श्रीकमलाम्बापञ्चदशाक्षरीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मन्त्रदेव्यै च विद्महे । मातृकायै च धीमहि । तन्नः शिवा प्रचोदयात् ॥ ध्यानाष्टकम् । सङ्गीतसद्गुरुस्वामित्यागब्रह्मसुकीर्तिताम् । गुरुकीर्तनसानन्दां वन्दे श्रीकमलालयाम् ॥ १॥ श्रीदीक्षितकृताश्चर्यनवावरणकीर्तनाम् । कीर्तनापूज्यवाग्देवीं वन्दे श्रीकमलाम्बिकाम् ॥ २॥ कमनीयातिलावण्यां कमनीयमृदुस्वराम् । कलसुस्वरगानीयां वन्दे श्रीकमलाम्बिकाम् ॥ ३॥ नादोपासनसुप्रीतां नादविद्यातिदेवताम् । नादसुस्वरवागर्थां वन्दे श्रीकमलाम्बिकाम् ॥ ४॥ वीणासङ्गीतलोलां च कलवीणास्वरस्वराम् । वीणालयां स्वराह्लादां वन्दे श्रीकमलाम्बिकाम् ॥ ५॥ सङ्गीतसुस्वरां वाचां सप्तस्वरसुनृत्यकाम् । स्वरविद्यार्थिसंश्रायां वन्दे श्रीकमलाम्बिकाम् ॥ ६॥ सप्तस्वरपरानिष्ठां सप्तस्वरसुविग्रहाम् । सप्तस्वरसुपुष्पार्चां वन्दे श्रीकमलाम्बिकाम् ॥ ७॥ कंदधां कमलाम्बां श्रीकादिविद्योपचारिताम् । हादिसादीतिमन्त्रार्थां वन्दे मन्त्रस्वरूपिणीम् ॥ ८॥ अथ स्तोत्रम् । कल्याणी कलगीर्वाणी काम्भोजकरुणेक्षणा । कल्याणसुवसन्तश्रीः कीरवाणीसुखस्वरा ॥ १॥ एकनिष्ठाभिनिध्याता एकाक्षरी सुशङ्करी । एकब्रह्मस्वरूपा च एकशब्दस्वरालया ॥ २॥ ईशवामसुपार्श्वा च ईश्वरी जगदीश्वरी । ईश्वरानुग्रहापूर्णा ईशसन्नुतपूरणी ॥ ३॥ लक्षणान्वितपादाङ्का शुभलक्षणलक्षिता । लगनीया लसद्रागा ललिता ललिताम्बिका ॥ ४॥ ह्रींकारमन्त्रसद्रूपा ह्रींकारमन्त्रमोदिनी । ह्रींकारशब्दसाराध्या ह्रींकारशब्दनादिनी ॥ ५॥ हसितोत्पलसौन्दर्या हंसानन्दप्रकाशिनी । हंसनादसुसङ्गीता हंसगुह्यप्रसादिनी ॥ ६॥ सङ्गीतसुस्वराराध्या सङ्गीतवरदायिनी । सङ्गीतस्वरसान्निध्या सङ्गीतस्वरभूषणी ॥ ७॥ कराब्जधृतवीणा च करवीणास्वरालया । स्वराजितसुवीणा च करवीणालयस्वरा ॥ ८॥ हरिकेदारगौला च हरिप्रियसहोदरी । हरिनारायणी गौरी हरिकाम्भोजपादभा ॥ ९॥ लसच्छविप्रभारूपा लब्धवर्णा लयालया । लालित्यमृदुवाणी च ललितस्वरमाधुरी ॥ १०॥ ह्रींकारस्वरसम्पूर्णा ह्रींकारध्यानभासुरा । ह्रींकारमन्त्रगुह्यार्था ह्रींकारबीजगुप्तका ॥ ११॥ सकलार्थप्रदा माता सकलागमचारिणी । सकलाधरसँल्लास्या सकलाघप्रणाशिनी ॥ १२॥ कलामयी कलाराध्या कमलालयवैभवा । कलसुस्वरमाधुर्या कलगानप्रसादिनी ॥ १३॥ लयशुद्धिसुगाराध्या लयरागरसाकृतिः । लसत्सुमुखलावण्या लयारामा लयारमा ॥ १४॥ ह्रींकारलयरागा च ह्रींकारप्रीणिनी सती । ह्रींकारमन्त्रपावित्र्या ह्रींकारजपगोचरा ॥ १५॥ श्रींमन्त्रपूजिताध्याता श्रीरागसुन्दरी धरी । श्रीरागसुस्वरागीता श्रीरागवाग्विलासिनी ॥ १६॥ श्रीश्च सरस्वतीरूपा श्रीपञ्चदशमन्त्रिणी । श्रीषोडशाक्षरीपूज्या मन्त्रप्रकाशिनी परा ॥ १७॥ सर्वानन्दमयी विद्या सर्वानन्दप्रदायिनी । सर्वानन्दसुचक्राभा सर्वानन्दसुमङ्गला ॥ १८॥ श्रीचक्रदेवतायै च श्रीपुरायै सुमङ्गलम् । रसमेरुसुवासिन्यै सद्रसायै सुमङ्गलम् ॥ १९॥ मङ्गलं मन्त्रवर्णायै श्रीरागिण्यै सुमङ्गलम् । मङ्गलं मूकवाग्दायै कादम्बर्यै सुमङ्गलम् ॥ २०॥ त्यागराजगुरुस्वामिशिष्यापुष्पाकृतस्तुतिः । अम्बाप्रीता गुरुप्रेर्या अम्बापादसमर्पिता ॥ २१॥ अम्ब नान्योपयुक्ताहं त्वद्भक्तिकीर्तनं विना । एतत्सद्भक्तिनैवेद्यं स्वीकुरुष्व मदम्बिके ॥ २२॥ न्यूनानिच्छिद्रसर्वाणि क्षमस्व परदेवते । सदा त्वां संश्रिताहं मे क्षिप्रं प्रसीद सात्त्विकि ॥ २३॥ कादिविद्यां न जानामि हादिसादिं च नाम्बिके । जानामि त्वं मदम्बेति जानामि त्वत् पदाश्रयम् ॥ २४॥ शब्दावरणदुस्तापं हर मे परमेश्वरि । शेषजीवनपर्यन्तं प्रशान्त्यावारयाम्बिके ॥ २५॥ कर्मानुबन्धजालाद्विमोचनं कुरु पावनि । शुभोत्तुङ्गे नमस्तुभ्यं ज्ञानं देहि सुनादकम् ॥ २६॥ मङ्गलं ते मदम्ब श्रीर्मया सह सदा वस । मङ्गलैतत्सुवाग्देवि कुरु मोक्षसुमङ्गलम् ॥ २७॥ मङ्गलं नादमातस्ते मङ्गलं कमलाम्बिके । मङ्गलं ज्ञानसौभाग्ये मोक्षदे शुभमङ्गलम् ॥ २८॥ कंदायै कमलाम्बायै कलगायै सुमङ्गलम् । कलहंसस्वरूपिण्यै कल्याण्यै शुभमङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीकमलाम्बापञ्चदशाक्षरीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : kamalAmbApanchadashAkSharIstotram
% File name             : kamalAmbApanchadashAkSharIstotram.itx
% itxtitle              : kamalAmbApanchadashAkSharIstotram (puShpA shrIvatsenavirachitam)
% engtitle              : kamalAmbApanchadashAkSharIstotram
% Category              : devii, puShpAshrIvatsan, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Collection)
% Latest update         : September 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP