खगङ्गाभुजङ्गप्रयातम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि ।
तन्नो गङ्गा प्रचोदयात् ॥
भुजङ्गप्रयातोर्मिवाहप्रवाहां
भुजङ्गप्रशान्तप्रसादप्रसाराम् ।
भुजङ्गाधराजस्रधाराभिषेकां
भजे स्वर्गगङ्गां सुवर्गापवर्गाम् ॥ १॥
सदादर्शनास्फोटकाव्याभिनव्यां
स्वसौन्दर्यसंस्फूर्तिशैलीगभीराम् ।
सतालस्वरोंकारसानन्दलास्यां
भजे नादगङ्गां स्वरामोददर्शाम् ॥ २॥
खगङ्गां गगङ्गां मुमुक्षुत्वधेयां
वरस्नानसत्पानसज्ज्ञानबोधाम् ।
जलापूतपुण्यां महापूतनाम्नीं
भजे रागगङ्गां लयावेगवाहाम् ॥ ३॥
वरानन्दकन्दां स्वरानन्दसारां
चिदानन्दसद्भां चिरानन्दगाङ्गाम् ।
मदानन्दगेयां सदानन्दगेहां
भजे ज्ञानगङ्गामनन्तादिशक्तिम् ॥ ४॥
हिमांशुप्रभासप्रवाहप्रहर्षां
सुरौप्यातिशोभाम्बुशुभ्रप्रवाहाम् ।
हिमागप्रभावातिसत्त्वप्रकाशां
भजे सत्यगङ्गां परब्रह्मकाशाम् ॥ ५॥
हिमाह्लादगङ्गां नमाम्यापवर्यां
क्षपानाथसंस्मेरचारुस्वरूपाम् ।
सलालित्यवैचित्र्यचित्राभिलेखां
भजे हिम्यगङ्गां मनश्शान्तिसौख्याम् ॥ ६॥
सुकाव्यार्पणानन्दसम्प्राप्तिभव्यां
सुमाङ्गल्यसद्भाग्यसम्पत्तिभोग्याम् ।
सुगानप्रसन्नां हृदब्जे निषण्णां
भजे दिव्यगङ्गां मदानुग्रहाम्बाम् ॥ ७॥
गुरुत्यागरजेन्द्रसङ्गीतगङ्गां
सुपुष्पाभिषेकप्रमोदप्रसादाम् ।
इहानन्दभद्रां परज्ञानमोक्षां
भजे नित्यगङ्गां वरां मङ्गलाभाम् ॥ ८॥
खगङ्गे भुजङ्गप्रयाते सुभद्रं
कविप्राणसंस्फूर्तिपूते सुभद्रम् ।
सुरागस्फुरद्रागयाते सुभद्रं
सुभद्रं सुमाङ्गल्यदे ते सुभद्रम् ॥ ९॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
खगङ्गाभुजङ्गप्रयातं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan