श्रीमीनाक्षीमणिमालाष्टकम्
मधुरापुरिनायिके नमस्ते
मधुरालापिशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये
मयि मीनाक्षि कृपां विधेहि धन्ये ॥ १॥
कचनिर्जितकालमेघकान्ते
कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते
मयि मीनाक्षि कृपां विधेहि शान्ते ॥ २॥
कुचयुग्मविधूतचक्रवाके
कृपयापालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके
मयि मीनाक्षि कृपां निधेहि पाके ॥ ३॥
विधिवाहनजेतृकेलियाने
विमतामोटनपूजितापदाने ।
मधुरेक्षणभावभूतमीने
मयि मीनाक्षि कृपां विधेहि दीने ॥ ४॥
तपनीयपयोजिनीतटस्थे
तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे
मयि मीनाक्षि कृपां विधेहि सार्थे ॥ ५॥
कलकीरकलोक्तिनाददक्षे
कलितानेकजगन्निवासिरक्षे ।
मदनाशुगहल्लकान्तपाणे
मयि मीनाक्षि कृपां कुरु प्रवीणे ॥ ६॥
मधुवैरिविरिञ्चिमुख्यसेव्ये
मनसा भावितचन्द्रमौलिसव्ये ।
तरसा परिपूरितयज्ञहव्ये
मयि मीनाक्षि कृपां विधेहि भव्ये ॥ ७॥
जगदम्ब कदम्बमूलवासे
कमलामोदमुखेन्दुमन्दहासे ।
मदमन्दिरहारिदृग्विलासे
मयि मीनाक्षि कृपां विधेहि दासे ॥ ८॥
पठतामनिशं प्रभातकाले
मणिमालाष्टकमष्टभूतिदायी ।
घटिताशतचातुरीं प्रदद्या-
त्करुणापूर्णकटाक्षसन्निवेशात ॥ ९॥
इति श्रीमीनाक्षीमणिमालाष्टकं सम्पूर्णम् ।
With little variation
श्रीमीनाक्षीमणिमालाष्टकम् ।
मधुरापुरनायिके नमस्ते मधुरालापशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां निधेहि धन्ये ॥ १॥
कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि कृपां निधेहि दान्ते ॥ २॥
कुचयुग्मविभिन्नचक्रवाके कृपया पालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निधेहि पाके ॥ ३॥
तपनीयसरोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे मपि मीनाक्षि कृपां निधेहि सार्थे ॥ ४॥
मधुवैरिविरिञ्चिमुख्यसेव्ये मनसा भावितचन्द्रमौलिलव्ये ।
मनसापनिहीतयज्ञहव्ये मयि मीनाक्षि कृपां निधेहि भव्ये ॥ ५॥
कलकीरकलोक्तिनाददक्षे कलितानेकजगन्निवासकुक्षे ।
मदनाशुगहल्लकान्तपाणे मयि मीनाक्षि कृपां निधेहि शोणे ॥ ६॥
विधिवाहनचैत्रकेलियाने विमतामोटनपूजितापदाने ।
मधुरेक्षणभावपूतमीने मयि मीनाक्षि कृपां निधेहि दीने ॥ ७॥
जगदम्ब कदन्बमूलवासे मधुरामोदमुखेन्दुमन्दहासे ।
मदमन्दिरचारुदृग्विलासे मयि मीनाक्षि कृपां निधेहि दासे ॥ ८॥
पठतामनिशं प्रभातकाले मणिमालाष्टकमष्टभूतिदायि ।
घटिकाशतचातुरी समिन्धे करुणापूर्णकटाक्षसन्निवेशात् ॥ ९॥
Proofread by Jonathan Wiener, NA, Rajesh Thyagarajan