषम् ॥ ६९२॥ पवनजगत्प्रभुपावनमूर्तिर्जलधरचालनविश्रुतकीर्तिः । मम कुशलाय भवत्वरिभीमा जननवतां जननी बहुधामा ॥ ६९३॥ मम सुरराजवधूकलयोग्रा खलजनधूननशक्तनखाग्रा । दमयतु कृत्तशिराः कलुषाणि प्रकटबला हृदयस्य विषाणि ॥ ६९४॥ कुलिशिवधूकलया परिपुष्टा बुधनुतसन्नुणजालविशिष्टा । मम परितो विलसद्विभवानि द्रुपदसुता विदधातु शिवानि ॥ ६९५॥ सुरजनराड्दयितांशविदीप्ते पदकमलाश्रितसाधुजनाप्ते । दुरितवशादभितो गतभासं मनुजकुमारजनन्यवदासम् ॥ ६९६॥ अमरनरेश्वरमन्दिरनेत्री सुमशरजीवनसुन्दरगात्री । भवतु शची विततस्वयशस्सु प्रतिफलिता गणनाथवचस्सु ॥ ६९७॥ विकसतु मे हृदयं जलजातं विलसतु तत्र शचीस्तुतिगीतम् । स्फुरतु समस्तमिहेप्सितवस्तु प्रथिततमं मम पाटवमस्तु ॥ ६९८॥ कुरु करुणारससिक्तनिरीक्षे वचनपथातिगसन्नुणलक्षे । शचि नरसिंहजमाहितगीतं भरतधरामवितुं पटुमेतम् ॥ ६९९॥ सुललिततामरसैः प्रसमाप्तं वरनुतिबन्धमिमं श्रवणाप्तम् । जननि निशम्य सुसिद्धमशेषं हरिललने मम कुर्वभिलाषम् ॥ ७००॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतौ इन्द्राणीसप्तशती समाप्ता ॥ Complete Works of Ganapati Muni Vol 02-14 Proofread byDPD

% Text title            : indrANIsaptashatI
% File name             : indrANIsaptashatI.itx
% itxtitle              : indrANIsaptashatI
% engtitle              : indrANIsaptashatI
% Category              : shatI, devii, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Description-comments  : Complete Works of Ganapati Muni Vol 02-14
% Indexextra            : gaNapatimunivirachitam
% Latest update         : September 7, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP