॥ लक्ष्मीस्तोत्रम् वेङ्कटेशकाव्यकलापान्तर्गतम् ॥

% ३ श्रियं श्रीवेङ्कटेशस्य श्रीनिवासस्य वल्लभाम् । ईश्वरीं सर्वभूतानामाश्रये विश्वमातरम् ॥ १॥ विष्णोर्विचित्रचिदचिन्मिश्रविश्वविधिश्रमः । सफलस्सकृदालोकाद्यस्यास्तस्यै नमः श्रियै ॥ २॥ यस्या मुग्धकटाक्षदुग्धकणिका न्यूनाधिकोदञ्चिताः द्वित्राः कुत्रचिदेकतस्त्रिचतुराः किञ्चान्यतः पञ्चषाः । ब्रह्मेशेन्द्रमुखामरान्नरपतींश्चोच्चावचश्रीजुषः कुर्वन्त्याश्रितवत्सलां भगवतीं तामाश्रयामः श्रियम् ॥ ३॥ अस्तोकस्तबका स्तनद्वयमिषात् पाणिप्रवालोज्ज्वला रोमालीललितालिअपङ्क्तिमहिता बाहुप्रतानाञ्चिता । सामोदा हरिकल्पवृक्षविपुलोपघ्ना वृषाद्रेस्तटे लक्ष्मीकल्पलता स्थिरा मयि कृपावीक्षाप्रसूनं क्षिपेत् ॥ ४॥ स्वैरोद्वेलकृपाकटाक्षसुधया सम्प्लावयन्त्या जगत् लक्ष्म्यास्तौ चरणौ प्रपन्नसुलभौ स्तोतुं प्रयस्याम्यहम् । यल्लाक्षारसलक्ष्म वक्षसि हरेर्वीक्ष्यैव साक्षात्परं ब्रह्मेदं जगदेककारणमिति त्रय्यन्तवर्गा जगुः ॥ ५॥ वेदान्ता विबुधाश्चतुर्मुखमुखास्सन्तस्सनन्दादयः व्यासाद्या मुनयश्च सूरिनिवहा लक्ष्मीपतिर्वा स्वयम् । सर्वे यन्महिमामृताब्धिकणिकेयत्तां न वेत्तुं क्षमाः तां लक्ष्मीमनपत्रपः कथयितुं वाञ्छामि धिङ्मां कविम् ॥ ६॥ मातङ्गस्सुमहानणुश्च मशकः पातुं प्रवृत्तौ तृषा दुग्धाब्धिं पिबतस्स्वशक्त्यनुगुणं कृत्स्नं न पातुं क्षमौ । मातर्लक्ष्मि तव प्रभावजलधौ ब्रह्माऽप्यहं चेदृशौ यज्ञानादिषु तारतम्यमुभयोर्नौ तेन किं साधितम् ॥ ७॥ मुग्धस्तनन्धयमुखात् प्रथमोदिता वाक् अव्यक्तवर्णमधुरा स्वदते हि मात्रे । श्रीरम्ब तद्वदतिमौग्ध्यकृता स्तुतिर्मे त्वत्कर्णवर्त्मनि वमेदमृतस्य धाराम् ॥ ८॥ सुधाधारासेकादिव सुखितकर्णाः सुकवयः स्तुवीरन् याः श्रुत्वा सपदि सशिरःकम्पमवशाः । तथाभूता मातरस्तुतिवचनभङ्गीस्त्वदुचिताः विधातुं मे शक्तिं वितर वृषशैलेशदयिते ॥ ९॥ महितमहसः पङ्के मग्नान्मणीनिव चेतनान् प्रलयतमसा गाढं गूढानसत्समतां गतान् । न यदि भवती मातः पश्येद्दयार्द्रदृगञ्चला कथमिव भवेत्सत्ता तेषां पुमर्थकथा कुतः ॥ १०॥ अस्येशाना जगत इति या विश्रुता विश्वगोप्त्री सत्यं सा त्वं भवसि कमले विष्णुपत्नीत्यनूक्तेः । तस्या मातस्तव परिजनेप्वात्मसु प्रेमबन्धः तद्वात्सल्यं निरवधिकृपा सर्वमेतन्न चित्रम् ॥ ११॥ श्रुतिशिरोवरकोशगृहाहितान् स्मृतिपुराणसुदीपविदीपितान् । स्फुरिततावकदिव्यगुणान् मणीन् स्वहृदये सुधियो दधतीन्दिरे ॥ १२॥ रस्यं गवामपि पयो रसनोपघातात् पैत्येन तिक्तमिति वक्ति यथा तथाऽपि हि । तत्त्वं परं त्वदुपगूढमपोढहेयं हेयास्पदं वदति कश्चन गाढपापः ॥ १३॥ नित्योदञ्चितचञ्चरीकनिनदां नीरन्ध्रपुष्पद्रुमां निर्यन्निर्झरशीतलां वृषगिरेरुत्तुङ्गशृङ्गस्थलीम् । कृत्वा केलिगृहं रमे रमयसे सर्वेश्वरं त्वत्प्रियं भोगोपक्रमविभ्रमभ्रमिमुखे भग्नं मुहुः कुर्वती ॥ १४॥ मधुकरमौलिदघ्नमकरन्दरसप्रसर- प्रकलितभूलसेकपरिबृंहितपुष्पवने । विरचितपादचारमिह वेङ्कटशैलतटे विहरसि देवि लक्ष्मि करलम्बितकान्तकरा ॥ १५॥ कमलपलाशदेश्यपरिपेशलचिह्नपद - द्वितयनिवेशनाङ्कपरिकर्मपवित्रशिलाः । तव च तव प्रियस्य विनमन्ति वृषाद्रितटे विकचकुशेशयोदरविहारिणि सर्वसुराः ॥ १६॥ उपनिषदां सहस्रमुपबृंहणमप्यखिलं वदति परोक्षमम्ब दयितेन समं भवतीम् । अथ पुनरञ्जनाद्रिरपरोक्षमवेक्षयते शरणमयासिषं तमधिकाद्भुतभूमिमहम् ॥ १७॥ त्वयि वृषशैलसीम्नि कुसुमापचयावसरे दयितविलोभनाय धृतदिव्यलतावपुषि । पतिरपि ते प्रगल्भमतिरेत्य मधुव्रतताम् अतिपतितान्यवल्लि भवतीमभिकामयते ॥ १८॥ सुतनु लुनाव पुष्पमधिकापचयेऽस्तु जयः तव मम वेत्युदीर्य कुसुमानि लुनन् कमले । त्वदुदितनर्मसूक्तिरसनिघ्नमनाः प्रहसन् प्रसवपराङ्मुखश्च विजितो वृषशैलपतिः ॥ १९॥ सहचरवेङ्कटेशकरनम्रितकल्पतरोः अभिनवपुष्पजातमपचेतुमुदग्रमुखी । प्रियतममुग्धहासमुखचन्द्रविलोपितधीः त्वमपचिनोषि तस्य मणिदाममहःप्रसवान् ॥ २०॥ जननि सखीसमक्षमुपगूहनलोलमतेः तव पतिमिङ्गितज्ञमतिपुष्पितवृक्षतनुम् । सपुलककम्पघर्मसलिलादिविकारभृतः कुचयुगतो निपीड्य कुसुमानि लुनासि शनैः ॥ २१॥ अन्तर्वसन्तमवलम्बितहेमशृङ्गां आलिप्तकुङ्कुमकुचामरुणोत्तरीयाम् । आनीलवेणिमनुरूपसखीवृतां त्वां आलोक्य विस्मयभरस्तिमितः पतिस्ते ॥ २२॥ प्राप्ता स्वामिसरः प्रसन्नसलिलं स्नातुं सह प्रेयसा दृष्ट्वा स्वप्रतिबिम्बमम्ब सुभगं स्तब्धा प्रतिश्रीधिया । आस्फाल्या(म्बुनि) कम्पितेऽत्र विमतादृष्ट्या प्रसन्ना पुनः पत्या निर्विशसि त्वमञ्जनगिरौ कीलाललीलारसम् ॥ २३॥ कान्तेन शृङ्गसलिलैस्सकृदुक्षितां त्वां वीक्ष्यासहिष्णुभिरुपेत्य सखीजनैस्ते । पर्युक्षितः पतिरनारतमम्बुवृष्ट्या निर्णिक्तनीलमणिशैलरुचिं दधाति ॥ २४॥ सिञ्चन्त्यां करवारिणा प्रियमुखं त्वाय्येकया हेलया सिञ्चन्तीष्वभितः सखीष्वपि निरुच्छवासो निमज्ज्यान्यतः । उन्मज्ज्य स्मितफुल्लगण्डफलकां त्वां पुण्डरीकेक्षणः पश्यन् साञ्जलि वारयत्यभियतीं भूयश्च सेकोत्सुकाम् ॥ २५॥ यस्ते श्रीः पुष्पमेकं चरणकमलयोरर्पयेद्भूतिकामो वज्रालङ्कारहस्तस्स खलु सुरपुरीवीधिकाभ्यन्तरेषु । दिव्यस्त्रीभिस्स्वहस्तैरचिरमुपचितैः पारिजातप्रसूनैः आरादाकीर्यमाणश्चरति सुरपतिस्स्वैरमैरावतेन ॥ २६॥ सम्पत्कामस्सकृत्त्वां प्रणमति कमले या (यो) यदृच्छाप्रवृत्तिः सोयं हंसाधिरूढः प्रतिदिशवदनो भारतीप्राणनाथः । ब्रह्माण्डैकाधिपत्यस्मयकृतविकृतिः सेव्यते (साव)रायैः (रोधैः) देवैर्दिक्पालमुख्यैरधिगतविनयैरञ्जलिव्यग्रहस्तैः ॥ २७॥ यो वा कश्चिज्जातु काम्येष्वकामो भूयिष्ठां ते नमौक्ति विध(त्ते) । (दत्त्वा तस्मै) देवि भोगापवर्गौ न त्वं दृ(तृ)प्ता कीदृगौदार्यमेतत् ॥ २८॥ कश्चित्त्वाश्चर्यबुद्धिः कबलयति कला याश्चतुष्षष्टिसङ्ख्याः कश्चि(त्त्वत्यन्तमन्दः पिककरटभिदा)न्नेव(न्नैव) शक्तो विवेक्तुम् । कोऽप्यन्यस्सार्वभौमो भुवमनुभवति क्षुत्कृशः कोऽपि भिक्षुः वैषम्यस्यास्य हेतुर्भगवति कमले त्व(त्कटाक्षाकटाक्षौ) ॥ २९॥ कनकलतेव नीलमणिशैलविशालतटं कपिशिमदीप्रकम्रकलिकेव तमालतरुम् । अभिनवमम्बुवाहमचलेव तटिल्लतिका मुरजिदुरः पयोधि(दुहि)तः परिभावयसे ॥ ३०॥ अमृतलहरीमालालीलाविजित्वरविभ्रमैः शिशिरमधुरैः श्रीरम्ब त्वत्प्रतिक्षणवीक्षणैः । उपचितमहाबाहाशाखश्शुचि (स्मित) का(को)रकः फलतु भजतां तत्तत्कामांस्तव प्रियकल्पकः ॥ ३१॥ अयि वृषगिरेरुच्चैशृङ्गाग्रमङ्गलदीपिके निजपरिजनस्त्रीनेत्राणां निरन्तर चन्द्रिके । भवहुतवहज्वालार्तानां सुधामयदीर्घिके जय जय जगज्जन्ये धन्ये जनार्दनजीविके ॥ ३२॥ नारीणामुत्तमा त्वं पतिरपि पुरुषेषूत्तमस्ते विभूतिः नित्या भोगाय लीलारसपरिणतये कल्पितैषा विभूतिः । भृत्या ब्रह्मादिदेवास्सहजपरिजनास्सूरयो नित्यशुद्धाः (हे श्री)स्त्वद्भागधेयं निरवधिकमहं भावयेयं कथं वा ॥ ३३॥ मातर्महत्त्मतिवाङ्मनसंवत्वदीवयं यस्यास्तव प्रणयरोषकषायितायाः । नीराज(य)म(त्य)रुणमङ्घ्रियुगं किरीट- रत्नत्विषा निखिललोकपतिर्मुकुन्दः ॥ ३४॥ नानादेवादिदेहप्रकृतिपरिणतौ कर्मपाशेन बद्धान् पर्यायेणोच्चनीचभ्रमितजलघटी(धारि) यन्त्रस्य नीत्या । ऊर्ध्वाधोलोकगत्या गतिजवविवशान् प्राणिनस्त्रातुमेतान् को वाऽन्यश्शक्यशङ्कः प्रभुरिति कमले त्वत्सखाद्वेङ्कटेशात् ॥ ३५॥ दुर्लङ्घे दुःखसिन्धौ दुरनुभवमहाव्याधिभेदोत्तरङ्गे सम्भग्नान्वीक्ष्य जीवान् सहजकरुणया प्रेरिता लोकमातः । कूपान्तर्मुग्धपुत्रं पतितमनुपतन्मातृवल्लोकमेतं प्राप्ता वैकुण्ठधाम्नस्त्वमिह वृषगिरौ वर्तसे त्रातुमेतान् ॥ ३६॥ स्मितरुचिकौमुदीकवदनेन्दुरुदारवपुः त्वरितमवातरद्य(रिष्य)दमृतेन न चेद्भवती । चलितचतुर्भुजस्य मथितोद्धतदुग्धनिधेः ध्रुवमभविष्यदम्ब कमितुस्तव नीरसता ॥ ३७॥ प्रवहदमृतपूरात् प्रादुरासीः पयोधेः अमृतमथनदान्तं मोहयन्ती मुकुन्दम् । अथ विपुलमयासीदन्तरं तस्य बाह्वोः अनिमिषममराणां पश्यतां पद्मवासे ॥ ३८॥ सान्द्रार्द्रागसि संहितादनुगतादस्त्रादतित्रासिनि भ्रान्त्वा सर्वजगत् सु(स्व)गोप्तृविरहात् काके पुरः पेतुषि । दृष्ट्वैनं जननि त्वया सदयया विज्ञाप्य वीरव्रतं पत्युस्ते प्रतिबोधिता रघुकुलोत्तंसस्य पुंसः कृपा ॥ ३९॥ पद्मे परिष्कृतमतीं परिफुल्लदृष्टिं सीतां समीक्ष्य जनकाङ्कनिषेदुषीं त्वाम् । त्वद्भ्रूविभङ्गविधिना विहितोपदेशः शम्भोर्बभञ्ज धनुराशु रघुप्रवीरः ॥ ४०॥ रामो रमे तव कृते रघुवीरजाये भोगीन्द्रभोगसुभगामुपधाय बाहाम् । आजानुबाहुरशयिष्ट तटे पयोधेः प्रस्पर्धयन् प्रतिपयोधिरिव प्रसुप्तः ॥ ४१॥ श्रीरम्ब मैथिलि पतिस्तव धर्मपत्न्याः प्राप्तेस्तिरोधिमुदधिं व्यतिलङ्घ्य वीरः । आलूय सङ्कुलमरातिकुलं समूलम् आसीत्त्वदीयमुखपद्मविकासभास्वान् ॥ ४२॥ मातर्मनोनयन(रञ्ज)नदिव्यरूपः कृष्णस्सतृष्णहृदयस्त्वयि भाववत्याम् । वीरो वहन्नुर्रसि वैरिशरान्महाजौ त्वां रुक्मिणीमुदवहद्विजितारिलोकः ॥ ४३॥ आरभ्य शैशवमनारतमप्रयत्नात् यत्पूतनादिविपदुत्तरणं मुरारेः । कल्याणि रुक्मिणि जगज्जननि त्वदीय- मङ्गल्यसूत्रमहिमा खलु तत्र हेतुः ॥ ४४॥ जामाता पुरुषोत्तमस्सुसदृशो लक्ष्म्यास्सुताया ममे- त्यानन्दैरुदितैरिवान्तरमितैस्तुङ्गैस्तरङ्गैर्वृतम् । दुग्धाब्धि पितरं तवाम्ब दयितः पश्यन्प्रभूताकृतिः प्रत्यग्राम्बुजलोचनः फणिपतौ शेते नभश्श्यामलः ॥ ४५॥ भव्यं पद्मादिरूपं परिमलमपि चादाय सृष्टेव मृद्वी पद्मे त्वन्नित्यभोग्यप्रियतमवपुरुत्कर्षजातातिशङ्का । विश्लेष्टुं न क्षमाऽहं क्षणमपि दयितत्वादिति व्याहरन्ती श्लिष्यन्ती कान्तवक्षस्सुदृढमविरतं मोदसे वेङ्कटाद्रौ ॥ ४६॥ श्रीमद्वेङ्कटशैलनीलजलदव्राताभिजाताकृतेः शार्ङ्गश्रीजितचारुशक्र धनुषश्शश्वत्कृपावर्षिणः । मन्द्रं मन्दसमीरपूरणकृतं शङ्खध्वनिं बिभ्रतः विष्णोः श्रीरुरसि स्थिता वितनुषे विद्युल्लताविभ्रमम् ॥ ४७॥ यथाऽनर्घं रत्नं भवति निजदीप्त्या परिवृतं यथा पुष्यपुष्पं नवपरिमलर्द्ध्या बहुमतम् । तथा वित्याश्लिष्टो भगवति भवत्या महितया निषेव्यस्सर्वेषां भवति भगवांस्त्वत्सहचरः ॥ ४८॥ इयं गाथा काऽपि श्रवणपथवृत्ता तनुभृतां भवेत्किञ्चिद्वस्तु स्वपरगुणनिर्वाहकमिति । मृषा नैषा सूक्तिर्भगवति यतः श्रीर्निरुपमा त्वमेव श्रीमत्तां तव च तव पत्युः प्रथयसे ॥ ४९॥ स्वशेषैरुत्कर्षे सति न खलु शेषित्वविहतिः यतश्शेषी शेषैरेतिशयकरैरेव भवति । अतः श्रीः कान्तस्ते त्वदुपहितनिस्सीममहिमा- ऽप्यहीनस्वातन्त्र्यो भवति न परोपाधिकगुणः ॥ ५०॥ मन्दस्पर्शं मलयमरुतां माधुरीं माक्षिकाणां वीणानादं क्षणरुचिरुचिं सौरभं वारिजानाम् । आदायाङ्गं तव कृतमिति श्रीर्वचो यौक्तिकानां कालातीतं निगमवचसा तस्य नित्यत्वसिद्धेः ॥ ५१॥ आमोदमेदुरमरालमुदारबन्धं मृद्वायतं चमरवालविलासजैत्रम् । आनीलमद्भुतमनातपवार्यमम्ब केशापदेशतिमिरं बिभृषे किमेतत् ॥ ५२॥ किंनु स्विदम्ब तिमिरस्य विपत्ति(क्ति)रेषः किंवा नवोत्पलजनीलिमसम्प्रदायः । भिन्नाञ्जनोपलरुचामथवैष राशिः इत्यादिसंशयपदं तव केशपाशः ॥ ५३॥ कर्णावतंसकलिकायितलोचनेन स्वर्णात्मदर्शसुहृदा सुषमोत्तरेण । मन्दस्मितांशु मधुरेण तवाननेन चन्द्रः कलङ्ककलुषः कथमम्ब तुल्यः ॥ ५४॥ अभिनवमरविन्दं किन्नु भृङ्गानुलीनं सजलदशकलं वा शारदं चन्द्रबिम्बम् । कनकमुकुरमाहो नीलरत्नानुविद्धं जननि मुखमिदं ते स्निग्धनीलालकं वा ॥ ५५॥ मातस्तवैतदभिजातसुवर्णपट्ट- सौभाग्यहारि निटिलं निरपेक्षभूषम् । कस्तूरिकोर्ध्वतिलकं बिभृषे तथाऽपि नूनं तदस्य तिलकस्य परिष्क्रियायै ॥ ५६॥ असितमवनतं च स्निग्धमायुष्य[मेतत् तव जननि समिन्धे भ्रूयुगं देवि दिव्यम् । विलसितविवशस्सन् यस्य निस्सीमकान्तेः विहितविविधविश्वो विष्णुराज्ञाकरस्ते ॥ ५७॥ जिघ्रासयेव मुखमारुतसौरभाणां द्राघीयसी जननि तावकनासिकेयम् । भ्रूसेतुमध्यविवरेण ललाटदिव्य- सौन्दर्यसारसरितः प्रसृतेव कुल्या ॥ ५८॥ अधिगतवतोरक्ष्णोः कृष्णात्वमर्जुनतां च ते जनितरणयोर् भ्रूकोदण्डस्पृशोरनुरक्तयोः । कथमिव परा मैत्री कर्णेन कुण्डलचारुणा समजनि जनन्याश्चर्याणामसि त्वमपाश्रयः ॥ ५९॥ द्विजैरेतैः पङ्क्तावविवरनिविष्टैरविषमैः उदग्रैरुद्भाभिश्शुचिभिरधरस्यास्य कमले । स्मयायत्तव्यक्तेरपि च परभागप्रणयिनः बहिष्कारस्सोऽयं समुचिततरः पल्लवरुचेः ॥ ६०॥ स्फटिकमुकुरबिम्बौ नीलरत्नांशुगर्भौ किममृतकिरणौ द्वौ शारदौ श्रीकराङ्कौ । अथ विमलकपोलौ देवि ते दर्शनीयौ श्रवणकुवलयश्रीजातवर्णप्रकर्षौ ॥ ६१॥ मातः स्वभावसुषमापुनरुक्तभूषः पत्युस्तवापि विजयावहभव्यरेखः । स्वामोदसम्पदधिवासित सर्वगन्धः कण्ठो मृदुः कथय कम्बुसमः कथं स्यात् ॥ ६२॥ सौभाग्यसम्पदभिभूतसुवर्णकुम्भौ भूयः परास्तपरिणाहिपयोजकोशौ । कूलङ्कषौ कुचभरौ गुरुभारहारौ पुत्रस्य देवि कुशलं कुरुतो दृशोर्मे ॥ ६३॥ तारुण्यसौरभतरङ्गितहृत्तटाके जातौ स्तनद्वयमिषेण सरोजकोशौ । तन्मूललग्नसितबालमृणालिकैव मुक्तावलीति मम मातरभूद्वितर्कः ॥ ६४॥ बाहाश्शिरीषमृदवस्तनवस्सुवृत्ताः शम्पारुचस्समुचिताभरणाश्चतस्रः । मातस्सपल्लवसकोरककल्पवल्ली - बालप्रतानविततीरनुकुर्वते ते ॥ ६५॥ तन्वी तलोदरगता तव रोमराजिः आभाति देवि कुचतुङ्गकुलाचलाभ्याम् । निष्क्रम्य नाभिसरसीमभियान् पिपासुः आनीलभोग इव कश्चन बालसर्पः ॥ ६६॥ पीताम्बरस्थगितमध्यकटीनितम्ब- कम्रोरुकाण्डवरजानुयुगोपमानम् । नास्त्यस्ति चेद्वदतु देवि तवैव कान्तः सर्वज्ञ इत्यनुविनादितकाहलीकः ॥ ६७॥ वृत्ते तवाम्ब लभि(लि)ते विधृतानुपूर्व्ये पीताम्बराञ्चलपिशङ्गरुचाऽभिषिक्ते । सौवर्णकाहलसमे समसन्निवेशे जङ्घे तु(न) लङ्घयति सेवकलोकदृष्टिः ॥ ६८॥ प्रत्यग्रकल्पतरुपल्लवपाटलाभौ वज्रध्वजाब्जमुखमङ्गलचिह्नगर्भौ । इन्द्रादिदेवमणिमौलिमहार्हपीठौ मातस्त्वदीयचरणौ शरणं प्रपद्ये ॥ ६९॥ चन्द्रस्त्वदीयमुखकान्तिजितः कलङ्की श्रीरम्ब वृत्तविशदांशुनखापदेशात् । चारु प्रपद्य चरणद्वितयं भवत्याः पूर्णोऽकलङ्कदशमूर्तिरजस्रमासीत् ॥ ७०॥ विद्युद्दामद्युतिभिरुचितैर्दिव्यभूषासहस्रैः स्थाने देवि स्थगयसि वपुर्दिव्यमापादचूडम् । नोचेत् सर्वावयवसुषमास्वस्वदेशानुकर्ष- श्रान्तस्वान्तस्तिमितनयनो वल्लभस्ते जल[ड]स्स्यात् ॥ ७१॥ स [न] सत्कर्म ज्ञानं न च विमलमध्यात्मविषयं त्वयि त्वत्कान्ते वा न हि परमभक्तिस्त्वजनि मे । ततश्चाकिञ्चित्को दुरितभरितोऽनन्यगतिकः शरण्ये देवि त्वां शरणमभिपद्ये भगवतीम् ॥ ७२॥ अनन्तासह्यागस्कृत [मकृत] सद्वृत्तिमशुचिं प्रहीणं शब्दादिप्रवणमतिलज्जाभयदयम् । प्रसक्तं स्त्रीमात्रे पशुवदशुभैकास्पदमिमं कथं मातः क्षाम्येदखिलखलशासी तव पतिः ॥ ७३॥ कदाचित्कान्तस्ते हितपरपितृत्वेन कलुषः कृतागस्स्वस्मासु स्वयमुचितशिक्षां तितनिषेत् । तदा मातस्त्वं च भ्रुकुटिपरतन्त्रं प्रणयिनं प्रलोभ्य स्वैरङ्गैश्चरणपरिचर्यां घटय नः ॥ ७४॥ अस्पृष्टसंसरणदुःखलवैरनादि- सिद्धैरसङ्कुचितनित्यसुखावबोधैः । भव्यैः परस्परपरिस्थितशेषभावैः संवासयाम्ब सहजैस्तव किङ्करैर्माम् ॥ ७५॥ आम्ना[आम्ला] नैरमृतद्रवप्रियसखैरौदार्यकर्णेजपैः अत्यैश्वर्यमदालसैरभिमुखेष्वाभाषितस्वागतैः । अम्बाविष्कृतकूलमुद्वहकृपावात्सल्यविस्रम्भणैः आलोकैरभिषिञ्च मामनुकलं त्वत्पादपद्माश्रयम् ॥ ७६॥ त्वद्दासदासकुलराजकुलाश्रयेण भव्योत्तमस्य मम कर्मजवाग्विमर्दान् । स्तोत्रापदेशविहितानपि तानसङ्ख्यान् मातः क्षमस्व मयि केवलवत्सला त्वम् ॥ ७७॥ अस्मद्गुरुं परमकारुणिकं त्वदङ्ऽघ्रि- निस्सीमभक्तिनिधिमार्यमनर्घशीलम् । सौम्योपयन्तृमुनिमात्मविदं समीक्ष्य मातः प्रसीद मम वृत्तमचिन्तयित्वा ॥ ७८॥ देव्या मदीयरसनाध्[स]नया श्रियव स्वप्रीतये स्तुतिमिमामुदितां गृणन्तः । भुक्त्वा समृद्धिमिह सद्भिरनन्यभोगैः अन्ते च सूरिपरिषत्प्रथमार्हणीयाः ॥ ७९॥ ॥ श्रीवादिभयङ्करगुरवे नमः ॥ श्रीवेङ्कटगुरवे नमः ॥ ॥ इति श्रीलक्ष्मीस्तोत्रम् ॥ From veNkaTeshakAvyakalApaH Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIlakShmIstotram
% File name             : lakShmIstotraVkalApa.itx
% itxtitle              : shrIlakShmIstotram (veNkateShakAvyakalApaH)
% engtitle              : shrIlakShmIstotram
% Category              : devii, stotra
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha KavyakalApa
% Indexextra            : (book Venkatesha KavyakalApa)
% Latest update         : June 10, 2016
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP