श्रीकामाक्षीपञ्चशती नामावलिः
विनियोगः -
अथ अस्य श्रीकामाक्षीपञ्चशतीस्तोत्रमहामन्त्रस्य
मन्त्रिण्यादि शक्तयः ऋषयः, अनुष्टुप्छन्दः, श्रीकामाक्षी देवता,
ॐ ऐं वाग्भवकूटेन बीजं, श्रीकामाक्ष्यै क्लीं मध्यकूटेन शक्तिः,
नमः सौः शक्तिकूटेन कीलकं, मम श्रीकामाक्षीप्रसादसिद्ध्यर्थे
नामपारायणे जपे विनियोगः ॥
करन्यासः -
ॐ कां अङ्गुष्ठाभ्यां नमः । ॐ कीं तर्जनीभ्यां नमः ।
ॐ कूं मध्यमाभ्यां नमः । ॐ कैं अनामिकाभ्यां नमः ।
ॐ कौं कनिष्ठिकाभ्यां नमः । ॐ कः करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः -
ॐ कां हृदयाय नमः । ॐ कीं शिरसे स्वाहा ।
ॐ कूं शिखायै वषट् । ॐ कैं कवचाय हुम् ।
ॐ कौं नेत्रत्रयाय वौषट् । ॐ कः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम्-
कामाक्षीं कारणपरचिद्रूपां करुणात्मिकाम् ।
काञ्चीक्षेत्रगतां चन्द्रकलालङ्कृतशेखराम् ॥
कल्हारोल्लासिचिकुरां कर्णान्तायतलोचनाम् ।
मन्दस्मेराञ्चितमुखीं तपनोडुपकुण्डलाम् ॥
कम्बुकण्ठीं घनकुचां मुक्तामालाशतावृताम् ।
लम्बवामकराम्भोजां दक्षहस्तलसच्छुकाम् ॥
अदृश्यमध्यामरुणचेलामब्जपदोज्ज्वलाम् ।
सचामररमावाणीसेवितांश्रितवत्सलाम् ॥
सुवर्णतनुमेकाम्रनायकोत्सङ्गवासिनीम् ।
ध्यायामि वरदां देवीं सदानन्दस्वरूपिणीम् ॥
मानसिकपञ्चोपचारपूजा -
ॐ लं पृथिव्यात्मिकायै श्रीकामाक्ष्यै गन्धं कल्पयामि ।
ॐ हं आकाशात्मिकायै श्रीकामाक्ष्यै पुष्पाणि कल्पयामि ।
ॐ यं वाय्वात्मिकायै श्रीकामाक्ष्यै धूपं कल्पयामि ।
ॐ रं अनलात्मिकायै श्रीकामाक्ष्यै दीपं कल्पयामि ।
ॐ वं अमृतात्मिकायै श्रीकामाक्ष्यै अमृतनिवेदनं कल्पयामि ।
ॐ सं सर्वात्मिकायै श्रीकामाक्ष्यै सर्वानुपचारान् कल्पयामि ॥
अथ नामावलिः ।
ॐ कामाक्ष्यै नमः ।
ॐ करुणामूर्त्यै नमः ।
ॐ कल्याणगिरिमन्दिरायै नमः ।
ॐ चिदग्निजातायै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ श्रितसंरक्षणोद्यतायै नमः ।
ॐ बालार्ककोटिरुचिरवपुस्सन्नद्धयौवनायै नमः ।
ॐ आघृष्टपद्मरागाश्मनिष्पन्नमकुटोज्ज्वलायै नमः ।
ॐ स्फुरच्चन्द्रकलाक्लृप्तचूडापीडविराजितायै नमः ।
ॐ सीमन्तरेखारचितसिन्दूरश्रेणिमञ्जुलायै नमः । १०
ॐ स्फुरत्कस्तूरितिलककन्दलन्नीलकुन्तलायै नमः ।
ॐ कदम्बमञ्जरिलसत्कर्णपूरमनोहरायै नमः ।
ॐ भ्रूवल्लीस्मरकोदण्डसायकीभूतलोचनायै नमः ।
ॐ मार्ताण्डमण्डलाकाररत्नकुण्डलमण्डितायै नमः ।
ॐ विशङ्कटारालकेशकर्णिकाकोशनासिकायै नमः ।
ॐ लसन्मुक्तामणिभ्राजन्नासाभरणभासुरायै नमः ।
ॐ कस्तूरीक्लृप्तमकरिकादि राजत्कपोलभुवे नमः ।
ॐ लाक्षालक्ष्मीनिर्व्यपेक्षपाटलोष्ठपुटाञ्चितायै नमः ।
ॐ कुन्दकोरकसश्रीकदन्तपङ्क्तिविराजितायै नमः ।
ॐ अतर्क्यौपम्यचुबुकायै नमः । २०
ॐ मुग्धस्मेरमुखाम्बुजायै नमः ।
ॐ नितम्बलम्बमानत्रिवेणीचूलात्तछालिकायै नमः ।
ॐ शिरीषकोमलभुजविभ्राजत्कनकाङ्गदायै नमः ।
ॐ लम्बवामकराम्भोजायै नमः ।
ॐ दक्षहस्तलसच्छुकायै नमः ।
ॐ नानामणीगणलसत्सुवर्णकृतकङ्कणायै नमः ।
ॐ पाशाङ्कुशधनुर्बाणलसत्पाणितलोज्ज्वलायै नमः ।
ॐ रत्नाङ्गुलीयसन्दोहरमणीयकराङ्गुल्यै नमः ।
ॐ लोलचिन्ताकपदकमुक्तावलिलसद्गलायै नमः ।
ॐ गन्धकस्तूरिकर्पूरकुङ्कुमालङ्कृतस्तनायै नमः । ३०
ॐ स्तनभूधरसन्नद्धसोपानत्रिवलीयुतायै नमः ।
ॐ नवीनरोमलतिकाजितकादम्बिनीद्युत्यै नमः ।
ॐ अर्धोरुकग्रन्थिलसद्रत्नकाञ्चीगुणान्वितायै नमः ।
ॐ सौन्दर्यपूरविलसदावर्तायितनाभिकायै नमः ।
ॐ जपाकुसुमसच्छायपट्टांशुकपरीवृतायै नमः ।
ॐ जघनाभोगसुभगपृथुश्रोणीभरालसायै नमः ।
ॐ एकाम्रनायकोत्सङ्गकाम्योरुमहिमोच्छ्रयायै नमः ।
ॐ करीन्द्रकुम्भकठिनजानुद्वयविराजितायै नमः ।
ॐ स्मरकाण्डीरतूणीरसम्प्रदायकजङ्घिकायै नमः ।
ॐ स्फुरन्माणिक्यमञ्जीररञ्जिताङ्घ्रिसरोरुहायै नमः । ४०
ॐ कमठीकर्परतटीकठोरप्रपदान्वितायै नमः ।
ॐ यावकश्रीनिर्व्यपेक्षपादलौहित्यवाहिन्यै नमः ।
ॐ हरीन्द्रमुखकोटीरतटीघटितपादुकायै नमः ।
ॐ सौन्दर्यलहरीसीमसर्वावयवपाटलायै नमः ।
ॐ मरालीलालितगत्यै नमः ।
ॐ रामणीयकशेवध्यै नमः ।
ॐ सर्वशृङ्गारवेषाढ्यायै नमः ।
ॐ सर्वावगुणवर्जितायै नमः ।
ॐ मोहिताशेषजगत्यै नमः ।
ॐ मोहिनीरूपधारिण्यै नमः । ५०
ॐ महामाय्यै नमः ।
ॐ पराशक्त्यै नमः ।
ॐ मदिरारुणलोचनायै नमः ।
ॐ सम्पत्करीमहासेनासमृद्धायै नमः ।
ॐ सम्पदुन्नतायै नमः ।
ॐ अनेककोटिदैत्येन्द्रगर्वनिर्वापणोल्बणायै नमः ।
ॐ चक्रराजरथारूढचक्रिणीचक्रनायिकायै नमः ।
ॐ मन्त्रिणीसेवितपदायै नमः ।
ॐ मन्त्रतन्त्राधिदेवतायै नमः ।
ॐ अश्वारूढासमाराध्यायै नमः । ६०
ॐ विश्वातीतायै नमः ।
ॐ विरागिण्यै नमः ।
ॐ बालासमेतायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ कालातीतायै नमः ।
ॐ कलावत्यै नमः ।
ॐ दण्डनाथसमासेव्यायै नमः ।
ॐ भण्डासुरवधोद्यतायै नमः ।
ॐ कामराजप्रियायै नमः ।
ॐ कामसञ्जीवनमहौषध्यै नमः । ७०
ॐ ब्रह्मादि दैवताराध्यायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ बृहत्तनवे नमः ।
ॐ चापिन्यै नमः ।
ॐ चन्दनालिप्तायै नमः ।
ॐ चन्द्रविद्यायै नमः ।
ॐ पराङ्कुशायै नमः ।
ॐ मनुविद्यायै नमः ।
ॐ महाराज्ञ्यै नमः ।
ॐ महाविद्यायै नमः । ८०
ॐ महीयस्यै नमः ।
ॐ सिंहासनेश्यै नमः ।
ॐ सिन्दूररुच्यै नमः ।
ॐ सूर्याभिवन्दितायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सुदत्यै नमः ।
ॐ सुभ्रुवे नमः ।
ॐ वन्दारुजनवत्सलायै नमः ।
ॐ समानाधिकशून्यार्घायै नमः ।
ॐ सकलार्थप्रदायिन्यै नमः । ९०
ॐ सम्राज्ञ्यै नमः ।
ॐ सान्द्रकरुणायै नमः ।
ॐ सनकादि मुनिस्तुतायै नमः ।
ॐ महादेव्यै नमः ।
ॐ महेशान्यै नमः ।
ॐ महेश्वरपतिव्रतायै नमः ।
ॐ लोपामुद्रागस्त्यनुतायै नमः ।
ॐ लोभघ्न्यै नमः ।
ॐ लोभवर्जितायै नमः ।
ॐ पावन्यै नमः । १००
ॐ पशुपाशघ्न्यै नमः ।
ॐ पश्यन्त्यै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ कदम्बकलिकोत्तंसायै नमः ।
ॐ कामेश्यै नमः ।
ॐ कामपूजितायै नमः ।
ॐ नन्दिविद्यायै नमः ।
ॐ आनन्दमय्यै नमः ।
ॐ नीलस्निग्धाब्जलोचनायै नमः ।
ॐ कल्याण्यै नमः । ११०
ॐ कामरहितायै नमः ।
ॐ कामदायै नमः ।
ॐ कामकोटिकायै नमः ।
ॐ चराचरजगद्धात्र्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रवर्तिन्यै नमः ।
ॐ शिरीषसुकुमाराङ्ग्यै नमः ।
ॐ शितिकण्ठप्रियायै नमः ।
ॐ शिवायै नमः ।
ॐ अनङ्गवल्लभायै नमः । १२०
ॐ अनङ्गशास्त्रसिद्धान्तमञ्जर्यै नमः ।
ॐ कुबेरविद्यायै नमः ।
ॐ कुलजायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ कुलाङ्गनायै नमः ।
ॐ त्रिकूटस्थायै नमः ।
ॐ कुरङ्गाङ्ककलाधरायै नमः ।
ॐ दुर्वासःपूजितायै नमः ।
ॐ दुःखहन्त्र्यै नमः । १३०
ॐ दुर्मतिदूरगायै नमः ।
ॐ आम्नायनाथायै नमः ।
ॐ नाथेश्यै नमः ।
ॐ सर्वाम्नायनिवासिन्यै नमः ।
ॐ सर्वारुणायै नमः ।
ॐ सङ्गहीनायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ ब्रह्मगीतायै नमः ।
ॐ ब्रह्ममय्यै नमः । १४०
ॐ ब्रह्मानन्दरसात्मिकायै नमः ।
ॐ निरामयायै नमः ।
ॐ निरानन्दायै नमः ।
ॐ निर्द्वन्द्वायै नमः ।
ॐ निरहङ्कृत्यै नमः ।
ॐ निगमादृष्टचरणायै नमः ।
ॐ निराधारायै नमः ।
ॐ निरीश्वर्यै नमः ।
ॐ नियन्त्र्यै नमः ।
ॐ नियत्यै नमः । १५०
ॐ नित्यायै नमः ।
ॐ निराशायै नमः ।
ॐ निरपायिन्यै नमः ।
ॐ अखण्डानन्दभरितायै नमः ।
ॐ खण्डत्रयपरिष्कृतायै नमः ।
ॐ काञ्चीक्षेत्रगतायै नमः ।
ॐ कामपीठस्थायै नमः ।
ॐ कामपूजितायै नमः ।
ॐ महाश्मशाननिलयायै नमः ।
ॐ गायत्रीमण्टपेश्वर्यै नमः । १६०
ॐ कैलासनाथदयितायै नमः ।
ॐ कम्पातीरविहारिण्यै नमः ।
ॐ अविच्छिन्नानन्दमूर्त्यै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ अपराजितायै नमः ।
ॐ अगम्यायै नमः ।
ॐ गगनाकारायै नमः ।
ॐ प्रकृतिप्रत्ययात्मिकायै नमः ।
ॐ अवेद्यायै नमः ।
ॐ वेद्यविज्ञात्र्यै नमः । १७०
ॐ पञ्चकृत्यपरायणायै नमः ।
ॐ सृष्टिस्थितिक्षयतिरोधानानुग्रहकारिण्यै नमः ।
ॐ ब्रह्मगोविन्दादि पञ्चप्रेतमञ्चाधिवासिन्यै नमः ।
ॐ तमोऽतीतायै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ तत्त्वातत्त्वविवेचिन्यै नमः ।
ॐ सर्वतत्त्वमय्यै नमः ।
ॐ सर्वभूतिदायै नमः ।
ॐ समयप्रियायै नमः ।
ॐ जिताखिलेन्द्रियग्राममानसाम्बुजहंसिकायै नमः । १८०
ॐ सुरासुरगणाराध्यायै नमः ।
ॐ सदसद्रूपिण्यै नमः ।
ॐ सत्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चारुवदनायै नमः ।
ॐ खण्डितारातिमण्डलायै नमः ।
ॐ अगस्त्यविद्यासंसेव्यायै नमः ।
ॐ नन्दिताशेषविष्टपायै नमः ।
ॐ संविदे नमः ।
ॐ सत्यमय्यै नमः । १९०
ॐ सौम्यायै नमः ।
ॐ दुर्निरीक्ष्यायै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ त्रिकालस्थायै नमः ।
ॐ त्रिकोणस्थायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणास्पदायै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यज्ञभोक्त्र्यै नमः ।
ॐ कार्याकार्यविचक्षणायै नमः ।
ॐ नामरूपादि रहितायै नमः ।
ॐ वामदक्षाध्वपूजितायै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विद्येश्यै नमः ।
ॐ वेदरूपिण्यै नमः ।
ॐ आदिमध्यान्तरहितायै नमः ।
ॐ सर्वशक्तिस्वरूपिण्यै नमः ।
ॐ अतर्क्यमूर्तये नमः ।
ॐ अजितायै नमः । २१०
ॐ प्रधानायै नमः ।
ॐ अतर्क्यवैभवायै नमः ।
ॐ चिदूर्मिमालायै नमः ।
ॐ सञ्चिन्त्यायै नमः ।
ॐ चिन्तितार्थप्रदायिन्यै नमः ।
ॐ चिन्तामणिगृहान्तस्थायै नमः ।
ॐ चित्रकर्मायै नमः ।
ॐ चिरन्तन्यै नमः ।
ॐ मोहहन्त्र्यै नमः ।
ॐ मोक्षदात्र्यै नमः । २२०
ॐ मुग्धचन्द्रावतंसिन्यै नमः ।
मुद्रेशीन्यस्तराज्यश्रिये
ॐ मृदुमुग्धस्मिताननायै नमः ।
ॐ क्रोडीकृताशेषघृणायै नमः ।
ॐ कोमलाङ्ग्यै नमः ।
ॐ कुटुम्बिन्यै नमः ।
ॐ षडङ्गदेवतासेव्यायै नमः ।
ॐ षडानननमस्कृतायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवमय्यै नमः । २३०
ॐ शिवमायायै नमः ।
ॐ शिवाङ्कगायै नमः ।
ॐ षडूर्मिहन्त्र्यै नमः ।
ॐ तरुण्यै नमः ।
ॐ वन्द्यायै नमः ।
ॐ षट्चक्रनायिकायै नमः ।
ॐ माधव्यै नमः ।
ॐ माधवाराध्यायै नमः ।
ॐ माधवीकुसुमप्रियायै नमः ।
ॐ ब्रह्मविष्ण्वादिजनन्यै नमः । २४०
ॐ बृहत्यै नमः ।
ॐ ब्रह्मवादिन्यै नमः ।
ॐ सङ्गीतरसिकायै नमः ।
ॐ रामायै नमः ।
ॐ वीणागानविनोदिन्यै नमः ।
ॐ ज्योतिर्मय्यै नमः ।
ॐ जगद्वन्द्यायै नमः ।
ॐ जयिनीजयदायिन्यै नमः ।
ॐ भक्तिनम्रजनाधीनायै नमः ।
ॐ भक्तानुग्रहकारिण्यै नमः । २५०
ॐ जामदग्न्यार्चितायै नमः ।
ॐ धौम्यपूजितायै नमः ।
ॐ मूकसन्नुतायै नमः ।
ॐ भक्तिगेयायै नमः ।
ॐ भक्तिगतायै नमः ।
ॐ भक्तक्लेशविनाशिन्यै नमः ।
ॐ भुक्तिमुक्तिकर्यै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ सिद्धगणार्चितायै नमः ।
ॐ रागद्वेषादिरहितायै नमः । २६०
ॐ रागिण्यै नमः ।
ॐ रागवर्धन्यै नमः ।
ॐ साम्राज्यदाननिरतायै नमः ।
ॐ रत्यै नमः ।
ॐ सुरतलम्पटायै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ धीरायै नमः ।
ॐ नासीरमुखभासुरायै नमः ।
ॐ क्षेत्रेश्वर्यै नमः ।
ॐ क्षेत्ररूपायै नमः । २७०
ॐ क्षेत्रज्ञायै नमः ।
ॐ क्षयवर्जितायै नमः ।
ॐ क्षराक्षरमय्यै नमः ।
ॐ रक्षायै नमः ।
ॐ दक्षिणामूर्तिरूपिण्यै नमः ।
ॐ मदिरास्वादरसिकायै नमः ।
ॐ मतङ्गकुलनायिकायै नमः ।
ॐ मन्दारकुसुमापीडायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मदहारिण्यै नमः । २८०
ॐ कल्पान्तसाक्षिण्यै नमः ।
ॐ कामायै नमः ।
ॐ कल्पनाकल्पनक्षमायै नमः ।
ॐ सङ्कल्पनिर्मिताशेषभुवनायै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ भव्यायै नमः ।
