श्रीकनकदुर्गाऽऽनन्दलहरी

श्रीकनकदुर्गाऽऽनन्दलहरी

वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् । रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते । स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥ नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । var श्लाघ्यचरिते अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥ निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः । असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३॥ भवत्पादन्यासोचितकनकपीठीपरिसरे पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः । न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति ॥ ४॥ शचीस्वाहादेवीप्रमुखहरिदीशानरमणी- मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनम् । ससङ्गीतं नीराजितचरणपङ्केरुहयुगे कृपापूरं मह्यं दिश कनकदुर्गे भगवति ॥ ५॥ प्रवर्षत्यश्रान्तं बहुगुणमभीष्टार्थनिचयं स्वरूपध्यातॄणां चिकुरनिकुरुम्बं तव शिवे । अपामेकं वर्षं वितरति कदाचिज्जलधरो द्वयोस्साम्यं किं स्यान्ननु कनकदुर्गे भगवति ॥ ६॥ कृशाङ्गं स्वारातिं तुहिनकरमावृत्य तरसा स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरम् । सहायं कृत्वायं हरमनसि मोहान्धतमसं वितेने कामः श्रीमति कनकदुर्गे भगवति ॥ ७॥ तमो नाम्ना सम्यग्गळितपुनरुद्वान्तरुचिर- प्रभाशेषं भानोरिव तरुणिमानं धृतवतः । त्वदीये सीमन्ते कृतपदमिदं कुङ्कुमरजो- वसेदश्रान्तं मे हृदि कनकदुर्गे भगवति ॥ ८॥ त्रिलोकी वैचित्रीजनकघनसौन्दर्यसदनं विराजत्कस्तूरीतिलकमपि फाले विजयते । यदालोकव्रीडाकुपित इव जूटे पशुपते- र्विलीनो बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ९॥ पराभूतश्चेशाळिकनयनकीलाविलसना- द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरम् । हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति ॥ १०॥ त्वदीयभ्रूवल्लीच्छलमदनकोदण्डयुगळी समीपे विभ्राजत्तव सुविपुलं नेत्रयुगळम् । विजेतुं स्वारातिं विकचनवनीलोत्पलशर- द्वयं तेनानीतं खलु कनकदुर्गे भगवति ॥ ११॥ दरिद्रं श्रीमन्तं जरठमबलानां प्रियतमं जडं सङ्ख्यावन्तं समरचलितं शौर्यकलितम् । मनुष्यं कुर्वन्तोऽमरपरिवृढं नित्यसदयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १२॥ पुरारातेर्बाणाः कुसुमशरतूणीरगळिता नतानां सन्त्राणे निरवधिसुधावीचिनिचयाः । वियद्गङ्गाभङ्गा बहुदुरितजालावृतिमतां कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १३॥ दरिद्राणां कल्पद्रुमसुममरन्दोदकझरा अविद्याध्वान्तानामरुणकिरणानां विहृतयः । पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १४॥ गजन्तो वाहन्तः कनकमणिनिर्माणविलसा रथन्तश्छत्रन्तो बलयुत भटन्तः प्रतिदिनम् । स्वभक्तानां गेहाङ्गणभुवि चरन्तो निरुपमाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १५॥ पुरारातेरङ्गं पुलकनिकुरम्बैः परिवृतं मुनिव्रातैर्ध्यातं मुकुळयुतकल्पद्रुमनिभम् । श्रयन्तश्चानन्दं विचलदलिपोता इव चिरं कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १६॥ हरिब्रह्मेन्द्राद्यैः श्रुतिविदितगीर्वाणनिचयै- र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः । समस्तैराशास्यास्सकलशुभदा यद्विहृतयः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १७॥ विरिञ्चिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिम् । ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १८॥ उरोभागे शम्भोर्विकचनवनीलोत्पलदळ- स्रजं सङ्गृह्णन्तो मृगमदरसं फालफलके । शिरोऽग्रे गङ्गायां रविदुहितृसन्देहजनकाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १९॥ मदीयश्रीलीलाहरणपटुपाटच्चरमिति क्वता हन्तागन्तुं श्रुतिविमलनीलोत्पलमिव । तदभ्यर्णं यातास्सहजनिजवैशाल्यकलिताः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ २०॥ कळङ्की मासान्ते वहति कृशतां नित्यजड इ- त्यमुं चन्द्रं हित्वा तव वदनचन्द्राश्रितमिदम् । स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो- र्युगं कामारातेस्सति कनकदुर्गे भगवति ॥ २१॥ प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं तुला मे मैतस्येत्यविरतविवादाभिरतयोः । निवृत्ता नेदानीमपि च रिपुता ग्लौनळिनयो- स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति ॥ २२॥ मनोजातादर्शप्रतिमनिजलीलौ तव शिवे कपोलौ भूयास्तां मम सकलकल्याणजनकौ । श्रितश्रीताटङ्कद्वितयरुचयो यत्र मिळिता- स्सुधारुक्सूर्याभा इव कनकदुर्गे भगवति ॥ २३॥ त्रयी स्तुत्ये नित्ये तव वदनपङ्केरुहभव- त्सुगन्धायातश्रीप्रचलदळिनीवारणधिया । लसन्नासाकारे वहसि सहसा चम्पकतुलां न तत्सौन्दर्यार्थं ननु कनकदुर्गे भगवति ॥ २४॥ वहत्वं कारुण्यं वरकमलरागाह्वयमणि- स्सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् । तदा लब्धुं योग्यो भवति भवदीयाधरतुलां जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ २५॥ लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं नितान्तारुण्यन्तत्तव दशनवासो विजयते । सुधासिन्धोर्मध्ये निपतित सुधाबिन्दुसहित- प्रवाळश्रीचोरं ननु कनकदुर्गे भगवति ॥ २६॥ अयोग्या इत्यार्ये तव दशनसाम्याय कविभि- र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः । दशामल्पाङ्गत्वा तदनुमुखताम्बूलसहिता गतास्तत्साहित्यं खलु कनकदुर्गे भगवति ॥ २७॥ जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः कथं दृप्यस्यम्बाधरसमतया बिम्ब कथय । इति क्रोधाच्चञ्च्वा दळितवदने रक्तिमयुतः शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति ॥ २८॥ फलं बिम्बस्येदं भवति भवदीयाधरतुला कृताळं तन्माद्यं वहति मतिरस्येति विदिता । न चेत्तस्मिन् भुक्ते सुमति कवितानामपि नृणां कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति ॥ २९॥ अतुल्यं ते कण्ठं हरतरुणि दृष्ट्वा सुकवयः प्रभाषन्ते शङ्खं परिहसनपात्रं भवति तत् । स्वरूपध्यातॄणां स भवति निधिश्शङ्ख इतिचे- दसन्देहं स्थाने खलु कनकदुर्गे भगवति ॥ ३०॥ आकण्ठं ते कण्ठस्थितकनकसूत्रं विजयते हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरळम् । समाख्यां विख्यातां समलभत मृत्युञ्जय इति त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति ॥ ३१॥ चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं ततस्त्वल्लावण्यामृतजलधिसम्प्राप्तजनने । भुजाकारेणैके भुवनविनुते कल्पकलते श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति ॥ ३२॥ विराजत्केयूरद्वयमणिविभाभानुकिरणै- र्नितान्तव्याकोशीकृतमदनजिन्नेत्रकमलौ । विभोः कण्ठाश्लेषाद्विपुलपुलकाङ्कूरजनकौ भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति ॥ ३३॥ सुपर्वारामान्तःस्फुरितसहकारद्रुमलता- समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ । करौ ते भूयास्तां मम शुभकरौ कान्तिनिकरा- करौ निश्शङ्कं शाङ्करि कनकदुर्गे भगवति ॥ ३४॥ प्रशस्तौ त्रैलोक्ये बहुळदनुजत्रासविचल- न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे । स्मरो यत्सङ्काशा इति किसलयानेव धृतवान् त्रिलोकी जेताऽऽसीत्खलु कनकदुर्गे भगवति ॥ ३५॥ पुरारातेः पाणिग्रहणसमये मौक्तिकचयान् विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः । ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी कदार्तित्रातारौ मम कनकदुर्गे भगवति ॥ ३६॥ स्फुरन्तो निश्शङ्कं पुरहरनिरातङ्कविजय- क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशम् । झणत्कारारावाः कनकवलयानां तव शिवे वितन्वन्तु श्रेयो मम कनकदुर्गे भगवति ॥ ३७॥ कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ । विरिञ्चाद्या देवा यदुदितसुधापातुरनिशं सुनम्रास्सेनान्यो ननु कनकदुर्गे भगवति ॥ ३८॥ अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं जगत्तन्नो युक्तं जननि खलु तद्रूपकलने । कृताशः पञ्चास्यो भवति तव वाहः प्रतिदिनं जगत्सर्गक्रीडावति कनकदुर्गे भगवति ॥ ३९॥ असौ पुन्नागस्य प्रसवमृदुशाखाश्चलगतं तपःकृत्वा लेभे जननि तव नाभेः सदृशताम् । प्रमत्तः पुन्नागप्रसव इतरस्तावक गते- स्तुलामाप्तुं वाञ्छत्यपि कनकदुर्गे भगवति ॥ ४०॥ त्रिलोकीवासाञ्चद्युवतिजनतादुर्गमभव- न्नितम्बश्रीचौर्यं कृतवदिति सञ्चित्य पुलिनम् । सरो बाह्यञ्चक्रे जननि भवदीयस्मरणतो झरेवाधीरैशा जननि कनकदुर्गे भगवति ॥ ४१॥ जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः तदूर्वोस्सौन्दर्यं सहजमधिगन्तुं जडतया । कृतारम्भा रम्भा इति विदळिताऽऽसां वनमयं करी सामर्षः श्रीकरि कनकदुर्गे भगवति ॥ ४२॥ प्रविष्टा ते नाभीबिलमसितरोमावळिरियं कटीचञ्चत्काञ्चीगुणविहितसौत्रामणमणेः । रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता श्रितश्रेणीसम्पत्करि कनकदुर्गे भगवति ॥ ४३॥ अनिर्वाच्यं जङ्घारुचिररुचिसौन्दर्यविभवं कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते । तदीयं सौभाग्यं कणिशजननैकावधि सुधी- जनैश्चिन्ताकार्या ननु कनकदुर्गे भगवति ॥ ४४॥ सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं सुरस्त्रीफालाग्रच्युतमृगमदानां समुदयम् । अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि- ज्जटा गङ्गानीरैर्ननु कनकदुर्गे भगवति ॥ ४५॥ मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् । स्थितम्मन्ये हंसद्वयमिति न चेद्धंसकपदं कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति ॥ ४६॥ त्वदीयं पादाब्जद्वयमचलकन्ये विजयते सुरस्त्रीकस्तूरीतिलकनिकरात्यन्तसुरभि । भ्रमन्तो यत्रार्याप्रकरहृदयेन्दिन्दिरगणा- स्सदा माद्यन्ति श्रीमति कनकदुर्गे भगवति ॥ ४७॥ अपर्णे ते पादावतनुतनुलावण्यसरसी समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदम् । न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः कथं तत्रासक्ता ननु कनकदुर्गे भगवति ॥ ४८॥ रमावाणीन्द्राणीमुखयुवतिसीमन्तपदवी- नवीनार्कच्छायासदृशरुचि यत्कुङ्कुमरजः । स्वकाङ्गाकारेण स्थितमिति भवत्पादकमल- द्वये मन्ये शम्भोस्सति कनकदुर्गे भगवति ॥ ४९॥ दवाग्निं नीहारं गरळममृतं वार्धिमवनी- स्थलं मृत्युम्मित्रं रिपुमपि च सेवाकरजनम् । विशङ्कं कुर्वन्तो जननि तव पादाम्बुरुहयोः प्रणामास्संस्तुत्या मम कनकदुर्गे भगवति ॥ ५०॥ जलप्राया विद्या हृदि सकलकामाः करगताः महालक्ष्मीर्दासी मनुजपतिवर्यास्सहचराः । भवत्यश्रान्तं ते पदकमलयोर्भक्तिसहितां नतिङ्कुर्वाणानां ननु कनकदुर्गे भगवति ॥ ५१॥ तव श्रीमत्पादद्वितयगतमञ्जीरविलस- न्मणिच्छायाच्छन्नाकृतिभवतियत्फालफलकम् । स तत्रैवाशेषावनिवहनदीक्षासमुचितं वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति ॥ ५२॥ तनोतु क्षेमं त्वच्चरणनखचन्द्रावळिरियं भवत्प्राणेशस्य प्रणयकलहारम्भसमये । यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनु- श्शिरोऽग्रे बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ५३॥ समस्ताशाधीशप्रवरवनिताहस्तकमलै- स्सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ । नतानामिष्टार्थप्रकरघटनापाटवयुतौ नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५४॥ पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे ययोस्स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् । विलोक्य श्लाघन्ते विबुधसमुदायाः प्रतिदिनं नमामस्तौ पादौ ननु कनकदुर्गे भगवति ॥ ५५॥ नराणामज्ञानां प्रशमयितुमन्तःस्थतिमिरा- ण्यलक्ष्मीसन्तापं गमितमनुजान् शीतलयितुम् । समर्थान्निर्दोषांश्चरणनखचन्द्रानभिनवान् नमामस्सद्भक्त्या तव कनकदुर्गे भगवति ॥ ५६॥ मुकुन्दब्रह्मेन्द्रप्रमुखबहुबर्हिर्मुखशिखा- विभूषाविभ्राजन्मघवमणिसन्दर्भरुचिभिः । विशङ्कं साकं त्वच्चरणनखचन्द्रेषुघटितं कवीन्द्रैः स्तोतव्यं तव कनकदुर्गे भगवति ॥ ५७॥ नखानां धावळ्यं निजमरुणिमानञ्च सहजं नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि । वहन्तौ सत्त्वादित्रिगुणरुचिसारानिव सदा नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५८॥ मणिश्रेणीभास्वत्कनकमयमञ्जीरयुगळी- झणत्कारारावच्छलमधुरवाचां विलसनैः । अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा- विव ख्यातौ पादौ तव कनकदुर्गे भगवति ॥ ५९॥ नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं नखच्छायायुक्तं जननि तव पादाम्बु जयति । समञ्चत्काळिन्दीझरसलिलसम्म्मिश्रितविय- न्नदीवारीव श्रीकरि कनकदुर्गे भगवति ॥ ६०॥ सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै- र्धृतं हेमाम्भोजप्रकरमकरन्देन मिळितम् । सतां वृन्दैर्वन्द्यं चरणयुगसङ्क्षाळनजलं पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति ॥ ६१॥ विरावन्मञ्जीरद्वयनिहितहीरोपलरुचि- प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः । शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति ॥ ६२॥ समीपे माणिक्यस्थगितपदपीठस्य नमतां शिरस्सु त्वत्पादस्नपनसलिलं यन्निपतति । तदेवोच्चस्थानस्थितिकृदभिषेकाम्बु भवति प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति ॥ ६३॥ नृणान्दीनानां त्वच्चरणकमलैकाश्रयवतां महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदम् । समाश्रित्याम्भोजं जडमपि च रेखाकृतिधरं श्रियो नित्यं धामाजनि कनकदुर्गे भगवति ॥ ६४॥ खगोत्तंसा हंसास्तव गतिविलासेन विजिता- स्सलज्जास्तत्तुल्यं गमनमधिगन्तुं सकुतुकाः । भजन्ते स्रष्टारं रथवहन एवैकनिरता मनोजातारातेस्सति कनकदुर्गे भगवति ॥ ६५॥ जगन्मातर्भव्याङ्गुळिविवरमार्गेषु गळितं चतुर्धा ते पादाम्बुजसलिलमेतद्विजयते । प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति ॥ ६६॥ अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं शशाङ्कोऽयं कोऽयं सकलजलधीनां पतिरयम् । इति त्वां सन्द्रष्टुं समुपगतदेवाः परिचरै- र्जनैर्विज्ञाप्यन्ते खलु कनकदुर्गे भगवति ॥ ६७॥ महापीठासीनां मघवमुखबर्हिर्मुखसखी- निकायैस्संसेव्यां करतलचलच्चामरयुतैः । प्रदोषे पश्यन्तीं पशुपतिमहाताण्डवकलां भजे त्वां श्रीमाहेश्वरि कनकदुर्गे भगवति ॥ ६८॥ परञ्ज्योतिस्तज्ज्ञास्सुरतरुलतां दुर्गतजना महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः । ललाटाक्षस्साक्षादतनुजयलक्ष्मीमविरतं हृदि ध्यायन्ति त्वां कनकदुर्गे भगवति ॥ ६९॥ समुद्यद्बालार्कायुतशतसमानद्युतिमतीं शरद्राकाचन्द्रप्रतिमदरहासाञ्चितमुखीम् । सखीं कामारातेश्चकितहरिणीशाबनयनां सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७०॥ तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं तपस्यन्ती प्राप्ता त्वमपि गिरिशं प्राणदयितम् । तदेवं दाम्पत्यं जयति युवयोर्भीतधवयोः कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति ॥ ७१॥ विभोर्जानासि त्वं विपुलमहिमानं पशुपते- स्स एव ज्ञाता ते चरितजलराशेरनवधेः । न हि ज्ञातुन्दक्षो भवति भवतोस्तत्वमितर- स्त्रीलोकीसन्धानेष्वपि कनकदुर्गे भगवति ॥ ७२॥ न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता न चन्द्रो नोवायुर्विलसति हि कल्पान्तसमये । तदा नाट्यङ्कुर्वंस्तव रमण एको विजयते त्वया साकं लोकेश्वरि कनकदुर्गे भगवति ॥ ७३॥ धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं रमाधीशञ्चापि त्रिपुरमथनेन त्रिनयनः । तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ ७४॥ त्रिकोणान्तर्बिन्दूपरिविलसनात्यन्तरसिकां त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुताम् । त्रिलोकैराराध्यां त्रिनयनमनःप्रेमजननीं त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७५॥ मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां वचो वक्तुं शक्यं न भवति हि ते चित्रचरितम् । तनुस्त्वत्सेवायां भवति विवशा दीनसमये कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति ॥ ७६॥ वियोगं ते नूनं क्षणमसहमानः पशुपति- र्ददौ ते देहार्धं तरुणसुमबाणायुतसमम् । अनेन ज्ञातव्यस्तव जननि सौन्दर्यमहिमा त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति ॥ ७७॥ कृता यागा येन श्रुतिषु विदिताः पूर्वजनने धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधम् । तपस्तप्तं येनास्खलितमतिना तस्य घटते भवद्भक्तिश्शम्भोस्सति कनकदुर्गे भगवति ॥ ७८॥ भवन्मूर्तिध्यानप्रवणममलञ्चापि हृदयं भवन्नामश्रेणीपठननिपुणां चापि रसनाम् । भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे भवानन्दश्रेयस्करि कनकदुर्गे भगवति ॥ ७९॥ प्रभाषन्ते वेदाश्चकितचकितं तावकगुणान् न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि । भवत्तत्वं ज्ञातुं प्रकृतिचपलानामपि नृणां कथं वा शक्तिस्स्यान्ननु कनकदुर्गे भगवति ॥ ८०॥ नृपा एकच्छत्रं सकलधरणीपालनपरा- स्सुधामाधुर्यश्रीललितकविताकल्पनचणाः । निरातङ्कं शास्त्राध्ययनमनसां नित्यकविता त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति ॥ ८१॥ कदम्बानां नागाधिकचतुरसञ्चारिभसरी कदम्बानां मध्ये खचरतरुणीकोटिकलिते । स्थितां वीणाहस्तां त्रिपुरमथनानन्दजननीं सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ८२॥ गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने महालक्ष्मीरूपा मधुमथनवक्षस्थलगता । शिवाकारेण त्वं शिवतनुनिवासं कृतवती कथं ज्ञेया माया तव कनकदुर्गे भगवति ॥ ८३॥ महाराज्यप्राप्तावतिशयितकौतूहलवतां सुधामाधुर्योद्यत्सरसकविता कौतुकयुजाम् । कृताशानां शश्वत्सुखजनकगीर्वाणभजने त्वमेवैका सेव्या ननु कनकदुर्गे भगवति ॥ ८४॥ फणी मुक्ताहारो भवति भसितं चन्दनरजो गिरीन्द्रः प्रासादो गरळममृतं चर्म सुपटः । शिवे शम्भोर्यद्यद्विकृतचरितं तत्तदखिलं शुभञ्जातं योगात्तव कनकदुर्गे भगवति ॥ ८५॥ दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे सुधापूराधारस्तव शुभकटाक्षो निपतति । बहिर्द्वारप्रान्तद्विरदमदगन्धस्स भवति प्रिये कामारातेर्ननु कनकदुर्गे भगवति ॥ ८६॥ प्रभाषन्ते वेदाः प्रकटयति पौराणिकवचः प्रशस्तं कुर्वन्ति प्रथितबहुशास्त्राण्यविरतम् । स्तुवन्तः प्रत्यग्रं सुकविनिचयाः काव्यरचनै- रनन्तां ते कीर्तिं ननु कनकदुर्गे भगवति ॥ ८७॥ असूयेर्ष्यादम्भाद्यवगुणपरित्यागचतुरा- स्सदाचारासक्तास्सदयहृदयास्सत्यवचनाः । जितस्वान्ताश्शान्ता विमलचरिता दाननिरताः कृपापात्रीभूतास्तव कनकदुर्गे भगवति ॥ ८८॥ यदीयाम्भस्नानाद्दुरितचरितानां समुदया महापुण्यायन्ते महिमवति तस्याश्शुभकरे । तटे कृष्णानद्या विहितमहितानन्दवसते कृपा कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ८९॥ यथा पुष्पश्रेणीविलसितकदम्बद्रुमवने तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा । तथा भक्तौघानां हृदि कृतविहारे गिरिसुते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ९०॥ समारुह्याभङ्गं मृगपतितुरङ्गं जनयुतं गळाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् । निहत्य प्रत्यक्षं जगदवनलीलां कृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९१॥ पराभूय त्र्यक्षं सवनकरणे यत्रसहितं दुरात्मानं दक्षं पितरमपि सन्त्यज्य तरसा । गृहे नीहाराद्रेर्निजजननमङ्गीकृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९२॥ तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं भवादस्त्रं लेभे प्रबलरिपुसंहारकरणम् । किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९३॥ शरच्चन्द्रालोकप्रतिमरुचिमन्दस्मितयुते सुरश्रीसङ्गीतश्रवणकुतुकालङ्कृतमते । कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९४॥ कपालस्रग्धारी कठिनगजचर्माम्बरधरः स्मरद्वेषी शम्भुर्बहुभवनभिक्षाटनपरः । अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो जगत्सेव्यो जातः खलु कनकदुर्गे भगवति ॥ ९५॥ पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्- प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे । चरद्भ्यां नीहाराचलपदशिलाभङ्गसरणौ नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति ॥ ९६॥ मदीये हृत्पद्मे निवसतु पदाम्भोजयुगळं जगद्वन्द्यं रेखाध्वजकुलिशवज्राङ्कितमिदम् । स्फुरत्कान्तिज्योत्स्ना विततमणिमञ्जीरमहितं दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९७॥ सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया । भवन्तीं कल्याणीं प्रचुरतरकल्याणचरितां दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९८॥ हरश्शूली चैकः पितृवननिवासी पशुपति- र्दिशावासो हालाहलकबळनव्यग्रधृतिमान् । गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत् सुसाङ्गत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति ॥ ९९॥ समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता- महर्नाथज्वालापतिहरणपाली त्रिनयनाम् । सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने रतां तां कल्याणीं हृदि कनकदुर्गे भगवति ॥ १००॥ सुसन्तोषं यो वा जपति नियमादूहितशत- ज्वलद्वृत्तैश्श्राव्यां निशि कनकदुर्गास्तुतिमिमाम् । महालक्ष्मीपात्रं भवति सदनं तस्य वदनं गिरां देवीपात्रं कुलमपि विधेः कल्पशतकम् ॥ १०१॥ स्तुतिं दुर्गादेव्यास्सततमघसंहारकरणे सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः । श्रियं मातः तस्मै वितरसि सुतानाञ्च जगतां पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति ॥ १०२॥ शतश्लोकीबद्धं ननु कनकदुर्गाङ्कितपदं गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदम् । निबद्धं माणिक्यैः कनकशतमानं भवति ते यथा हृद्यं देवि स्फुटपदविभक्तं विजयताम् ॥ १०३॥ इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशङ्करामार्य- विरचितं श्रीमत्कनकदुर्गाऽऽनन्दलहरीस्तोत्रं सम्पूर्णम् । The composition by Vidya Sankara is addressed to the goddess Kanaka Durga at Vijayawada of Andhra Pradesh. Encoded by Malleswara Rao Yellapragada malleswararaoy@yahoo.com Proofread by Malleswara Rao Yellapragada, PSA Easwaran, Chandra V Ramani chandravr at gmail.com
% Text title            : kanakadurgAnandalaharI
% File name             : kanakadurgAnandalaharI.itx
% itxtitle              : kanakadurgAnandalaharI (vidyAshaNkaravirachitam)
% engtitle              : kanakadurgAnandalaharI
% Category              : devii, durgA, laharI, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Vidyashankara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada, PSA Easwaran, Chandra V Ramani
% Description-comments  : The composition is addressed to the goddess Kanaka Durga at Vijayawada of Andhra Pradesh.
% Indexextra            : (Telugu, article)
% Latest update         : December 28, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org