श्रीकामाक्षीस्तोत्रम् २
कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्तां ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदेवीं कलयामि चित्ते ॥
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २॥
कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादम्बमालाश्रियं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३॥
गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४॥
विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने
दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां
आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।
योगीन्द्रैरपि योगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ७॥
ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं
ऐं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं
मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ९॥
कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्तां ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदेवीं कलयामि चित्ते ॥ १०॥
इति श्री कामाक्षीस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by P. R. Ramamurthy