ॐ भवार्णवतर्यै नमः ।
ॐ भावारूढायै नमः ।
ॐ भयापहायै नमः ।
ॐ रहस्ययोगिनीपूज्यायै नमः । २९०
ॐ रहोगम्यायै नमः ।
ॐ रमार्चितायै नमः ।
ॐ अन्तर्वदनसन्दृश्यायै नमः ।
ॐ सन्ततध्यानदीपितायै नमः ।
ॐ कन्दलत्प्रीतिहृदयायै नमः ।
ॐ कमलायै नमः ।
ॐ कर्मसाक्षिण्यै नमः ।
ॐ कान्तार्धदेहायै नमः ।
ॐ दीप्यन्त्यै नमः ।
ॐ कान्तिधूतजपाछव्यै नमः । ३००
ॐ हृदयाकाशतरण्यै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ हृष्टमानसायै नमः ।
ॐ ह्रीमत्यै नमः ।
ॐ हृदयाकाशज्योत्स्नायै नमः ।
ॐ हार्दतमोऽपहायै नमः ।
ॐ परापररहस्याख्यसर्वानन्दमयेश्वर्यै नमः ।
ॐ सर्वसिद्धिप्रदायै आरूढातिरहस्याधिदेवतायै नमः ।
ॐ रहस्ययोगिनीक्षेत्रसर्वरोगहराधिपायै नमः ।
ॐ निगर्भयोगिन्यावाससर्वरक्षाकरेश्वर्यै नमः । ३१०
ॐ सर्वार्थसाधकभ्राजत्कुलोत्तीर्णाभिवन्दितायै नमः ।
ॐ सौभाग्यसत्सम्प्रदाययोगिनीपरिपूजितायै नमः ।
ॐ क्षोभणोद्यद्गततरयोगिनीगणसेवितायै नमः ।
ॐ आशापरीपूरकात्तगुप्तयोगिन्यभिष्टुतायै नमः ।
ॐ त्रैलोक्यमोहनस्थप्रकटयोगिन्युपासितायै नमः ।
ॐ कलातिथिनिधीष्विन्दुवर्णमन्त्रस्वरूपिण्यै नमः ।
ॐ गुणरेखाग्निवृत्तान्तर्नृपनागदलालयायै नमः ।
ॐ मुनिदिक्पङ्क्तिवसुभूकोणान्तर्बिन्दुवासिन्यै नमः ।
ॐ वेदर्तुदिक्सूर्यकलादस्रपत्राब्जचक्रगायै नमः ।
ॐ मृणालतन्तुसदृश्यै नमः । ३२०
ॐ सुषमावासिन्यै नमः ।
ॐ वसवे नमः ।
ॐ सदाऽऽराध्यायै नमः ।
ॐ सदा ध्येयायै नमः ।
ॐ सत्सङ्गत्यै नमः ।
ॐ अनुत्तमायै नमः ।
ॐ पीयूषरससंस्रावसन्तर्पितजगत्त्रय्यै नमः ।
ॐ सन्तत्यै नमः ।
ॐ सन्ततिच्छेदहारिण्यै नमः ।
ॐ धारणायै नमः । ३३०
ॐ धरायै नमः ।
ॐ स्वाहाकारायै नमः ।
ॐ हविर्भोक्त्र्यै नमः ।
ॐ यजमानाकृत्यै नमः ।
ॐ कृत्यै नमः ।
ॐ पितृप्रसूप्रसुवे नमः ।
ॐ पद्मायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ आत्मभुवे नमः ।
ॐ अभुवे नमः । ३४०
ॐ त्र्यक्षर्यै नमः ।
ॐ त्रिगुणातीतायै नमः ।
ॐ क्लीङ्कार्यै नमः ।
ॐ क्लमहारिण्यै नमः ।
ॐ प्रसादरूपायै नमः ।
ॐ पदव्यै नमः ।
ॐ पराप्रासादरूपिण्यै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायै नमः ।
ॐ धात्र्यै नमः । ३५०
ॐ धर्मरूपायै नमः ।
ॐ परागत्यै नमः ।
ॐ मुञ्जकेश्यै नमः ।
ॐ मुक्तसङ्गायै नमः ।
ॐ पञ्चयज्ञपराकृत्यै नमः ।
ॐ षट्त्र्येककर्मनिरतजनरक्षणदीक्षितायै नमः ।
ॐ स्वीकृतानुग्रहकलायै नमः ।
ॐ दूरस्थापितनिग्रहायै नमः ।
ॐ निरन्तरसुखायै नमः ।
ॐ गौर्यै नमः । ३६०
ॐ नीपारण्यनिवासिन्यै नमः ।
ॐ मोक्षदेशानमहिष्यै नमः ।
ॐ लक्ष्यालक्ष्यस्वरूपिण्यै नमः ।
ॐ राजस्यै नमः ।
ॐ कमलावासायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ सृष्टिविधायिन्यै नमः ।
ॐ सत्वाढ्यायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ पात्र्यै नमः । ३७०
ॐ तामस्यै नमः ।
ॐ रुद्ररूपिण्यै नमः ।
ॐ हन्त्र्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ तिरोधानकारिण्यै नमः ।
ॐ बहुरूपिण्यै नमः ।
ॐ सदाशिवायै नमः ।
ॐ अनुग्रहदायै नमः ।
ॐ सदाशिवमय्यै नमः ।
ॐ मत्यै नमः । ३८०
अखण्डैकरसानन्दतन्वै
ॐ पीयूषरूपिण्यै नमः ।
ॐ ऐङ्कारस्यन्दितत्त्वाख्यविश्वेन्द्रियफलप्रदायै नमः ।
ॐ आनन्दाज्याहुतिप्रीतायै नमः ।
ॐ भक्तिज्ञानप्रदायिन्यै नमः ।
ॐ त्रिमुद्रिण्यै नमः ।
ॐ भगाराध्यायै नमः ।
ॐ परनिर्वाणरूपिण्यै नमः ।
ॐ सर्वभूतहितायै नमः ।
ॐ वाण्यै नमः । ३९०
ॐ ब्रह्मरन्ध्रनिवासिन्यै नमः ।
ॐ तटित्कोटिसमच्छायायै नमः ।
ॐ सर्वविद्यास्वरूपिण्यै नमः ।
ॐ महापद्माटवीसंस्थायै नमः ।
ॐ कारणानन्दविग्रहायै नमः ।
ॐ सिद्धलक्ष्म्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ राज्यलक्ष्म्यै नमः ।
ॐ पराङ्कुशायै नमः ।
ॐ छन्दोमय्यै नमः । ४००
ॐ चतुष्षष्टिकलाकाव्यार्थदर्शिन्यै नमः ।
ॐ ऐङ्कारिण्यै नमः ।
ॐ कालरूपायै नमः ।
ॐ अणिमादिकफलप्रदायै नमः ।
ॐ महोरूपायै नमः ।
ॐ महायोगिन्यै अमलायै नमः ।
ॐ भूतिदायै नमः ।
ॐ कलायै नमः ।
ॐ कूटत्रयमय्यै नमः ।
ॐ मूलमन्त्ररूपायै नमः । ४१०
ॐ मनोन्मन्यै नमः ।
ॐ बन्धकासुरसंहर्त्र्यै नमः ।
ॐ कन्यकारूपधारिण्यै नमः ।
ॐ महाबिलगुहालीनायै नमः ।
ॐ महामुनिमनोनट्यै नमः ।
ॐ शृङ्गारमूर्त्यै नमः ।
ॐ सम्राज्ञ्यै नमः ।
ॐ शृङ्गाररसनायिकायै नमः ।
ॐ भद्राकृत्यै नमः ।
ॐ कान्तिमय्यै नमः । ४२०
ॐ भद्रदायै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ महाबलायै नमः ।
ॐ महानन्दायै नमः ।
ॐ महाभैरवमोहिन्यै नमः ।
ॐ सौभाग्यदायिन्यै नमः ।
ॐ स्वामिन्यै नमः ।
ॐ उदग्रायै नमः ।
ॐ सम्प्रदायिन्यै नमः ।
ॐ गोमत्यै नमः । ४३०
ॐ गुह्यनिलयायै नमः ।
ॐ गुह्यमूर्तये नमः ।
ॐ गुणास्पदायै नमः ।
ॐ विवेकदायिन्यै नमः ।
ॐ शिष्टायै नमः ।
ॐ शिष्टचेतोनिवासिन्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ कामकोटये नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ अभयङ्कर्यै नमः । ४४०
ॐ शाकिन्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ भद्रायै नमः ।
ॐ भैरव्यै नमः ।
ॐ भारतीमय्यै नमः ।
ॐ अभ्याससाध्यायै नमः ।
ॐ जयदायै नमः ।
ॐ विजयायै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ रुक्मिण्यै नमः । ४५०
ॐ रुक्मसच्छायरोचनातिलकोज्ज्वलायै नमः ।
ॐ वेदान्तमृग्यचरणायै नमः ।
ॐ जरामृत्युभयापहायै नमः ।
ॐ कान्त्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कान्तायै नमः ।
ॐ विधुमण्डलवासिन्यै नमः ।
ॐ शम्भुलोचनपीयूषवर्त्यै नमः ।
ॐ आर्तिनिवारिण्यै नमः ।
ॐ विघ्नकादम्बिनीवात्यायै नमः ।
ॐ सर्वप्राणिमय्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ लोकहन्त्र्यै नमः ।
ॐ लोकभर्त्र्यै नमः ।
ॐ भोगकर्त्र्यै नमः ।
ॐ परात्परायै नमः ।
ॐ वीरप्रियायै नमः ।
ॐ वीतरागायै नमः ।
ॐ नाशिताशेषवैकृत्यै नमः ।
ॐ नमज्जनाह्लादकर्यै नमः । ४७०
ॐ नादब्रह्मस्वरूपिण्यै नमः ।
ॐ विप्राधीनायै नमः ।
ॐ विप्ररूपायै नमः ।
ॐ विप्रजिह्वाविहारिण्यै नमः ।
ॐ विप्राराध्यायै नमः ।
ॐ विप्रगणपूजातुष्टायै नमः ।
ॐ वियन्मय्यै नमः ।
ॐ अव्याहताज्ञायै नमः ।
ॐ जनन्यै नमः ।
ॐ जयिन्यै नमः । ४८०
ॐ प्रणवात्मिकायै नमः ।
ॐ कामरूपायै नमः ।
ॐ कलालापायै नमः ।
ॐ भार्गव्यै नमः ।
ॐ जगदीश्वर्यै नमः ।
ॐ विमानस्थायै नमः ।
ॐ मानवत्यै नमः ।
ॐ नित्यतृप्तजनप्रियायै नमः ।
ॐ परस्यै विभूत्यै नमः ।
ॐ सर्वज्ञायै नमः । ४९०
ॐ अनादिबोधायै नमः ।
ॐ दयानिधये नमः ।
ॐ अनन्तशक्त्यै नमः ।
ॐ अचलायै नमः ।
ॐ प्रणतप्रियबान्धवायै नमः ।
ॐ अनादये नमः ।
ॐ अखिलाधारायै नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ सर्वोपनिषदुद्घुष्टवैभवायै नमः ।
ॐ सर्वमङ्गलायै नमः । ५००
इति श्रीकामाक्षीपञ्चशती सम्पूर्णा ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com