कुलानन्द तन्त्रम्

कुलानन्द तन्त्रम्

ॐ नमो भैरवाय । कैलासशिखरासीनं देवदेव जगद्गुरुम् । परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् ॥ १॥ भेदनिमुत्तमभेदं यथा देहव्यवस्थितम् । कथयस्व पुराभेदं कुलानन्देषु चूत्तमम् ॥ २॥ स्थानान्तरविशेषण विज्ञानं कथयस्व मे । सद्यः प्रत्यकारकं यथा देहे व्यवस्थितम् ॥ ३॥ पाशस्तोभञ्च बेधनञ्च धूननं कम्पनं तथ । खेचरं समरसञ्चैव बलीपलितनाशनम् ॥ सर्वं तत्तु सुरेश्वर कथयस्व मम प्रभो ॥ ४॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि पुरभेदं समुत्तमम् । एतत् कौलिकं ज्ञानं कुलानन्दे चाष्टोत्तमः ॥ ५॥ ब्रह्मस्थाने यत् कमलं चतुःषष्ठिदलान्वितम् । तत्रैव मनसा रोध्य लक्षयेद्दीपशिखान् व्रती ॥ ६॥ पश्यति सर्वदेहे तु दिव्यदृष्टिर्वरानने । तेन लक्षितमात्रेण जायते सिद्धिरुत्तमा ॥ ७॥ तस्योपरि नाभिम्नदवदा [?] विचक्षणे । तथा चोपरितिष्ठति देवो भैरवो जगत्प्रभुः ॥ ८॥ तस्याग्रे मनसारोप्य दृढभूतविचक्षणाः । जायते ध्वनिभिर्जातिं तत्र मरुद्विशेषतः ॥ ९॥ एतद् विज्ञानमात्रेण आवेषं जुरुते ध्रुवम् । जायते परमं स्थानं नात्र कार्य्यविचारणात् ॥ १०॥ अथान्यं परमं देवि सद्यः प्रत्याकारकम् । तं प्रवक्ष्यामि हे देवि श‍ृणुष्वायतलोचने ॥ ११॥ अङ्गुल्यद्वितियं देवि यत् पूर्व्वं कथितं मया । तत्रैव स्थापयेद्वित्तं कथितं जायते ध्रुवम् ॥ १२॥ अतीतानागतञ्चैव वर्त्तमानं तथैव च । तत्रैवोत्पादयेत् सृष्टिं तिव्रज्योतिःसमकृतिः ॥ १३॥ हृदिसंस्थकमलं हित्वा मूर्ध्नि यान् प्रपूरयेत् । पाशस्तोभं करोत्येवं यदि विश्रमते मनः ॥ १४॥ अथान्यं परं देवि दिव्यदृष्टि प्रवर्त्तते । ज्वलज्वालनमध्यस्थं द्विजग्रन्थि निरीक्षयेत् ॥ १५॥ तत्रैव मनसा रोध्य चूलिकाग्रन्तु मानयेत् पुनः । सृष्टिं प्रवर्त्तन्ते देवि नात्र कार्य्यविचारणात् ॥ १६॥ देव्युवाच । तद्बेधञ्च शुद्धसारञ्च हितं मया न प्रकाशितम् । कथय्स्व विशेषण यथा जानामि तत्क्षणात् ॥ १७॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि बेधसारं यथाक्रमम् । ब्रह्मस्थाने...पद्मं चतुःषष्टिदलान्वितम् ॥ १८॥ तत्रैवोत्पादयेत् सृष्टिः दण्डाकाराग्नितेजसा । भेदयित्वा महाग्रन्थिं द्विचक्रञ्च तथैव च ॥ १९॥ मूर्ध्निं कमलसंस्थानं ज्वलनाकारं विचिन्तयेत् । चलन्तं भ्रामयेत्तेन नियतं तु महितले ॥ २०॥ बेधये गिरिवृक्षाणि किं पुनः क्षुद्रजन्तवः । अथान्यं परमं देवि विज्ञानं भद्रकं श‍ृणु ॥ २१॥ भ्रुवोश्चक्षुर्मध्यस्थं च कालावुना [?] .... विचिन्तयेत् । यावद्विश्रमते नित्यं भ्रमते चक्रवत् शिरः ॥ २२॥ दुराश्रवणविज्ञानं भूतदेतस्य [?] चिन्तयेत् । वामस्त्रोतं तु यावत् तिव्रतेजसमप्रभम् ॥ २३॥ देव्युवाच । बलीपलितक्षयं देव त्वया ख्यातं ममाग्रतः । एतन्मे संशयो देव कथयस्व मम प्रभो ॥ २४॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि यत् सुराणामपि दुर्ल्लभम् । द्वात्रिंशतिदलं पद्मं तिष्ठति तन्मूर्ध्नि मध्यतः ॥ २५॥ तत्रैव भावयेदमृतं कलाषोडशसमन्वितम् । हृच्चक्रं पातयेद्वारं [?] यावदानाब्जिमण्डलम् ॥ २६॥ चिन्तयेत् कृष्णवर्णञ्च भेदं तु सकलं पुरः । पलितास्तम्भयेद्देवि मासमेकेन सुव्रते ॥ २७॥ अथान्यं परमं देवि गुह्यसंशयस्थितिकारकम् । यत्र चतुष्पथस्थानं तत्र सर्वासुरालयम् ॥ २८॥ तत्रैव स्थापयेच्चितं दिव्यबालप्रवर्त्तत [?] । अश्रुतां वदते बालां....दिव्य वरानने ॥ २९॥ विषप्रहारं कुरुते ज्वरव्याधिं विनाशयेत् । ततः परतरं स्थानं तत्र सर्वे प्रवर्त्तते ॥ ३०॥ अथान्यं परमं देवि दुराबेधं वदाम्यहम् । ज्वलज्ज्वलनसंध्यस्थं तत्रैव लक्षयेद्देवि ॥ ३१॥ तं त्रितकोटिसमप्रभा ऊर्ध्वं शक्ति निपातान्यतः [?] । बेधयेद्विचक्षणः बेधयित्वा तु तं लक्षयेत् ॥ ३२॥ ज्वलनाकाष्ठप्रभां उर्ध्वशक्तिं चक्रयित्व अचलं भ्रामयेत् पुनः [?] बेधयेत् सा मनःसहस्राणि समकानि तु का कथा ॥ ३३॥ एवं ज्ञात्वा वीरारोहे विचरेत यथासुखम् । देवासुर्मनुजानां दुर्लभो भवति साधकः ॥ ३४॥ देव्युवाच । धूननं कम्पनं देव यथाख्यातं ममाग्रतः । ततश्चापि संशयो देव कथयस्व मम प्रभो ॥ ३५॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि धूननं कम्पनं स्थितम् । या सा महावहा नाडी कुचेल्याकारसंस्थिता ॥ ३६॥ तत्रैवोत्पादयेत् दृष्टिर्द्दण्डाकारसुतेजसा । हृच्चक्र... ... ... तिव्रशक्ति सुविग्रहा ॥ ३७॥ धूननं कम्पनं चैव नात्र कार्य्यविचारणात् । अथान्यं परमं देवि खेचरत्वं श‍ृणु प्रिये ॥ ३८॥ या सा महावहा ना[डी] कुण्डल्याकारसंस्थिता । पदद्वन्द्वगता सा तु मूर्ध्निस्थं कमलं पुनः ॥ ३९॥ या वीरतये तज्ज्वलनाकारं सुभावयेद् बुधः । सर्वशक्तितो मध्यत खेचरत्व भवेद्वेः नवाहमभृतं ददैतः [?] ॥ ४०॥ अथान्यं सम्प्रवक्ष्यामि महाव्याप्तिं वरानने । यावद्...स्थानेषु ख्याता तस्य मयाग्रतः ॥ ४१॥ तथैव मनसारोप्यं नासाग्रे पवनमानेन । मनसं तत्त्व बेधयित्वा निष्कलं योजयेद् बुधः ॥ ४२॥ महाव्याप्तिर्भवेद्देवि तवाहमनृतं वदेत् । अथान्य सम्प्रवक्ष्यामि येन सिद्धिर्भवेत् ध्रुवम् ॥ ४३॥ वर्गातीतस्य द्वितीयमनुलोम न सुव्रते । ज्वलनारूढं कृत्वा चतुर्थं स्वरसंयुतः ॥ ४४॥ बिन्दुमस्तकसम्भिन्नमादौ योजयेद् बुधः । वर्गातीतं पुनर्देवि षष्तस्वरविभूषितः ॥ ४५॥ स शिखे खरबिन्दुसंयुक्तं योगयेद्देवि तत् पुनः । यकारस्य पञ्चमं गृह्यं तं तृतीयस्वरसमन्वितम् ॥ ४६॥ स्वरं द्वितीयसंयुक्तं कारयेत् पुनः प्रियः । वर्गस्य प्रथमं बीजं सृष्टराद्यतो योजयेत् ॥ ४७॥ एतद्देवि समाख्यातं कुलविद्यासमन्वितम् । नित्यं तु योजयेद्देवि एकचित्तस्तु पण्डितः ॥ ४८॥ तस्य सर्वा भवेत् सिद्धिः सर्वज्ञनेषु सुन्दरि । न खेदयामि कस्य चित्तं शिष्येऽप्युक्त्वा वरानने ॥ ४९॥ अथान्यं परमं देवि कामेन विह्वलारकम् । भस्य मध्यस्थ भगमधो हुताशनम् ॥ ५०॥ प्रेरितः पवनः शक्त्या ज्वलनाकारतेजसा । विसन्तु चिन्तयेद्देवि सृष्टिकमलन्तु यावत् ॥ ५१॥ श्रवणं चिन्तयेदमृतं तेजोमार्गेण योगिनि । भवन्ति विह्वला नार्य्यः क्षनमेकेन सुव्रते ॥ ५२॥ अथान्यं परमं देवि फलपुष्Pआकथनं च । श‍ृणुयात् पर्मादेवि अघोरविक्रमा ॥ ५३॥ आकर्षयेद् बुघो वायुं पिण्डस्थं रूपणमुच्यते । चक्षुषा योजयेद्देवि फलपुष्पन्तु चिन्तयेत् । तेजसार्कर्षयेत् तु...चित्तं सुसर्य्यतः ॥ ५४॥ देव्युवाच । सर्वत्र तु मया ज्ञानं भाषितं देव तत् पुरा । अद्यापि संशयो देवि कथयस्व मम प्रभो । संगमान्मोक्षहेतुकं *** *** ॥ ५५॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि तत् सुरैरपि दुर्लभम् । आसनं तु स्थितं कृत्वा...विश्व अनिवृत्तः ॥ ५६॥ अभावं भावयेद्देवि सर्वभावविवर्जितम् । चित्तं तत्र स्थितं कृत्वा खमध्ये विनियोजयेत् ॥ ५७॥ भावयेत् समरसं देवि प्रभुभृत्यं विचक्षणः । एतद्विज्ञानमात्रेण गियते तत्र मध्यतः ॥ ५८॥ दूराश्रवणविज्ञानं बेधस्तोभं मध्यतः । आवेषं दर्शनं दूरात् कम्पस्तोभं तथैव च ॥ ५९॥ परकायप्रवेशेन सम्प्रवर्त्तेत योगिनः । ... ... ...तदभ्यासेन सुव्रते ॥ ६०॥ इति मत्स्येन्द्र-पादावतारितं कुलानन्दं समाप्तमिति ॥ शुभमस्तु सर्वजगताम् । Encoded by Mike Magee ac70@cityscape.co.uk http://www.clas.ufl.edu/users/gthursby/tantra/kulanandtm
% Text title            : kulAnandatantra
% File name             : kulaanandatantra.itx
% itxtitle              : kulAnanda tantram
% engtitle              : kulAnanda tantram
% Category              : tantra, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : tantram
% Transliterated by     : Michael Magee  1997
% Proofread by          : Mike Magee 
% Latest update         : July 4, 2011
% Send corrections to   : Mike Magee 
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org