श्रीमहाराज्ञीसहस्रनामस्तोत्रम्

श्रीमहाराज्ञीसहस्रनामस्तोत्रम्

अथवा श्रीमहाराज्ञी राजराजेश्वरीसहस्रनामस्तोत्रम् पार्वत्युवाच - भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण । शरण्य सर्वलोकेश शरणागतवत्सल ॥ १॥ कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् । मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ २॥ श्रीशिव उवाच - या देवी निष्कला राज्ञी भगवत्यमलेश्वरी । सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ ३॥ तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति । अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ ४॥ परमार्थप्रदं नित्यं परमैश्वर्यकारणम् । सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम् ॥ ५॥ समस्तशोकशमनं महापातकनाशनम् । सर्वमन्त्रमयं दिव्यं राज्ञीनामसहस्रकम् ॥ ६॥ ॐ अस्य श्रीमहाराज्ञी राजराजेश्वरी नामसहस्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । सर्वभूतेश्वरी महाराज्ञी देवता । ह्रीं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीमहाराज्ञीसहस्रनामजपे विनियोगः । ॐ ह्रां ह्रीं इत्यादिना कर-हृदयादि न्यासः । NOTE: The follwing 5 lines (before ᳚dhyAnaM᳚ are not found in SVR's book ब्रह्मऋषये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे । श्रीभूतेश्वरीमह्राराज्ञीदेवतायै नमः हृदि । ह्रींबीजाय नमः नाभौ । सौः शक्तये नमः गुह्ये । क्लीं कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु । ॐह्रामित्यादिना करषडङ्गन्यासं विधाय ध्यानं कुर्यात् । ॥ ध्यानम् ॥ या द्वादशार्कपरिमण्डितमूर्तिरेका सिंहासनस्थितिमती ह्युरगैर्वृतां च । देवीमनन्यगतिरीश्वरतां प्रपन्नां var देवीमनक्षगतिमीश्वरतां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥ चतुर्भुजां चन्द्रकलार्धशेखरां सिंहासनस्थामुरगोपवीतिनीम् । var सिंहासनस्थां भुजगोपवीतिनीम् पाशाङ्कुशाम्भोरुहखड्गधारिणीं राज्ञीं भजे चेतसि राज्यदायिनीम् ॥ २॥ ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी । ह्रीं स्वाहा त्र्यक्षरी विद्या परा भगवती विभा ॥ १॥ ॐ भास्वती भद्रिका भीमा भर्गरूपा मनस्विनी । माननीया मनीषा च मनोजा च मनोजवा ॥ २॥ मानदा मन्त्रविद्या च महाविद्या षडक्षरी । षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ ३॥ शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी । महालक्ष्मीर्महोरस्का महौजस्का महोदया ॥ ४॥ मातङ्गी मोदकाहारा मदिरारुणलोचना । साध्वी शीलवती शाला सुधाकलशधारिणी ॥ ५॥ खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता । हृत्पद्मवासिनी हृद्या पानपात्रधरा परा ॥ ६॥ धराधरेन्द्रतनया दक्षिणा दक्षजा दया । var दशना दया दयावती महामेधा मोदिनी बोधिनी सदा ॥ ७॥ गदाधरार्चिता गोधा गङ्गा गोदावरी गया । महाप्रभावसहिता महोरगविभूषणा ॥ ८॥ महामुनिकृतातिथ्या माध्वी मानवती मघा । बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी ॥ ९॥ शारी शरीरमध्यस्था वैखरी खेचरेश्वरी । शिवदा शिववक्षःस्था कालिका त्रिपुरेश्वरी ॥ १०॥ var त्रिपुरापुरी पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी । बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ ११॥ मुण्डमालाञ्चिता मुद्रा क्षोभणाकर्षणक्षमा । ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ १२॥ रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी । नारसिंही भैरवेशी भैरवाकारभीषणा ॥ १३॥ नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी । नागकङ्कणकेयूरा (१००) नागहारा सुरेश्वरी ॥ १४॥ सुरारिघातिनी पूता पूतना डाकिनी क्रिया । कूर्मा क्रियावती कृत्या डाकिनी लाकिनी लया ॥१५॥ var क्रियावती कुरी कृत्या, शाकिनी लया लीलावती रसाकीर्णा नागकन्या मनोहरा । हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ १६॥ महासिनी मधुमती सरसी स्मरमोहिनी । var प्रहासिनी मधुमती महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ १७॥ सुधामयी वेणुकरा वैरघ्नी वीरसुन्दरी । वारिमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ १८॥ शङ्करी शर्मदा सीता रवीन्दुशिखिलोचना । मदिरा वारुणी वीणागीतिज्ञा मदिरावती ॥ १९॥ वटस्था वारुणीशक्तिः वटजा वटवासिनी । वटुकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी चमूः ॥ २०॥ मुद्गराङ्कुशहस्ता च वराभयकरा कुटी । पाटीरद्रुमवल्ली च वटुका वटुकेश्वरी ॥ २१॥ इष्टदा कृषिभूः कीरी रेवती रमणप्रिया । रोहिणी रेवती रम्या रमणा रोमहर्षिणी ॥ २२॥ रसोल्लासा रसासारा सारिणी तारिणी तडित् । तरी तरित्रहस्ता च तोतुला तरणिप्रभा ॥ २३॥ रत्नाकरप्रिया रम्भा रत्नालङ्कारशोभिता । रुक्माङ्गदा गदाहस्ता गदाधरवरप्रदा ॥ २४॥ षड्रसा द्विरसा माला मालाभरणभूषिता । मालती मल्लिकामोदा मोदकाहारवल्लभा ॥ २५॥ वल्लभी मधुरा माया काशी काञ्ची ललन्तिका । हसन्तिका हसन्ती च भ्रमन्ती च वसन्तिका ॥ २६॥ क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा (२००) क्षणेश्वरी । क्षणदा क्षेमदा सीरा सीरपाणिसमर्चिता ॥ २७॥ क्रीता क्रीतातपा क्रूरा कमनीया कुलेश्वरी । कूर्चबीजा कुठाराढ्या कूर्मिर्णी कूर्मसुन्दरी ॥ २८॥ कारुण्यार्द्रा च काश्मीरी दूती द्वारवती ध्रुवा । var कारुण्या चैव ध्रुवस्तुता ध्रुवगतिः पीठेशी बगलामुखी ॥ २९॥ सुमुखी शोभना नीतिः रत्नज्वालामुखी नतिः । अलकोज्जयिनी भोग्या भङ्गी भोगावती बला ॥ ३०॥ धर्मराजपुरी पूता पूर्णमालाऽमरावती । var पूर्णसत्त्वाऽमरावती अयोध्या बोधनीया च युगमाता च यक्षिणी ॥ ३१॥ var योधनीया यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी । यशोवती च चार्वङ्गी चारुहासा चलाचला ॥ ३२॥ हरीश्वरी हरेर्माया भामिनी वायुवेगिनी । var मायिनी वायुवेगिनी अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः ॥ ३३॥ कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी । कठोरवाक्कुहूमूर्तिः चन्द्रबिम्बसमानना ॥ ३४॥ चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचलवासिनी । मलयाचलसानुस्था हिमाद्रितनयातनूः ॥ ३५॥ हिमाद्रिकुक्षिदेशस्था कुब्जिका कोसलेश्वरी । कारैकनिगला गूढा गूढगुल्फाऽतिवेगिनी ॥ ३६॥ var गूढगुल्फाऽतिगोपिता तनुजा तनुरूपा च बाणचापधरा नुतिः । धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना ॥ ३७॥ अरुणेशी द्युतिः ख्यातिः गरिष्ठा च गरियसी । महानसी महाकारा सुरासुरभयङ्करी ॥ ३८॥ अणुरूपा बृहज्ज्योतिरनिरुद्धा सरस्वती । श्यामा श्याममुखी शान्ता श्रान्तसन्तापहारिणी ॥ ३९॥ गौर्गण्या गोमयी गुह्या गोमती गरुवाग्रसा । गीतसन्तोषसंसक्ता (३००) गृहिणी ग्राहिणी गुहा ॥ ४०॥ गणप्रिया गजगतिर्गान्धारी गन्धमोदिनी । गन्धमोहिनी गन्धमादनसानुस्था सह्याचलकृतालया ॥ ४१॥ गजाननप्रिया गम्या ग्राहिका ग्राहवाहना । गुहप्रसूर्गुहावासा गृहमालाविभूषणा ॥ ४२॥ कौबेरी कुहका भ्रन्तिस्तर्कविद्याप्रियङ्करी । पीताम्बरा पटाकारा पताका सृष्टिजा सुधा ॥ ४३॥ दाक्षायणी दक्षसुता दक्षयज्ञविनाशिनी । ताराचक्रस्थिता तारा तुरी तुर्या त्रुटिस्तुला ॥ ४४॥ सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्यलालिता । ललिता लोहिता लभ्या चम्पा कम्पाकुला सृणिः ॥ ४९॥ सृतिः सत्यवती स्वस्थाऽसमाना मानवर्धिनी । महोमयी मनस्तुष्टिः कामधेनुः सनातनी ॥ ४६॥ सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा कलावती । तलातलाश्रया सिन्धुः त्र्यम्बिका लम्पिका जया ॥ ४७॥ सौदामिनी सुधादेवी सनकदिसमर्चिता । मन्दाकिनी च यमुना विपाशा नर्मदानदी ॥ ४८॥ गण्डक्यैरावती सिप्रा वितस्ता च सरस्वती । रेवा चेक्षुमती वेगवती सागरवासिनी ॥ ४९॥ देवकी देवमाता च देवेशी देवसुन्दरी । दैत्येशी दमनी दात्री दितिर्दितिजसुन्दरी ॥ ५०॥ var दैत्यघ्नी विद्याधरी च विद्येशी विद्याधरजसुन्दरी । मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥ ५१॥ उर्वशी मोहिनी रम्भा चाप्सरोगणसुन्दरी । यक्षिणी यक्षलोकेशी यक्षनायकसुन्दरी ॥ ५२॥ var नरवाहनपूजिता NOTE: The next line is not found in SVR's book यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी । गन्धवत्यर्चिता गन्धा सुगन्धा गीततत्परा ॥ ५३॥ गन्धर्वतनया नम्रा (४००) गीतिर्गन्धर्वसुन्दरी । मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ ५४॥ मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी । रक्षोहर्त्री केकसी च रक्षोनायकसुन्दरी ॥ ५५॥ किन्नरी कम्बुकण्ठी च कलकण्ठस्वनाऽमृता var कलकण्ठस्वना सुधा किम्मुखी हयवक्त्रा च खेलाकिन्नरसुन्दरी ॥ ५६॥ विपाशी राजमातङ्गी उच्छिष्टपदसंस्थिता । महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ ५७॥ गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी । सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ ५८॥ भूतेश्वरी भूतलया भूतधात्री भयापहा । भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ ५९॥ पृथ्वी पार्थिवलोकेशी प्रथा विष्णुसमर्चिता । वसुन्धरा वसुनता पर्थिवी भूमिसुन्दरी ॥ ६०॥ अम्भोधितनयाऽलुब्धा जलजाक्षी जलेश्वरी । अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ ६१॥ तेजस्विनी महोधात्री तैजसी सूर्यबिम्बगा । सूर्यकान्तिः सूर्यतेजाः तेजोरूपैकसुन्दरी ॥ ६२॥ वायुवाहा वायुमुखी वायुलोकैकसुन्दरी । गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ ६३॥ शूररूपा निराभासा भासमाना धृतिराकाशसुन्दरी । क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ ६४॥ अब्धियाना रत्नशोभा वरुणेशी वरायुधा । पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ ६५॥ अनलैकरुचिर्ज्योतिः पञ्चानिलमतिस्थितिः । प्राणापानसमानेच्छा चोदानव्यानरूपिणी ॥ ६६॥ पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी । अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ ६७॥ हेतिर्हविर्हुतज्योतिरग्निजा वह्निसुन्दरी । सोमेश्वरी सोमकला सोमपानपरायणा ॥ ६८॥ सौम्यानना सौम्यरूपा सोमस्था सोमसुन्दरी । सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ ६९॥ याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा । याजकी यज्ञविद्या च यजमानैकसुन्दरी ॥ ७०॥ आकाशगामिनी वन्द्या शब्दजाऽऽकाशसुन्दरी । मीनास्या मीननेत्रा च मीनास्था मीनसुन्दरी ॥ ७१॥ var मीनप्रिया मीननेत्रा मीनाशा मीनसुन्दरी कूर्मपृष्ठगता कूर्मी कूर्मजा कूर्मसुन्दरी । var कूर्मरूपिणी वाराही वीरसूर्वन्द्या वरारोहा मृगेक्षणा ॥ ७२॥ वराहमूर्तिर्वाचाला वश्या वाराहसुन्दरी । var दंष्ट्रा वाराहसुन्दरी नरसिंहाकृतिर्देवी दुष्टदैत्यनिषूदिनी ॥ ७३॥ प्रद्युम्नवरदा नारी नरसिंहैकसुन्दरी । वामजा वामनाकारा नारायणपरायणा ॥ ७४॥ बलिदानवदर्पघ्नी वाम्या वामनसुन्दरी । रामप्रिया रामकला रक्षोवंशक्षयभयङ्करी ॥ ७५॥ रक्षोवंशक्षयङ्करी रक्षोवंशभयङ्करी var रामप्रिया रामकीलिः क्षत्रवंशक्षयङ्करी भृगुपुत्री राजकन्या रामा परशुधारिणी । var दनुपुत्री भार्गवी भार्गवेष्टा च जामदग्न्यवरप्रदा ॥ ७६॥ कुठारधारिणी रात्रिर्जामदग्न्यैकसुन्दरी । सीतालक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ ७७॥ रामप्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा । लावण्यामृतधाराढ्या लवणासुरघातिनी ॥ ७८॥ लोहितास्या प्रसन्नास्या स्वात्मारामैकसुन्दरी । var स्वागमा रामसुन्दरी कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ ७९॥ यादोगणार्चिता योज्या राधा श्रीकृष्णसुन्दरी । सिद्धप्रसूः सिद्धदेवी जिनमार्गपरायणा ॥ ८०॥ var बुद्धप्रसूर्बुद्धदेवी जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया । जिनवंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ ८१॥ काली कोलाहलप्रीता प्रेतवाहा सुरेश्वरी । कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ॥ ८२॥ विष्णुमाया ब्रह्ममाया शाम्भवी शिववाहना । इन्द्रावरजवक्षःस्था स्थाणुपत्नी पलालिनी ॥ ८३॥ जृम्भिणी जृम्भहर्त्री च जृम्भमाणालकाकुला । var ऋम्भमाणकचालका कुलाकुलफलेशानी पददानफलप्रदा ॥ ८४॥ कुलवागीश्वरी कुल्या कुलजा कुलसुन्दरी । पुरन्दरेड्या तारुण्यालया पुण्यजनेश्वरी ॥ ८५॥ पुण्योत्साहा पापहन्त्री पाकशासनसुन्दरी । सूयर्कोटिप्रतीकाशा सूर्यतेजोमयी मतिः ॥ ८६॥ लेखिनी भ्राजिनी रज्जुरूपिणी सूर्यसुन्दरी । चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ॥ ८७॥ लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् । सहस्रशीर्षा चेन्द्राणी सहस्रभुजवल्लिका ॥ ८८॥ कोटिरत्नांशुशोभा च शुभ्रवस्त्रा शतानना । शतानन्दा श्रुतिधरा पिङ्गला चोग्रनादिनी ॥ ८९॥ सुषुम्ना हारकेयूरनूपुरारावसङ्कुला । घोरनादाऽघोरमुखी चोन्मुखी चोल्मूकायुधा ॥ ९०॥ गोपिता गूर्जरी गोधा गायत्री वेदवल्लभा । वल्लकीस्वननादा च नादविद्या नदीतटी ॥ ९१॥ बिन्दुरूपा चक्रयोनिर्बिन्दुनादस्वरूपिणी । चक्रेश्वरी भैरवेशी महाभैरववल्लभा ॥ ९२॥ कालभैरवभार्या च कल्पान्ते रङ्गनर्तकी । प्रलयानलधूम्राभा योनिमध्यकृतालया ॥ ९३॥ भूचरी खेचरी मुद्रा नवमुद्राविलासिनी । वियोगिनी श्मशानस्था श्मशानार्चनतोषिता ॥ ९४॥ भास्वराङ्गी भर्गशिखा भर्गवामाङ्गवासिनी । भद्रकाली विश्वकाली श्रीकाली मेघकालिका ॥ ९५॥ नीरकाली कालरात्रिः काली कामेशकालिका । इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका ॥ ९६॥ श्मशानकालिका शुभ्रकाली श्रीकृष्णकालिका । var भद्रकाली क्रीङ्कारोत्तरकाली श्रीं हुं ह्रीं दक्षिणकालिका ॥ ९७॥ सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता । त्रिनेत्रा त्रिपुराध्यक्षा त्रिकूटा कूटभैरवी ॥ ९८॥ var त्रिपुटा पुटभैरवी त्रिलोकजननी नेत्री महात्रिपूरसुन्दरी । कामेश्वरी कामकला कालकामेशसुन्दरी ॥ ९९॥ त्र्यक्षर्येकाक्षरीदेवी भावना भुवनेश्वरी । एकाक्षरी चतुष्कूटा त्रिकूटेशी लयेश्वरी ॥ १००॥ चतुर्वर्णा च वर्णेशी वर्णाढ्या चतुरक्षरी । पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी ॥ १०१॥ सप्ताक्षरी नवार्णेशी परमाष्टाक्षरेश्वरी । नवमी पञ्चमी षष्टिः नागेशी नवनायिका ॥ १०२॥ var नागेशी च नवाक्षरी । दशाक्षरी दशास्येशी देविकैकादशाक्षरी । द्वादशादित्यसङ्काशा (७००) द्वादशी द्वादशाक्षरी ॥ १०३॥ त्रयोदशी वेदगर्भा वाद्या (ब्राह्मी) त्रयोदशाक्षरी । चतुर्दशाक्षरी विद्या विद्यापञ्चदशाक्षरी ॥ १०४॥ षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी । महाश्रीषोडशीरूपा चिन्तामणिमनुप्रिया ॥ १०५॥ द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी । वज्रतारा कालतारा नारी तारोग्रतारिणी ॥ १०६॥ कामतारा स्पर्शतारा शब्दतारा रसाश्रया । रूपतारा गन्धतारा महानीलसरस्वती ॥ १०७ ॥ कालज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला । विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी ॥ १०८॥ विष्णुशिखा विकरालमुखी देवी कराली भूतिभूषणा । चिताशयासना चिन्त्या चितामण्डलमध्यगा ॥ १०९॥ भूतभैरवसेव्या च भूतभैरवपालिनी । बन्धकी बद्धसन्मुद्रा भवबन्धविनाशिनी ॥ ११०॥ भवानी देवदेवेशी दीक्षा दीक्षितपूजिता । साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी ॥ १११॥ साधकाश्रयभूता च साधकेष्टफलप्रदा । रजोवती राजसी च रजकी च रजस्वला ॥ ११२॥ पुष्पप्रिया पुष्पपूर्णा स्वयम्भूपुष्पमालिका । var पुष्पप्रिया पुष्पवती स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतनाशिनी ॥ ११३॥ var पुलस्त्यसुतघातिनी पात्रहस्ता परा पौत्री पीतास्या पीतभूषणा । पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी ॥ ११४॥ मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला । पुरूरवेश्वरी पाशधरा चापधराऽधुरा ॥ ११५॥ पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी । होतृसेव्या हकारस्था सकारस्था सुखावती ॥ ११६॥ सखी शोभावती सत्या सत्याचारपरायणा । साध्वीशानकलेशानी वामदेवकलाश्रिता ॥ ११७॥ सद्योजातकलेशानी शिवाऽघोरकलाकृतिः । var सद्योजातकला देवी शर्वरी वीरसदृशी क्षीरनीरविवेचिनी (८००) ॥ ११८॥ वितर्कनिलया नित्या नित्यक्लिन्ना पराम्बिका । पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी ॥ ११९॥ काशिका कौशिकी कोश्या कोशदा रूपवर्धिनी । तुष्टिः पुष्टिः प्रजाप्रीता पूजिता पूजकप्रिया ॥ १२०॥ var प्राजिका पूजकप्रिया प्रजावती गर्भवती गर्भपोषणकारिणी । var गर्भपोषणपोषिता शुक्रवासाः शुक्लरूपा शुचिवासा जयावहा ॥ १२१॥ जानकी जन्यजनका जनतोषणतत्परा । वादप्रिया वाद्यरता वादिनी वादसुन्दरी ॥ १२२॥ var वादिता वादसुन्दरी वाक्स्तम्भिनी कीरपाणिः धीराधीरा धुरन्धरा । var वाक्स्तम्भिनी कीरवाणी स्तनन्धयी सामिधेनी निरानन्दा निरञ्जना ॥ १२३॥ var निरानन्दा निरालया समस्तसुखदा सारा वारान्निधिवरप्रदा । वालुका वीरपानेष्टा वसुधात्री वसुप्रिया ॥ १२४ । शुकानान्दा शुक्ररसा शुक्रपूज्या शुकप्रिया । शुचिश्च शुकहस्ता च समस्तनरकान्तका ॥ १२५॥ var शुकी च शुकहस्ता च समस्ततत्त्वनिलया भगरूपा भगेश्वरी । भगबिम्बा भगाहृद्या भगलिङ्गस्वरूपिणी ॥ १२६॥ भगलिङ्गेश्वरी श्रीदा भगलिङ्गामृतस्रवा । क्षीराशना क्षीररुचिः आज्यपानपरायणा ॥ १२७॥ मधुपानपरा प्रौढा पीवरांसा परावरा । पिलम्पिला पटोलेशा पाटलारुणलोचना ॥ १२८॥ क्षीराम्बुधिप्रिया क्षिप्रा सरला सरलायुधा । सङ्ग्रामा सुनया स्रस्ता संसृतिः सनकेश्वरी ॥ १२९॥ कन्या कनकरेखा च कान्यकुब्जनिवासिनी । काञ्चनोभतनुः काष्ठा कुष्ठरोगनिवारिणी ॥ १३०॥ कठोरमूर्धजा कुन्ती कृन्तायुधधरा धृतिः । चर्माम्बरा क्रूरनखा चकोराक्षी चतुर्भुजा ॥ १३१॥ चतुर्वेदप्रिया चाद्या चतुर्वर्गफलप्रदा । ब्रह्माण्डचारिणी स्फुर्तिः ब्रह्माणी ब्रह्मसम्मता ॥ १३२॥ सत्कारकारिणी सूतिः सूतिका लतिकालया (९००) कल्पवल्ली कृशाङ्गी च कल्पपादपवासिनी ॥ १३३॥ कल्पपाशा महाविद्या विद्याराज्ञी सुखाश्रया । भूतिराज्ञी विश्वराज्ञी लोकराज्ञी शिवाश्रया ॥ १३४॥ ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया । नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया ॥ १३५॥ सत्त्वराज्ञी तमोराज्ञी गणराज्ञी चलाचला । वसुराज्ञी सत्यराज्ञी तपोराज्ञी जपप्रिया ॥ १३६॥ मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रिया । वेदराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा ॥ १३७॥ कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया । पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ १३८॥ सुधाराज्ञी सुराराज्ञी भीमराज्ञी भयोज्झिता । तथ्यराज्ञी जयाराज्ञी महाराज्ञी महामत्तिः ॥ १३९॥ var महाराज्ञी कुलोकृतिः वामराज्ञी चीनराज्ञी हरिराज्ञी हरीश्वरी । पराराज्ञी यक्षराज्ञी भूतराज्ञी शिवाश्रया ॥ १४०॥ var भूतराज्ञी शिवासना वटुराज्ञी प्रेतराज्ञी शेषराज्ञी शमप्रदा । var बहुराज्ञी प्रेतराज्ञी आकाशराज्ञी राजेशी राजराज्ञी रतिप्रिया ॥ १४१॥ पातालराज्ञी भूराज्ञी प्रेतराज्ञी विषापहा । सिद्धराज्ञी विभाराज्ञी तेजोराज्ञी विभामयी ॥ १४२॥ भास्वद्राज्ञी चन्द्रराज्ञी ताराराज्ञी सुवासिनी । गृहराज्ञी वृक्षराज्ञी लताराज्ञी मतिप्रदा ॥ १४३॥ वीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यपी । var धीरराज्ञी मनोराज्ञी मुनिराज्ञी रत्नराज्ञी मृगराज्ञी मणिप्रभा ॥ १४४॥ var युगराज्ञी मणिप्रभा सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरीस्थिता । नादराज्ञी बिन्दुराज्ञी आत्मराज्ञी च सद्गतिः ॥ १४५॥ पुत्रराज्ञी ध्यानराज्ञी लयराज्ञी सदेश्वरी । ईशानराज्ञी राजेशी स्वाहाराज्ञी महत्तरा ॥ १४६॥ वह्निराज्ञी योगिराज्ञी यज्ञराज्ञी चिदाकृतिः । जगद्राज्ञी तत्त्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ १४७॥ पञ्चदशाक्षरीराज्ञी ॐ ह्रीं भूतेश्वरेश्वरी । ( १०००) इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् ॥ १४८॥ पञ्चदशाक्षरीतत्त्वं मन्त्रसारं मनुप्रियम् । सर्वतत्त्वमयं पुण्यं महापातकनाशनम् ॥ १४९॥ सर्वसिद्धिप्रदं लोके सर्वरोगनिबर्हणम् । सर्वोत्पातप्रशमनं ग्रहशान्तिकरं शुभम् ॥ १५०॥ सर्वदेवप्रियं प्राज्यं सर्वशत्रुभयापहम् । सर्वदुःखौघशमनं सर्वशोकविनाशनम् ॥ १५१॥ पठेद्वा पाठयेत् नाम्नां सहस्रं शक्तिसन्निधौ । दूरादेव पलायन्ते विपदः शत्रुभीतयः ॥ १५२॥ राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः । पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः ॥ १५३॥ श्रवणात्पाताकं नश्येच्छ्रावयेद्यः स भाग्यवान् । नानाविधानि भोगानि सम्भूय पृथिवीतले॥ १५४॥ गमिष्यति परां भूमिं त्वरितं नात्र संशयः । NOTE: The following verses (155-175) are not found in S V Radhakrishna Sastri's Book अश्वमेधसहस्रस्य वाजिपेयस्य कोटयः । गङ्गास्नानसहस्रस्य चान्द्रायणायुतस्य च ॥ १५५॥ तप्तकृच्छेकलक्षस्य राजसूयस्य कोटयः । सहस्रनामपाठस्य कलां नार्हन्ति षोडशीम् ॥ १५६॥ सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् । मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि ॥ १५७॥ वर्षमेकं शतावर्तं महाचीनक्रमाकुलः । शक्रिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि ॥ १५८॥ पुत्रकामी पठेत्सायं चिताभस्मानुलेपनः । दिगम्बरो मुक्तकेशः शतावर्तं महेश्वरि ॥ १५९॥ श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् । परदारार्चनरतो भगबिम्बं स्मरन् सुधीः ॥ १६०॥ पठेन्नामसहस्रं तु वसुकामी लभेद्धनम् । रवौ वारत्रयं देवि पठेन्नामसहस्रकम् ॥ १६१॥ मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः । स्वप्ने सिंहासनां राज्ञीं वरदां भुवि पश्यति ॥ १६२॥ क्षीरचर्वणसन्तृप्तो वीरपानरसाकुलः । यः पठेत्परया भक्त्या राज्ञीनामसहस्रकम् ॥ १६३॥ स सद्यो मुच्यते घोरान्महापातकजाद्भयात् । यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः ॥ १६४॥ शुक्रोत्तरणकाले तु तस्य हस्तेऽष्टसिद्धयः । यः पठेन्निशि चक्राग्रे परस्त्रीध्यानतत्परः ॥ १६५॥ सुरासवरसानन्दी स लभेत्संयुगे जयम् । इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे ॥ १६६॥ भूर्जत्वचि लिखेद्रात्रौ चक्रार्चनसमागमे । अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके ॥ १६७॥ धारयेत् कण्ठदेशे तु सर्वसिद्धिः प्रजायते । यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम् ॥ १६८॥ रणे राजकुले द्यूते चौररोगाद्युपद्रवे । स प्राप्नोति जयं सद्यः साधको वीरनायकः ॥ १६९॥ श्रीचक्रं पूजयेद्यस्तु धारयेद्वर्म मस्तके । पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा ॥ १७०॥ किं किं न लभते कामं देवानामपि दुर्लभम् । सुरापानं ततः संविच्चर्वणं मीनमांसकम् ॥ १७१॥ नवकन्यासमायोगो मुद्रा वीणारवः प्रिये । सत्सङ्गो गुरुसान्निध्यं राज्ञीश्रीचक्रमग्रतः ॥ १७२॥ यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः । इदं रहस्यं परमं भक्त्या तव मयोदितम् ॥ १७२॥ अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् । अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने ॥ १७४॥ गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च । नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः ॥ १७५॥ NOTE: S V Radhakrishna Sastri's Book continues with the following: देयं शिष्याय शान्ताय भक्तायाद्वैतवादिने । दीक्षिताय कुलीनाय राज्ञीभक्तिरताय च ॥ १७६॥ दत्त्वा भोगापवर्गे च लभेत्साधकसत्तमः । इति नामसहस्रं तु राज्ञ्याः शिवमुखोदितम् । अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७७॥ NOTE: the following two extra shlokams are found in S V Radhakrishna Sastri's Book अष्टाविंशतिनैजमान्यमुनिभिः भाव्यां महायोगिभिः श्रीवाणीकरवीजितां सुमकुटां श्रीचक्रबिन्दुस्थिताम् । पञ्चब्रह्मसुतत्वमञ्चनिलयां साम्राज्यसिद्धिप्रदां श्रीसिंहासनसुन्दरीं भगवतीं राजेश्वरीमाश्रये ॥ १॥ श्वेतछत्रसुवालवीजननुता मालाकिरीटोज्ज्वला सन्मन्दस्मितसुन्दरी शशिधरा ताम्बूलपूर्णानना । श्रीसिंहासनसंस्थिता सुमशरा श्रीवीरवर्यासना साम्राज्ञी मनुषोडशी भगवती मां पातु राजेश्वरी ॥ २॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञीसहस्रनामस्तोत्रं समाप्तम् ॥ Encoded by DPD, Alex Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com PSA Easwaran This work was proof read using the version found in S V Radhakrishna Sastri's Book, ᳚shrI bhagavatI stutima~njarI᳚ (pages 158-173). We find a few extra verses here, that are not found in this book. In Radhakrishna Sastri's book, the verse sequence 1-156 starts from the following shlokam. Also, in verse No. 49, SVR's book uses six padas (3 lines instead of four padas in 2 lines), so the actual count in the book and the encoded version may be slightly different. The var is used to indicate variation or pAThabheda found in two different prints.
% Text title            : shrImahArAjnIsahasranAmastotra
% File name             : mahArAjnIsahasranAmastotra.itx
% itxtitle              : mahArAjnIsahasranAmastotram athavA rAjarAjeshvarIsahasranAmastotram (rudrayAmalAntargatam)
% engtitle              : mahArAjnIsahasranAmastotram
% Category              : sahasranAma, devii, otherforms, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, PSA Easwaran
% Description-comments  : See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2)
% Latest update         : August 5, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org