श्रीनर्मदासहस्रनामस्तोत्रम्

श्रीनर्मदासहस्रनामस्तोत्रम्

श्री गुरुभ्यो नमः । ॐ श्री गणेशाय नमः । श्री नर्मदायै नमः । विनियोगः अस्य श्रीनर्मदासहस्रनामस्तोत्रमालामन्त्रस्य रुद्र ऋषिर्विराट्छन्दः श्रीनर्मदादेवता ह्रीं बीजं श्रीशक्तिः स्वाहाकीलकं श्रीनर्मदाप्रसादसिद्ध्यर्थे पठने पूजने सहस्रार्चने च विनियोगः । ऋष्यादि न्यासः रुद्रऋषये नमः । शिरसि विराट्छन्दसे नमः । मुखे श्रीनर्मदादेवतायै नमः । हृदये ह्रीं बीजायै नमः । गुह्ये श्रीं शक्तये नमः । पादयोः स्वाहा कीलकाय नमः । नाभौ श्रीनर्मदाप्रसादसिद्धयर्थे विनियोगाय नमः । सर्वाङ्गे कराङ्गन्यासः ॐ ह्रीं श्रीं नर्मदायै स्वाहा इति नवार्णमन्त्रणे । अथवा ॐ नमः अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ह्रीं नमः तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ नमः मध्यमाभ्यां नमः । शिखायै वषट् । नर्मदायै नमः अनामिकाभ्यां नमः । कवचाय हुम् । स्वाहा नमः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ ह्रीं श्रीं नर्मदायै स्वाहा करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । मूलेन त्रिर्व्यापकम् । ध्यानम् ध्याये श्री सिद्धनाथां गणवहसरितां नर्मदां शर्म्मदात्रीं श्यामां बालेव नीलाम्बरमुखनयनाम्भोजयुग्मैकमिन्दुम् । चूडाञ्चाभीतिमालां वरजलकरकां हस्तयुग्मे दधानां तीर्थस्थां छत्रहस्तां झषवरनृपगां देशिकस्यासनाग्रे ॥ १॥ नर्मदे हरसम्भूते हरलिङ्गार्चनप्रिये । हरलिङ्गाञ्चिततटे जयाघं हर नर्मदे ॥ २॥ इति ध्यात्वा यन्त्रेऽथवा प्रवाहे मानसोपचारैः सम्पूज्य नामस्तोत्रपाठं प्रत्येक नाममन्त्रेण पूजनं वा समाचरेत्, यन्त्रस्वरूपं यथा श्रीनर्मदायै नमः । अथ सहस्रनामस्तोत्रम् । नर्मदा नमनीया च नगेज्या नगरेश्वरी । नगमालावृततटा नगेन्द्रोदरसंसृता ॥ १॥ नदीशसङ्गता नन्दा नन्दिवाहनसन्नता । नरेन्द्रमालिनी नव्या नक्रास्या नर्मभाषिणी ॥ २॥ नरार्तिघ्ना नरेशानी नरान्तकभयापहा । नरकासुरहन्त्री च नक्रवाहनशोभना ॥ ३॥ नरप्रिया नरेन्द्राणी नरसौख्यविवर्धिनी । नमोरूपा च नक्रेशी नगजा नटनप्रिया ॥ ४॥ नन्दिकेश्वरसम्मान्या नन्दिकेशानमोहिनी । नारायणी नागकन्या नारायणपरायणा ॥ ५॥ नागसन्धारिणी नारी नागास्या नागवल्लभा । नाकिनी नाकगमना नारिकेलफलप्रिया ॥ ६॥ नादेयजलसंवासा नाविकैरभिसंश्रिता । निराकारा निरालम्बा निरीहा च निरञ्जना ॥ ७॥ नित्यानन्दा निर्विकारा निःशङ्का निश्रयात्मिका । नित्यरूपा निःस्पृहा च निर्लोभा निष्कलेश्वरी ॥ ८॥ निर्लेपा निश्चला नित्या निर्धूताननुमोदिनी । निर्मला निर्मलगतिर्निरामयसुवारिणी ॥ ९॥ नितम्बिनी च निर्दंष्ट्रा निर्धनत्वनिवारिणी । निर्विकारा निश्चयिनी निर्भ्रमा निर्जरार्थदा ॥ १०॥ निष्कलङ्का निर्जरा च निर्दोषा निर्झरा निजा । निशुम्भशुम्भदमनी निघ्ननिग्रहकारिणी ॥ ११॥ नीपप्रिया नीपरता नीचाचरणनिर्दया । नीलक्रान्ता नीरवाहा नीलालकविलासिनी ॥ १२॥ नुतिपात्रा नुतिप्रिया नुतपापनिवारिणी । नूतनालङ्कारसन्धात्री नूपुराभरणप्रिया ॥ १३॥ नेपथ्यरञ्जिता नेत्री नेदीयःस्वरभाजिनी । नैसर्गिकानन्ददात्री नैरुज्यकारिवारिणी ॥ १४॥ नन्दवर्धिनी नन्दयित्री नन्दकी नन्दरूपिणी । परमा परमेशाना पराधारा परमेश्वरी ॥ १५॥ पद्माभा पद्यनयना पद्मा पद्मदलप्रिया । पद्माक्षी पद्मवदना पद्ममालाविमूषिणी ॥ १६॥ पक्षाधारा पक्षिणी च पक्षेज्या परमेश्वरी । पशुप्रिया पशुरता पयःसम्मोहकारिणी ॥ १७॥ पथिप्रिया पथिरता पथिनी पथिरक्षिणी । पङ्ककर्करकूला च पङ्कग्राहसुसंयुता ॥ १८॥ प्रभावती प्रगल्भा च प्रभाजितजगत्तमा । अकृत्रिमप्रभारूपा परब्रह्मस्वरूपिणी ॥ १९॥ पापात्मानां पावयित्री पापजालनिवारिणी । पाकशासनवन्द्या च पापसन्तापहारिणी ॥ २०॥ पिकरूपा पिकेशी च पिकवाक् पिकवल्लभा । पीयूषाढ्यप्रपानीया पीतश्वेतादिवर्णिनी ॥ २१॥ पुरन्दरी पुण्ड्रधारी पुरुहूताभिवन्दिता । पुण्डरीकविशालाक्षी पुरुषार्थप्रदायिनी ॥ २२॥ पूता पूतोदका पूर्णा पूर्वगङ्गा च पूरिता । पञ्चमी पञ्चप्रेमा च पण्डिता पङ्कजेश्वरी ॥ २३॥ फलदा फलरूपा च फलेज्या फलवर्धिनी । फणिपाला फलेशी च फलावर्ज्या फणिप्रिया ॥ २४॥ बला बाला ब्रह्मरूपा ब्रह्मविष्णुशिवात्मिका । बदरीफलसन्दोहसंस्थिता बदरीप्रिया ॥ २५॥ बदर्याश्रमसंस्था च बकदाल्भ्यप्रपूजिता । बदरीफलसंस्नेहा बदरीफलतोषिणी ॥ २६॥ बदरीफलसम्पूज्या बदरीफलभाविता । बर्हिभीरञ्जिता चैव वहुला वहुमार्गगा ॥ २७॥ बाहुदण्डविलासिनी ब्राह्मी बुद्धिविवर्धिनी । भवानी भयहर्त्री च भवपाशविमोचिनी ॥ २८॥ भस्मचन्दनसंयुक्ता भयशोकविनाशिनी । भगा भगवती भव्या भगेज्या भगपूजिता ॥ २९॥ भावुका भास्वती भामा भ्रामरी भासकारिणी । भारद्वाजर्षिसम्पूज्या भासुरा भानुपूजिता ॥ ३०॥ भालिनी भार्गवी भासा भास्करानन्ददायिनी । भिक्षुप्रिया भिक्षुपाला भिक्षुवृन्दसुवन्दिता ॥ ३१॥ भीषणा भीमशौर्या च भीतिदा भीतिहारिणी । भुजगेन्द्रशयप्रीता भुविष्ठा भुवनेश्वरी ॥ ३२॥ भूतात्मिका भूतपाला भूतिदा भूतलेश्वरी । भूतभव्यात्मिका भूरिदा भूर्भूरिवारिणी । ३३॥ भूमिभोगरता भुमिर्भूमिस्था भूधरात्मजा । भूतनाथसदाप्रीता भूतनाथसुपूजिता ॥ ३४॥ भूदेवार्चितपादाब्जा भूधरावृतसत्तटा । भूतप्रिया भूपश्रीर्भूपरक्षिणी भूरिभूषणा ॥ ३५॥ भृशप्रवाहा भृतिदा भृतकाशाप्रपूरिता । भेदयित्री भेदकर्त्री भेदाभेदविवर्जिता ॥ ३६॥ भैरवप्रीतिपात्री च भैरवानन्दवर्धिनी । भोगिनी भोगदात्री च भोगकृद्भोगवर्धिनी ॥ ३७॥ भौमप्राणिहिताकाङ्क्षी भौमौषधिविवर्धिनी । महामाया महादेवी महिला च महेश्वरी ॥ ३८॥ महामोहापहन्त्री च महायोगपरायणा । मखानुकूला मखिनी मखभूस्तरभूषणा ॥ ३९॥ मनस्विनी महाप्रज्ञा मनोज्ञा मनोमोहिनी । मनश्चाञ्चल्यसंहर्त्री मनोमलविनाशिनी ॥ ४०॥ मदहन्त्री मथुमती मधुरा मदिरेक्षणा । मणिप्रिया मनःसंस्था मदनायुधरूपिणी ॥ ४१॥ var मनीषिणी मत्स्योदरी महागर्ता मकरावासरूपिणी । मानिनी मानदा मान्या मानैक्या मानमानिनी ॥ ४२॥ मार्गदा मार्जनरता मार्गिणी २०० मार्गणप्रिया । मितामितस्वरूपिणी मिहिका मिहिरप्रिया ॥ ४३॥ मीढुष्टमस्तुतपदा मीढुष्टा मीरगामिनी । मुक्तप्रवाहा मुखरा मुक्तिदा मुनिसेबिता ॥ ४४॥ मूल्यवद्वस्तुगर्भा च मूलिका मूर्तरूपिणी । मृगदृष्टिर्मृदुरवा मृतसञ्जीववारिणी ॥ ४५॥ मेधाविनी मेघपुष्टिर्मेघमानातिगामिनी । मोहिनी मोहहन्त्री च मोदिनी मोक्षदायिनी ॥ ४६॥ मन्त्ररूपा मन्त्रगर्भा मन्त्रविज्जनसेविता । यक्षिणी यक्षपाला च यक्षप्रीतिविवद्धिनी ॥ ४७॥ यक्षवारणदक्षा च यक्षसम्मोहकारिणी । यशोधरा यशोदा च यदुनाथविमोहिनी ॥ ४८॥ यज्ञानुकूला यज्ञाङ्गा यज्ञेज्या यज्ञवर्धिनी । याज्यौषधिसुसम्पन्ना यायजूकजनैःश्रिता ॥ ४९॥ यात्राप्रिया यात्रिकैः संव्याप्तभूर्यात्रिकार्थदा । युवती युक्तपदवी युवतीजनसन्नुता ॥ ५०॥ योगमाया योगसिद्धा योगिनी योगवर्धिनी । योगिसंश्रितकूला च योगिनां गतिदायिनी ॥ ५१॥ यन्त्रतन्त्रज्ञसञ्जुष्टा यन्त्रिणी यन्त्ररूपिणी । रमारूपा च रमणी रतिगर्वविभञ्जिनी ॥ ५२॥ रतिपूज्या रक्षिका च रक्षोगणविमोहिनी । रमणीयविशालाङ्गा रङ्गिणी रभसोगमा ॥ ५३॥ रघुराजार्चितपदा रघुवंशविवर्धिनी । राकेशवदना राज्ञी राजभोगविलासिनी ॥ ५४॥ राजकेलिसमाक्रान्ता रागिणी राजतप्रमा । रसप्रिया रासकेलिवर्धिनी रासरञ्जिनी ॥ ५५॥ रिक्थरेणुकणाकीर्णा रञ्जिनी रतिगामिनी । रुचिराङ्गा रुच्यनीरा रुक्माभरणमूषिता ॥ ५६॥ रूपातिसुन्दरा रेवा रैःप्रदायिनी रैणवी । रोचिष्मती रोगहर्त्री रोगिणाममृतोपमा ॥ ५७॥ रौक्ष्यहर्त्री रौद्ररूपा रंहगा रंहणप्रिया । लक्ष्मणा लक्षिणी लक्ष्मीर्लक्षणा ललिताम्बिका ॥ ५८॥ ललितालापसङ्गीता लवणाम्बुधिसङ्गता । लाक्षारुणपदा लास्या लावण्यपूर्णरूपिणी ॥ ५९॥ लालसाधिकचार्वङ्गी लालित्यान्वितभाषिणी । लिप्सापूर्णकरा लिप्सुवरदा च लिपिप्रिया ॥ ६०॥ लीलावपुर्धरा लीला लीलालास्यविहारिणी । ललिताद्रिशिरःपङ्क्तिर्लूतादिहारिवारिणी ॥ ६१॥ लेखाप्रिया लेखनिका लेख्यचारित्रमण्डिता । लोकमाता लोकरक्षा-लोकसङ्ग्रहकारिणी ॥ ६२॥ लोलेक्षणा च लोलाङ्गा लोकपालाभिपूजिता । लोभनीयस्वरूपा च लोभमोहनिवारिणी ॥ ६३। लोकेशमुख्यवन्द्या च लोकबन्धुप्रहर्षिणी । वपुष्मद्वररूपा च वत्सला वरदायिनी ॥ ६४॥ वर्धिष्णुवारिनिवहा वक्रावक्रस्वरूपिणी । वरण्डकसुपात्रा च वनौषधिविवर्धिनी ॥ ६५॥ वज्रगर्मा वज्रधरा वशिष्ठादिमुनिस्तुता । वामा वाचस्पतिनुता वाग्मिनी वाग्विकासिनी ॥ ६६॥ var वाग्देवी वाद्यप्रिया च वाराही वाग्यतप्रियकूलिनी । वाद्यवर्धनपानीया वाटिकावर्धिनीतटा ॥ ६७॥ वानप्रस्थजनावासा वार्वटश्रेणिरञ्जिता । विक्रया विकसद्वक्त्रा विकटा च विलक्षणा ॥ ६८॥ विद्या विष्णुप्रिया विश्वम्भरा विश्वविमोहिनी । विश्वामित्रसमाराध्या विभीषणवरप्रदा ॥ ६९॥ विन्ध्याचलोद्भवा विष्टिकर्त्री च विबुधस्तुता । वीणास्यवर्णितयशा वीचिमालाविलोलिता ॥ ७०॥ वीरव्रतरता वीरा वीतरागिजनैर्नुता । वेदिनी वेदवन्द्या च वेदवादिजनैः स्तुता ॥ ७१॥ वेणुवेलासमाकीर्णा वेणुसंवादनप्रिया । वैकुण्ठपतिसम्प्रीता वैकुण्ठलग्नवामिका ॥ ७२॥ वैज्ञानिकधियोर्लक्ष्या वैतृष्ण्यकारिवारिणी । वैधात्रनुतपादाब्जा वैविध्यप्रियमानसा ॥ ७३॥ शर्वरी शवरीप्रीता शयालुः शयनप्रिया । शत्रुसम्मोहिनी शत्रुबुद्धिघ्नी शत्रुघातिनी ॥ ७४॥ शान्भवी श्यामला श्यामा शारदाम्बा च शार्ङ्गिणी । शिवा शिवप्रिया शिष्टा शिष्टाचारानुमोदिनी ॥ ७५॥ शीघ्रा च शीतला शीतगन्धपुष्पादिमण्डिता । शुभान्वितजनैर्लभ्या शुनासीरादिसेविता ॥ ७६॥ शूलिनी शूलघृक्पूज्या शूलादिहरवारिणी । श‍ृङ्गाररञ्जिताङ्गा च श‍ृङ्गारप्रियनिम्नगा ॥ ७७॥ शैवलिनी शेषरूपा शेषशाय्यभिपूजिता । शोभना शोभनाङ्गा च शोकमोहनिवारिणी ॥ ७८॥ शौचप्रिया शौरिमाया शौनकादिमुनिस्तुता । शंसाप्रिया शङ्करी शङ्कराचार्यादिसेविता ॥ ७२॥ शंवर्धिनी षडारातिनिहन्त्री षट्कर्मिसंश्रया । सर्वदा सहजा सन्ध्या सगुणा सर्वपालिका ॥ ८०॥ सर्वस्वरूपा सर्वेज्या सर्वमान्या सदाशिवा । सर्वकर्त्रीं सर्वपात्री सर्वस्था सर्वधारिणी ॥ ८१॥ सर्वधर्मसुसन्धात्री सर्ववन्द्यपदाम्बुजा । सर्वकिल्बिषहन्त्री च सर्वभीतिनिवारिणी ॥ ८२॥ सावित्री सात्त्विका साध्वी साधुशीला च साक्षिणी । सिताश्मरप्रतीरा च सितकैरवमण्डिता ॥ ८३॥ सीमान्विता सीकराम्भःसीत्काराश्रयकूलिनी । सुन्दरी सुगमा सुस्था सुशीला च सुलोचना ॥ ८४॥ सुकेशी सुखदात्री च सुलभा सुस्थला सुधा । सुवाचिनी सुमाया च सुमुखा सुव्रता सुरा ॥ ८५॥ सुधार्णवस्वरूपा च सुधापूर्णा सुदर्शना । सूक्ष्माम्बरधरा सूतवर्णिता सूरिपूजिता ॥ ८६॥ सृष्टिवर्धिनी च सृष्टिकर्तृभिः परिपूजिता । सेवाप्रिया सेवधिनी सेतुबन्धादिमण्डिता ॥ ८७॥ सैकतक्षोणिकूला च सैरिभादिसुखप्रिया । सोमरूपा सोमदात्री सोमशेखरमानिता ॥ ८८॥ सौरस्यपूर्णसलिला सौमेधिकजनाश्रया । सौशील्यमण्डिता सौम्या सौराज्यसुखदायिनी ॥ ८९॥ सौजन्ययुक्तसुलभा सौमङ्गल्यादिवर्धिनी । सौभाग्यदाननिपुणा सौख्यसिन्धुविहारिणी ॥ ९०॥ संविधानपरा संवित्सम्भाव्यपददायिनी । संश्लिष्टाम्बुधिसर्वाङ्गा सन्निधेयजलाश्रया ॥ ९१॥ हरिप्रिया हंसरूपा हर्वसंवर्धिनी हरा । हनुमत्प्रीतिमापन्ना हरिद्भूमिविराजिता ॥ ९२॥ हाटकालङ्कारभूषा च हार्यसद्गुणमण्डिता । हितसंस्पर्शसलिला हिमांशुप्रतिबिम्बिता ॥ ९३॥ हीरकद्युतियुक्ता च हीनकर्मविगर्हिता । हुतिकर्तृद्विजाधारा हूश्छर्दनक्षयकारिणी ॥ ९४॥ हृदयालुस्वभावा च हृद्यसद्गुणमण्डिता । हेमवर्णाभवसना हेमकञ्चुकिधारिणी ॥ ९५॥ होतृणां प्रियकूला च होम्यद्रव्यसुगर्भिता । हंसा हंसस्वरूपा च हंसिका हंसगामिनी ॥ ९६॥ क्षमारूपा क्षमापूज्या क्षमापृष्ठप्रवाहिनी । क्षमाकर्त्री क्षमोद्धर्त्री क्षमादिगुणमण्डिता ॥ ९७॥ क्षररूपा क्षरा चैव क्षरवस्त्वाश्रया तथा । क्षपाकरकरोल्लासिनी क्षपाचरहारिणी ॥ ९८॥ क्षान्ता क्षान्तिगुणोपेता क्षामादिपरिहारिणी । क्षिप्रगा क्षित्यलङ्कारा क्षितिपालसमाहिता ॥ ९९॥ क्षीणायुर्जनपीयूषा क्षीणकिल्बिषसेविता । क्षेत्रियादिनियन्त्री च क्षेमकार्यसुतत्परा ॥ १००॥ क्षेत्रसंवर्धिनी चैव क्षेत्रैकजीवनाश्रया । क्षोणीभृदावृतपदा क्षौमाम्बरविभूषिता ॥ १०१॥ क्षन्तव्यगुणगम्भीरा क्षन्तुकर्मैकतत्परा । ज्ञप्तिवर्धनशीला च ज्ञस्वरूपा ज्ञमातृका ॥ १०२॥ ज्ञानस्वरूपव्यक्ता च ज्ञातृसंवर्धिनी तथा । अम्बाशोकाऽञ्जना चैव अनिरुद्धाग्निस्वरूपिणी ॥ १०३॥ अनेकात्मस्वरूपा चामरेश्वरसुपूजिता । अव्ययाक्षररूपा चापाराऽगाधस्वरूपिणी ॥ १०४॥ अव्याहतप्रवाहा च ह्यविश्रान्तक्रियात्मिका । आदिशक्तिरादिमाया आकीर्णनिजरूपिणी ॥ १०५॥ आदृतात्मस्वरूपा चामोदपूर्णवपुष्मती । आसमन्तादार्षपादा ह्यामोदनसुपूर्णभूः ॥ १०६॥ आतङ्कदारणगतिरालस्यवाहनस्थिता । इष्टदानमहोदारा इष्टयोग्यसुभूस्तुता ॥ १०७॥ इन्दिरारमणाराध्या इन्दुधृक्पूजनारता । इन्द्राद्यमरवन्द्याङ्घ्रिरिङ्गितार्थप्रदायिनी ॥ १०८॥ ईश्वरी चेतिहन्त्री च ईतिभीतिनिवारिणी । ईप्सूनां कल्पवल्लरिरुक्थशीलवती तथा ॥ १०९॥ उत्तानगतिवाहा चोच्चोच्चावचपदापगा । उत्साहिजनसंसेव्या चोत्फुल्लतरुकूलिनी ॥ ११०॥ ऊर्जस्विनी चोर्जिता च ऊर्ध्वलोकप्रदायिनी । ऋणहर्तृस्तोत्रतुष्टा ऋद्धितार्णनिवारिणी ॥ १११॥ ऐष्टव्यपदसन्धात्री ऐहिकामुष्मिकार्थदा । ओजस्विनी ह्योजोवती ह्यौदार्यगुणभाजिनी ॥ ११२॥ कल्याणी कमला कञ्जधारिणी कमलावती । कमनीयस्वरूपा च कटकाभरणान्यिता ॥ ११३॥ काशी काञ्ची च कावेरी कामदा कार्यवर्धिनी । कामाक्षी कामिनी कान्तिः कामातिसुन्दराङ्गिका ॥ ११४॥ कार्तवीर्यक्रीडिताङ्गा कार्तवीर्यप्रबोधिनी । किरीटकुण्डलालङ्कारार्चिता किङ्करार्थदा ॥ ११५॥ कीर्तनीयगुणागारा कीर्तनप्रियमानसा । कुशावर्तनिवासा च कुमारी कुलपालिका ॥ ११६॥ कुरुकुल्ला कुण्डलिनी कुम्भा कुम्भीरवाहिनी । कूपिका कूर्दनवती कूपा कूपारसङ्गता ॥ ११७॥ कृतवीर्यविलासाढ्या कृष्णा कृष्णगताश्रया । केदारावृतमूभागा केकीशुकपिकाश्रया ॥ ११८॥ कैलासनाथसन्धात्री कैवल्यदा च कैटभा । कोशला कोविदनुता कोमला कोकिलस्वना ॥ ११९॥ कौशेयी कौशिकप्रीता कौशिकागारवासिनी । कञ्जाक्षी कञ्जवदना कञ्जपुष्पसदाप्रिया ॥ १२०॥ कञ्जकाननसञ्चारी कञ्जमालासुसन्धृता ॥ खगासनप्रिया खड्गपाणिनी खर्परायुधा ॥ १२१॥ खलहन्त्री च खट्वाङ्गधारिणी खगगामिनी । खादिपञ्चमहाभूतरूपा खवर्धनक्षमा ॥ १२२॥ गणतोषिणी गम्भीरा गणमान्या गणाधिपा । गणसंरक्षणपरा गणस्था गणयन्त्रिणी ॥ १२३॥ गण्डकी गन्धसलिला गङ्गा च गरुडप्रिया । गलगण्डापहर्त्री च गदहारिसुवारिणी ॥ १२४॥ गायत्री चैव तस्याग्रे गाधेयार्चितसत्पदा । गाथाप्रिया गाढवहा गारुत्मततटाकिनी ॥ १२५॥ गिरिजा गिरीशतनया गिरीशप्रेमवर्धिनी । गीर्वाणी गीष्पतिनुता गीतिकाप्रियमानसा ॥ १२६॥ गुडाकेशार्चनपरा गुरूरहःप्रवाहिनी । गेही सर्वार्थदात्री च गेयोत्तमगुणान्यिता ॥ १२७॥ गोधना गोपना गोपी गोपालकसदाप्रिया । गोत्रप्रिया गोपवृता गोकुलावृतसत्तटा ॥ १२८॥ गौरी गौराङ्गिणी गौरा गौतमी गौतमप्रिया । घनप्रिया घनरवा घनौघा घनवर्धिनी ॥ १२९॥ घनार्तिहर्त्री घनरुक्परिहर्त्री घनद्युतिः । घनपापौघसंहर्त्री घनक्लेशनिवारिणी ॥ १३०॥ घनसारार्तिकप्रीता घनसम्मोहहारिणी । घर्माम्बुपरिहर्त्री च घर्मान्तघर्महारिणी ॥ १३१॥ घर्मान्तकालसङ्क्षीणा घनागमसुहर्षिणी । घट्टद्विपार्श्वानुगता घट्टिनी घट्टभूषिता ॥ १३२॥ चतुरा चन्द्रवदना चन्द्रिकोल्लासचञ्चला । चम्पकादर्शचार्वङ्गी चपला चम्पकप्रिया ॥ १३३॥ चलत्कुण्डलचिन्मौलिचक्षुषी चन्दनप्रिया । चण्डमुण्डनिहन्त्री च चण्डिका चण्डविक्रमा ॥ १३४॥ चारुरूपा चारुगात्री चारुचन्द्रसमानना । चार्वीक्षणा चारुनासा चारुपट्टांशुकावृता ॥ १३५॥ चारुचन्दनलिप्ताङ्गा चार्वलङ्कारमण्डिता । चामीकरसुशोभाढ्या चापखर्परधारिणी ॥ १३६॥ चारुनक्रवरस्था च चातुराश्रम्यजीविनी । चित्रिताम्बरसम्भूषा चित्रा चित्रकलाप्रिया ॥ १३७॥ चीनकार्तिक्यसम्प्रीता चीर्णचारित्रमण्डना । चुलुम्बकरणासक्ता चुम्बनास्वादतत्परा ॥ १३८॥ चूडामणिसुशोभाढ्या चूडालङ्कृतपाणिनी । चूलकादिसुभक्ष्या च चूष्यास्वादनतत्परा ॥ १३९॥ चेतोहरस्वरूपा च चेतोविस्मयकारिणी । चेतसां मोदयित्री च चेतसामतिपारगा ॥ १४०॥ चैतन्यघटिताङ्गा च चैतन्यलीनभाविनी । चोक्ष्यव्यवहारवती चोद्यप्रकृतिरूपिणी ॥ १४१॥ चोक्ष्यस्वरूपा चोक्ष्याङ्गी चोक्ष्यात्मनां समीपिनी । छत्ररूपा छटाकारा छर्दिनी छत्रकान्विता ॥ १४२॥ छत्रप्रिया छन्नमुखी छन्दोनुतयशस्विनी । छान्दसाश्रितसत्कूला छायाग्राह्या छिद्रात्मिका ॥ १४३॥ var चिदात्मिका जनयित्री च जननी जगन्माता जनार्तिहा । जयरूपा जगदद्धात्री जवना जनरञ्जना ॥ १४४॥ जगज्जेत्री च जगदानन्दिनी जगदम्बिका । जनशोकहरा जन्तुजीविनी जलदायिनी ॥ १४५॥ जडताघप्रशमनी जगच्छान्तिविधायिनी । जनेश्वरनिवासिनी जलेन्धनसमन्विता ॥ १४६॥ जलकण्टकसंयुक्ता जलसङ्क्षोभकारिणी । जलशायिप्रिया जन्मपाविनी जलमूर्तिनी ॥ १४७॥ जलायुतप्रपाता च जगत्पालनतत्परा । जानकी जाह्नवी जाड्यहन्त्री जानपदाश्रया ॥ १४८॥ जिज्ञासुजनजिज्ञास्या जितेन्द्रियसुगोचरा । जीवानां जन्महेतुश्च जीवनाधाररूपिणी ॥ १४९॥ झषसङ्ख्याकुलाधानी झषराजायुताकुला । झञ्झनध्यनिप्रीता च झञ्झानिलसमर्दिता ॥ १५०॥ टट्टरश्रवणप्रीता ठक्कुरश्रवणप्रिया । डयनारोहसञ्चारी डमरीवाद्यसत्प्रिया ॥ १५१॥ डाङ्कृतध्वनिसम्प्रीता डिम्बिकाग्रहणोद्यता । ढुण्ढिराजप्रियकरा ढुण्ढिराजप्रपूजिता ॥ १५२॥ तन्तुवाद्यप्रिया तन्त्री तन्त्रिणी तपमानिनी । तरङ्गिणी च तटिनी तरुणी च तपस्विनी ॥ १५३॥ तपिनी च तमोहन्त्री तपती तत्त्ववेदिनी । तत्त्वप्रिया च तन्वङ्गी तपोऽर्थीयसुभूमिका ॥ १५४॥ तपश्चर्यावतां त्रात्री तपिष्णुजनवारिणी । तन्द्रादिविघ्नसंहर्त्री तमोजालनिवारिणी ॥ १५५॥ तापत्रितयसंहर्त्री तापापहारिवारिणी । तितिक्षुजनसंवासा तितिक्षावृत्तिवर्धिनी ॥ १५६॥ तीव्रस्यन्दा तीव्रगा च तीर्थभूस्तीर्थिकाश्रया । तुङ्गकेशरकूलाढ्या तुरासाहादिभिर्नुता ॥ १५७॥ तुर्यार्थदाननिपुणा तूर्णिनी तूर्णरंहिणी । तेजोमयी तेजसोऽब्धिरिति नामसमर्चिता ॥ १५८॥ तैजसानामथिष्ठात्री तैतिक्षूणां सहायिका । तोषवार्धिश्च तोषैकगुणिनी तोषभाजिनी ॥ १५९॥ तोषिकान्वितभूयुक्तपृष्ठिनीपदसंयुता । दत्तहस्ता दर्पहरा दमयन्ती दयार्णवा ॥ १६०॥ दर्शनीया दर्शयित्री दक्षिणोत्तरकूलिनी । दस्युहन्त्री दुर्भरिणी दयादक्षा च दर्शिनी ॥ १६१॥ दानपूज्या तथा चैव दानमानसुतोषिता । दारकौघवती दात्री दारुणार्तिनिवारिणी ॥ १६२॥ दारिद्र्यदुःखसंहर्त्री दानवानीकनाशिनी । दिण्डीरस्वनसन्तुष्टा दिवौकससमर्चिता ॥ १६३॥ दीनानां धनसन्दात्री दीनदैन्यनिवारिणी । दीप्तदीपोल्लासवती दीपाराधनसत्प्रिया ॥ १६४॥ दुरारातिहरा दुःखहन्त्री दुर्वासःसन्नुता । दुर्लभा दुर्गतिहरा दुःखार्तिविनिवारिणी ॥ १६५॥ दुर्वारवारिनिवहा दुर्गा दुर्भिक्षहारिणी । दुर्गरूपा च दुरन्तदूरा दुष्कृतिहारिणी ॥ १६६॥ दूनदुःखनिहन्त्री च दूरदर्शिनिषेविता । धन्या धनेशमान्या च धनदा धनवर्धिनी ॥ १६७॥ धरणीधरमान्या च धर्मकर्मसुवर्धिनी । धामिनी धामपूज्या च धारिणी धातुजीविनी ॥ १६८॥ धाराधरी धावका च धार्मिका धातुवर्धिनी । धात्री च धारणारूपा धावल्यपूर्णवारिणी ॥ १६९॥ धिप्सुकापट्यहन्त्री च धिषणेन सुपूजिता । धिष्ण्यवती धिक्कृतांहा धिक्कृताततकर्दमा ॥ १७०॥ धीरा च धीमती धीदा धीरोदात्तगुणान्विता । धुतकल्मषजाला च धुरीणा धुर्वहा धुनी ॥ १७१॥ धूर्तकैतवहारिणी धूलिव्यूहप्रवाहिनी । धूम्राक्षहारिणी धूमा धृष्टगर्वापहा धृतिः ॥ १७२॥ धृतात्मनी धृतिमती धृतिपूज्यशिवोदरा । धेनुसङ्गतसर्वाङ्गा ध्येया धेनुकजीविनी ॥ १७३॥ नानारूपवती नानाधर्मकर्मस्वरूपिणी । नानार्थपूर्णावतारा सर्वनामस्वरूपिणी ॥ १७४॥ ॥ ॐ श्रीनर्मदार्पणमस्तु ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : shrI narmadA sahasranAmastotra
% File name             : narmadAsahasranAmastotra.itx
% itxtitle              : narmadAsahasranAmastotram
% engtitle              : narmadAsahasranAmastotram
% Category              : sahasranAma, devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : June 13, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org